बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 280, कुल 760 में से
संदर्भ में पढ़ें२५२ बृहत्संहिता
है। इस तरह मालव्य पुरुष के अच्छी तरह लक्षण कहकर शेष भद्र आदि पुरुषों का
लक्षण कहता हूँ।।१२।।
अयं मालव्यः सप्ततिवर्षः सप्ततिवर्षाणां जीवितपरिमाणं तस्य भवति। तीर्थेषु पुण्य-
स्थानेषु सम्यक् तपसा प्राणान्सूँस्त्यक्ष्यति। म्रियत इति। एतत् सम्यक् मालव्यस्य लक्षणं
प्रोक्तं कथितम्। शेषनराणां भद्रादीनां चातोऽनन्तरं वक्ष्ये कथयिष्ये। तथा च सारावल्याम्—
न स्थूलोष्ठो न विषमवपुर्नातिरिक्ताङ्गसन्धि-
र्मध्यक्षामः शशधररुचिर्हस्तिनासः सुगण्डः।
सन्दीप्ताक्षः समसितरदो जानुदेशाप्तबाहु-
र्मलव्योऽयं विलसति नृपः सप्ततिर्वत्सराणाम्।।
वक्त्रं त्रयोदशमितानि तथाङ्गुलानि
दैर्येण · कर्णविवराद् दश विस्तरेण।
मालव्यसंज्ञमनुजः स भुनक्ति नूनं
लाटं समालवससिन्धुसपारियात्रम्।। इति।
इति मालव्यः।।१२।।
अथ भद्रलक्षणमाह—
उपचितसमवृत्तलम्बबाहुर्भुजयुगलप्रमितः समुच्छ्रयोऽस्य।
मृदुतनुघनररोमनद्धगण्डो भवति नरः खलु लक्षणेन भद्रः ।।१३।।
भद्र पुरुष पुष्ट, बराबर, गोल और लम्बे बाहु वाला, भुजाओं को फैलाने से जितनी
चौड़ाई हो, उतनी ऊँचाई वाला तथा कोमल, सूक्ष्म और घने रोमों से युत कपोल वाला
होता है।।१३।।
अयं भद्रनामा बुधेन योऽसावुत्पद्यते योगस्तस्येदं रूपं भवति। उपचितौ मांसलौ
समौ तुल्यौ वृत्तौ परिवर्तुलौ लम्बौ दीर्घौ बाहू यस्य। अस्य भद्रस्य भुजयुगलप्रमितः
समुच्छ्रयो भवति। यावदस्य प्रसाधितभुजद्वयस्य प्रमाणं तावदप्युच्छ्रायप्रमाणं भवति।
मृदुतनुघनररोमनद्धगण्डः, मृदुभिः कोमलैस्तनुभिः सूक्ष्मैः घनैः सन्ततै रोमभिर्नद्धौ संयुक्तौ
गण्डौ मुखगण्डौ यस्य। तथाभूतो नरः। लक्षणेन बुधाख्येन योगेन भद्रसंज्ञो भवति।
खल्वित्यव्ययं वाक्यालङ्कारे।।१३।।
अन्यदपि लक्षणं श्लोकद्वयेनाह—
त्वक्शुक्रसारः पृथुपीनवक्षाः सत्त्वाधिको व्याघ्रमुखः स्थिरश्च।
क्षमान्वितो धर्मपरः कृतज्ञो गजेन्द्रगामी बहुशास्त्रवेत्ता ।।१४।।
प्राज्ञो वपुष्मान् सुललाटशङ्खः कलास्वभिज्ञो धृतिमान् सुकुक्षिः।
सरोजगर्भद्युतिपाणिपादो योगी सुनासः समसंहतभ्रूः ।।१५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA