बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 282, कुल 760 में से
संदर्भ में पढ़ें२५४ बृहत्संहिता
विभवमपि जनोऽस्य बोभुजीति
क्षमति हि न स्वजनं स्वतन्त्रबुद्धिः ॥१७॥
भद्र पुरुष के हाथ में हल, मूसल, गदा, खड्ग, शंख, चक्र, हाथी, मकर, कमल
और रथ के समान रेखा होती है। इसकी सम्पत्ति को अन्य मनुष्य भी खूब भोगते हैं
तथा यह बन्धुओं के लिये क्षमारहित और स्वतन्त्र बुद्धि वाला होता है।।१७।।
हलं लाङ्गलम्। मुशल आयुधविशेषो मुशलाकारः। गदा प्रसिद्धा। असिः खड्गः।
शङ्खः प्रसिद्धः। चक्रमायुधं प्रसिद्धम्। द्विपो हस्ती। मकरः प्राणिविशेषो जलजः। अब्जं
पद्मम्। रथः प्रसिद्धः। एतैर्हलादिभिरङ्कितौ चाङ्घ्रिहस्तौ पादपाणी यस्य। तदाकाराभी
रेखाभिश्चिह्नितौ पादहस्तौ भवेतामित्यर्थः। अस्य भद्रस्य विभवमैश्वर्यं जनो लोको बोभु-
जीति अत्यर्थं भुङ्क्ते। स्वजनं बन्धुजनं प्रति न क्षमति न सहते। तं प्रति क्षमाशीलो न भवति।
स्वतन्त्रबुद्धिः, स्वतन्त्रा नापरतन्त्रा बुद्धिर्धीर्यस्येति। स्वाधीनबुद्धिरिति।।१७।।
मानलक्षणमाह—
अङ्गुलानि नवतिश्च षडूनान्युच्छ्रयेण तुलयापि हि भारः।
मध्यदेशनृपतिर्यदि पुष्टास्त्र्यादयोऽस्य सकलावनिनाथः ॥१८॥
भद्र पुरुष चौरासी अंगुल ऊँचा, एक तुला भार वाला और मध्य देश का राजा होता
है। यदि इसकी एक सौ पाँच अंगुल व्यायाम हो तो चक्रवर्त्ती राजा होता है।।१८।।
उच्छ्रयेणौच्च्येन षडूनानि नवतिरङ्गुलानि भवन्ति। चतुरशीतिरङ्गुलान्युच्छ्रितानि भवन्ती-
त्यर्थः। तुलयापि हि भारः। पलसहस्रद्वयमित्यर्थः। स च मध्यदेशनृपतिर्मध्यदेशे राजा भवति।
यद्यस्य त्र्यादयोऽङ्गुलानि पुष्टाः। त्रिग्रहणेनाङ्गुलानि ज्ञापयति। तदुक्तमादौ शशकरुचकभद्र-
मालव्यसंज्ञिताख्यङ्गुलविवृद्ध्येति। यदि पञ्चोत्तरमङ्गुलशतं व्यायामेन दैर्घ्येण च भवति,
तदा सकलावनिनाथः सार्वभौमो राजा भवतीत्यर्थः।।१८।।
अन्यच्च वयोलक्षणमाह—
भुक्त्वा सम्यग्वसुधां शौर्येणोपार्जितामशीत्यब्दः।
तीर्थे प्राणांस्त्यक्त्वा भद्रो देवालयं याति ॥१९॥
भद्र पुरुष अपने पराक्रम से उपार्जित पृथ्वी को अच्छी तरह भोग कर अस्सी वर्ष
की अवस्था में तीर्थस्थान पर प्राण छोड़ कर स्वर्ग जाता है।।१९।।
सम्यग् वसुधां भूमिं शौर्येण बलेनोपार्जितां भुक्त्वा। अशीतिरब्दानां जीवितप्रमाणे-
र्यस्यासावशीत्यब्दः। तीर्थे पुण्यस्थाने। प्राणानसून त्यक्त्वा भद्रो देवालयं स्वर्गं याति
गच्छति। तथा च सारावल्याम्—
शार्दूलप्रतिमाननो द्विपगतिः पीनोरुवक्षःस्थलो
लम्बापीनसुवृत्तबाहुयुगलस्तत्तुल्यमानोच्छ्रयः ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA