बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
२५० बृहत्संहिता
हंस का होता है। इसमें तीन-तीन अंगुल बढ़ाने से क्रम से शश, रुचक, भद्र और
मालव्य पुरुष की ऊँचाई और व्यायाम होता है।।७।।
हंसस्य षण्णवतिरङ्गुलानां व्यायामः पृथुता च भवति। प्रसारितभुजद्वयस्य प्रमाणमित्यर्थः।
दीर्घता चौच्च्यं षण्णवतिरङ्गुलानामेव। शशरुचकभद्रमालव्यसंज्ञितास्त्र्यङ्गुलविवृद्ध्या।
त्रिभिस्त्रिभिरङ्गुलैस्तेषां वृद्धिव्र्व्यायामोच्च्योर्भवतीत्यर्थः। एतदुक्तं भवति—नवनवतिरङ्गुलानां
व्यायामो दीर्घता च शशस्य भवति। द्व्यधिकं शतं रुचकस्य। पञ्चाधिकं शतं भद्रस्य।
अष्टाधिकं मालव्यस्येति। एतदुत्तरत्र वक्ष्यमाणग्रन्थेन विरुद्ध्यते। तथा च पराशरः—
उच्छ्रायः परिणाहस्तु यस्य तुल्यं शरीरिणः।
स नरः पार्थिवो ज्ञेयो न्यग्रोधपरिमण्डलः।। इति।।७।।
अथ गुणलक्षणान्याह श्लोकद्वयेन—
यः सात्त्विकस्तस्य दया स्थिरत्वं सत्त्वार्जवं ब्राह्मणदेवभक्तिः।
रजोऽधिकः काव्यकलाक्रतुस्त्रीसंसक्तचितः पुरुषोऽतिशूरः ॥८॥
तमोऽधिको वञ्चयिता परेषां मूर्खोऽलसः क्रोधपरोऽतिनिद्रः ।
मिश्रैर्गुणैः सत्त्वरजस्तमोभिर्मिश्रास्तु ते सप्त सह प्रभेदैः ॥९॥
सात्त्विक पुरुषों को दया, स्थिरता, प्राणियों में सरलता और देवता में भक्ति होती
है। रजोगुण वाला मनुष्य काव्य, कला, यज्ञ और स्त्री में आसक्त तथा अतिशूर होता है।
तमोगुण वाला मनुष्य दूसरे को ठगने वाला, मूर्ख, आलसी, क्रोधी और अधिक सोने
वाला होता है। मिश्रित ( सत्त्व-रज, सत्त्व-तम, रज-तम और सत्त्व-रज-तम )—
इस तरह गुणों के प्रभेद से सात प्रकार के मनुष्य होते हैं।।८-९।।
यः सात्त्विकस्तस्य दयेति । यः सात्त्विकः पुरुषस्तस्य सर्वभूतेषु दया भवति।
स्थिरत्वमेकचित्तता। सत्त्वार्जवं सत्त्वानां प्राणिनामार्जवम्। ऋजोर्भाव आर्जवम्। ऋजुभावः
स्पष्टता। ब्राह्मणानां देवानां च भक्तिः। यो रजोऽधिकः पुरुषः स काव्येषु कलासु गीत-
नृत्यवाद्येषु क्रतुषु च संसक्तचित्तो भवति। अतिशूरः संग्रामप्रियः।
तमोऽधिक इति । यस्तमोऽधिकस्तामसः पुरुषः स परेषां वञ्चयिता वञ्चनशीलो
मूर्खो जडः। अलस आलस्यसंसक्तः। क्रोधपरः क्रोधी। अतिनिद्रश्च भवति। सत्त्वरजस्तमोभि-
स्त्रिभिर्मिश्रैस्तु ते पुरुषा मिश्रा मिश्रगुणा भवन्ति। ते च गुणैः स्वभेदैः सह सप्त भवन्ति।
तद्यथा—सत्त्वं रजस्तम इति त्रयो भेदाः। सत्त्वरजसी रजस्तमसी सत्त्वतमसी त्रयः। सत्त्व-
रजस्तमसां त्रयाणां योगात्सप्तमः। एतद्राशिभेदवशात्सङ्कीर्णवशाच्च सम्भवति।।८-९।।
अथ मालव्यलक्षणमाह—
मालव्यो नागनासः समभुजयुगलो जानुसम्प्राप्तहस्तो
मांसैः पूर्णाङ्गसन्धिः समरुचिरतनुर्मध्यभागे कृशश्च।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पञ्चमनुष्यविभागाध्यायः २५१
पञ्चाष्टौ चोर्ध्वमास्यं श्रुतिविवरमपि त्र्यङ्गलोनं च तिर्यग्
दीप्ताक्षं सत्कपोलं समसितदशनं नातिमांसाधरोष्ठम् ॥१०॥
मालव्य पुरुष हाथी के समान नासिका वाला, तुल्य भुजा वाला, जानु तक लम्बे
हाथ वाला, पुष्ट अंगसन्धि वाला, समान सुन्दर शरीर वाला, कृश मध्य भाग वाला,
ठोढ़ी से शिर तक की तेरह अंगुल ऊँचाई वाला, ठोढ़ी से कान के छिद्र तक तिरछी दश
अंगुल ऊँचाई वाला, दीप्त मुख और नेत्र वाला, सुन्दर कपोल वाला, समान और
सफेद दाँत वाला तथा पतले अधर वाला होता है॥१०॥
मालव्यनामा शुक्रेण योऽसावुत्पद्यते योगस्तस्येदं लक्षणम्, यथा—स नरो नागनासो
नागो हस्ती नागस्येव नासा यस्य। दीर्घनास इत्यर्थः। समभुजयुगलः, समं तुल्यं भुज-
युगलं बाहुद्वयं यस्य। अथवा नागनासासमभुजयुगलः, नागनासासमं करिकरसदृशं बाहुद्वयं
यस्य सः। जानुसम्प्राप्तहस्त आजानुलम्बबाहुः। मांसैः पूर्णाङ्गसन्धिः, मांसैः परिपूर्णाः सर्वाङ्ग-
सन्धयो यस्य। अनुल्बणास्थिरित्यर्थः। समरुचिरतनुः समा तुल्या रुचिरा श्रेष्ठा तनुः शरीरं
यस्य। मध्यभागे कक्ष्याप्रदेशे कृशो दुर्बलः। पञ्चाष्टौ चोर्ध्वमास्यम्, पञ्च च अष्टौ च पञ्चाष्टौ
त्रयोदशाङ्गुलानि, ऊर्ध्वमास्यमूर्ध्वमानेनास्यं चिबुकाल्ललाटान्तं यावत् त्रयोदशाङ्गुलं भवति।
चिबुकाच्छ्रवणविवरं यावत् त्र्यङ्गलोनं तिर्यग् भवति। चिबुकमध्यात् कर्णविवरं यावत्
तिर्यक् कृत्वा दशाङ्गुलानि भवन्तीत्यर्थः। दीप्ताक्षं दीप्ते स्फुटे अक्षिणी यस्य। सत्कपोलं
शोभनकपोलम्। समसितदशनं समास्तुल्याः सिताः श्वेता दशना दन्ता यस्य। नातिमांस-
लमधरमोष्ठं यस्य॥१०॥
अस्य च यथाविधिस্বরূপमाह—
मालवान् स भरुकच्छसुराष्ट्रान् लाटसिन्धुविषयप्रभृतींश्च।
विक्रमार्जितधनोऽवति राजा पारियात्रनिलयान् कृतबुद्धिः ॥११॥
मालव्य पुरुष मालव, मरु, कच्छ, सुराष्ट्र (सूरत), लाट, सिन्धु देश और पारियात्र
पर्वतवासियों की रक्षा करने वाला, अपने पराक्रम से धन कमाने वाला तथा सुन्दर बुद्धि
वाला राजा होता है॥११॥
मालवान् जनान्। भरुकच्छान् जनानेव। सुराष्ट्रान् जनान्। लाटदेशः प्रसिद्धः। सिन्धु-
विषयः प्रसिद्ध एव। एतत्प्रभृतींश्च देशानवति रक्षति। कीदृशः ? विक्रमार्जितधनो विक्रमेण
प्रतापेनार्जितं धनं वित्तं येन तथाभूतः। स राजा पारियात्रनिलयान् पारियात्रः पर्वतस्तत्र
कृतं निलयं गृहं यैस्तान्। कृतबुद्धिः शोभनमतिः सन्नवति॥११॥
अन्यदप्याह—
सप्ततिवर्षो मालव्योऽयं त्यक्ष्यति सम्यक् प्राणांस्तीर्थे।
लक्षणमेतत् सम्यक् प्रोक्तं शेषनराणां चातो वक्ष्ये ॥१२॥
मालव्य पुरुष की आयु सत्तर वर्ष की होती है और वह तीर्थस्थान पर प्राण छोड़ता
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२५२ बृहत्संहिता
है। इस तरह मालव्य पुरुष के अच्छी तरह लक्षण कहकर शेष भद्र आदि पुरुषों का
लक्षण कहता हूँ।।१२।।
अयं मालव्यः सप्ततिवर्षः सप्ततिवर्षाणां जीवितपरिमाणं तस्य भवति। तीर्थेषु पुण्य-
स्थानेषु सम्यक् तपसा प्राणान्सूँस्त्यक्ष्यति। म्रियत इति। एतत् सम्यक् मालव्यस्य लक्षणं
प्रोक्तं कथितम्। शेषनराणां भद्रादीनां चातोऽनन्तरं वक्ष्ये कथयिष्ये। तथा च सारावल्याम्—
न स्थूलोष्ठो न विषमवपुर्नातिरिक्ताङ्गसन्धि-
र्मध्यक्षामः शशधररुचिर्हस्तिनासः सुगण्डः।
सन्दीप्ताक्षः समसितरदो जानुदेशाप्तबाहु-
र्मलव्योऽयं विलसति नृपः सप्ततिर्वत्सराणाम्।।
वक्त्रं त्रयोदशमितानि तथाङ्गुलानि
दैर्येण · कर्णविवराद् दश विस्तरेण।
मालव्यसंज्ञमनुजः स भुनक्ति नूनं
लाटं समालवससिन्धुसपारियात्रम्।। इति।
इति मालव्यः।।१२।।
अथ भद्रलक्षणमाह—
उपचितसमवृत्तलम्बबाहुर्भुजयुगलप्रमितः समुच्छ्रयोऽस्य।
मृदुतनुघनररोमनद्धगण्डो भवति नरः खलु लक्षणेन भद्रः ।।१३।।
भद्र पुरुष पुष्ट, बराबर, गोल और लम्बे बाहु वाला, भुजाओं को फैलाने से जितनी
चौड़ाई हो, उतनी ऊँचाई वाला तथा कोमल, सूक्ष्म और घने रोमों से युत कपोल वाला
होता है।।१३।।
अयं भद्रनामा बुधेन योऽसावुत्पद्यते योगस्तस्येदं रूपं भवति। उपचितौ मांसलौ
समौ तुल्यौ वृत्तौ परिवर्तुलौ लम्बौ दीर्घौ बाहू यस्य। अस्य भद्रस्य भुजयुगलप्रमितः
समुच्छ्रयो भवति। यावदस्य प्रसाधितभुजद्वयस्य प्रमाणं तावदप्युच्छ्रायप्रमाणं भवति।
मृदुतनुघनररोमनद्धगण्डः, मृदुभिः कोमलैस्तनुभिः सूक्ष्मैः घनैः सन्ततै रोमभिर्नद्धौ संयुक्तौ
गण्डौ मुखगण्डौ यस्य। तथाभूतो नरः। लक्षणेन बुधाख्येन योगेन भद्रसंज्ञो भवति।
खल्वित्यव्ययं वाक्यालङ्कारे।।१३।।
अन्यदपि लक्षणं श्लोकद्वयेनाह—
त्वक्शुक्रसारः पृथुपीनवक्षाः सत्त्वाधिको व्याघ्रमुखः स्थिरश्च।
क्षमान्वितो धर्मपरः कृतज्ञो गजेन्द्रगामी बहुशास्त्रवेत्ता ।।१४।।
प्राज्ञो वपुष्मान् सुललाटशङ्खः कलास्वभिज्ञो धृतिमान् सुकुक्षिः।
सरोजगर्भद्युतिपाणिपादो योगी सुनासः समसंहतभ्रूः ।।१५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पञ्चमनुष्यविभागाध्यायः २५३
सुन्दर त्वचा से युत, बहुत गाढ़े वीर्य वाला, विस्तीर्ण और पुष्ट छाती वाला,
अधिक सत्त्व गुण वाला, बाघ के समान मुख वाला, स्थिर स्वभाव वाला, शान्तिशील,
धर्मात्मा, कृतज्ञ, हाथी के समान गति वाला, बहुत शास्त्रों का ज्ञाता, सुन्दर शरीर वाला,
सुन्दर ललाट और शंख वाला, कलाओं को जानने वाला, धीर, सुन्दर पेट वाला,
कमलगर्भ से समान हाथ और पाँव वाला, योगी, सुन्दर नासिका वाला तथा समान और
मिले हुये भुजाओं से युत भद्र पुरुष होता है॥१४-१५॥
त्वक्शुक्रसार इति। त्वक्सारः शोभनत्वक्। शुक्रसारौ बहुगुरुशुक्रः। पृथूपीनवक्षाः,
पृथु विस्तीर्णं पीनं मांसलं वक्षो यस्य सः। सत्त्वाधिकः। सत्त्वशब्दो गुणवाची। सुख-
शब्दैरभिभूत इत्यर्थः। व्याघ्रमुखो व्याघ्रस्येव मुखं यस्य स व्याघ्रमुखः। स्थिर एकमतिः।
क्षमान्वितः क्षमायुक्तः। धर्मपरो धर्मानुरतः। कृतज्ञः कृतं जानाति। गजेन्द्रगामी गजेन्द्रो
हस्तिप्रधान इव गच्छति। बहुशास्त्रवेत्ता बहूनां शास्त्राणामभिज्ञः।
प्राज्ञ इति। प्राज्ञो मेधावी। वपुष्मान् शोभनशरीरः। सुललाटशङ्खः शोभनं ललाटं
शङ्खौ च यस्य। कलासु गीतनृत्यवाद्येष्वभिज्ञः। आभिमुख्येन जानाति। धृतिमान् धैर्ययुक्तः।
सुकुक्षिः शोभनकुक्षिः। सरोजं पद्मं तस्य गर्भोऽभ्यन्तरम्। सरोजगर्भस्य द्युतिः कान्तिस्तुल्या
तत्सदृशी पाणिपादयोः करचरणयोर्द्युतिर्यस्य। योगी योगज्ञः। सुनासः शोभननासः। सम-
संहतभ्रूः समे तुल्ये संहते संलग्ने भ्रुवौ यस्येति॥१४-१५॥
अन्यदपि विशेषलक्षणमाह—
नवाम्बुसिक्तावनिपत्रकुङ्कुमद्विपेन्द्रदानागुरुतुल्यगन्धता।
शिरोरुहाश्चैकजकृष्णकुञ्चितास्तुरङ्गनागोपमगुह्यगूढता ॥१६॥
भद्र पुरुष के शरीर में नवीन जल से सिंची हुई भूमि की गन्ध के समान, गन्धपत्र,
कुङ्कुम, हाथी का मद या अगर के समान गन्ध होती है। उसके शिर के एक-एक
रोमकूप में काले और एक-एक बाल होते हैं तथा घोड़ा या हाथी के समान छिपा हुआ
उसका लिंग होता है॥१६॥
नवेनाम्बुना जलेन सिक्ता याऽवनिर्भूमिस्तस्यां यादृशो गन्धः। पत्रं गन्धपत्रम्। कुङ्कुमं
प्रसिद्धम्। द्विपेन्द्रदानं हस्तिमदः। अगुरुः प्रसिद्धः सुगन्धद्रव्यम्, एषां तुल्यगन्धता सदृश-
गन्धता। शिरोरुहाश्चैकजकृष्णकुञ्चितास्तुरङ्गनागोपमगुह्यगूढता इति। शिरोरुहाः
केशास्ते चैकजाः, एकैकस्मिन् रोमकूपे जाताः। कृष्णकुञ्चिता असितकुटिलाः। तुरङ्गो-
ऽश्वः। नागो हस्ती। गुह्यं लिङ्गम्। तुरङ्गनागोपमा तत्सदृशीगुह्ये गूढताऽस्य भवति। प्रच्छन्न-
लिङ्गो भवतीत्यर्थः॥१६॥
अन्यच्च रेखालक्षणमाह—
हलमुशलगदासिशङ्खचक्र-
द्विपमकराब्जरथाङ्किताङ्घ्रिहस्तः । ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२५४ बृहत्संहिता
विभवमपि जनोऽस्य बोभुजीति
क्षमति हि न स्वजनं स्वतन्त्रबुद्धिः ॥१७॥
भद्र पुरुष के हाथ में हल, मूसल, गदा, खड्ग, शंख, चक्र, हाथी, मकर, कमल
और रथ के समान रेखा होती है। इसकी सम्पत्ति को अन्य मनुष्य भी खूब भोगते हैं
तथा यह बन्धुओं के लिये क्षमारहित और स्वतन्त्र बुद्धि वाला होता है।।१७।।
हलं लाङ्गलम्। मुशल आयुधविशेषो मुशलाकारः। गदा प्रसिद्धा। असिः खड्गः।
शङ्खः प्रसिद्धः। चक्रमायुधं प्रसिद्धम्। द्विपो हस्ती। मकरः प्राणिविशेषो जलजः। अब्जं
पद्मम्। रथः प्रसिद्धः। एतैर्हलादिभिरङ्कितौ चाङ्घ्रिहस्तौ पादपाणी यस्य। तदाकाराभी
रेखाभिश्चिह्नितौ पादहस्तौ भवेतामित्यर्थः। अस्य भद्रस्य विभवमैश्वर्यं जनो लोको बोभु-
जीति अत्यर्थं भुङ्क्ते। स्वजनं बन्धुजनं प्रति न क्षमति न सहते। तं प्रति क्षमाशीलो न भवति।
स्वतन्त्रबुद्धिः, स्वतन्त्रा नापरतन्त्रा बुद्धिर्धीर्यस्येति। स्वाधीनबुद्धिरिति।।१७।।
मानलक्षणमाह—
अङ्गुलानि नवतिश्च षडूनान्युच्छ्रयेण तुलयापि हि भारः।
मध्यदेशनृपतिर्यदि पुष्टास्त्र्यादयोऽस्य सकलावनिनाथः ॥१८॥
भद्र पुरुष चौरासी अंगुल ऊँचा, एक तुला भार वाला और मध्य देश का राजा होता
है। यदि इसकी एक सौ पाँच अंगुल व्यायाम हो तो चक्रवर्त्ती राजा होता है।।१८।।
उच्छ्रयेणौच्च्येन षडूनानि नवतिरङ्गुलानि भवन्ति। चतुरशीतिरङ्गुलान्युच्छ्रितानि भवन्ती-
त्यर्थः। तुलयापि हि भारः। पलसहस्रद्वयमित्यर्थः। स च मध्यदेशनृपतिर्मध्यदेशे राजा भवति।
यद्यस्य त्र्यादयोऽङ्गुलानि पुष्टाः। त्रिग्रहणेनाङ्गुलानि ज्ञापयति। तदुक्तमादौ शशकरुचकभद्र-
मालव्यसंज्ञिताख्यङ्गुलविवृद्ध्येति। यदि पञ्चोत्तरमङ्गुलशतं व्यायामेन दैर्घ्येण च भवति,
तदा सकलावनिनाथः सार्वभौमो राजा भवतीत्यर्थः।।१८।।
अन्यच्च वयोलक्षणमाह—
भुक्त्वा सम्यग्वसुधां शौर्येणोपार्जितामशीत्यब्दः।
तीर्थे प्राणांस्त्यक्त्वा भद्रो देवालयं याति ॥१९॥
भद्र पुरुष अपने पराक्रम से उपार्जित पृथ्वी को अच्छी तरह भोग कर अस्सी वर्ष
की अवस्था में तीर्थस्थान पर प्राण छोड़ कर स्वर्ग जाता है।।१९।।
सम्यग् वसुधां भूमिं शौर्येण बलेनोपार्जितां भुक्त्वा। अशीतिरब्दानां जीवितप्रमाणे-
र्यस्यासावशीत्यब्दः। तीर्थे पुण्यस्थाने। प्राणानसून त्यक्त्वा भद्रो देवालयं स्वर्गं याति
गच्छति। तथा च सारावल्याम्—
शार्दूलप्रतिमाननो द्विपगतिः पीनोरुवक्षःस्थलो
लम्बापीनसुवृत्तबाहुयुगलस्तत्तुल्यमानोच्छ्रयः ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पञ्चमनुष्यविभागाध्यायः २५७
कामी कोमलसूक्ष्मरोमनिकरैः संरुद्धगण्डः शठः
प्राज्ञः पङ्कजगर्भपाणिचरणः सत्त्वाधिको योगवित् ।।
शङ्खासिकुञ्जरगदाकुमुदेषु केतुचक्राब्जलाङ्गलविचिह्नितपाणिपादः ।
पत्रागुरुद्विपमदप्रथमाम्बुसिक्तमृत्कुङ्कुमप्रतिमगन्धतनुः सुघोणः ।।
शास्त्रार्थविद्धृतियुतः समसंहतभ्रूर्नागोपमो भवति चापि निगूढगुह्यः ।
सत्कुक्षिधर्मनिरतः सुललाटशङ्खो धीरः स्थिरस्त्वसितकुञ्चितकेशपाशः ।।
स्वतन्त्रः सर्वकार्येषु स्वजनं प्रति न क्षमः ।
भुज्यते विभवश्चास्य नित्यं बन्धुजनैः परैः ।।
भारस्तुलायास्तुलितो यदि स्यात् श्रीकान्यकुब्जाधिपतिस्तदासौ ।
यस्त्र्यादिपुष्टैः सहितैः स भद्रः सर्वत्र राजा शरदमशीतिम् ।। इति ।। १९ ।।
अथ शशलक्षणमाह—
ईषद्दन्तुरकस्तनुद्विजनखः कोशेक्षणः शीघ्रगो
विद्याधातुवणिक्क्रियासु निरतः सम्पूर्णगण्डः शठः ।
सेनानीः प्रियमैथुनः परजनस्त्रीसक्तचित्तश्चलः
शूरो मातृहितो वनाचलनदीदुर्गेषु सक्तः शशः ।। २० ।।
कुछ ऊँचे दाँत वाला, छोटे दाँत और नख वाला, पुष्ट नेत्रकोश वाला, शीघ्रगामी,
विद्या और धातुओं के व्यापारक्रिया में आसक्त, पुष्ट कपोल वाला, शठ, सेनापति, मैथुनप्रिय,
परस्त्री में आसक्त, शूर, माता का भक्त तथा वन, पर्वत, नदी और दुर्गों में आसक्त शश
पुरुष होता है ।। २० ।।
अथ सौरेण रविसुतेन योऽसौ योग उत्पद्यते स चेत्थंरूपो भवति—शशाख्यः । ईषत्
किञ्चित् दन्तुरकः । दन्ता उन्नता यस्य । तनुद्विजनखः, तनवः अवरा द्विजा दन्ता नखाः
कररुहाश्च यस्य । कोशेक्षणो विपुलपुटेक्षणः । शीघ्रगः शीघ्रगामी । विद्यासु मनःशिलागैरिकादिषु
धातुषु वणिक्क्रियासु क्रयविक्रयेषु निरतः सक्तः । सम्पूर्णगण्डः समांसलमुखगण्डः । शठः
परकार्ये विमुखः । सेनानीः सेनां नयति । प्रियमैथुनो मैथुनप्रियः । परजनस्त्रीसक्तचितः
परजनानां सम्बन्धिन्यो याः स्त्रियस्तासु सक्तं चित्तं यस्य । चलोऽस्थिरमतिः । शूरः संग्रामप्रियः ।
मातृहितो जननीभक्तः । वनाचलनदीदुर्गेषु सक्तः, वनेष्वरण्येषु, अचलेषु पर्वतेषु, नदीषु
सरित्सु, दुर्गेषु दुर्गादिषु सक्तोऽनुरक्तो भवति ।। २० ।।
अन्यच्च मानलक्षणमाह—
दीर्घोऽङ्गुलानां शतमष्टहीनं साशङ्कचेष्टः पररन्ध्रविच्च ।
सारोऽस्य मज्जा निभृतप्रचारः शशो ह्यतो नातिगुरुः प्रदिष्टः ।। २१ ।।
शश पुरुष बानबे अंगुल ऊँचा, सब कार्यों में शङ्कायुक्त, परछिद्रान्वेषी, मज्जासार,
स्थिर गति और अधिक स्थूलता से रहित होता है ।। २१ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
' (i-matra going left)?
Wait, look at 'ती': does it have an 'ी' (long i)?
Yes, look at the curve over the top going to the right!
Wait, does it have a visarga?
No visarga visible after ती! It is "बहुविधमती"!
Wait, let's check meter:
ब (1) हु (1) वि (1) ध (1) म (1) ती (2) -> 1 1 1 1 1 2, then रन् (2) ध्र (1) वे (2) दी (2) प (1) रे (2) षाम् (2) = 17 syllables!
Yes, in Mandakranta, position 5-10 must be 1 1 1 1 1 2.
म-ध्ये क्षा-मो (2 2 2 2)
ब-हु-वि-ध-म-ती (1 1 1 1 1 2)
रन्-ध्र-वे-दी प-रे-षाम् (2 1 2 2 1 2 2)
So it MUST be "बहुविधमती" (with long ती to make it guru/heavy = 2)!
That's why it is "बहुविधमती", perfectly fitting the meter!
Line 31:
पर्यङ्कश्शङ्खफरशभृदङ्गमाला-
पञ्चमनुष्यविभागाध्यायः २५७
वर्षाणि सप्ततिमितानि करोति राज्यं
प्रात्यन्तिकः क्षितिपतिः कथितो मुनीन्द्रैः ।।
इति शशः ।।२३।।
अधुना हंसलक्षणमाह—
रक्तं पीनकपोलमुन्नतनासं वक्त्रं सुवर्णोपमं
वृत्तं चास्य शिरोऽक्षिणी मधुनिभे सर्वे च रक्ता नखाः ।
स्रग्दामाङ्कुशशङ्खमत्स्ययुगलक्रत्वङ्गकुम्भाम्बुजै-
श्चिह्नैर्हंसकलस्वनः सुचरणो हंसः प्रसन्नेन्द्रियः ।।२४।।
लाल मुख वाला, पुष्ट कपोल वाला, ऊँची नासिका वाला, सुवर्ण के समान
कान्ति वाला, गोल शिर वाला, शहद के समान आँख वाला, रक्त नखों से युत, माला,
अंकुश, शंख, मत्स्ययुगल, यज्ञाङ्ग ( वेदी-स्रुव आदि ), कलश या कमल के समान
रेखा से युत हाथ-पाँव वाला, हंस के समान मधुर स्वर वाला, सुन्दर पाँव वाला और
निर्मल इन्द्रिय वाला हंस पुरुष होता है ।।२४।।
जीवेन गुरुणा सह योऽसौ योगो हंसाख्यः समुत्पद्यते तस्येत्यंरूपम्। अस्य हंसस्य
वक्त्रं मुखं रक्तवर्णम्। पीनकपोलं समांसलं मुखगण्डम्। उन्नतनसमुन्नतनासिकम्। सुवर्णोपमं
कनकसदृशं मुखं भवति। वृत्तं परिवर्तुलं शिरः। अक्षिणी चक्षुषी मधुनिभे मधुसदृशे
भवतः। नखाः कररुहाः सर्वे रक्ता रक्तवर्णाः। स्रग्दामो माला। अङ्कुशः प्रसिद्धः। शङ्खः
प्रसिद्ध एव। मत्स्ययुगलं मीनयुग्मम्। क्रत्वङ्गं यज्ञाङ्गं वेदीस्रुवादि। कुम्भोऽम्बुकलशः।
अम्बुजं पद्मम्। एतैश्चिह्नैश्चिह्नितः। हंसकलस्वनो हंसस्येव कलो मधुरः स्वनः शब्दो यस्य।
सुचरणः शोभनपादः। हंसः प्रसन्नेन्द्रियः प्रसन्नानि निर्मलानि इन्द्रियाणि वाक्पाणिपादपायूपस्थानि
यस्य ।।२४।।
अन्यच्चास्य मानलक्षणमाह—
रतिरम्भसि शुक्रसारता द्विगुणा चाष्टशतैः पलैर्मितिः ।
परिमाणमथास्य षड्युता नवतिः सम्परिकीर्तिता बुधैः ।।२५।।
हंस पुरुष को जल में स्नेह और शुक्रसार होता है तथा इसकी ऊँचाई छियानबे
अंगुल होती है ।।२५।।
अम्भसि जलमध्ये रतिरस्य भवति। शुक्रसारता शुक्राधिकत्वम्। पलैरष्टशती द्विगुणा
षोडशशतानि मितिर्मानम्। अथानन्तरं बुधैः पण्डितैरस्य हंसस्य षड्युता नवतिः षण्ण-
वतिरङ्गुलानां परिमाणं पृथुत्वमौच्च्यं चोक्तं कथितम् ।।२५।।
अन्यदस्य वयोज्ञानादिकमाह—
भुनक्ति हंसः खसशूरसेनान् गान्धारगङ्गायमुनान्तरालम् ।
शतं दशोनं शरदां नृपत्वं कृत्वा वनान्ते समुपैति मृत्युम् ।।२६।।
बृ० भ० द्वि०-१७
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२५८ बृहत्संहिता
नेपाल, शूरसेन, गान्धार, गंगा और यमुना के मध्य का देश-इन देशों का हंस
पुरुष भोग करता है तथा नब्बे वर्ष तक राज्य का भोग करके वन के समीप में ही मृत्यु
को प्राप्त होता है॥२६॥
हंस खसान् शूरसेनान् गान्धारानेतान् सर्वानैव जनान् गङ्गायमुनान्तरालमन्तर्वेदीमित्यर्थः।
एतान् सर्वान् भुनक्ति। शरदां वर्षाणां दशोनं शतं नवतिवर्षाणि नृपत्वं राज्यं कृत्वा वनान्ते
वनसमीपे मृत्युं मरणमुपैति प्राप्नोति। तथा च सारावल्याम्—
रक्ताभ्युन्नतनासिकः सुचरणो हंसः प्रसन्नेन्द्रियो
गौरः पीनकपोलरक्तकरजो हंसस्वरः श्लेष्मलः।
शङ्खाब्जाङ्कुशदाममत्स्ययुगलैर्निस्त्रिंशमालाघटै-
श्चिह्नैः पादकराङ्कितो मधुनिभे नेत्रे च वृत्तं शिरः॥
सलिलाशयेषु रमते स्त्रीषु न तृप्तिं प्रयाति कामार्तः।
षोडशशतानि तुलितोऽङ्गुलानि दैर्घ्येण षण्णवतिः॥
पातीह देशांश्च स शूरसेनान् गान्धारगङ्गायमुनान्तरालम्।
जीवेन्नवघ्नीं दशवर्षसङ्ख्यां पश्चाद्वनान्ते समुपैति नाशम्॥ इति॥२६॥
अथ रुचकलक्षणमाह—
सुभ्रूकेशो रक्तश्यामः कम्बुग्रीवो व्यादीर्घास्यः ।
शूरः क्रूरः श्रेष्ठो मन्त्री चौरस्वामी व्यायामी च ॥२७॥
रुचक पुरुष सुन्दर भ्रू और केशों से युत, लालिमा लिये हुय श्याम वर्ण वाला,
शंख के समान कण्ठ वाला, लम्बा मुख वाला, शूर, क्रूर, श्रेष्ठ, मन्त्री, चोरों का स्वामी
और व्यायामी ( परिश्रमी ) होता है॥२७॥
कुजेन भौमेनायं रुचकाख्यो नाम योगः समुत्पद्यते। स त्वेतत्स्वरूपो रुचकः।
सुभ्रूकेशो भ्रुवः केशाश्च शोभना यस्य। रक्तश्यामः रक्तश्चासौ श्यामो रक्तश्यामः। कम्बुग्रीवो
वलित्रयचितग्रीवः। व्यादीर्घास्यः, विशेषेण दीर्घमास्यं मुखं यस्य। शूरः संग्रामप्रियः।
क्रूर उग्रस्वभावः। श्रेष्ठः प्रधानः। मन्त्री मन्त्रज्ञः। अथवा मन्त्री सचिवः। चौरस्वामी तस्कर-
नाथः। व्यायामी श्रमपरः॥२७॥
अन्यदपि मानलक्षणमाह—
यन्मात्रमास्यं रुचकस्य दीर्घ मध्यप्रदेशे चतुरस्रता सा।
तनुच्छविः शोणितमांससारो हन्ता द्विषां साहससिद्धकार्यः ॥२८॥
रुचक पुरुष के मुख की लम्बाई के तुल्य उदर के मध्य भाग की चौड़ाई होती है।
साथ ही वह थोड़ी कान्ति वाला, शोणित और मांस में सार वाला, शत्रु का नाश करने
वाला और अपने साहस से कार्य को सिद्ध करने वाला होता है॥२८॥
रुचकस्य यन्मात्रमास्यं मुखं दीर्घ सा मध्यप्रदेशे उदरमध्ये चतुरस्रता विपुलत्वं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पञ्चमनुष्यविभागाध्यायः २५९
भवति। तनुच्छविः सूक्ष्मत्वक्। शोणितमांससारः—रक्तसारः, मांससारश्च। हन्ता द्विषाम्,
शत्रूणां हन्ता घातकः। साहससिद्धकार्यः, साहसेन सिद्धं कार्यं यस्य। असमीक्षितकार्यकरणत्वं
साहससिद्धत्वमिति।।२८।।
अन्यदपि करचरणयोश्चिह्नलक्षणमाह—
खट्वाङ्गवीणावृषचापवज्रशक्तीन्द्रशूलाङ्कितपाणिपादः ।
भक्तो गुरुब्राह्मणदेवतानां शताङ्गुलः स्यात्तु सहस्रमानः ॥२९॥
रुचक पुरुष के हाथ या पाँव में खट्वाङ्ग, वीणा, बैल, धनुष, वज्र, बर्छी, चन्द्र या
त्रिशूल के समान चिह्न होते हैं। यह गुरु, ब्राह्मण और देवताओं का भक्त, सौ अंगुल
ऊँचा और एक हजार पल शारीरिक भार वाला होता है।।२९।।
खट्वाया अङ्गं खट्वाङ्गम्। वीणा वल्लकी। वृषो दान्तः। चापं धनुः। वज्रमायुधम्।
शक्तिरप्यायुधमेव। इन्द्रः। शूलं त्रिशूलम्। एतैरङ्कितौ चिह्नितौ पाणिपादौ हस्तचरणौ
यस्य। गुरूणां ब्राह्मणानां देवतानां च भक्तः। शताङ्गुलः स्यात्, अङ्गुलानां शतं दैर्ध्येण
पृथुत्वेन च स्याद्भवेत्। सहस्रमानः, सहस्रं पलानां परिमाणं यस्य।।२९।।
अन्यच्च वयोज्ञानादिकमाह—
मन्त्राभिचारकुशलः कृशजानुजङ्घो
विन्ध्यं ससह्यगिरिमुज्जयिनीं च भुक्त्वा।
सम्प्राप्य सप्ततिसमा रुचको नरेन्द्रः
शस्त्रेण मृत्युमुपयात्यथवाऽनलेन ॥३०॥
रुचक पुरुष मन्त्र और अभिचार ( मारण, मोहन, वशीकरण, उच्चाटन और विद्वेषण )
में कुशल तथा कृश जानु और जंघा वाला होता है। यह विन्ध्याचल, सह्याचल और
उज्जयिनी में राज्य का भोग कर सत्तर वर्ष की आयु में शस्त्र या अग्नि से मृत्यु को प्राप्त
करता है।।३०।।
मन्त्रेषु कुशलः सक्तः। अभिचारेषु विद्वेषोच्चाटनवशीकरणमारणेषु कुशलः। कृशे
दुर्बले जानुनी जङ्घे च यस्य। विन्ध्यं गिरि विन्ध्यं पर्वतं ससह्यगिरिं सह्येन गिरिणा सहितम्।
उज्जयिनीं नगरीं च भुक्त्वा नरेन्द्रो राजा सप्ततिसमाः सप्ततिवर्षाणि सम्प्राप्य शस्त्रेणा-
युधेनानलेनाग्निना वा मृत्युं मरणमुपयाति प्राप्नोति। तथा च सारावल्याम्—
दीर्घास्यः स्वच्छकान्तिर्बहुरुचिचपलः साहसावाप्तकार्य-
श्चारुभ्रूर्नीलकेशः श्रमकरणरतो मन्त्रविच्चौरनाथः।
रक्तश्यामोऽतिशूरो रिपुबलमथनः शङ्खकण्ठः प्रधानः
क्रूरो भक्तो नराणां द्विजगुरुनिरतः क्षाममज्जोऽनुजङ्घः।।
खट्वाङ्गपाशवृषकार्मुकवज्रवीणाशक्त्यङ्कहस्तचरणश्च शताङ्गुलिश्च।
मन्त्राभिचारकुशलस्तुलया सहस्रं मध्यं च तस्य कथितं मुखदैर्घ्यतुल्यम्।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२६० बृहत्संहिता
विन्ध्याचलमस्तगिरीन् भुक्त्वाऽवन्तीं च सप्ततिं शरदाम् ।
शस्त्रानलकृतमृत्युं प्रयाति देवालयं रुचकः ॥
इति रुचकः ।।३०।।
अथ नृपानुकक्षलक्षणं व्याख्यायते। तत्रादावेव तत्प्रविभागमाह—
पञ्चापरे वामनको जघन्यः कुब्जोऽथवा मण्डलकोऽथ साची।
पूर्वोक्तभूपानुचरा भवन्ति सङ्कीर्णसंज्ञः शृणु लक्षणैस्तान् ॥३१॥
पूर्वोक्त पाँच महापुरुषों के अतिरिक्त उनके अनुचररूप संकीर्ण संज्ञक वामनक,
जघन्य, कुब्ज, मण्डलक, साची—ये पाँच पुरुष होते हैं। अब इनके लक्षणों को कहता
हूँ; उसका श्रवण करो।।३१।।
अतोऽस्मात् पञ्चयोगकादपरेऽन्ये वामनकादय एषामेव भूपानामनुचरा भवन्ति।
तद्यथा—वामनको जघन्यः कुब्जः। अथवेति। अथशब्द आनन्तर्ये, वाशब्दश्चार्थे। मण्डलकः,
अथ साची। एते पूर्वोक्तानां पञ्चानां भूपानामनुचरा भवन्ति। पूर्वोक्ताः प्राक् कथिता ये
भूपा राजानो मालव्यादयः। एषामनुचराः सुहृदो भवन्ति ते सङ्कीर्णसंज्ञाः पुरुषाः। तांश्च लक्षणैः
शृणु।।३१।।
तत्र वामनकलक्षणमाह—
सम्पूर्णाङ्गो वामनो भग्नपृष्ठः किञ्चिच्चोरूमध्यकक्ष्यान्तरेषु।
ख्यातो राज्ञां ह्येष भद्रानुजीवी स्फीतो राजा वासुदेवस्य भक्तः॥३२॥
वामनक पुरुष सम्पूर्ण अवयवों से युत, टूटी हुई पीठ वाला, अविकसित ऊरु,
मध्य भाग और कक्ष्यान्तर वाला, प्रसिद्ध राजाओं के बीच में भद्र राजा का अनुजीवी,
धनी, स्फीत, राजा तथा विष्णु का भक्त होता है।।३२।।
वामनसंज्ञः सम्पूर्णाङ्गः परिपूर्णावयवः। भग्नपृष्ठो भग्नं पृष्ठं यस्य। ऊरुप्रदेशे मध्ये
मध्यभागे कक्ष्यान्तरेषु किञ्चिदीषद्भग्न एव किञ्चिदसम्पूर्णाङ्गः। राज्ञां पञ्चानां मध्ये एष
वामनको भद्रानुजीवी भवति। भद्रस्यानु पश्चाज्जीवति। ख्यातः कीर्तियुक्तश्च। स्फीत ईश्वरो
राजा भवति। स च वासुदेवस्य नारायणस्य च भक्तो भवति।।३२।।
अथ जघन्यलक्षणमाह—
मालव्यसेवी तु जघन्यनामा
खण्डेन्दुत्तुल्यश्रवणः सुसन्धिः।
शुक्रेण सारः पिशुनः कविश्च
रूक्षच्छविः स्थूलकराङ्गुलीकः ॥३३॥
क्रूरो धनी स्थूलमतिः प्रतीत-
स्ताम्रच्छविः स्यात् परिहासशीलः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
akrishna Bhat, or Sudhakar Dvivedi):
Dvivedi edition, verse 35:
"हंसासेवी नास्तिकोऽर्थैरुपैतो" or "हंसासेवी नास्तिकोऽर्थैरुपतो"?
Wait, in Sanskrit, "उपेतः" -> "उपेतो".
Wait, look at the text: it IS नास्तिकोऽर्थैरुपतो? No, there is clearly an 'े' on 'प'!
Wait, is it नास्तिकोऽर्थैरुपतो? No, let's look at the letters:
न ा स ् त ि क ो ऽ र ् थ ै र ु प ै त ो ?
Wait, look at the two slants: they are both on 'प'!
Wait! Let me zoom in to maximum:
Look at the danda after 'त':
Is there a slant on the danda of 'त'?
Look at the danda of 'त':
IT HAS NO SLANT!
The top of the danda of 'त' is FLAT! It just touches the shirorekha!
Wait! Look at the danda after 'त': it is just a vertical line!
Wait, then WHERE are the slants?
There are TWO slants over 'प'!
And what is over 'त'?
Wait, over 'त' there is NOTHING!
Wait, then what is '
२६२ बृहत्संहिता
लौकायतिकप्रायः। अर्थैरुपतोऽर्थसंयुक्तः। विद्वान् पण्डितः। शूरः संग्रामप्रियः। सूचकः
पिशुनः। स्याद् भवेत्। कृतज्ञः कृतं जानाति।
कलास्वभिज्ञ इति। कलासु गीतनृत्यवाद्येषु अभिज्ञ आभिमुख्येन जानाति। कलह-
प्रियश्च भवति। प्रभूतभृत्यो बहुभृत्यः। प्रमदाजितश्च स्त्रीभिर्निर्जितः। लोकं जनम्, सम्पूज्यार्च-
यित्वा अकस्मादेव प्रजहाति त्यजति। अयं कुब्ज उक्तः कथितः सततोद्यतः सर्वकालमुत्साही
युगलकम्।।३५-३६।।
अथ मण्डलकलक्षणमाह श्लोकद्वयेन—
मण्डलकलक्षणमतो रुचकानुचरोऽभिचारवित् कुशलः।
कृत्यावेतालादिषु कर्मसु विद्यासु चानरतः।।३७।।
वृद्धाकारः खरपरुषमूर्धजश्च शत्रुनाशने कुशलः।
द्विजदेवयज्ञयोगप्रसक्तधीः स्त्रीजितो मतिमान्।।३८।।
मण्डलक नामक पुरुष रुचक राजा का सेवक, अभिचार (मारण, मोहन, उच्चाटन,
वशीकरण और विद्वेषण) का ज्ञाता, समर्थ, कृत्या (अभिचार मन्त्र के द्वारा शत्रुवध
के लिये अग्निमध्य से जो स्त्री उत्पन्न होती है, उसको कृत्या कहते हैं), वेताल (मरे
हुये को मन्त्र द्वारा उठाने को वेताल कहते हैं) आदि विद्याओं में सक्त, वृद्ध के समान
शरीर वाला, कठोर और रूखे केश वाला, शत्रु को मारने में कुशल, ब्राह्मण, देवता,
यज्ञ और योग में आसक्त बुद्धि वाला, स्त्रीजित एवं बुद्धिमान् होता है।।३७-३८।।
मण्डलकलक्षणमत इति। अतोऽस्मात् कुब्जादनन्तरं मण्डलकलक्षणं भवति।
स च कीदृक्? रुचकानुचरो रुचकस्यानुचरः। रुचकानुजीवी भवति। अभिचारविदभिचारज्ञः।
विद्वेषोच्चाटनवशीकरणेष्वभिज्ञः। कुशलः समर्थः। कृत्यावेतालादिषु अभिचारकैर्मन्त्रैः
शत्रुवधार्थमग्निमध्याद् या स्त्री उत्थाप्यते सा कृत्या। शवशरीरस्योत्कृष्टस्य मन्त्रैः पुनरु-
त्थापनं वेतालः। आदिग्रहणाद् यक्षभूतेषु कर्मसु तथा तद्विद्यासु चानुरतः सक्तः।
वृद्धाकारो वृद्धसदृशशरीरः। खरपरुषमूर्धजः खराः कठिनाः परुषा रूक्षा मूर्धजाः
केशा यस्य। शत्रुनाशने रिपूणां हनने कुशलः समर्थः। द्विजानां ब्राह्मणानां देवानां सुराणां
यज्ञानामश्वमेधादीनां तथा योगेषु सांख्यादिशास्त्रेषु प्रसक्ता धीर्बुद्धिर्यस्य। केचिद् द्विजदेव-
यज्ञदोहप्रसक्तधीरिरिति पठन्ति। अथवा यज्ञं दुहन्ति ये तेऽग्निहोत्रिणः। स्त्रीजितः स्त्रीभिः.
पराजितः। मतिमान् बुद्धिमानिति युगलकम्।।३७-३८।।
अथ साचिलक्षणम्—
साचीति यः सोऽतिविरूपदेहः शशानुगामी खलु दुर्भगश्च।
दाता महारम्भसमाप्तकार्यो गुणैः शशस्यैव भवेत् समानः।।३९।।
साचि पुरुष अति कुरूप, शश नामक राजा का सेवक, लोगों का अप्रिय, दानी,
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA
पञ्चमनुष्यविभागाध्यायः २६३
बड़े-बड़े कार्यों को प्रारम्भ करके समाप्त करने वाला और अपने गुणों से शश के
समान ही होता है।।३९।।
साचीति। यः साची नाम सोऽतिविरूपदेहोऽशोभनशरीरः। शशानुगामी शशस्यानुगामी
पश्चाद् गच्छति। शशानुचरः। खल्वित्यव्ययं वाक्यालङ्कारे। दुर्भगो जनानामवल्लभः। दाता
दानशीलः। महारम्भसमाप्तकार्यः, महारम्भान् करोति तेषु च समाप्तकार्योऽन्तगः। गुणैः
पूर्वोक्तैः शशस्येवं समानः सदृशस्तुल्यो भवेदित्यर्थः।।३९।।
अथ पुरुषलक्षणस्य प्रभावमाह—
पुरुषलक्षणमुक्तमिदं मया मुनिमतानि निरीक्ष्य समासतः।
इदमधीत्य नरो नृपसम्मतो भवति सर्वजनस्य च वल्लभः ॥४०॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां पञ्चमहापुरुषलक्षणं
नामैकोनसप्ततितमोऽध्यायः ॥६९॥
मुनियों के मतों को देखकर मैंने यह पुरुष-लक्षण कहा है। इसको जानकर मनुष्य
राजाओं का इष्ट और सब लोगों का प्रिय होता है।।४०।।
इति ‘विमला’हिन्दीटीकायां पञ्चमहापुरुषलक्षणाध्याय एकोनसप्ततितमः ॥६९॥
मुनिमतानि ऋषिप्रणीतानि शास्त्राणि निरीक्ष्यावलोक्य समासतः संक्षेपतो मयेदं
पुरुषलक्षणमुक्तं कथितम्। इदं च पुरुषलक्षणं नरः पुरुषोऽधीत्य ज्ञात्वा नृपसम्मतो राज्ञां
सम्मत इष्टो भवति। सर्वजनस्य च सर्वलोकस्य च वल्लभः प्रियो भवति। यतः पूर्व-
मेवाचार्येण द्वयं प्रतिज्ञातम्। यथा—
ज्यौतिषमागमशास्त्रं विप्रतिपत्तौ न योग्यमस्माकम्।
स्वयमेव विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये।।
इत्येवं विचार्य सर्वागमतः पुरुषलक्षणं कथितम्। तच्च चिन्तनीयमन्यदूह्यं चेति।।४०।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ पञ्चमहापुरुषलक्षणं
नामानुचरैः सहैकोनसप्ततितमोऽध्यायः ॥६९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ कन्यालक्षणाध्यायः
अथ कन्यालक्षणं व्याख्यायते। तत्रादावेव पादलक्षणम्—
स्निग्धोन्नताग्रतनुताम्रनखौ कुमार्याः
पादौ समोपचितचारुनिगूढगुल्फौ।
श्लिष्टाङ्गुली कमलकान्तितलौ च यस्या-
स्तामुद्वहेद् यदि भुवोऽधिपतित्वमिच्छेत् ॥१॥
जिस कन्या के पाँव स्निग्ध, ऊँचे, आगे से पतले और लाल नखों से युत, समान,
पुष्ट, सुन्दर और छिपे हुये गुल्फ वाले, मिली हुई अंगुली वाले तथा कमल की कान्ति
के समान कान्ति वाले हों; उससे पृथ्विपतित्व की कामना रखने वाले मनुष्य को विवाह
करना चाहिये॥१॥
यस्याः कुमार्याः कन्यकायाः। पादौ चरणौ। स्निग्धोन्नताग्रतनुताम्रनखौ स्निग्धौ सस्नेहा-
वुन्नतावुच्चौ कूर्मपृष्ठौ, अग्रे तनू ययोः। ताम्रनखौ रक्तवर्णौ नखौ ययोः। समोपचितचारु-
निगूढगुल्फौ समौ तुल्यावुपचितौ समांसलौ चारू दर्शनीयौ निगूढावनुल्बणौ गुल्फौ
ययोः। तथाश्लिष्टाङ्गुली श्लिष्टा घना अङ्गुल्यः पादशाखा ययोः। कमलकान्तितलौ कमलस्य
पद्मस्येव कान्तिस्तले ययोः। तथाभूतौ पादौ यदि भुवो भूम्या अधिपतित्वं राज्यमिच्छेत्
तदा तामुद्वहेत्॥१॥
पुनरपि पादजङ्घाजानूरुगुह्यमणीनां लक्षणमाह—
मत्स्याङ्कुशाब्जयववज्रहलासिचिह्ना-
वस्वेदनौ मृदुतलौ चरणौ प्रशस्तौ।
जङ्घे च रोमरहिते विशिरे सुवृत्ते
जानुद्वयं सममनुल्बणसन्धिदेशम् ॥२॥
ऊरू घनौ करिकरप्रतिमावरोमा-
वश्वत्थपत्रसदृशं विपुलं च गुह्यम्।
श्रोणीललाटमुरुकूर्मसमुन्नतं च
गूढो मणिश्च विपुलां श्रियमादधाति ॥३॥
जिस कन्या के पसीने से रहित कोमल पादतल में मत्स्य, अंकुश, कमल, जौ,
वज्र, हल और खड्ग के समान रेखा हो; रोमहीन नाड़ियों से रहित, सुन्दर और गोल
जङ्घा हो; स्थूल सन्धि वाले समान जानु हों; घने, हाथी के सूँड़ के समान और रोमरहित
ऊरु हो; पीपल के पत्ते के समान विस्तीर्ण भग हो; कछुये के पृष्ठ के समान विस्तीर्ण
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
कन्यालक्षणाध्यायः २६५
कटिप्रदेश हो और छिपी हुई मणि हो, वह बहुत लक्ष्मी प्रदान करती है॥२-३॥
मत्स्याङ्कुशाब्जेति । मत्स्यो मीनः। अङ्कुशः प्रसिद्धः। अब्जं पद्मम्, यवो यवाकारः,
वज्रमायुधम्। हलं लाङ्गलम्। असिः खड्गः। एतैश्चिह्नैश्चिह्नितौ चरणौ पादौ। तथाऽस्वेदनौ
स्वेदरहितौ। मृदुतलौ मृदुनी तले ययोस्तौ तथाभूतौ प्रशस्तौ। तथा च समुद्रः—
स्निग्धौ ताम्रनखौ धन्यौ कूर्मपृष्ठौ सुलोहितौ।
निगूढगुल्फौ सुश्लिष्टौ घनाङ्गुलिसमन्वितौ॥
मत्स्याङ्कुशयवाब्जेषु हलवज्रासिचिह्नितौ।
सुस्पृशौ रोमरहितौ कुमार्याश्चरणौ शुभौ॥
अतो विपर्य्यस्तगुणौ दुःखदारिद्र्यभागिनौ।
यस्याः पादौ नतौ कन्यामुद्वहेन्न कदाचन॥
जङ्घे च रोमरहिते इति । जङ्घे रोमरहिते रोमवर्जिते। विशिरे शिरारहिते। सुवृत्ते
परिवर्त्तुले। जानुयुगं जानुयुगलं समं तुल्यम्। अनुलब्णसन्धिदेशमस्थूलसन्धिदेशम्। सुश्लिष्टे
जानुनी यत्र।
ऊरू घनाविति । ऊरू घनौ सन्ततौ करिकरप्रतिमौ गजहस्तसदृशौ। अरोमौ रोम-
वर्जितौ। गुह्यं भगम्, अश्वत्थपत्रसदृशम्, अश्वत्थवृक्षपत्राकारम्, विपुलं विस्तीर्णम्। श्रोण्या
ललाटं श्रोणीललाटम्। तच्चोरु विस्तीर्णम्। कूर्मसमुन्नतं कूर्मवदुच्चं कूर्मपृष्ठाकारम्।
मणिश्च निगूढोऽदृश्यमानो विपुलां विस्तीर्णां श्रियं लक्ष्मीमादधाति करोति। तथा च समुद्रः—
जङ्घे तु रोमरहिते शिराहीने सुवर्त्तुले।
सुश्लिष्टे जानुनी धन्ये शिरारोमविवर्जिते॥
गजहस्तसमावूरू सम्पन्नौ सन्ततौ समौ।
सुस्पर्शं कूर्मपृष्ठं वा विपुलं जघनं शुभम्।
मणिनिर्गूढः सुश्लिष्टः स्फिचौ च विपुलौ शुभौ।
नाभिदेशः सुगुप्तश्च यस्याः सा धनभागिनी॥ इति॥२-३॥
अथ नितम्बनाभीलक्षणमाह—
विस्तीर्णमांसोपचितो नितम्बः गुरुश्च धत्ते रशनाकलापम्।
नाभिर्गभीरा विपुलाङ्गनानां प्रदक्षिणावर्तगता च शस्ता ॥४॥
जिन स्त्रियों के विस्तीर्ण, पुष्ट, भारी और काञ्चीकलाप से युत नितम्ब हों, गम्भीर,
विस्तीर्ण और दक्षिणावर्त्त नाभि हो, वे शुभ होती हैं॥४॥
नितम्बः कटिभागः, स च विस्तीर्णः पृथुलो मांसोपचितः समांसलः, गुरुश्च गौरवयुक्तो
रशनाकलापं धत्ते धारयति। रशनायाः कलापो रशनाकलापः। रशना मेखला, तस्याः कलापो
विस्तारः, तं धारयति। तथा च—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२६६ बृहत्संहिता
जघनं विपुलं यस्याः सुस्पर्शं रोमवर्जितम्।
सुवर्णाभरणैर्युक्ता सा भवेद्राज्यभागिनी।।
नाभिर्गभीरेति। अङ्गनानां स्त्रीणां नाभिर्गभीरा गम्भीरा, विपुला विस्तीर्णा, प्रदक्षिणा-
वर्तेन च गता प्रशस्ता धन्या। तथा च—
गम्भीरा विपुला नाभी दक्षिणावर्तमाश्रिता।
शस्ता विपर्यये नेष्टा वामावर्ता विशेषतः।। इति!।४।।
अथ मध्यस्तनोरुवक्षोग्रीवालक्षणमाह—
मध्यं स्त्रियास्त्रिवलिनाथमरोमशं च
वृत्तौ घनावविषमौ कठिनावुरस्यौ ।
रोमप्रवर्जितमुरो मृदु चाङ्गनानां
ग्रीवा च कम्बुनिचितार्थसुखानि दत्ते ॥५॥
जिस स्त्री का मध्यभाग त्रिवलि से युत और रोमरहित हो, गोल, पुष्ट, समान और
कठोर दोनों स्तन हों, रोमरहित और कोमल छाती हो तथा शङ्ख के समान तीन रेखाओं
से युत कण्ठ हो, वह धन और सुख प्रदान करती है।।५।।
स्त्रियो योषितो मध्यं मध्यभागं त्रिवलिनाथं त्रिवलिस्वामिनं वलित्रयोपविष्टं वलित्रय-
युक्तमित्यर्थः। अरोमशं रोमरहितम्। तथा च—
मध्यं वलित्रयचितं सुस्पर्शं रोमवर्जितम्।
यस्याः सा राजमहिषी कन्या नास्त्यत्र संशयः।।
वृत्तौ घनाविति। उरसि भवावुरस्यौ स्तनौ। वृत्तौ परिवर्तुलौ। घनौ सन्ततौ। अविष-
मावतुल्यौ। कठिनौ कर्कशौ। तथा च—
स्तनौ सुवर्तुलौ धन्यौ सन्ततौ कठिनौ तथा।
अरोमौ च शिराहीनौ पुत्रसौख्यधनप्रदौ।।
रोमप्रवर्जितमिति। अङ्गनानां स्त्रीणामुरो वक्षो रोमवर्जितं रोमरहितं मृदु सुस्पर्शं
च शुभम्। तथा च—
वक्षो विलोम सुस्पर्शं विस्तीर्णं पतिसौख्यदम्।
शिराततं च विषमं वैधव्यायासशोकदम्।।
ग्रीवा चेति। ग्रीवा शिरोधरा कम्बुनिचिता वलित्रयोपचिता। अर्थान् सुखानि च दत्ते
ददाति। तथा च गर्गः—
स्थिरा त्रिरेखा सुभगोपपन्ना स्निग्धा सुमांसोपचिता सुवृत्ता।
न चातिदीर्घा चतुरङ्गुला च ग्रीवा च दीर्घा भवतीह धन्या।। इति।।५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
कन्यालक्षणाध्यायः २६७
अथाधरदन्तलक्षणमाह—
बन्धुजीवकुसुमोपमोऽधरो मांसलो रुचिरबिम्बरूपभृत्।
कुन्दकुङ्म्लनिभाः समा द्विजा योषितां पतिसुखामितार्थदाः ॥६॥
बन्धुजीव पुष्प के समान और सुन्दर बिम्बफल के समान अधर तथा कुन्दपुष्प के
समान दाँत स्त्रियों को पतिसुख और बहुत धन देते हैं।।६।।
अधरोऽधरोष्ठो बन्धुजीवकुसुमोपमः, बन्धुजीवकुसुमसदृशोऽतिलोहित इत्यर्थः। मांसलो
मांसोपेतः। रुचिरबिम्बरूपभृद् रुचिरस्य दीप्तियुक्तस्य बिम्बस्य बिम्बफलस्य तुल्यं रूपं
बिभर्ति धारयति। तथा च—
अधरो बिम्बसङ्काशो मांसलोऽस्फुटितस्तथा।
यस्याः सा राजमहिषी कुमारी नात्र संशयः।।
कुन्दकुङ्मलेति। द्विजा दन्ताः कुन्दकुङ्मलनिभाः कुन्दः पुष्पविशेषः, तस्य कुङ्मलानि
कलिकाः, तन्निभास्तत्सदृशाः। समास्तुल्याः। योषितां स्त्रीणाम्। पतिसुखं भर्तृसुखम्। अमित-
मपरिमितं प्रभूतमर्थं धनं च ददति। तथा च गर्गः—
तीक्ष्णाग्रवृत्ताः सुसमा दृढाश्च शुभा मृणालेन्दुसमानवर्णाः।
निरन्तराः स्त्रीषु भवन्ति धन्या द्विजास्तथा ये रजतप्रकाशाः।।
तथा च समुद्रः—
द्वात्रिंशद्दशना यस्याः सर्वे गोक्षीरपाण्डुराः।
सर्वे शिखरिणः स्निग्धा राजभार्या च सा भवेत्।। इति।।६।।
अथ वदननासिकादृशां लक्षणमाह—
दाक्षिण्ययुक्तमशठं परपुष्टहंस-
वल्गु प्रभाषितमदीनमनल्पसौख्यम्।
नासा समा समपुटा रुचिरा प्रशस्ता
दृङ्नीलनीरजदलद्युतिहारिणी च ॥७॥
सरस, शठता से रहित, कोकिल या हंस के समान मधुर और दीनतारहित स्त्री का
वचन अधिक सुखद होता है। समान, समान पुटों से युत और सुन्दर स्त्री की नासिका
प्रशस्त होती है तथा नील कमल की कान्ति को हरण करने वाली स्त्री की दृष्टि शुभ
होती है।।७।।
प्रभाषितं वचनं दाक्षिण्ययुक्तमानुकूल्यसंयुक्तं सुरसम्। अशठं शठभावरहितम्। परपुष्टः
कोकिलः। हंसः पक्षिविशेषः। तत्सदृशं वल्गु रम्यम्। तथा चादीनं दैन्यरहितं यदि भवति
तदानल्पसौख्यं प्रभूतसौख्यम्। तथा च गर्गः—
२६८ बृहत्संहिता
हंसस्वना दुन्दुभिनेमिघोषा मेघस्वनाः शङ्खनिनादघोषाः।
मयूरचक्रप्रतिमस्वनाश्च स्त्रियस्तथा कोकिलतुल्यशब्दाः ।।
कादम्बचक्राह्वयकिङ्किणीषु समस्वना याश्च भवन्ति नार्यः।
सर्वाः प्रशस्ता धनपुत्रवत्यो भवन्ति धर्मानुरताः सदा ताः।।
नासा समेति । नासा नासिका समा स्पष्टा। समपुष्टा तुल्या नासापुटा। रुचिरा
सुकान्ता। प्रशस्ता शुभा। तथा च—
स्पष्टा समा समपुटा नासा सौभाग्यदा मता।
दृगिति । दृग्दृष्टिः, नीलनीरजदलद्युतिहारिणी, नीलं च तन्नीरजं नीलनीरजं नीलोत्पलम्,
तस्य दलं पत्रं तस्य द्युतिं कान्तिं हरति तच्छीला नीलनीरजद्युतिहारिणी प्रशस्ता। तथा च—
नीलनीरजपत्राभा दृष्टैर्यस्या भवेत् सदा।
सा राजमहिषी ज्ञेया ज्योतिःशास्त्रविशारदैः।। इति।।७।।
अधुना भ्रूललाटलक्षणमाह—
नो सङ्गते नातिपृथू न लम्बे शस्ते भ्रुवौ बालशशाङ्कवक्रे।
अर्धेन्दुसंस्थानमरोमशं च शस्तं ललाटं न नतं न तुङ्गम् ।।८।।
विना मिले, न बहुत चौड़े, न बहुत लम्बे और बाल चन्द्र के समान वक्र स्त्री के भ्रू
शुभ होते हैं तथा अर्धचन्द्र के समान, रोमरहित और न नत-न उन्नत ( समान ) स्त्री का
ललाट शुभ होता है।।८।।
भ्रुवौ नो सङ्गते न श्लिष्टे। नातिपृथू विस्तीर्णे। न लम्बे नातिसङ्गते। बालशशाङ्कवक्रे।
शशाङ्के चन्द्रे बालो यः शशाङ्कश्चन्द्रो द्वितीयायां तिथौ तद्वद्वक्रे कुटिले शस्ते। तथा च—
बालचन्द्रसमे वक्रे न लम्बे नातिसङ्गते।
भ्रुवौ यस्याः कुमार्यास्तां महाराज्ञीं विनिर्दिशेत्।।
अर्धेन्दुसंस्थानमिति । ललाटं मुखपृष्ठमर्धेन्दुसंस्थानमर्धचन्द्राकारमरोमशं रोमरहितम्
न नतं न निम्नं न तुङ्गं नोच्चम्। समं शस्तं प्रशस्तमित्यर्थः। तथा च—
नोन्नतं न च निम्नं वा शिरो रोमविवर्जितम्।
अर्धचन्द्राकृतिं सौम्यं ललाटं शस्यते स्त्रियाः।। इति।।८।।
अथ कर्णकेशशिरोलक्षणमाह—
कर्णयुग्ममपि युक्तमांसलं शस्यते मृदु समाहितं समम् ।
स्निग्धनीलमृदुकुञ्चितैकजा मूर्धजाः सुखकराः समं शिरः ॥९॥
स्त्री के अल्प मांसयुत, कोमल, समान और संलग्न दोनों कान शुभ होते हैं।
स्निग्ध, अतिकृष्ण, कोमल, कुटिल और एक रोमकूप में एक रोम सुख देने वाले होते
हैं तथा समान ( न नीचा, न ऊँचा ) शिर शुभ होता है।।९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
कन्यालक्षणाध्यायः २६९
कर्णयुग्मं श्रोत्रद्वयमपि युक्तमांसलं न निर्मांसमित्यर्थः। मृदु कोमलं समं तुल्यं
समाहितं संलग्नं शस्यते स्तूयते। तथा च—
नातिलम्बौ मृदू तुल्यौ संलग्नौ युक्तमांसलौ।
कर्णौ यस्याः स्मृता सा तु राजभार्या न संशयः।।
स्निग्धेति। मूर्धजाः केशाः स्निग्धा निर्मला नीला अतिकृष्णवर्णाः। मृदवः कोमलाः
कुञ्चिताः कुटिलाः। एकजा एकरोमकूपे भवाः। सुखकराः सुखं कुर्वन्ति। तथा च—
सुस्निग्धा नीलवर्णाश्च मृदवः कुञ्चिताः कचाः।
शस्यन्ते योषितो नित्यं धनपुत्रप्रदा यतः।।
समं शिरः, शिरः समं न निम्नं नोन्नतं सुखकरमेव। तथा च—
नोन्नतं नाथवा निम्नं शिरः सौख्यप्रदं स्मृतम्।। इति।।९।।
अथ हस्तपादयोर्लक्षणमाह—
भृङ्गारासनवाजिकुञ्जररथश्रीवृक्षयूपेषुभि-
र्मालाकुण्डलचामराङ्कुशयवैः शैलैर्ध्वजैस्तोरणैः।
मत्स्यस्वस्तिकवेदिकाव्यजनकैः शङ्खातपत्राम्बुजैः
पादे पाणितलेऽथवा युवतयो गच्छन्ति राज्ञीपदम् ॥१०॥
जिस स्त्री के पादतल या पाणितल में भृङ्गार (झारी), आसन, घोड़ा, हाथी, रथ,
बिल्ववृक्ष, यज्ञस्तम्भ, शर, माला, कुण्डल, चामर, अंकुश, जौ, पर्वत, ध्वज, तोरण,
मत्स्य, स्वस्तिक, यज्ञवेदी, पंखा, शंख, छत्र और कमल के समान रेखायें हों, वह रानी
होती है।।१०।।
भृङ्गारो जलभाण्डं प्रसिद्धम्। आसनं पीठम्। वाजी तुरगः। कुञ्जरो हस्ती। रथः
प्रसिद्धः। श्रीवृक्षो बिल्वः। यूपो यज्ञयूपः। इषुः शरः। एतैश्चिह्नः। तथा माला स्रक्।
कुण्डलं कर्णाभरणम्। चामरं बालव्यजनम्। अङ्कुशः प्रसिद्धः। यवो यवाकारः। एतैरपि।
शैलः पर्वततः। ध्वजः पताकारूपो बहुपटनिर्मितः। तोरणं प्रसिद्धम्। एतैरपि। तथा मत्स्यो
मीनः। स्वस्तिकश्चिह्नविशेषः। वेदिका वेदी चतुरस्रा मध्यक्षामा। व्यजनकं तालवृन्तम्।
एतैरपि। शङ्खः प्रसिद्धः। आतपत्रं छत्रम्। अम्बुजं पद्मः। एतैर्भृङ्गारादिभिश्चिह्नः पादे चरणतले
पाणितले वा स्थितैर्युवतयः स्त्रियः। गच्छन्ति राज्ञीपदम्, राज्ञीस्थानं गच्छति प्राप्नुवन्ति।
तथा च गर्गः—
मर्त्यः समुद्रो वसुधा धनं च ध्वजस्तथाद्रिर्दिनकृच्छशी च।
शङ्खः पुरं चक्रमथासनं च यूपस्तथा व्यञ्जनतोरणं च।।
छत्रं यवः पद्ममथाङ्कुशं च सिंहोऽथवा स्वस्तिक एव वापी।
कूर्मः पताका मकरः पुमांश्च दण्डः सरित् पूर्णघटो रथश्च।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA