बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 287, कुल 760 में से
संदर्भ में पढ़ेंपञ्चमनुष्यविभागाध्यायः २५९
भवति। तनुच्छविः सूक्ष्मत्वक्। शोणितमांससारः—रक्तसारः, मांससारश्च। हन्ता द्विषाम्,
शत्रूणां हन्ता घातकः। साहससिद्धकार्यः, साहसेन सिद्धं कार्यं यस्य। असमीक्षितकार्यकरणत्वं
साहससिद्धत्वमिति।।२८।।
अन्यदपि करचरणयोश्चिह्नलक्षणमाह—
खट्वाङ्गवीणावृषचापवज्रशक्तीन्द्रशूलाङ्कितपाणिपादः ।
भक्तो गुरुब्राह्मणदेवतानां शताङ्गुलः स्यात्तु सहस्रमानः ॥२९॥
रुचक पुरुष के हाथ या पाँव में खट्वाङ्ग, वीणा, बैल, धनुष, वज्र, बर्छी, चन्द्र या
त्रिशूल के समान चिह्न होते हैं। यह गुरु, ब्राह्मण और देवताओं का भक्त, सौ अंगुल
ऊँचा और एक हजार पल शारीरिक भार वाला होता है।।२९।।
खट्वाया अङ्गं खट्वाङ्गम्। वीणा वल्लकी। वृषो दान्तः। चापं धनुः। वज्रमायुधम्।
शक्तिरप्यायुधमेव। इन्द्रः। शूलं त्रिशूलम्। एतैरङ्कितौ चिह्नितौ पाणिपादौ हस्तचरणौ
यस्य। गुरूणां ब्राह्मणानां देवतानां च भक्तः। शताङ्गुलः स्यात्, अङ्गुलानां शतं दैर्ध्येण
पृथुत्वेन च स्याद्भवेत्। सहस्रमानः, सहस्रं पलानां परिमाणं यस्य।।२९।।
अन्यच्च वयोज्ञानादिकमाह—
मन्त्राभिचारकुशलः कृशजानुजङ्घो
विन्ध्यं ससह्यगिरिमुज्जयिनीं च भुक्त्वा।
सम्प्राप्य सप्ततिसमा रुचको नरेन्द्रः
शस्त्रेण मृत्युमुपयात्यथवाऽनलेन ॥३०॥
रुचक पुरुष मन्त्र और अभिचार ( मारण, मोहन, वशीकरण, उच्चाटन और विद्वेषण )
में कुशल तथा कृश जानु और जंघा वाला होता है। यह विन्ध्याचल, सह्याचल और
उज्जयिनी में राज्य का भोग कर सत्तर वर्ष की आयु में शस्त्र या अग्नि से मृत्यु को प्राप्त
करता है।।३०।।
मन्त्रेषु कुशलः सक्तः। अभिचारेषु विद्वेषोच्चाटनवशीकरणमारणेषु कुशलः। कृशे
दुर्बले जानुनी जङ्घे च यस्य। विन्ध्यं गिरि विन्ध्यं पर्वतं ससह्यगिरिं सह्येन गिरिणा सहितम्।
उज्जयिनीं नगरीं च भुक्त्वा नरेन्द्रो राजा सप्ततिसमाः सप्ततिवर्षाणि सम्प्राप्य शस्त्रेणा-
युधेनानलेनाग्निना वा मृत्युं मरणमुपयाति प्राप्नोति। तथा च सारावल्याम्—
दीर्घास्यः स्वच्छकान्तिर्बहुरुचिचपलः साहसावाप्तकार्य-
श्चारुभ्रूर्नीलकेशः श्रमकरणरतो मन्त्रविच्चौरनाथः।
रक्तश्यामोऽतिशूरो रिपुबलमथनः शङ्खकण्ठः प्रधानः
क्रूरो भक्तो नराणां द्विजगुरुनिरतः क्षाममज्जोऽनुजङ्घः।।
खट्वाङ्गपाशवृषकार्मुकवज्रवीणाशक्त्यङ्कहस्तचरणश्च शताङ्गुलिश्च।
मन्त्राभिचारकुशलस्तुलया सहस्रं मध्यं च तस्य कथितं मुखदैर्घ्यतुल्यम्।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA