बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 416, कुल 760 में से
संदर्भ में पढ़ें३८८ बृहत्संहिता
द्वन्द्वादिरोगार्दितभीतमत्तवैरान्तयुद्धामिषकाङ्क्षिणश्च ।
सीमान्तनद्यन्तरिताश्च सर्वे न चिन्तनीयाः सदसत्फलेषु ।। इति ।। २५ ।।
अधुना चैतेषामृतुकालज्ञानं निष्फलत्वं चाह—
रोहिताश्वाजवालेयाः कुरङ्गोष्ट्रमृगाः शशः ।
निष्फलाः शिशिरे ज्ञेया वसन्ते काककोकिलौ ।। २६ ।।
शिशिर काल में रोहित मृग, घोड़ा, बकरा, गदहा, कुरङ्ग, ऊँट, मृग और खरहा
तथा वसन्त काल में कौवा और कोयल निष्फल होते हैं ।। २६ ।।
रोहितो मृगजातिः । अश्वस्तुरगः । अजश्छागः । वालेयो गर्दभः । कुरङ्गो मृगजातिः ।
उष्ट्रः करभः । मृगो हरिणः । शशः प्राणी । एते सर्वे शिशिरे माघफाल्गुनयोः सदसत्त्वान्निष्फला
ज्ञेया ज्ञातव्याः । वसन्ते चैत्रवैशाखयोः काको वायसः, कोकिलः परभृतः । एतौ सदसत्त्वा-
त्रिष्फलावेव ।। २६ ।।
अन्येष्वाह—
न तु भाद्रपदे ग्राह्याः सूकरश्ववृकादयः ।
शारद्याब्जादगोक्रौञ्चाः श्रावणे हस्तिचातकौ ।। २७ ।।
भाद्रपद मास में सूअर, कुत्ता, भेड़िया आदि ( बिल में रहने वाले जन्तु ) का,
शरत्काल में पानी से उत्पन्न होने वाले पक्षी बगुला आदि, गाय और क्रौञ्च पक्षी का तथा
श्रावण मास में हाथी और चातक का ग्रहण नहीं करना चाहिये ।। २७ ।।
भाद्रपदे मासि सूकरो वराहः । श्वा सारमेयः । वृकः प्राणी । आदिग्रहणाद् मृगादयो
बिलेशयाः । एते न ग्राह्याः । सदसत्त्वाद्वा निष्फलाः । शारद्याश्विनकार्तिकयोः । अब्जादा हंसादयः ।
अप्सु जायत इत्यब्जजम्। तददन्ति भक्षयन्ति इति अब्जादाः । गौः प्रसिद्धा । क्रौञ्चः पक्षि-
विशेषः । एते सदसत्त्वान्निष्फलाश्च ग्राह्याः । श्रावणे मासि हस्तिचातकौ न ग्राह्यौ । हस्ती
गजः । चातकः पक्षिविशेषः ।। २७ ।।
अथान्येष्वप्याह—
व्याघ्रर्क्षवानरद्वीपिमहिषाः सबिलेशयाः ।
हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानुषाः ।। २८ ।।
हेमन्त में बाघ, भालू, बन्दर, चीता, भैंसा, साँप और मनुष्य को छोड़कर समस्त शिशु
निष्फल होते हैं ।। २८ ।।
व्याघ्रः प्रसिद्धः प्राणी नखी। ऋक्षः प्राणी। वानरः कपिः । द्वीपी चित्रकः । महिषः
प्रसिद्धः । एते सबिलेशयाः, बिलेशयैः प्राणिभिः सहिताः । बिले शेते बिलेशयः, श्वाविन्न-
कुलादयः । विमानुषा मानुषवर्जिताः सर्वे प्राणिनः । बालाः शिशवः । हेमन्ते मार्गशीर्ष-
पौषयोर्निष्फला ज्ञेया ज्ञातव्याः । मानुषा बालाः पुनः सफला एव। एतेषां यच्छुभाशुभचेष्टितं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA