बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 297, कुल 760 में से
संदर्भ में पढ़ेंकन्यालक्षणाध्यायः २६९
कर्णयुग्मं श्रोत्रद्वयमपि युक्तमांसलं न निर्मांसमित्यर्थः। मृदु कोमलं समं तुल्यं
समाहितं संलग्नं शस्यते स्तूयते। तथा च—
नातिलम्बौ मृदू तुल्यौ संलग्नौ युक्तमांसलौ।
कर्णौ यस्याः स्मृता सा तु राजभार्या न संशयः।।
स्निग्धेति। मूर्धजाः केशाः स्निग्धा निर्मला नीला अतिकृष्णवर्णाः। मृदवः कोमलाः
कुञ्चिताः कुटिलाः। एकजा एकरोमकूपे भवाः। सुखकराः सुखं कुर्वन्ति। तथा च—
सुस्निग्धा नीलवर्णाश्च मृदवः कुञ्चिताः कचाः।
शस्यन्ते योषितो नित्यं धनपुत्रप्रदा यतः।।
समं शिरः, शिरः समं न निम्नं नोन्नतं सुखकरमेव। तथा च—
नोन्नतं नाथवा निम्नं शिरः सौख्यप्रदं स्मृतम्।। इति।।९।।
अथ हस्तपादयोर्लक्षणमाह—
भृङ्गारासनवाजिकुञ्जररथश्रीवृक्षयूपेषुभि-
र्मालाकुण्डलचामराङ्कुशयवैः शैलैर्ध्वजैस्तोरणैः।
मत्स्यस्वस्तिकवेदिकाव्यजनकैः शङ्खातपत्राम्बुजैः
पादे पाणितलेऽथवा युवतयो गच्छन्ति राज्ञीपदम् ॥१०॥
जिस स्त्री के पादतल या पाणितल में भृङ्गार (झारी), आसन, घोड़ा, हाथी, रथ,
बिल्ववृक्ष, यज्ञस्तम्भ, शर, माला, कुण्डल, चामर, अंकुश, जौ, पर्वत, ध्वज, तोरण,
मत्स्य, स्वस्तिक, यज्ञवेदी, पंखा, शंख, छत्र और कमल के समान रेखायें हों, वह रानी
होती है।।१०।।
भृङ्गारो जलभाण्डं प्रसिद्धम्। आसनं पीठम्। वाजी तुरगः। कुञ्जरो हस्ती। रथः
प्रसिद्धः। श्रीवृक्षो बिल्वः। यूपो यज्ञयूपः। इषुः शरः। एतैश्चिह्नः। तथा माला स्रक्।
कुण्डलं कर्णाभरणम्। चामरं बालव्यजनम्। अङ्कुशः प्रसिद्धः। यवो यवाकारः। एतैरपि।
शैलः पर्वततः। ध्वजः पताकारूपो बहुपटनिर्मितः। तोरणं प्रसिद्धम्। एतैरपि। तथा मत्स्यो
मीनः। स्वस्तिकश्चिह्नविशेषः। वेदिका वेदी चतुरस्रा मध्यक्षामा। व्यजनकं तालवृन्तम्।
एतैरपि। शङ्खः प्रसिद्धः। आतपत्रं छत्रम्। अम्बुजं पद्मः। एतैर्भृङ्गारादिभिश्चिह्नः पादे चरणतले
पाणितले वा स्थितैर्युवतयः स्त्रियः। गच्छन्ति राज्ञीपदम्, राज्ञीस्थानं गच्छति प्राप्नुवन्ति।
तथा च गर्गः—
मर्त्यः समुद्रो वसुधा धनं च ध्वजस्तथाद्रिर्दिनकृच्छशी च।
शङ्खः पुरं चक्रमथासनं च यूपस्तथा व्यञ्जनतोरणं च।।
छत्रं यवः पद्ममथाङ्कुशं च सिंहोऽथवा स्वस्तिक एव वापी।
कूर्मः पताका मकरः पुमांश्च दण्डः सरित् पूर्णघटो रथश्च।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA