बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 291, कुल 760 में से
संदर्भ में पढ़ेंपञ्चमनुष्यविभागाध्यायः २६३
बड़े-बड़े कार्यों को प्रारम्भ करके समाप्त करने वाला और अपने गुणों से शश के
समान ही होता है।।३९।।
साचीति। यः साची नाम सोऽतिविरूपदेहोऽशोभनशरीरः। शशानुगामी शशस्यानुगामी
पश्चाद् गच्छति। शशानुचरः। खल्वित्यव्ययं वाक्यालङ्कारे। दुर्भगो जनानामवल्लभः। दाता
दानशीलः। महारम्भसमाप्तकार्यः, महारम्भान् करोति तेषु च समाप्तकार्योऽन्तगः। गुणैः
पूर्वोक्तैः शशस्येवं समानः सदृशस्तुल्यो भवेदित्यर्थः।।३९।।
अथ पुरुषलक्षणस्य प्रभावमाह—
पुरुषलक्षणमुक्तमिदं मया मुनिमतानि निरीक्ष्य समासतः।
इदमधीत्य नरो नृपसम्मतो भवति सर्वजनस्य च वल्लभः ॥४०॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां पञ्चमहापुरुषलक्षणं
नामैकोनसप्ततितमोऽध्यायः ॥६९॥
मुनियों के मतों को देखकर मैंने यह पुरुष-लक्षण कहा है। इसको जानकर मनुष्य
राजाओं का इष्ट और सब लोगों का प्रिय होता है।।४०।।
इति ‘विमला’हिन्दीटीकायां पञ्चमहापुरुषलक्षणाध्याय एकोनसप्ततितमः ॥६९॥
मुनिमतानि ऋषिप्रणीतानि शास्त्राणि निरीक्ष्यावलोक्य समासतः संक्षेपतो मयेदं
पुरुषलक्षणमुक्तं कथितम्। इदं च पुरुषलक्षणं नरः पुरुषोऽधीत्य ज्ञात्वा नृपसम्मतो राज्ञां
सम्मत इष्टो भवति। सर्वजनस्य च सर्वलोकस्य च वल्लभः प्रियो भवति। यतः पूर्व-
मेवाचार्येण द्वयं प्रतिज्ञातम्। यथा—
ज्यौतिषमागमशास्त्रं विप्रतिपत्तौ न योग्यमस्माकम्।
स्वयमेव विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये।।
इत्येवं विचार्य सर्वागमतः पुरुषलक्षणं कथितम्। तच्च चिन्तनीयमन्यदूह्यं चेति।।४०।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ पञ्चमहापुरुषलक्षणं
नामानुचरैः सहैकोनसप्ततितमोऽध्यायः ॥६९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA