बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 283, कुल 760 में से
संदर्भ में पढ़ेंपञ्चमनुष्यविभागाध्यायः २५७
कामी कोमलसूक्ष्मरोमनिकरैः संरुद्धगण्डः शठः
प्राज्ञः पङ्कजगर्भपाणिचरणः सत्त्वाधिको योगवित् ।।
शङ्खासिकुञ्जरगदाकुमुदेषु केतुचक्राब्जलाङ्गलविचिह्नितपाणिपादः ।
पत्रागुरुद्विपमदप्रथमाम्बुसिक्तमृत्कुङ्कुमप्रतिमगन्धतनुः सुघोणः ।।
शास्त्रार्थविद्धृतियुतः समसंहतभ्रूर्नागोपमो भवति चापि निगूढगुह्यः ।
सत्कुक्षिधर्मनिरतः सुललाटशङ्खो धीरः स्थिरस्त्वसितकुञ्चितकेशपाशः ।।
स्वतन्त्रः सर्वकार्येषु स्वजनं प्रति न क्षमः ।
भुज्यते विभवश्चास्य नित्यं बन्धुजनैः परैः ।।
भारस्तुलायास्तुलितो यदि स्यात् श्रीकान्यकुब्जाधिपतिस्तदासौ ।
यस्त्र्यादिपुष्टैः सहितैः स भद्रः सर्वत्र राजा शरदमशीतिम् ।। इति ।। १९ ।।
अथ शशलक्षणमाह—
ईषद्दन्तुरकस्तनुद्विजनखः कोशेक्षणः शीघ्रगो
विद्याधातुवणिक्क्रियासु निरतः सम्पूर्णगण्डः शठः ।
सेनानीः प्रियमैथुनः परजनस्त्रीसक्तचित्तश्चलः
शूरो मातृहितो वनाचलनदीदुर्गेषु सक्तः शशः ।। २० ।।
कुछ ऊँचे दाँत वाला, छोटे दाँत और नख वाला, पुष्ट नेत्रकोश वाला, शीघ्रगामी,
विद्या और धातुओं के व्यापारक्रिया में आसक्त, पुष्ट कपोल वाला, शठ, सेनापति, मैथुनप्रिय,
परस्त्री में आसक्त, शूर, माता का भक्त तथा वन, पर्वत, नदी और दुर्गों में आसक्त शश
पुरुष होता है ।। २० ।।
अथ सौरेण रविसुतेन योऽसौ योग उत्पद्यते स चेत्थंरूपो भवति—शशाख्यः । ईषत्
किञ्चित् दन्तुरकः । दन्ता उन्नता यस्य । तनुद्विजनखः, तनवः अवरा द्विजा दन्ता नखाः
कररुहाश्च यस्य । कोशेक्षणो विपुलपुटेक्षणः । शीघ्रगः शीघ्रगामी । विद्यासु मनःशिलागैरिकादिषु
धातुषु वणिक्क्रियासु क्रयविक्रयेषु निरतः सक्तः । सम्पूर्णगण्डः समांसलमुखगण्डः । शठः
परकार्ये विमुखः । सेनानीः सेनां नयति । प्रियमैथुनो मैथुनप्रियः । परजनस्त्रीसक्तचितः
परजनानां सम्बन्धिन्यो याः स्त्रियस्तासु सक्तं चित्तं यस्य । चलोऽस्थिरमतिः । शूरः संग्रामप्रियः ।
मातृहितो जननीभक्तः । वनाचलनदीदुर्गेषु सक्तः, वनेष्वरण्येषु, अचलेषु पर्वतेषु, नदीषु
सरित्सु, दुर्गेषु दुर्गादिषु सक्तोऽनुरक्तो भवति ।। २० ।।
अन्यच्च मानलक्षणमाह—
दीर्घोऽङ्गुलानां शतमष्टहीनं साशङ्कचेष्टः पररन्ध्रविच्च ।
सारोऽस्य मज्जा निभृतप्रचारः शशो ह्यतो नातिगुरुः प्रदिष्टः ।। २१ ।।
शश पुरुष बानबे अंगुल ऊँचा, सब कार्यों में शङ्कायुक्त, परछिद्रान्वेषी, मज्जासार,
स्थिर गति और अधिक स्थूलता से रहित होता है ।। २१ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA