सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

कन्यालक्षणाध्यायः २६५
कटिप्रदेश हो और छिपी हुई मणि हो, वह बहुत लक्ष्मी प्रदान करती है॥२-३॥
मत्स्याङ्कुशाब्जेति । मत्स्यो मीनः। अङ्कुशः प्रसिद्धः। अब्जं पद्मम्, यवो यवाकारः,
वज्रमायुधम्। हलं लाङ्गलम्। असिः खड्गः। एतैश्चिह्नैश्चिह्नितौ चरणौ पादौ। तथाऽस्वेदनौ
स्वेदरहितौ। मृदुतलौ मृदुनी तले ययोस्तौ तथाभूतौ प्रशस्तौ। तथा च समुद्रः—
स्निग्धौ ताम्रनखौ धन्यौ कूर्मपृष्ठौ सुलोहितौ।
निगूढगुल्फौ सुश्लिष्टौ घनाङ्गुलिसमन्वितौ॥
मत्स्याङ्कुशयवाब्जेषु हलवज्रासिचिह्नितौ।
सुस्पृशौ रोमरहितौ कुमार्याश्चरणौ शुभौ॥
अतो विपर्य्यस्तगुणौ दुःखदारिद्र्यभागिनौ।
यस्याः पादौ नतौ कन्यामुद्वहेन्न कदाचन॥
जङ्घे च रोमरहिते इति । जङ्घे रोमरहिते रोमवर्जिते। विशिरे शिरारहिते। सुवृत्ते
परिवर्त्तुले। जानुयुगं जानुयुगलं समं तुल्यम्। अनुलब्णसन्धिदेशमस्थूलसन्धिदेशम्। सुश्लिष्टे
जानुनी यत्र।
ऊरू घनाविति । ऊरू घनौ सन्ततौ करिकरप्रतिमौ गजहस्तसदृशौ। अरोमौ रोम-
वर्जितौ। गुह्यं भगम्, अश्वत्थपत्रसदृशम्, अश्वत्थवृक्षपत्राकारम्, विपुलं विस्तीर्णम्। श्रोण्या
ललाटं श्रोणीललाटम्। तच्चोरु विस्तीर्णम्। कूर्मसमुन्नतं कूर्मवदुच्चं कूर्मपृष्ठाकारम्।
मणिश्च निगूढोऽदृश्यमानो विपुलां विस्तीर्णां श्रियं लक्ष्मीमादधाति करोति। तथा च समुद्रः—
जङ्घे तु रोमरहिते शिराहीने सुवर्त्तुले।
सुश्लिष्टे जानुनी धन्ये शिरारोमविवर्जिते॥
गजहस्तसमावूरू सम्पन्नौ सन्ततौ समौ।
सुस्पर्शं कूर्मपृष्ठं वा विपुलं जघनं शुभम्।
मणिनिर्गूढः सुश्लिष्टः स्फिचौ च विपुलौ शुभौ।
नाभिदेशः सुगुप्तश्च यस्याः सा धनभागिनी॥ इति॥२-३॥
अथ नितम्बनाभीलक्षणमाह—
विस्तीर्णमांसोपचितो नितम्बः गुरुश्च धत्ते रशनाकलापम्।
नाभिर्गभीरा विपुलाङ्गनानां प्रदक्षिणावर्तगता च शस्ता ॥४॥
जिन स्त्रियों के विस्तीर्ण, पुष्ट, भारी और काञ्चीकलाप से युत नितम्ब हों, गम्भीर,
विस्तीर्ण और दक्षिणावर्त्त नाभि हो, वे शुभ होती हैं॥४॥
नितम्बः कटिभागः, स च विस्तीर्णः पृथुलो मांसोपचितः समांसलः, गुरुश्च गौरवयुक्तो
रशनाकलापं धत्ते धारयति। रशनायाः कलापो रशनाकलापः। रशना मेखला, तस्याः कलापो
विस्तारः, तं धारयति। तथा च—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२६६ बृहत्संहिता
जघनं विपुलं यस्याः सुस्पर्शं रोमवर्जितम्।
सुवर्णाभरणैर्युक्ता सा भवेद्राज्यभागिनी।।
नाभिर्गभीरेति। अङ्गनानां स्त्रीणां नाभिर्गभीरा गम्भीरा, विपुला विस्तीर्णा, प्रदक्षिणा-
वर्तेन च गता प्रशस्ता धन्या। तथा च—
गम्भीरा विपुला नाभी दक्षिणावर्तमाश्रिता।
शस्ता विपर्यये नेष्टा वामावर्ता विशेषतः।। इति!।४।।
अथ मध्यस्तनोरुवक्षोग्रीवालक्षणमाह—
मध्यं स्त्रियास्त्रिवलिनाथमरोमशं च
वृत्तौ घनावविषमौ कठिनावुरस्यौ ।
रोमप्रवर्जितमुरो मृदु चाङ्गनानां
ग्रीवा च कम्बुनिचितार्थसुखानि दत्ते ॥५॥
जिस स्त्री का मध्यभाग त्रिवलि से युत और रोमरहित हो, गोल, पुष्ट, समान और
कठोर दोनों स्तन हों, रोमरहित और कोमल छाती हो तथा शङ्ख के समान तीन रेखाओं
से युत कण्ठ हो, वह धन और सुख प्रदान करती है।।५।।
स्त्रियो योषितो मध्यं मध्यभागं त्रिवलिनाथं त्रिवलिस्वामिनं वलित्रयोपविष्टं वलित्रय-
युक्तमित्यर्थः। अरोमशं रोमरहितम्। तथा च—
मध्यं वलित्रयचितं सुस्पर्शं रोमवर्जितम्।
यस्याः सा राजमहिषी कन्या नास्त्यत्र संशयः।।
वृत्तौ घनाविति। उरसि भवावुरस्यौ स्तनौ। वृत्तौ परिवर्तुलौ। घनौ सन्ततौ। अविष-
मावतुल्यौ। कठिनौ कर्कशौ। तथा च—
स्तनौ सुवर्तुलौ धन्यौ सन्ततौ कठिनौ तथा।
अरोमौ च शिराहीनौ पुत्रसौख्यधनप्रदौ।।
रोमप्रवर्जितमिति। अङ्गनानां स्त्रीणामुरो वक्षो रोमवर्जितं रोमरहितं मृदु सुस्पर्शं
च शुभम्। तथा च—
वक्षो विलोम सुस्पर्शं विस्तीर्णं पतिसौख्यदम्।
शिराततं च विषमं वैधव्यायासशोकदम्।।
ग्रीवा चेति। ग्रीवा शिरोधरा कम्बुनिचिता वलित्रयोपचिता। अर्थान् सुखानि च दत्ते
ददाति। तथा च गर्गः—
स्थिरा त्रिरेखा सुभगोपपन्ना स्निग्धा सुमांसोपचिता सुवृत्ता।
न चातिदीर्घा चतुरङ्गुला च ग्रीवा च दीर्घा भवतीह धन्या।। इति।।५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

कन्यालक्षणाध्यायः २६७
अथाधरदन्तलक्षणमाह—
बन्धुजीवकुसुमोपमोऽधरो मांसलो रुचिरबिम्बरूपभृत्।
कुन्दकुङ्म्लनिभाः समा द्विजा योषितां पतिसुखामितार्थदाः ॥६॥
बन्धुजीव पुष्प के समान और सुन्दर बिम्बफल के समान अधर तथा कुन्दपुष्प के
समान दाँत स्त्रियों को पतिसुख और बहुत धन देते हैं।।६।।
अधरोऽधरोष्ठो बन्धुजीवकुसुमोपमः, बन्धुजीवकुसुमसदृशोऽतिलोहित इत्यर्थः। मांसलो
मांसोपेतः। रुचिरबिम्बरूपभृद् रुचिरस्य दीप्तियुक्तस्य बिम्बस्य बिम्बफलस्य तुल्यं रूपं
बिभर्ति धारयति। तथा च—
अधरो बिम्बसङ्काशो मांसलोऽस्फुटितस्तथा।
यस्याः सा राजमहिषी कुमारी नात्र संशयः।।
कुन्दकुङ्मलेति। द्विजा दन्ताः कुन्दकुङ्मलनिभाः कुन्दः पुष्पविशेषः, तस्य कुङ्मलानि
कलिकाः, तन्निभास्तत्सदृशाः। समास्तुल्याः। योषितां स्त्रीणाम्। पतिसुखं भर्तृसुखम्। अमित-
मपरिमितं प्रभूतमर्थं धनं च ददति। तथा च गर्गः—
तीक्ष्णाग्रवृत्ताः सुसमा दृढाश्च शुभा मृणालेन्दुसमानवर्णाः।
निरन्तराः स्त्रीषु भवन्ति धन्या द्विजास्तथा ये रजतप्रकाशाः।।
तथा च समुद्रः—
द्वात्रिंशद्दशना यस्याः सर्वे गोक्षीरपाण्डुराः।
सर्वे शिखरिणः स्निग्धा राजभार्या च सा भवेत्।। इति।।६।।
अथ वदननासिकादृशां लक्षणमाह—
दाक्षिण्ययुक्तमशठं परपुष्टहंस-
वल्गु प्रभाषितमदीनमनल्पसौख्यम्।
नासा समा समपुटा रुचिरा प्रशस्ता
दृङ्नीलनीरजदलद्युतिहारिणी च ॥७॥
सरस, शठता से रहित, कोकिल या हंस के समान मधुर और दीनतारहित स्त्री का
वचन अधिक सुखद होता है। समान, समान पुटों से युत और सुन्दर स्त्री की नासिका
प्रशस्त होती है तथा नील कमल की कान्ति को हरण करने वाली स्त्री की दृष्टि शुभ
होती है।।७।।
प्रभाषितं वचनं दाक्षिण्ययुक्तमानुकूल्यसंयुक्तं सुरसम्। अशठं शठभावरहितम्। परपुष्टः
कोकिलः। हंसः पक्षिविशेषः। तत्सदृशं वल्गु रम्यम्। तथा चादीनं दैन्यरहितं यदि भवति
तदानल्पसौख्यं प्रभूतसौख्यम्। तथा च गर्गः—

२६८ बृहत्संहिता
हंसस्वना दुन्दुभिनेमिघोषा मेघस्वनाः शङ्खनिनादघोषाः।
मयूरचक्रप्रतिमस्वनाश्च स्त्रियस्तथा कोकिलतुल्यशब्दाः ।।
कादम्बचक्राह्वयकिङ्किणीषु समस्वना याश्च भवन्ति नार्यः।
सर्वाः प्रशस्ता धनपुत्रवत्यो भवन्ति धर्मानुरताः सदा ताः।।
नासा समेति । नासा नासिका समा स्पष्टा। समपुष्टा तुल्या नासापुटा। रुचिरा
सुकान्ता। प्रशस्ता शुभा। तथा च—
स्पष्टा समा समपुटा नासा सौभाग्यदा मता।
दृगिति । दृग्दृष्टिः, नीलनीरजदलद्युतिहारिणी, नीलं च तन्नीरजं नीलनीरजं नीलोत्पलम्,
तस्य दलं पत्रं तस्य द्युतिं कान्तिं हरति तच्छीला नीलनीरजद्युतिहारिणी प्रशस्ता। तथा च—
नीलनीरजपत्राभा दृष्टैर्यस्या भवेत् सदा।
सा राजमहिषी ज्ञेया ज्योतिःशास्त्रविशारदैः।। इति।।७।।
अधुना भ्रूललाटलक्षणमाह—
नो सङ्गते नातिपृथू न लम्बे शस्ते भ्रुवौ बालशशाङ्कवक्रे।
अर्धेन्दुसंस्थानमरोमशं च शस्तं ललाटं न नतं न तुङ्गम् ।।८।।
विना मिले, न बहुत चौड़े, न बहुत लम्बे और बाल चन्द्र के समान वक्र स्त्री के भ्रू
शुभ होते हैं तथा अर्धचन्द्र के समान, रोमरहित और न नत-न उन्नत ( समान ) स्त्री का
ललाट शुभ होता है।।८।।
भ्रुवौ नो सङ्गते न श्लिष्टे। नातिपृथू विस्तीर्णे। न लम्बे नातिसङ्गते। बालशशाङ्कवक्रे।
शशाङ्के चन्द्रे बालो यः शशाङ्कश्चन्द्रो द्वितीयायां तिथौ तद्वद्वक्रे कुटिले शस्ते। तथा च—
बालचन्द्रसमे वक्रे न लम्बे नातिसङ्गते।
भ्रुवौ यस्याः कुमार्यास्तां महाराज्ञीं विनिर्दिशेत्।।
अर्धेन्दुसंस्थानमिति । ललाटं मुखपृष्ठमर्धेन्दुसंस्थानमर्धचन्द्राकारमरोमशं रोमरहितम्
न नतं न निम्नं न तुङ्गं नोच्चम्। समं शस्तं प्रशस्तमित्यर्थः। तथा च—
नोन्नतं न च निम्नं वा शिरो रोमविवर्जितम्।
अर्धचन्द्राकृतिं सौम्यं ललाटं शस्यते स्त्रियाः।। इति।।८।।
अथ कर्णकेशशिरोलक्षणमाह—
कर्णयुग्ममपि युक्तमांसलं शस्यते मृदु समाहितं समम् ।
स्निग्धनीलमृदुकुञ्चितैकजा मूर्धजाः सुखकराः समं शिरः ॥९॥
स्त्री के अल्प मांसयुत, कोमल, समान और संलग्न दोनों कान शुभ होते हैं।
स्निग्ध, अतिकृष्ण, कोमल, कुटिल और एक रोमकूप में एक रोम सुख देने वाले होते
हैं तथा समान ( न नीचा, न ऊँचा ) शिर शुभ होता है।।९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

कन्यालक्षणाध्यायः २६९
कर्णयुग्मं श्रोत्रद्वयमपि युक्तमांसलं न निर्मांसमित्यर्थः। मृदु कोमलं समं तुल्यं
समाहितं संलग्नं शस्यते स्तूयते। तथा च—
नातिलम्बौ मृदू तुल्यौ संलग्नौ युक्तमांसलौ।
कर्णौ यस्याः स्मृता सा तु राजभार्या न संशयः।।
स्निग्धेति। मूर्धजाः केशाः स्निग्धा निर्मला नीला अतिकृष्णवर्णाः। मृदवः कोमलाः
कुञ्चिताः कुटिलाः। एकजा एकरोमकूपे भवाः। सुखकराः सुखं कुर्वन्ति। तथा च—
सुस्निग्धा नीलवर्णाश्च मृदवः कुञ्चिताः कचाः।
शस्यन्ते योषितो नित्यं धनपुत्रप्रदा यतः।।
समं शिरः, शिरः समं न निम्नं नोन्नतं सुखकरमेव। तथा च—
नोन्नतं नाथवा निम्नं शिरः सौख्यप्रदं स्मृतम्।। इति।।९।।
अथ हस्तपादयोर्लक्षणमाह—
भृङ्गारासनवाजिकुञ्जररथश्रीवृक्षयूपेषुभि-
र्मालाकुण्डलचामराङ्कुशयवैः शैलैर्ध्वजैस्तोरणैः।
मत्स्यस्वस्तिकवेदिकाव्यजनकैः शङ्खातपत्राम्बुजैः
पादे पाणितलेऽथवा युवतयो गच्छन्ति राज्ञीपदम् ॥१०॥
जिस स्त्री के पादतल या पाणितल में भृङ्गार (झारी), आसन, घोड़ा, हाथी, रथ,
बिल्ववृक्ष, यज्ञस्तम्भ, शर, माला, कुण्डल, चामर, अंकुश, जौ, पर्वत, ध्वज, तोरण,
मत्स्य, स्वस्तिक, यज्ञवेदी, पंखा, शंख, छत्र और कमल के समान रेखायें हों, वह रानी
होती है।।१०।।
भृङ्गारो जलभाण्डं प्रसिद्धम्। आसनं पीठम्। वाजी तुरगः। कुञ्जरो हस्ती। रथः
प्रसिद्धः। श्रीवृक्षो बिल्वः। यूपो यज्ञयूपः। इषुः शरः। एतैश्चिह्नः। तथा माला स्रक्।
कुण्डलं कर्णाभरणम्। चामरं बालव्यजनम्। अङ्कुशः प्रसिद्धः। यवो यवाकारः। एतैरपि।
शैलः पर्वततः। ध्वजः पताकारूपो बहुपटनिर्मितः। तोरणं प्रसिद्धम्। एतैरपि। तथा मत्स्यो
मीनः। स्वस्तिकश्चिह्नविशेषः। वेदिका वेदी चतुरस्रा मध्यक्षामा। व्यजनकं तालवृन्तम्।
एतैरपि। शङ्खः प्रसिद्धः। आतपत्रं छत्रम्। अम्बुजं पद्मः। एतैर्भृङ्गारादिभिश्चिह्नः पादे चरणतले
पाणितले वा स्थितैर्युवतयः स्त्रियः। गच्छन्ति राज्ञीपदम्, राज्ञीस्थानं गच्छति प्राप्नुवन्ति।
तथा च गर्गः—
मर्त्यः समुद्रो वसुधा धनं च ध्वजस्तथाद्रिर्दिनकृच्छशी च।
शङ्खः पुरं चक्रमथासनं च यूपस्तथा व्यञ्जनतोरणं च।।
छत्रं यवः पद्ममथाङ्कुशं च सिंहोऽथवा स्वस्तिक एव वापी।
कूर्मः पताका मकरः पुमांश्च दण्डः सरित् पूर्णघटो रथश्च।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२७० बृहत्संहिता
पाणौ तथैतानि भवन्ति यासामेकं तथा द्वे च बहूनि वापि।
अत्यन्तसौख्यं बहुपुत्रतां च स्त्रीणां तथा लक्षणमादिशेत्।।
तथा च समुद्रः—
मत्स्यः पाणितले छत्रं कच्छपो वा ध्वजोऽपि वा।
श्रीवत्सं कमलं शङ्खमासनं चामरं तथा।।
अङ्कुशश्चैव माला च यस्या हस्ते तु दृश्यते।
एकं सा जनयेत् पुत्रं राजानं पृथिवीपतिम्।।
यस्याः पाणितले दृश्यः कोष्ठागारः सतोरणः।
अपि दासकुले जाता सा राजमहिषी भवेत्।। इति।।१०।।
अथ हस्तलक्षणमाह—
निगूढमणिबन्धौ तरुणपद्मगर्भोपमौ
करौ नृपतियोषितस्तनुविकृष्टपर्वाङ्गुली।
न निम्नमति नोन्नतं करतलं सुरेखान्वितं
करोत्यविधवां चिरं सुतसुखार्थसम्भोगिनीम् ।।१९१।।
रानी के हाथ नवीन कमलगर्भ के समान पतले और लम्बे पर्वों वाली अंगुलियों से
युत और छिपे हुये मणिबन्ध वाले होते हैं। साथ ही न नीचा न ऊँचा और उत्तम रेखाओं
से युत करतल वाली स्त्री अविधवा, पुत्रसुख और धन एवं सम्भोगसुख से समन्वित
होती है।।१९१।।
करौ हस्तौ। निगूढमणिबन्धौ, निगूढावनुल्बणौ मणिबन्धनौ प्रकोष्ठौ ययोः। मणि-
बन्धनग्रहणेन हस्तमूलमुच्यते। तरुणपद्मगर्भोपमौ, तरुणमभिनवं यत् पद्मं कमलं तस्य
गर्भमभ्यन्तरं तदुपमौ तत्सदृशौ। तथा तनुविकृष्टपर्वाङ्गुली तनुः सूक्ष्मा ययोरङ्गुल्यः करशाखाः।
तथा विकृष्टानि दीर्घाणि पर्वाणि यासामङ्गुलीनां ताश्च विद्यन्ते ययोः। तथाभूतौ करौ नृपति-
योषितो राजपत्न्या भवतः। करतलं हस्ततलं नो निम्नं नातिनीचं नात्युन्नतंमुच्चं सुरेखान्वितं
शोभनाभी रेखाभिरन्वितं युक्तम्। चिरं चिरकालमविधवां भर्तृसंयुतां सुतसुखार्थसम्भोगिनीं
पुत्रसुखधनसम्भोगयुक्तां तथाविधं हस्ततलं तां कन्यकां करोति। तथा च—
निगूढमणिबन्धौ तु पद्मगर्भसमप्रभौ।
विकृष्टाङ्गुलिपर्वाणौ करौ नृपतियोषितः।।
नोच्चं न निम्नं सुसमं सुरेखाभिः समन्वितम्।
तलं यस्या भवेन्नार्याः सा राजमहिषी स्मृता।। इति।।१९१।।
अन्यदप्याह—
मध्याङ्गुलिं या मणिबन्धनोत्था
रेखा गता पाणितलेऽङ्गनायाः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

कन्यालक्षणाध्यायः २७१
ऊर्ध्वस्थिता पादतलेऽथवा या
पुंसोऽथवा राज्यसुखाय सा स्यात् ॥१२॥
स्त्री या पुरुष के मणिबन्ध से लेकर मध्यमा अंगुली तक रेखा और पादतल में जो
ऊर्ध्व रेखा होती है, वह राज्यसुख के लिये होती है।।१२।।
अङ्गनायाः स्त्रियाः पाणितले हस्ततले या रेखा मणिबन्धनोत्था हस्तमूलाज्जाता
मध्याङ्गुलिं यावद्गता। अथवा या रेखा पादतले चरणतले ऊर्ध्वस्थिता पुंसः पुरुषस्य।
अथ चैवंविधा हस्ततले पादतले वा भवति, सा राज्यसुखाय स्याद् भूयात्। राज्यसुखं
करोतीत्यर्थः। तथा च—
मणिबन्धनसम्भूता मध्याङ्गुलिसमाश्रिता।
रेखा पाणितले यस्याः सा कन्या राज्यभागिनी।। इति।।१२।।
अन्यदप्याह—
कनिष्ठिकामूलभवा गता या प्रदेशिनीमध्यमिकान्तरालम् ।
करोति रेखा परमायुषः सा प्रमाणमूना तु तदूनमायुः ॥१३॥
कनिष्ठिका के मूल से प्रदेशिनी और मध्यमा के मध्य में गई हुई पूरी रेखा हो तो
परमायु और छोटी हो तो परमायु से अल्प आयु प्रदान करने वाली होती है।।१३।।
या रेखा कनिष्ठिकामूलभवा कनिष्ठामूलादुत्पन्ना तत्प्रदेशिन्या अङ्गुष्ठसमीपवर्तिन्या
मध्यमिकायाश्चान्तरालं मध्यं गता प्राप्ता सा रेखा परमायुषः प्रमाणं करोति। विंशत्यधिकं
सा वर्षशतं जीवतीत्यर्थः। यद्यूना भवति तदायूरूनमेव भवति। रेखानुसारेण स्वबुद्ध्या
ह्यूहनीयम्। तथा च—
कनिष्ठामूलसम्भूता गता मध्यमिकान्तरम्।
प्रदेशिन्याश्च सा रेखा यस्याः सा दीर्घजीविनी।। इति।।१३।।
अथाऽपत्यज्ञानमाह—
अङ्गुष्ठमूले प्रसवस्य रेखाः पुत्रा बृहत्यः प्रमदास्तु तन्व्यः ।
अच्छिन्नमध्या बृहदायुषस्ताः स्वल्पायुषां छिन्नलघुप्रमाणाः ॥१४॥
अंगूठे की मूल में सन्तान की रेखा होती है। उनमें जितनी बड़ी रेखा हो, उतने पुत्र
और जितनी छोटी रेखा हो, उतनी कन्यायें होती हैं। साथ ही मध्य में बिना टूटी हुई रेखा
दीर्घायु वाले सन्तान की और टूटी हुई रेखा अल्पायु वाले सन्तान की होती है।।१४।।
अङ्गुष्ठमूले प्रसवस्यापत्यस्य रेखा भवन्ति। यावत्यो रेखास्तत्र तावन्तः प्रसवाः।
[L30

२७२ बृहत्संहिता
विज्ञेयाः। तथा च—
अङ्गुष्ठमूले या रेखाः स्थूलाः पुत्राश्च ते मताः।
सूक्ष्मा दुहितरस्ताभ्यो विच्छिन्नाः स्वल्पजीविनः।।
वामहस्ते तु नारीणां पुरुषाणां च दक्षिणे।
चिह्नं निरूपयेद्धीमान् समुद्रवचनं यथा।। इति।।१४।।
एवं शुभाशुभलक्षणान्युक्त्वाऽधुनाऽहमशुभलक्षणानि वक्ष्यामीत्याह—
इतीदमुक्तं शुभमङ्गनानामतो विपर्यस्तमनिष्टमुक्तम्।
विशेषतोऽनिष्टफलानि यानि समासतस्तान्यनुकीर्तयामि ।।१५।।
इस प्रकार ये स्त्रियों के शुभ लक्षण कहे गये हैं। इनसे विपरीत लक्षण अशुभ होते
हैं। अब विशेष करके जो अशुभ लक्षण हैं; उनको मैं कहता हूँ।।१५।।
इतिशब्दः प्रकाराय। इत्येवंप्रकारमिदमङ्गनानां स्त्रीणां शुभमुक्तं शुभं कथितम्। अतो-
ऽस्माद्विपर्यस्तं विपरीतं यत् तदनिष्टमशुभमुक्तम्। यानि विशेषतोऽतीवानिष्टफलान्यशुभ-
फलानि लक्षणानि तानि समासतः संक्षेपतोऽनुकीर्तयामि कथयामि।।१५।।
तत्रादावेव पादयोरनिष्टलक्षणान्याह—
कनिष्ठिका वा तदनन्तरा वा
महीं न यस्याः स्पृशति स्त्रियाः स्यात्।
गताथवाऽङ्गुष्ठमतीत्य यस्याः
प्रदेशिनी सा कुलटाऽतिपापा ।।१६।।
जिस स्त्री के पाँव की कनिष्ठिका या अनामिका भूमि को स्पर्श न करे, अँगूठे से
लम्बी तर्जनी हो, वह व्यभिचारिणी और अति पापिनी होती है।।१६।।
यस्याः स्त्रिया अङ्गनायाः पादकनिष्ठा तदनन्तरा याऽनामिका वा महीं भूमिं न स्पृशति।
अथवा यस्याः प्रदेशिनी अङ्गुष्ठमतीत्य गता स्यात् सा कुलटाऽतिपापा, कुलटा असाध्या,
अतिपापा स्याद् भवेत्। तथा च—
कनिष्ठा पादयोर्यस्या भूमिं स्पृशति नाङ्गुलिः।
न सा तिष्ठति कौमारी बन्धकीं तां विनिर्दिशेत्।।
पादप्रदेशिनी यस्या अङ्गुष्ठादतिरिच्यते।
कुमारी कुरुते जारं यौवनस्था तु किं पुनः।। इति।।१६।।
अथ जङ्घागुह्योदरलक्षणमाह—
उद्बद्धाभ्यां पिण्डिकाभ्यां शिराले शुष्के जङ्घे रोमशे चातिमांसे।
वामावर्तं निम्नमल्पं च गुह्यं कुम्भाकारं चोदरं दुःखितानाम् ।।१७।।
ऊपर को खिंची हुई पिण्डिका ( जंघा के पश्चिम भाग ) वाली, नाड़ियों से व्याप्त,
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वज्रलेप, प्रतिमा-लक्षण एवं वनप्रवेश (अध्याय ५७-६०)

कन्यालक्षणाध्यायः २७३
सूखी, रोमों से युत या अधिक पुष्ट जंघा, वामावर्त्त रोमों से युत, निम्न और छोटी भग
तथा घड़े के समान पेट दुःख भोगने वाली स्त्रियों की होती है।।१७।।
जङ्घे जानुनोरधोभागौ। उद्बद्धाभ्यामूर्ध्वलग्नाभ्यां पिण्डिकाभ्यामुपलक्षिते। जङ्घापश्चिमभागः
पिण्डिकाशब्दवाच्यः। तथा शिराले शिरासन्तते। शुष्के निर्मांसे। रोमशे लोमबहुले। तथा
चातिमांसे मांसबहुले अतिदुःखितानां महादुःखसन्तप्तानां स्त्रीणां भवतः। तथा च—
शुष्के जङ्घेऽतिमांसे वा रोमशे चोर्ध्वपिण्डिके।
यस्याः सा दुःखिता नित्यं पुत्रवित्तविवर्जिता।।
वामावर्त्तमिति। गुह्यं भगं वामावर्त्तं वामावर्त्तै रोमभिः संयुक्तं निम्नमनुच्चमल्पं चाति-
सङ्कटं दुःखितानां भवति। तथा च—
वामावर्त्तं भगं यस्या दीर्घं चुल्लीसमप्रभम्।
निम्नं वा तेन दोषेण वेश्यास्त्रीत्वं च गच्छति।।
कुम्भाकारमिति। उदरं कुम्भाकारं घटाकारं दुःखितानामेव भवति। तथा च—
लम्बोदरी च या कन्या दीर्घोदरसमन्विता।
भग्न‍ोदरा च दुःखान्ता दासीभावमवाप्नुयात्।। इति।।१७।।
अथ ग्रीवालक्षणमाह—
ह्रस्वयातिनिःस्वता दीर्घया कुलक्षयः।
ग्रीवया पृथूत्थया योषितः प्रचण्डता ।।१८।।
छोटी गरदन वाली स्त्री निर्धन, बहुत लम्बी गरदन वाली कुलक्षय करने वाली और
मोटी गरदन वाली स्त्री क्रूर प्रकृति की होती है।।१८।।
ग्रीवया शिरोधरया। अतिह्रस्वया अतिप्रमाणहीनया। निःस्वता निर्धनता भवति। अति-
दीर्घया प्रमाणाधिकया कुलक्षयो वंशविनाशः। पृथूत्थया पृथूत्पन्नया चर्षटया ग्रीवया योषितः
स्त्रियाः प्रचण्डता क्रूरता भवति। तथा च—
कुलक्षयकरी दीर्घा ग्रीवा ह्रस्वा च निर्धना।
पृथूत्थया प्रचण्डत्वं ग्रीवया योषितो वदेत्।। इति।।१८।।
अथ नेत्रगण्डयोर्लक्षणमाह—
नेत्रे यस्याः केकरे पिङ्गले वा
सा दुःशीला श्यावलोलेक्षणा च।
कूपौ यस्या गण्डयोश्च स्मितेषु
निःसन्दिग्धं बन्धकीं तां वदन्ति ।।१९।।
जिस स्त्री के नेत्र केकर ( कञ्जा = ऐंचाताना ), पीले, श्याम या चञ्चल हों, वह
बृ० सं० द्वि०-१८
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२७४ बृहत्संहिता
बुरे स्वभाव वाली होती है तथा जिसके हँसने के समय गालों में गड्ढे पड़ जाते हों, वह
व्यभिचारिणी होती है।।१९।।
यस्याः स्त्रिया नेत्रे चक्षुषी केकरे कातरे पिङ्गले कपिले वा सा दुःशीला असाध्वी
भवति। तथा श्यावे श्याववर्णे लोले चञ्चले चलमाने ईक्षणे चक्षुषी यस्याः सापि दुःशीला
भवति। तथा च—
पारावताक्षी या कन्या कातराक्षी तथापि या।
उद्भ्रान्तचपलाक्षी च तां कन्यां वर्जयेद् बुधः।।
कूपौ यस्या इति। यस्या योषितः स्मितेषु हसितेषु गण्डयोर्मुखगण्डयोः कूपौ गर्त्ता-
कारौ भवतश्छिद्रे दृश्येते तां स्त्रियं निःसन्दिग्धमसंशयं बन्धकीमसाध्वीं वदन्ति कथयन्ति।
तथा च—
यस्यास्तु हसमानाया जायन्ते गण्डकूपकाः।
भर्तारं हन्ति सा क्षिप्रं नैकत्र रमते चिरम्।।
तथा च पराशरः—
यस्या हसन्त्या दृश्यन्ते कूपका गण्डयोर्द्वयोः।
स्थूलकाकारगण्डा च विकृतास्या महाशना।।
एकापि यस्या न महीं संस्पृशेच्चरणाङ्गुली।
तलमध्यमधो यस्या अधमां तां विनिर्दिशेत्।। इति।।१९।।
अन्यदप्याह—
प्रविलम्बिनि देवरं ललाटे श्वशुरं हन्त्युदरे स्फिचोः पतिं च।
अतिरोमचयान्वितोत्तरोष्ठी न शुभा भर्तुरतीव या च दीर्घा ।।२०।।
जिस स्त्री का ललाट लम्बा हो वह अपने देवर का, उदर लम्बा हो वह अपने
श्वसुर का और स्फिक् ( कुल्ला = कटिप्रोथ ) लम्बा हो वह अपने पति का वध करती
है तथा जिसके ऊपरी ओठ में अधिक रोम हों और जो बहुत लम्बी हो, वह पति के
लिए शुभदायक नहीं होती है।।२०।।
ललाटे मुखपृष्ठभागे प्रविलम्बिनि लम्बमाने देवरं भर्तुर्भ्रातरं हन्ति मारयति। उदरे
प्रविलम्बिनि श्वशुरं भर्तुः पितरं हन्ति। स्फिचोः प्रविलम्बमानयोः पतिं भर्तारं हन्ति।
तथा च—
त्रीणि यस्याः प्रलम्बन्ते ललाटमुदरं स्फिजम्।
त्रींश्च सा पुरुषान् हन्ति देवरं श्वशुरं पतिम्।।
अतिरोमचयान्वितोत्तरोष्ठीति। अतिरोमचयेन रोम्णां सञ्चयेनान्वितः संयुक्त उत्तरोष्ठो
यस्याः सा भर्तुः पत्युर्न शुभा। अतीव या च दीर्घाऽत्युच्चा सापि भर्तुर्न शुभदा। तथा च—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

कन्यालक्षणाध्यायः २७५
श्मश्रुयुक्ता च या कन्या याऽतिदीर्घा मलावृता।
दासीभावमवाप्नोति देहदोषेण साऽङ्गना।। इति।।२०।।
अथ स्तनकर्णदन्तलक्षणमाह—
स्तनौ सरोमौ मलिनोल्बणौ च
क्लेशं दधाते विषमौ च कर्णौ।
स्थूलाः कराला विषमाश्च दन्ताः
क्लेशाय चौर्याय च कृष्णमांसाः ।।२१।।
जिस स्त्री के स्तन और कान रोमयुक्त, मलिन, अभद्र और छोटे-बड़े हों, वह
क्लेश भोगने वाली होती है तथा जिसके मोटे, बाहर निकले, विषम और काले मांस से
युक्त दाँत हों, वह चोर होती है।।२१।।
स्तनौ सरोमौ रोमसंयुक्तौ मलिनौ कृष्णवर्णावुल्बणौ विषमावतुत्यौ क्लेशं कृच्छ्रं
दधाते दधतः। तथा च—
रोमयुक्तौ स्तनौ यस्या मलिनौ च शिराततौ।
दुःखिता सा भवेन्नारी नित्यं प्रव्रजिता तथा।।
एवंविधौ च कर्णौ सरोमौ मलिनावुल्बणौ विषमावतुत्यौ च क्लेशमेव दधाते।
तथा च—
शिरायुक्तौ न च समौ कर्णौ दारिद्र्यभाजनौ।
स्थूलाः कराला इति। दन्ता रदाः स्थूला अतिविस्तीर्णाः कराला विकराला बहिर्ग-
ताश्च विषमा अतुत्याः क्लेशाय भवन्ति। कृष्णमांसाश्च दन्ताश्चौर्याय भवन्ति। सा स्त्री
चौरी भवतीत्यर्थः। तथा च—
स्थूलाः कराला विषमाः कृष्णमांसा बहिर्गताः।
दन्ता दुःखप्रदा ज्ञेया वैधव्यायासकारिणः।। इति।।२१।।
अथ हस्तलक्षणमाह—
क्रव्यादरूपैर्वृककाककङ्कूसरीसृपोलूकसमानचिह्नैः ।
शुष्कैः शिरालैर्विषमैश्च हस्तैर्भवन्ति नार्यः सुखवित्तहीनाः ।।२२।।
जिस स्त्री के हाथ में मांस खाने वाले (गीध आदि) पक्षी, भेड़िया, कौवा, कंक,
सर्प या उल्लू के समान रेखा हो अथवा सूखे, नाड़ियों से व्याप्त और छोटे-बड़े हाथ
हों, वह स्त्री सुख और धन से हीन होती है।।२२।।
हस्तैः करैः क्रव्यादरूपैश्चिह्नैश्चिह्नितैः क्रव्यादा मांसाशिनो विहगा गृध्रादयः। वृकः
प्राणी। काककङ्कौ प्रसिद्धौ पक्षिणौ। सरीसृपाः प्राणिनः कीटाः। उलूकः पक्षी। तत्समा-
नैस्तत्सदृशैश्चिह्नैः शुष्कैर्निर्मासैः शिरालैः शिरासन्ततैर्विषमैरसमैश्च नार्यः स्त्रियः सुखवित्तहीनाः

२७६ बृहत्संहिता
सुखैर्धनैश्च विरहिता वर्जिताश्च भवन्ति। तथा च—
क्रव्यादासदृशैश्चिह्नः काकोलूकसमप्रभैः।
शुष्कैः करालैर्विषमैः करैर्दुःखान्विताः स्त्रियः।। इति।।२२।।
अन्यदप्याह—
या तूत्तरोष्ठेन समुन्नतेन रूक्षाग्रकेशी कलहप्रिया सा।
प्रायो विरूपासु भवन्ति दोषा यत्राकृतिस्तत्र गुणा वसन्ति ॥२३॥
जिस स्त्री के ऊपर का ओठ ऊँचा हो या केशों के अग्र भाग रूखे हों, वह कलह-
प्रिया होती है। अधिकतर कुरूपा स्त्रियों में दोष और सुन्दरी में गुण होते हैं।।२३।।
या तु स्त्री समुन्नतेनोच्चतरेणोत्तरोष्ठेनोपलक्षिता। रूक्षाग्रकेशी रूक्षा अग्रकेशा यस्याः
सा नित्यं कलहप्रिया कलहकरी भवति। तथा च—
या तूत्तरोष्ठेनोच्चेन केशाग्रं स्नेहवर्जितम्।
यस्याः सा दुःखिता नित्यं भर्तुर्निधनकारिणी।।
प्रायो विरूपास्विति। प्रायो बाहुल्येन विरूपासु विगतरूपासु स्त्रीषु दोषा भवन्ति।
यत्र यस्यां साऽऽकृतिः शोभना भवति तत्र तस्यां गुणा वसन्ति।।२३।।
अधुना शरीरक्षेत्रविभागमाह—
पादौ सगुल्फौ प्रथमं प्रदिष्टौ जङ्घे द्वितीयं तु सजानुचक्रे।
मेढ्रोरुमुष्कं च ततस्तृतीयं नाभिः कटिश्चैव चतुर्थमाहुः ॥२४॥
उदरं कथयन्ति पञ्चमं हृदयं षष्ठमतस्तनान्वितम्।
अथ सप्तममंसजत्रुणी कथयन्त्यष्टममोष्ठकन्धरे ॥२५॥
नवमं नयने च सभ्रूणी सललाटं दशमं शिरस्तथा।
अशुभेष्वशुभं दशाफलं चरणाद्येषु शुभेषु शोभनम् ॥२६॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां कन्यालक्षणं
नाम सप्ततितमोऽध्यायः ॥७०॥
अब कालिक शुभाशुभ फल-ज्ञान के लिये शरीर के दश भाग कहते हैं। जैसे-
गुल्फसहित पाँव पहला भाग; जानुचक्रसहित जंघा दूसरा भाग; लिंग, ऊरु और अण्डकोश
तीसरा भाग; नाभि और कमर चौथा भाग; उदर पाँचवाँ भाग; स्तनसहित हृदय छठा
भाग; कन्धे और कन्धे की सन्धि सातवाँ भाग; ओठ और कण्ठ आठवाँ भाग; भ्रूसहित
नेत्र नवाँ भाग तथा ललाटसहित शिर दशवाँ भाग होता है। इसी तरह परमायु ( १२० )
का भी दश भाग करना चाहिये। यदि अंग का प्रथम भाग शुभ लक्षणों से युत हो तो

कन्यालक्षणाध्यायः २७७
आयु के प्रथम भाग में शुभ और अशुभ लक्षणों से युत हो तो आयु के प्रथम भाग में
अशुभ फल कहना चाहिये। इसी तरह द्वितीय आदि अंगभाग शुभाशुभ लक्षणों से युत
हो तो आयु के द्वितीय आदि भाग में शुभाशुभ फल कहना चाहिये।।२४-२६।।
इति 'विमला' हिन्दीटीकायां कन्यालक्षणाध्यायः सप्ततितमः ॥७०॥
पादौ सगुल्फाविति। पादौ चरणौ सगुल्फौ गुल्फसहितौ प्रथममाद्यं दशाभागं च
शुभाशुभं च शुभाशुभचिह्नितं प्रदिष्टमुक्तम्। जङ्घे सजानुचक्रे जानुचक्रिकासहिते द्वितीयं
दशाभागमुक्तम्। मेढ्रं लिङ्गमूरू द्वौ मुष्कौ वृषणौ ततोऽनन्तरमेतत् तृतीयं दशाभागम्।
नाभिः कटिश्चेति चतुर्थं दशाभागमाहुः कथयन्ति।
उदरमिति। उदरं पञ्चमं दशाभागं कथयन्ति प्रवदन्ति मुनयः। हृदयं स्तनान्वितं
स्तनसंयुक्तं षष्ठं दशाभागं कथयन्ति। अथानन्तरमंसौ स्कन्धौ जत्रूणी च सप्तमं दशाभागम्।
ओष्ठौ द्वौ कन्धरा ग्रीवा एते ओष्ठकन्धरे अष्टमं दशाभागं कथयन्ति।
नयने नेत्रे सभ्रूणी भ्रूसहिते नवमं दशाभागम्। शिरो मूर्धा सल्ललाटं ललाटसहितं
दशमं दशाभागम्, तथा तेनैव प्रकारेण। अथ यद्यपि सामान्येनोक्तम्, तथापि परमायुः-
प्रमाणेन द्वादशवार्षिकीं दशां परिकल्प्य विचारः कर्तव्यः। ज्ञातायुस्तत्प्रमाणेण एतेषु क्षेत्र-
विभागेषु चरणाद्येषु वातप्रभृतिष्वशुभेष्वशुभमनिष्टं दशाफलं शुभेषु शोभनमिति। एतदुक्तं
भवति—यद्गात्रं रूक्षं मांसविहीनं शिरावनद्धं च तदनिष्टं प्रोक्तम्। विपरीतमतः शुभं सर्व-
मित्यनेन क्रमेण यत्राङ्गेऽशुभलक्षणानि तद्दशाभागमशुभम्, यत्र शुभानि तत् शोभनम्, यत्र
व्यामिश्राणि तन्मध्यमिति।।२४-२६।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ कन्यालक्षणं
नाम सप्ततितमोऽध्यायः ॥७०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ वस्त्रच्छेदलक्षणाध्यायः
अथ वस्त्रच्छेदलक्षणं व्याख्यायते। तत्रादावेवाश्विन्यादीनां नक्षत्राणामभिनववस्त्रोपभोगे
फलमाह—
प्रभूतवस्त्रदाश्विनी भरण्यथापहारिणी ।
प्रदह्यतेऽग्निदैवते प्रजेश्वरेऽर्थसिद्धयः ॥१॥
मृगे तु मूषकाद्भयं व्यसुत्वमेव शाङ्करे ।
पुनर्वसौ शुभागमस्तदग्रभे धनैर्युतिः ॥२॥
भुजङ्गभे विलुप्यते मघासु मृत्युमादिशेत् ।
भगाह्वये नृपाद्भयं धनागमाय चोत्तरा ॥३॥
करेण कर्मसिद्धयः शुभागमस्तु चित्रया ।
शुभं च भोज्यमानिले द्विदैवते जनप्रियः ॥४॥
सुहृद्युतिश्च मित्रभे तदग्रभेऽम्बरक्षयः ।
जलप्लुतिश्च नैर्ऋते रुजो जलाधिदैवते ॥५॥
मिष्टमन्नमपि वैश्वदैवते वैष्णवे भवति नेत्ररोगता ।
धान्यलब्धिरपि वासवे विदुर्वारुणे विषकृतं महद्भयम् ॥६॥
भद्रपदासु भयं सलिलोत्थं तत्परतश्च भवेत् सुतलब्धिः ।
रत्नयुतिं कथयन्ति च पौष्णे योऽभिनवाम्बरमिच्छति भोक्तुम् ॥७॥
यदि अश्विनी नक्षत्र में नवीन वस्त्र धारण करे तो बहुत वस्त्र का लाभ, भरणी में
वस्त्रों की हानि, कृत्तिका में अग्नि से वस्त्र का जलन, रोहिणी में धन-प्राप्ति, मृगशिरा में
वस्त्र को चूहे का भय, आर्द्रा में मृत्यु, पुनर्वसु में शुभ की प्राप्ति, पुष्य में धन का लाभ,
आश्लेषा में वस्त्रनाश, मघा में मृत्यु, पूर्वफाल्गुनी में राजा से भय, उत्तरफाल्गुनी में धन
का लाभ, हस्त में कर्मों की सिद्धि, चित्रा में शुभ की प्राप्ति, स्वाती में उत्तम भोजन का
लाभ, विशाखा में जनों का प्रिय, अनुराधा में मित्रों का समागम, ज्येष्ठा में वस्त्र का
क्षय, मूल में जल में डूबने का भय, पूर्वाषाढा में रोग, उत्तराषाढा में मिष्टान्न का लाभ,
श्रवण में नेत्ररोग, धनिष्ठा में अन्न का लाभ, शतभिषा में विष का अधिक भय, पूर्व
भाद्रपद में जल का भय, उत्तरभाद्रपद में पुत्र का लाभ और रेवती नक्षत्र में नवीन वस्त्र
धरण करे तो रत्नलाभ होता है।।१-७।।
प्रभूतवस्त्रदाश्विनीति । अश्विनीनक्षत्रे यदभिनवं वस्त्रमुपभुज्यते, तदा साऽश्विनी प्रभूत-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्त्रच्छेदलक्षणाध्यायः २७९
वस्त्रदा भवति। प्रभूतानि बहूनि वस्त्राणि अम्बराणि ददाति। अथानन्तरमेवं भरणी वस्त्रा-
पहारिणी भवति। अग्निदैवते कृत्तिकानक्षत्रे वस्त्रं सन्दह्यतेऽग्निना। प्रजेश्वरे रोहिण्यामर्थानां
सिद्धयः प्राप्तयो भवन्ति।
मृगे इति । मृगे मृगशिरसि मूषकाद्वस्त्रभयं भवति। तेन छिद्यते। शाङ्करे आर्द्रायां
व्यसुत्वं विगतप्राणता भवति, म्रियत इत्यर्थः। पुनर्वसौ शुभस्यार्थस्य धर्मादेरागमः प्राप्ति-
र्भवति। तदग्रभे तस्य पुनर्वसोरग्रतः पुरतः स्थिते भे नक्षत्रे तिष्ये धनैर्वित्तैर्युतिः संयोगो भवति।
भुजङ्गभे इति । भुजङ्गभे श्लेषायां वस्त्रं विलुप्यते छिद्यते। मघासु मृत्युं मरणमादिशेद्
वदेत्। भगाह्वये पूर्वफल्गुन्यां नृपाद् राज्ञो भयं भवति। उत्तरफल्गुनी धनागमाय धनप्राप्तये
भवति।
करेणेति । करेण हस्तेन कर्मणां सिद्धयो भवन्ति। चित्रायां शुभागमः शुभस्यार्थस्य
धर्मादेरागमः प्राप्तिर्भवति। अनिले स्वातौ शुभं शोभनं भोज्यमाहारं भवति। द्विदैवते विशाखायां
जनप्रियो जनवल्लभो भवति।
सुहृद्युतिश्चेति । मित्रभेऽनुराधायां सुहृद्युतिर्मित्रसंयोगः। तदग्रभे तस्या अनुराधाया
अग्रतः पुरतः स्थिते भे नक्षत्रे ज्येष्ठायामम्बरस्य वस्त्रस्य क्षयो विनाशो भवति। नैर्ऋते मूले
जलप्लुतिर्वस्त्रं जलमध्ये प्लवति। यातीत्यर्थः। जलाधिदैवते पूर्वाषाढायां रुजो रोगा भवन्ति।
मिष्टमन्नमिति । वैश्वदेवे उत्तराषाढायां मिष्टमन्नं भोजनं भवति। वैष्णवे श्रवणे नेत्र-
रोगता चक्षुषीपीडा। वासवे धनिष्ठायां धान्यानां लब्धिं लाभम्। विदुर्जानते। वारुणे शतभिषजि
महदतीव भयं विषकृतं विषोत्पन्नं भवति।
भद्रपदास्विति । भद्रपदासु पूर्वभद्रपदासु सलिलोत्थं जलादुत्पन्नं भयं भवति। तत्परत
उत्तरभद्रपदायां सुतलब्धिः पुत्रलाभो भवति। पौष्णे रेवत्यां रत्नयुतिं रत्नसंयोगं कथयन्ति
मुनयः। तस्यैतानि फलानीत्याह। योऽभिनवाम्बरमिच्छति भोक्तुम्, यः पुरुषोऽभिनवाम्ब-
रमभिनवं वस्त्रं भोक्तुमिच्छति तस्येति।।१-७।।
अथ सर्वनक्षत्राणां कर्मयोगितामाह—
भोक्तुं नवाम्बरं शस्तमृक्षेऽपि गुणवर्जिते।
विवाहे राजसम्माने ब्राह्मणानां च सम्मते ॥८॥
विवाह में, राजसम्मान में और ब्राह्मणों की आज्ञा मिलने पर अविहित नक्षत्र में भी
वस्त्र धारण करना शुभ होता है।।८।।
विवाहे पाणिग्रहणकाले। राजसम्माने राजपूजायाम्। ब्राह्मणानां च सम्मते द्विजव-
चनेनेत्यर्थः। एतेषु कालेषु गुणवर्जितेऽपि ऋक्षे नक्षत्रे नवाम्बरमभिनवं वस्त्रं भोक्तुमुपभोक्तुं
शस्तं प्रशस्तमिति।।८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२८० बृहत्संहिता
अधुना वस्त्रादीनां दैवत्यप्रविभागेन शुभाशुभफलमाह—
वस्त्रस्य कोणेषु वसन्ति देवा नराश्च पाशान्तदशान्तमध्ये ।
शेषास्त्रयश्चात्र निशाचरांशास्तथैव शय्यासनपादुकासु ॥९॥
नवधा विभक्त वस्त्र के चारो कोनों में देवता, पाशान्त मध्य ( वस्त्र के मूल ) और
दशान्त मध्य ( वस्त्र के अग्र ) में मनुष्य तथा मध्यस्थित तीन भागों में राक्षस की कल्पना
करनी चाहिये। इसी प्रकार शय्या, आसन और पादुका में भी विचार करना चाहिये ।।९।।
वस्त्रस्याम्बरस्य कोष्ठकनवकविभागेन प्रविभक्तस्य कोणेषु चतुर्षु देवाः सुरा वसन्ति।
वस्त्रस्य मूलं पाशान्तः। अग्रं दशान्तः। पाशान्तमध्यभागे दशान्तमध्यभागे च नरा देव-
विशेषा वसन्ति। शेषास्त्रयः कोष्ठकाः सममध्यवर्तिनोऽत्रास्मिन् वस्त्रे निशाचरांशा राक्षस-
भागाः। न केवलं वस्त्रस्यायं प्रविभागो यावच्छय्यायामास्तरणे, आसने, पादुकासु चेति,
वस्त्रस्य मूलाग्रे यथोक्ते तथासने पादुकासु च। आसनस्य वृक्षवशान्मूलाग्रकल्पना। पादुका-
सूपानत्सु पादवन्मूलाग्रे।
नवकोष्ठविभक्तस्य वस्त्रस्य न्यासः—
| देवाः | राक्षसाः | देवाः |
| नराः | राक्षसाः | नराः |
| देवाः | राक्षसाः | देवा |
तथा च गर्गः—
वस्त्रमुत्तरलोमं तु प्राग्देशं नवधा भवेत्।
त्रिधा दशान्तपाशान्ते त्रिधा मध्यं पृथक् पृथक्।।
चतुर्षु कोणेषु सुराः पाशान्ते मध्यमे नराः।
दशान्ते च नरा भूयो मध्यभागे निशाचराः।।
राक्षसान् विनिवृत्त्यैवं शय्यादिष्वप्ययं विधिः।। इति।।९।।
प्रयोजनमाह—
लिप्ते मषीगोमयकर्दमाद्यैश्छिन्ने प्रदग्धे स्फुटिते च विन्द्यात् ।
पुष्टं नवेऽल्पल्पतरं च भुक्ते पापं शुभं चाधिकमुत्तरीये ॥१०॥
यदि नवीन वस्त्र स्याही, गोबर, कीचड़ आदि से लिप्त हो जाय, जल जाय या फट
जाय तो सम्पूर्ण अशुभ या शुभ फल जानना चाहिये। यदि मध्यम वस्त्र हो तो थोड़ा
और बिल्कुल पुराना वस्त्र हो तो बहुत थोड़ा अशुभ या शुभ फल जानना चाहिये; किन्तु
ओढ़ने के वस्त्र हों तो अधिक अशुभ या शुभ फल होता है।।१०।।
वस्त्रं मष्या कज्जलेन गोमयेन कर्दमेन चालिप्ते। आदिग्रहणाद्येन केनचिद् वर्णकेन
लिप्ते। तथा छिन्ने प्रकल्पिते। प्रदग्धेऽग्निना प्लुष्टे। स्फुटिते पाटिते च विन्द्याद् जानीयात्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्त्रच्छेदलक्षणाध्यायः २८१
पापमशुभं फलं शुभं वा! नववस्त्रादिकेषु पुष्टं परिपूर्णं मध्यमेऽल्पं भुक्ते शीर्णेऽल्पतरम्।
यद्यप्युक्तं तथैव शय्यासनपादुकास्विति, तथाप्युत्तरीये वस्त्रेऽधिकतरं पापमशुभं शुभं शुभ-
फलं भवति ।।१०।।
अधुना विशेषेणाह—
रुग्राक्षसांशेष्वथवाऽपि मृत्युः पुत्रजन्म तेजश्च मनुष्यभागे ।
भागेऽमराणामथ भोगवृद्धिः प्रान्तेषु सर्वत्र वदन्त्यनिष्टम् ॥११॥
यदि राक्षसों के भाग में स्याही लग जाय तो रोग या मृत्यु, मनुष्यों के भाग में
पुत्रजन्म और तेज का लाभ, देवताओं के भाग में भोग की वृद्धि तथा समस्त भागों के
प्रान्त में स्याही आदि लग जाय तो अनिष्ट फल प्राप्त होता है; ऐसा मुनियों द्वारा कहा
गया है।।११।।
राक्षसांशेषु राक्षसभागेष्वशुभेषु छेदादिषूत्पन्नेष्वस्य स्वामिनो रुग्रोगोऽथवा मृत्युर्भवति।
मनुष्यभागेऽशुभे छेदादिके दृष्टे पुत्रजन्म पुत्रजन्म तेजः कान्तिश्च भवति। अमराणां देवानां
भागेऽशुभे छेदादिके दृष्टे भोगवृद्धिर्भवति। सर्वत्र सर्वभागेषु प्रान्तेषु पर्यन्तेष्वनिष्टमशुभं
वदन्ति कथयन्ति मुनयः ।।११।।
अन्यदप्याह—
कङ्कप्लवोलूककपोतकाकक्रव्यादगोमायुखरोष्ट्रसर्पैः ।
छेदाकृतिर्दैवतभागगापि पुंसां भयं मृत्युसमं करोति ॥१२॥
यदि देवताओं के भाग में भी कङ्क, मेढ़क, उल्लू, कबूतर, कौआ, मांसाहारी ( गिद्ध
आदि ), सियार, गदहा, ऊँट या साँप के समान वस्त्र के छेद आदि का आकार हो तो
मृत्यु के समान भय उपस्थित करता है।।१२।।
कङ्कः, प्लवः, उलूकः, कपोतः, काकः, क्रव्यादा मांसाशिनः। एते सर्व एव पक्षि-
विशेषाः। गोमायुः शृगालः, खरो गर्दभः, उष्ट्रः करभः, सर्प उरगः, एतैः सदृशी छेदस्या-
कृतिर्दैवतभागगाऽपि सुरभागप्राप्ताऽपि पुंसां नराणां मृत्युसमं मरणतुल्यं भयं करोति ।।१२।।
अन्यदप्याह—
छत्रध्वजस्वस्तिकवर्धमानश्रीवृक्षकुम्भाम्बुजतोरणाद्यैः ।
छेदाकृतिर्नैर्ऋतभागगाऽपि पुंसां विधत्ते नचिरेण लक्ष्मीम् ॥१३॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वस्त्रच्छेदलक्षणं
नामैकसप्ततितमोऽध्यायः ॥७१॥
यदि राक्षसों के भाग में भी छत्र, ध्वज, स्वस्तिक, वर्धमान ( चिह्नविशेष ), बिल्व-
वृक्ष, कलश, कमल, तोरण आदि ( स्रुव, कुण्ड, शृङ्गार, हाथी और घोड़े ) के समान
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

, let's be extremely careful.
Wait, let me look at the ङ्:
Is it ङ्गा?
Yes, ङ् then गा! So it is कङ्गाल or कङ्काल. Let's look at the right side of the vertical stem: it's completely straight! There is no curve to the right. So it is definitely कङ्गाल!

Wait, let's check line 30:
"हयगजकर्णभगतुलाचटकाकारैरुद्धारः प्राग्वत्कुटुम्बविनाशाय।"
Look at the word after "प्राग्वत्":
"कुटुम्बविनाशाय।" (for the destruction of the family, as before).
Then:
"पूर्वदक्षिणे नारीणाम्।" (in South-East, of women).
"दक्षिणे सुहृदाम्।" (in South, of friends).
Line 31:
"दक्षिणापरे पशूनाम्।" (in South-West, of animals).
"पश्चिमे प्रेष्याणाम्।" (in West, of servants).
"पश्चिमोत्तरे ज्ञातेः।" (in North-West, of kinsmen).
"बन्धोश्चोत्तरे।" (and in North, of relatives).
"पूर्वोत्तरे मध्यमस्य पूर्वे सर्वसम्पदाम्।" (in North-East... in the center... in the East, of all wealth).
"अपि च—"

वस्त्रच्छेदलक्षणाध्यायः २८३
विवर्णितं तु यद्वस्त्रं विनश्येच्छेदमङ्गलम्।
विवर्णितं तु यच्च स्यादनर्थाय विनिर्दिशेत्।।
नवे वस्त्रे यथोक्तं स्यात् फलं जीर्णे तु नेष्यते।
न रक्ते न पुनर्धौते न स्वयं दग्धपाटिते।।
विलक्षणं त्यजेद्वस्त्रं समच्छेदमसङ्कुलम्।
विवर्णितं तु यद्वस्त्रं कुर्याद्देवद्विजार्चनम्।।
जपहोमोपवासांश्चैत् तथा नाप्नोति किल्विषम्।। इति।।१३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ वस्त्रच्छेदलक्षणं
नामैकसप्ततितमोऽध्यायः ।।७१।।
( विप्रमतादथ भूपतिदत्तं यच्च विवाहविधावभिलब्धम्।
तेषु गुणै रहितेष्वपि भोक्तुं नूतनमम्बरमिष्टफलं स्यात् ।।
बुरे नक्षत्रों में भी ब्राह्मणों की आज्ञा से, राजा का दिया हुआ वस्त्र या विवाह में
प्राप्त वस्त्र धारण करना शुभ फल देने वाला होता है। )
इति 'विमला'हिन्दीटीकायां वस्त्रच्छेदलक्षणाध्याय एकसप्ततितमः ।।७१।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ चामरलक्षणाध्यायः
अथ चामरलक्षणं व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
देवैश्चमर्यः किल वालहेतोः सृष्टा हिमक्ष्माधरकन्दरेषु ।
आपीतवर्णाश्च भवन्ति तासां कृष्णाश्च लाङ्गूलभवाः सिताश्च ॥१॥
देवताओं ने बाल के लिये हिमालय की कन्दराओं में चमरी की उत्पत्ति की है।
उनकी पूँछ के बाल पीले, काले और सफेद होते हैं।।१।।
किलेत्यागमसूचने। देवैः सुरैर्वालहेतोर्वाहननिमित्तं हिमक्ष्माधरकन्दरेषु हिमवद्गिरिगुहासु
चमर्यः प्राणिविशेषाः सृष्टा उत्पादिताः। तासां चमरीणामापीतवर्णा वाला भवन्ति। कृष्णा
असिताश्च भवन्ति। तथा लाङ्गूलभवाः पुच्छसम्भूताः सिताः श्वेतवर्णाश्च भवन्ति॥१॥
अथ तासां गुणमाह—
स्नेहो मृदुत्वं बहुवालता वा वैशद्यमल्पास्थिनिबन्धनत्वम्।
शौक्ल्यं च तासां गुणसम्पदुक्ता विद्धाल्पलुप्तानि न शोभनानि ॥२॥
स्निग्ध, कोमल, अधिक निर्मल, परस्पर विना मिले, छोटी, मध्य की हड्डी वाले,
सफेद—ये सब बालों के गुणों की सम्पत्तियाँ हैं अर्थात् ऐसे बाल शुभ होते हैं तथा
टूटे, फटे, छोटे और उखड़े बाल शुभ नहीं होते हैं।।२।।
तासां चमरीणामियं गुणानां सम्पदुक्ता कथिता। तद्यथा—स्नेहोऽरूक्षता। मृदुत्वं
मार्दवम्। बहुवालता प्रभूतवालत्वम्। वैशद्यं निर्मलता परस्परमश्लेषश्च। अल्पास्थिनिबन्धनत्वं
निबध्यन्तेऽस्मिन्निति निबन्धनम्। यत्रास्थिमालाः संलग्नास्तस्याल्पत्वम्। शौक्ल्यं शुक्लता
चैतानि यानि च विद्धानि निबन्धनस्य विद्धत्वात् तानि च विद्धानि खण्डतास्फोटनं वा
तेषां विद्धत्वम्। अल्पानि ह्रस्वानि। लुप्तानि विच्छिन्नानि। एतानि न शोभनान्यशोभनानि।
अशुभानीति।।२।।
अथ चामरदण्डलक्षणान्याह—
अध्यर्धहस्तप्रमितोऽस्य दण्डो हस्तोऽथवाऽरत्निसमोऽथवाऽन्यः।
काष्ठाच्छुभात् काञ्चनरूप्यगुप्ताद् रत्नैश्च सर्वैश्च हिताय राज्ञाम् ॥३॥
चामर का दण्ड डेढ़ हाथ, एक हाथ या अरत्नि (मुट्ठी बाँधे हुये हाथ) के तुल्य
बनाना चाहिये। सोना, चाँदी और सभी रत्नों से युत श्रेष्ठ काष्ठ का बना हुआ दण्ड
राजाओं के हित के लिये होता है।।३।।
अस्य चामरस्याध्यर्धहस्तप्रमितः सार्धहस्तमितो दण्डः कार्यः। हस्तोऽथवा हस्तप्रमाणः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA