बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पुरुषलक्षणाध्यायः २२७
लोहितवर्णा अन्ताः पर्यन्ता विलोचनयोर्येषां ते रक्तान्तविलोचनास्ते च श्रियो भाजो लक्ष्मीवन्तः।
मधुपिङ्गलैर्मधुवत् कपिलवर्णैर्नयनैर्महार्था महाधनाः। मार्जारो विडालस्तत्सदृशविलोचना-
स्तदाकाराक्षाः पापा भवन्ति।
हरिणाक्षा मृगलोचनास्तथा मण्डललोचनाः परिवर्तुलनेत्रा जिह्मैश्चरैश्च लोचनैश्चौ-
रास्तस्करा भवन्ति। केकरनेत्रा नीलाक्षाः क्रूराः कराला विषमा भवन्ति। गजसदृशविलोचना
हस्तितुल्यनेत्राश्चभूपतयः सेनापतयो भवन्ति।
गम्भीरैर्नेत्रैश्वर्यं भवति। नीलोत्पलकान्तिभिनेत्रैस्तत्सदृशतारकैर्विद्वांसः पण्डिता भवन्ति।
अतिकृष्णतारकाणामक्ष्णां नेत्राणामुत्पाटनं भवति। अत्यसिततारके अक्षिणी उत्पाट्येते।
स्थूला दृष्टियेषां ते स्थूलदृशस्तेषां मन्त्रित्वं भवति। मन्त्री भवतीत्यर्थः। श्यावाक्षाणां
श्यावे मुद्गाभे अक्षिणी तारके येषां तेषां सौभाग्यं भवति। दीना दैत्यं गता दृग् दृष्टियेषां
ते निःस्वा निर्धना भवन्ति। स्निग्धा निर्मला विपुला विस्तीर्णा च दृष्टिरर्थवतां धनिनां भोगवतां
च भवति। तथा च—
समे गोक्षीरवर्णाभे रक्तान्ते कृष्णतारके।
प्रसन्ने च विशाले च स्निग्धे चैवायते शुभे।।
अतसी पुष्पसङ्काशे भवेतां यस्य लोचने।
भूपतिः स तु विज्ञेयो समुद्रवचनं यथा।।
व्याघ्रचक्षुर्धनैर्युक्तः कर्कटाक्षः कलिप्रियः।
विडालहंसनेत्राश्च भवन्ति पुरुषाधमाः।।
मयूरनकुलाक्षाश्च नरास्ते मध्यमाः स्मृताः।
न स्त्रीस्त्यजति सर्वत्र पुरुषं मधुपिङ्गलम्।।
आज्यपिङ्गलनेत्राश्च राजानो भोगसंयुताः।
रोचनाहरितालाक्ष गजपिङ्गा धनेश्वराः।।
बलवन्तो गुणोपेताः पृथिव्यां चक्रवर्तिनः।
तप्तहाटकवर्णाभे भवेतां यस्य लोचने।।
भूपतिः स तु विज्ञेयः समुद्रवचनं यथा।
द्विमात्रस्पन्दिनो ये तु धनिनस्ते प्रकीर्तिताः।।
त्रिमात्रस्पन्दिनो ज्ञेयाः पुरुषाः सुखजीविनः।
चतुर्मात्रनिमेषश्च धनवान् परिकीर्तितः।।
दीर्घायुषो धर्मरताः पञ्चमात्रनिमेषिणः।। इति।।६४-६७।।
अथ भ्रूलक्षणमाह—
अभ्युन्नताभिरल्पायुषो विशालोन्नताभिरतिसुखिनः।
विषमभ्रुवो दरिद्रा बालेन्दुनतभ्रुवः सधनाः।।६८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२२८ बृहत्संहिता
दीर्घासंसक्ताभिर्धनिनः खण्डाभिरर्थपरिहीनाः ।
मध्यविनतभ्रुवो ये ते सक्ताः स्त्रीष्वगम्यासु ॥६९॥
मध्य में ऊँची भ्रू वाले पुरुष अल्पायु, बड़ी और ऊँची भ्रू वाले अतिसुखी, विषम
( एक में बड़ी तथा एक में छोटी ) भ्रू वाले निर्धन, बाल चन्द्र की तरह झुकी हुई भ्रू
वाले धनवान, लम्बी तथा परस्पर विना मिली भ्रू वाले धनी, टूटी हुई भ्रू वाले निर्धन
तथा मध्य में नत भ्रू वाले मनुष्य अगम्या स्त्री में गमन करने वाले होते हैं॥६८-६९॥
अभ्युन्नताभिरभिमुख्येनोच्चाभिर्भ्रूर्भिरल्पायुषः स्वल्पजीविनो भवन्ति। विशालाभिर्विस्ती-
र्णाभिरुन्नताभिरुच्चाभिरतिसुखिनो भवन्ति। ये सर्वे विषमभ्रुवोऽतुल्यभ्रुवस्ते दरिद्रा निर्धना
भवन्ति। बालेन्दुसदृश्यो बालचन्द्रतुल्या नता भ्रुवो येषां ते सधनाः।
दीर्घाश्च ता असंसक्ता दीर्घासंसक्तास्ताभिर्दीर्घासंसक्ताभिर्भ्रूर्भिर्धनिनो भवन्ति; खण्डाभि-
रर्थपरिहीना दरिद्रा भवन्ति। ये मनुष्या मध्यविनतभ्रुवो मध्याद् विनता अस्पृष्टा भ्रुवो येषां
ते अगम्यासु स्त्रीषु सक्ता निरता भवन्ति। तथा च—
अभ्युन्नताभिः स्वल्पायुर्विशालाभिः सुखान्विताः।
मध्योन्नतभ्रुवो ये च पापसक्ताश्च ते नराः॥
बालेन्दुभ्रूसमाश्चाढ्या दरिद्रा विषमभ्रुवः।
असंलग्नभ्रुवो ये तु धनिनस्ते नराः स्मृताः॥
खण्डाभिर्निर्धना ज्ञेया विषमाभिर्नराधमाः॥ इति॥६८-६९॥
अथ शङ्खललाटलक्षणमाह—
उन्नतविपुलैः शङ्खैर्धनिनो निम्नैः सुतार्थसन्त्यक्ताः ।
विषमललाटा विधना धनवन्तोऽर्द्धेन्दुसदृशेन ॥७०॥
शुक्तिविशालैराचार्य्यता शिरासन्ततैरधर्मरताः ।
उन्नतशिराभिराढ्याः स्वस्तिकवत् संस्थिताभिश्च ॥७१॥
निम्नललाटा वधबन्धभागिनः क्रूरकर्मनिरताश्च ।
अभ्युन्नतैश्चभूपाः कृपणाः स्युः संवृतललाटाः ॥७२॥
ऊँची तथा बड़ी शंख ( कनपटी ) वाले धनी तथा नीची शंख वाले पुरुष पुत्र
तथा धन से रहित होते हैं। टेढ़ी ललाट वाले धनी, सीप के समान विशाल ललाट वाले
आचार्य, नाड़ियों से व्याप्त ललाट वाले पाप में रत, ललाट के मध्य में ऊँची नाड़ी
वाले धनी और ललाट में स्वस्तिक की तरह रेखा वाले पुरुष धनाढ्य होते हैं। निम्न
ललाट वाले वध, बन्धन के भागी और पाप कर्म में रत, ऊँचे ललाट वाले राजा तथा
गोल ललाट वाले कृपण होते हैं॥७०-७२॥
उन्नतैरुच्चैर्विपुलैर्विस्तीर्णैः शङ्खैर्धनिन ईश्वरा भवन्ति। निम्नैरनुच्चैः शङ्खैः सुतैः पुत्रैरथैर्धनैः
सन्त्यक्ता रहिता भवन्ति। तथा च—
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
पुरुषलक्षणाध्यायः २२९
उन्नतैर्विपुलैः शङ्खैर्धनिनः सुखजीविनः।
सुतार्थरहिता निम्नैर्मानुषा दुःखभागिनः।।
विषममसमं ललाटं मुखपृष्ठं येषां ते निर्धना दरिद्रा भवन्ति। अर्धेन्दुसदृशेनार्धचन्द्रतुल्येन
ललाटेन धनवन्त ईश्वरा भवन्ति।
शुक्तिविशालैः शुक्तिविस्तीर्णैर्ललाटैराचार्यता आचार्यत्वं भवति। परोपदेशक आचार्यः।
शिरासन्ततैः शिराबहुलैर्ललाटैर्धर्मरता भवन्ति। उन्नताभिः शिराभिर्ललाटगताभिराढ्या
ईश्वरा भवन्ति। स्वस्तिकवत् स्वस्तिकाकारेण संस्थिताभिः शिराभिराढ्या भवन्ति।
निम्नं ललाटं येषां ते निम्नलाटा वधे कुट्टने बन्धे च भागिनो योग्याः क्रूरे विषमे
च कर्मणि कार्ये निरताः सक्ता भवन्ति। अभ्युन्नतैरभिमुख्येनोन्नतैर्ललाटैश्चमृपाः सेनापतयो
भवन्ति। संवृतं परिवर्तुलमल्पं च ललाटं येषां ते कृपणा अदानशीलाः स्युर्भवेयुः। तथा च—
ललाटेनार्धचन्द्रेण भवन्ति पृथिवीश्वराः।
विपुलेन ललाटेन महाधनयुताः स्मृताः।।
विषमेनाधना ज्ञेयाः पापा मर्त्याः शिराततैः।
निम्नेन तु ललाटेन क्रूरकर्मरता नराः।।
अभ्युन्नतैश्चमृपाः स्युः संवृतैः कृपणाः स्मृताः।। इति।।७०-७२।।
अथ रुदितलक्षणमाह—
रुदितमदीनमनश्रु स्निग्धं च शुभावहं मनुष्याणाम्।
रूक्षं दीनं प्रचुराश्रु चैव न शुभप्रदं पुंसाम् ।।७३।।
मनुष्यों का दीनताहीन, आँसुओं से रहित और स्निग्ध रुदन अच्छा होता है तथा
रूखे, दीन और बहुत आँसुओं से युत रुदन अच्छा नहीं होता है।।७३।।
यद्रुदितमदीनं दैन्यरहितम्। अनश्रु बाष्परहितम्। स्निग्धमरूक्षमेवंविधं मनुष्याणां
पुरुषाणां शुभावहं प्रशस्तम्। रूक्षं परुषम्। दीनं दैन्ययुक्तम्। प्रचुराश्रु बहुबाष्पम्। पुंसां
नराणां न शुभदम्। तथा च—
अदीनाक्षहतं स्निग्धं रुदितं च शुभावहम्।
रूक्षं दीनं वाष्पयुतं पुरुषाणामनिष्टदम्।। इति।।७३।।
अथ हसितलक्षणमाह—
हसितं शुभदमकम्पं सनिमीलितलोचनं तु पापस्य।
दुष्टस्य हसितमसकृत् सोन्मादस्यासकृत् प्रान्ते ॥७४॥
विना काँपते हुये हँसना शुभ होता है तथा आँख मूंद कर हँसने वाला पापी, बार-
बार हँसने वाला दुष्ट तथा हँसने के अन्त में पुनः-पुनः हँसना उन्मादयुत पुरुष का
लक्षण है।।७४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२३० बृहत्संहिता
यच्च हसितमकम्पं कम्परहितं तच्छुभदं प्रशस्तम्। शरीरस्य कम्पश्चलनमवयवानां
येन नोत्पद्यते। सनिमीलितलोचनमतिसङ्कुचितनयनं हसितं पापस्य पापकर्मणः। असकृत्
पुनः पुनर्दुष्टस्य सदोषस्य हसितम्। प्रान्ते हसनान्तेऽसकृद्धसितं सोन्मादस्योन्मादयुक्तस्य
भवति। तथा च—
हसितं कम्परहितं नृपाणामन्यथाऽशुभम्।
असकृद्दोषयुक्तस्य मीलिताक्षस्य चाशुभम्।। इति।।७४।।
अथ ललाटरेखालक्षणमाह—
तिस्रो रेखाः शतजीविनां ललाटायताः स्थिता यदि ताः।
चतसृभिरवनीशत्वं नवतिश्वायुः सपञ्चाब्दा ।।७५।।
विच्छिन्नाभिश्चागम्यगामिनो नवतिरप्यरेखेण।
केशान्तोपगताभी रेखाभिरशीतिवर्षायुः ।।७६।।
पञ्चभिरायुः सप्ततिरेकाग्रावस्थिताभिरपि षष्टिः।
बहुरेखेण शतार्धं चत्वारिंशच्च वक्राभिः ।।७७।।
भ्रूलग्नाभिस्त्रिंशद्विंशतिकश्चैव वामवक्राभिः।
क्षुद्राभिः स्वल्पायुर्न्यूनाभिश्चान्तरे कल्प्यम् ।।७८।।
ललाट में तीन रेखा वाले पुरुष सौ वर्ष जीवित रहते हैं एवं चार रेखा वाले राजा
होते हैं और पञ्चानवे वर्ष तक जीवित रहते हैं। ललाट में टूटी हुई रेखा वाले अगम्या
स्त्री में गमन करने वाले और नब्बे वर्ष जीवित रहने वाले होते हैं, रेखाओं से रहित
ललाट वाले नब्बे वर्ष जीते हैं तथा केशान्त तक रेखा वाले अस्सी वर्ष जीते हैं। पाँच
रेखायुत ललाट वाले सत्तर वर्ष जीते हैं, ललाट में स्थित समस्त रेखाओं के अग्रभाग
मिलें हो तो साठ वर्ष की आयु होती है। छः, सात आदि बहुत रेखाओं से युत ललाट
वाले पचास वर्ष जीते हैं। यदि ललाट में टेढ़ी रेखा हो तो चालीस वर्ष की आयु होती
है। यदि ललाट में भ्रू से लगी रेखा हो तो तीस वर्ष की आयु होती है। यदि ललाट के
वाम भाग में टेढ़ी रेखा हो तो बीस वर्ष की आयु होती है। छोटी रेखा हो तो वह व्यक्ति
बीस वर्ष से भी कम अवधि तक ही जीवित रहता है। यदि न्यून ( एक या दो ) रेखा
से युत ललाट हो तो भी बीस वर्ष से कम आयु होती है। बीच में अपनी बुद्धि से आयु
की कल्पना करनी चाहिये। जैसे तीन रेखा वाले सौ वर्ष और चार रेखा वाले पञ्चानबे
वर्ष जीवित रहते हैं; अतः साढ़े तीन रेखा वाले साढ़े सत्तानवे वर्ष जीवित रहेंगे। इसी
प्रकार अन्यत्र भी हिसाब लगा कर आयु का निश्चय करना चाहिये।।७५-७८।।
तिस्रो रेखा इति। ललाटे मुखपृष्ठे आयता दीर्घाः स्थिता रेखास्तिस्रः। शतजीविनां
शतायुषां भवन्ति। चतसृभिर्ललाटायतरेखाभिरवनीशत्वं राज्यं भवति। नवतिः सपञ्चाब्दा
पञ्चभिर्वर्षैर्युक्ता नवतिरायुर्जीवितं भवति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुरुषलक्षणाध्यायः २३१
विच्छिन्नाभिश्चेदयुक्ताभिर्ललाटरेखाभिरगम्यगामिनोऽगम्यागमनशीला भवन्ति, नवतिश्च
वर्षाणां तेषामायुर्भवति। अरेखेन रेखावर्जितेन ललाटेन नवतिरपि वर्षाणामायुः। अपिशब्दोऽत्र
चार्थे। अगम्यागामिनश्च भवन्ति। केशान्तो यतः प्रभृति केशानामुत्पत्तिः। केशान्तोपगताभिस्तत्र
प्राप्ताभिर्लेखाभिरशीतिर्वर्षाणामायुर्भवति।
पञ्चभिर्लेखाभिर्ललाटस्थिताभिः सप्ततिर्वर्षाणामायुः। एकस्मिन्नग्रे अवस्थिता एकाग्रा-
वस्थितास्ताभिः सर्वाभिरेकाग्रावस्थिताभिर्मिलिताभिरविच्छिन्नप्राप्ताभिः षष्टिर्वर्षाणामायुः। बहु-
रेखेण षड्भी रेखाभिरुपलक्षितेन शतार्धं पञ्चाशद्वर्षाणामायुः। रेखाभिर्वक्राभिरस्पष्टाभिश्च-
चत्वारिंशद्वर्षाण्यायुः।
रेखाभिर्भ्रूलग्नाभिः त्रिंशद्वर्षाणि। वामभागवक्राभिः कुटिलाभिर्विंशतिकः, विंशतिवर्षाणां
जीवितपरिमाणं यस्य स विंशतिकः। क्षुद्राभिः सूक्ष्माभिरल्पायुर्विंशतेरूनमायुः। उक्तान्यूनाभी
रेखाभिर्द्वाभ्यामेकया वा चशब्दात् स्वल्पायुरेव। अन्तरे मध्ये कल्प्यं कल्पनीयं स्वबुद्धयोह्यम्।
यथा तिस्रो रेखाः शतजीविनामिति, चतसृभिर्नवतिश्चायुषः सपञ्चाब्दा इत्युक्तम्। अत्रान्तरे
सार्धास्तिस्रो रेखा यस्य तस्य सार्धसप्तनवतिवर्षाण्यायुरित्याद्यन्तरे कल्पनीयम्। तथा च—
रेखाः पञ्च ललाटे तु यस्यासौ धनवान् स्मृतः।
शतं जीवति वर्षाणामैश्वर्यमधिगच्छति॥
चतू रेखो ह्यशीतिस्तु त्रिभिः सप्ततिरेव च।
षष्टिर्द्वाभ्यां तु रेखाभ्यां चत्वारिंशत् तथैकया॥
अरेखेन ललाटेन भवन्ति निधिपालकाः।
रेखाछेदैस्तु विज्ञेयाः पापकर्मरता नराः॥
अल्पायुष्स्तथल्पासु व्याधियुक्ताश्च ते सदा।
त्रिशूलं पट्टिसं वापि ललाटे यस्य दृश्यते॥
ऐश्वर्यं तस्य विज्ञेयं सेनानां नायकश्च सः॥ इति॥७५-७८॥
अथ शिरोलक्षणमाह—
परिमण्डलैर्गवाढ्याश्छत्राकारैः शिरोभिरवनीशाः।
चिपिटैः पितृमातृघ्नाः करोटिशिरसां चिरान्मृत्युः॥७९॥
घटमूर्धान्वानरुचिर्द्विमस्तकः पापकृद्धनैस्त्यक्तः।
निम्नं तु शिरो महतां बहुनिम्नमनर्थदं भवति॥८०॥
गोल शिर वाले पुरुष गायों से युत, छत्र की तरह ऊपर से विस्तीर्ण शिर वाले
राजा, चिपटे शिर वाले पिता-माता के घातक और करोटि (शिरस्त्राण) के समान शिर
वाले दीर्घायु होते हैं। घड़े के समान शिर वाले पुरुष पापी और निर्धन, निम्न शिर वाले
प्रतिष्ठित तथा अतिनिम्न शिर वाले पुरुष अनर्थकारी होते हैं॥७९-८०॥
परिमण्डलैः परिवर्तुलैः शिरोभिर्मस्तकैर्र्गवाढ्या गोबहुला भवन्ति। छत्राकारैश्छत्राकृति-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२३२ बृहत्संहिता
भिरूर्ध्वभागविस्तृतैरवनीशा राजानः । चिपिटैश्चर्पटैः पितृमातृघ्नाः । पितृमातृहन्तारः । करोटि-
शिरस्त्राणं करोटिसदृशशिरसां चिराद्बहुकालेन मृत्युर्भवति ।
घटमूर्धा कुम्भसदृशशिरा अध्वानरुचिरध्वशीलो भवति । द्विमस्तको द्विशीर्षः पापकृत्
पापकर्ता धनैस्त्यक्तो निर्धनो भवति । महतां प्रधानानामेव निम्नं तु शिरो भवति । बहुनिम्न-
मतिनिम्नं शिरोऽनर्थदं दुःखदं भवति । तथा च—
उत्क्रान्तिदो निम्नशिरा अल्पोपहत एव च ।
छत्राकारशिरा राजा गवाढ्यः परिमण्डलैः ।।
विषमं तद्दरिद्राणां शिरो दीर्घं चिरायुषाम् ।
नागकुम्भशिरा राजा समं सर्वत्र भोगिनः ।। इति ।। ७९-८० ।।
अधुना मूर्धजलक्षणान्याह—
एकैकभवैः स्निग्धैः कृष्णैराकुञ्चितैरभिन्नाग्रैः ।
मृदुभिर्न चातिबहुभिः केशैः सुखभाग् नरेन्द्रो वा ॥८१॥
बहुमूलविषमकपिलाः स्थूलस्फुटिताग्रपरुषह्रस्वाश्च ।
अतिकुटिलाश्चातिघनाश्च मूर्धजा वित्तहीनानाम् ॥८२॥
जिसके एक रोमकूप में एक-एक, काले, स्निग्ध, थोड़े से कुटिल, बिना फूटे अग्र
भाग वाले, कोमल तथा घने केश हों तो ऐसा पुरुष सुखी या राजा होता है। एक रोमकूप
में अनेक, विषम ( कोई छोटे तथा कोई बड़े ), कपिल, मोटे, फूटे अग्र भाग वाले,
रूखे, छोटे, बहुत कुटिल और बहुत घने केश निर्धनों के होते हैं ।। ८१-८२ ।।
केशैरेकैकभवैः । एकैकस्मिन् रोमकूपे भवन्त्येकैकभवाः, तैस्तथाभूतैः । स्निग्धैररूक्षैः ।
कृष्णैरसितैः । आकुञ्चितैः कुटिलैः । अभिन्नाग्रैरस्फुटितप्रान्तैः । मृदुभिः कोमलैः । न चाति-
बहुभिर्घनैः । एवंविधैः केशैः सुखभाक् सुखितो भवति, नरेन्द्रो वा राजा भवति ।
बहुमूला एकैकस्मिन् रोमकोपे बहूनां सम्भवात् । विषमा असमाः । केचिद् ह्रस्वाः
केचिद् दीर्घाः । कपिलाः कपिलवर्णाः । स्थूला असूक्ष्माः । स्फुटिताग्रा भिन्नभिन्नप्रान्ताः ।
परुषा रूक्षाः । ह्रस्वा अदीर्घाः । अतिकुटिला अतिकुञ्चिताः । अतिघनाः सन्तता मूर्धजाः
केशा वित्तविहीनानां निर्धनानां भवन्ति । तथा च—
एकैकसम्भवाः स्निग्धाः कृष्णा नातिघनाः कचाः ।
पूजिता विपरीताश्च निर्धनानां प्रकीर्तिताः ।।
आचार्येणोक्तम्—'सामुद्रविद्वदति यातमनागतं वेत्यतोऽत्रास्माभिः सामुद्राणि पुरुष-
लक्षणान्युदाहृतानि यावदाचार्यस्य तेभ्योऽप्यधिकमस्तीति ज्ञेयम्' इति ।।८१-८२।।
अधुनैतदेव सर्वं संक्षेपेणाह—
यद्यद्गात्रं रूक्षं मांसविहीनं शिरावनद्धं च ।
तत्तदनिष्टं प्रोक्तं विपरीतमतः शुभं सर्वम् ॥८३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शरीर के जो-जो अंग रूखे, मांसरहित और नाड़ियों से व्याप्त हों, वे सभी अशुभ
कहे गये हैं तथा इनसे विपरीत (स्निग्ध, मांसयुत और नाड़ियों से रहित) अंग शुभ
होते हैं॥८३॥
यद्गात्रमवयवं रूक्षमस्निग्धं मांसविहीनं निर्मांसं शिरावनद्धं शिरासन्ततं तत्तद्गात्रमनिष्ठमशुभं
प्रोक्तं कथितम्। अतोऽस्माद्विपरीतं सर्वं निःशेषं शुभं स्निग्धं समांसमशिरालमित्यर्थः॥८३॥
अधुना महापुरुषलक्षणमाह—
त्रिषु विपुलो गम्भीरस्त्रिष्वेव षडुन्नतश्चतुर्ह्रस्वः।
सप्तसु रक्तो राजा पञ्चसु दीर्घश्च सूक्ष्मश्च ॥८४॥
जिसके तीन अंग विस्तीर्ण, तीन गम्भीर, छः ऊँचे, चार छोटे, सात लाल और पाँच
अंग लम्बे या सूक्ष्म हों, वह पुरुष राजा होता है॥८४॥
यस्त्रिष्वङ्गेषु विपुलो विस्तीर्णः। गम्भीरस्त्रिष्वेव। षडुन्नतः षड् उन्नतानि यस्य। चतुर्ह्र-
स्वश्चत्वारि ह्रस्वानि यस्य। सप्तसु रक्तो लोहितः। पञ्चसु दीर्घश्चायामी। पञ्चस्वेव सूक्ष्मश्च
स राजा नृपो भवति॥८४॥
अथैतेषामेव प्रविभागमाह—
नाभी स्वरः सत्त्वमिति प्रशस्तं गम्भीरमेतत्त्रितयं नराणाम्।
उरो ललाटं वदनं च पुंसां विस्तीर्णमेतत्त्रितयं प्रशस्तम् ॥८५॥
वक्षोऽथ कक्षा नखनासिकास्यं कृकाटिका चेति षडुन्नतानि।
ह्रस्वानि चत्वारि च लिङ्गपृष्ठं ग्रीवा च जङ्घे च हितप्रदानि ॥७६॥
नेत्रान्तपादकरतालवधरोष्ठजिह्वा
रक्ता नखाश्च खलु सप्त सुखावहानि।
सूक्ष्माणि पञ्चदशनाङ्गुलिपर्वकेशाः
साकं त्वचा कररुहा न च दुःखितानाम् ॥८७॥
हनुलोचनबाहुनासिकाः स्तनयोरन्तरमत्र पञ्चमम्।
इति दीर्घमिदं तु पञ्चकं न भवत्येव नृणामभूपताम् ॥८८॥
पुरुषों के नाभि, शब्द, सत्त्व (एक प्रकार का चित्त का गुण = अविकारं सत्त्वं
व्यसनाभ्युदयागमे)—इन तीन का गम्भीर होना तथा छाती, ललाट, मुख—इन तीन
का विस्तीर्ण होना श्रेष्ठ होता है। पुरुषों के छाती, कक्षा, नख, नासिका, मुख, कृका-
टिका (घेंटू)—ये ६ अंग ऊँचे तथा लिंग, पीठ, गरदन, जंघा—ये चार छोटे हों तो
शुभ देने वाले होते हैं। पुरुषों के नेत्रान्त भाग, पादतल, हाथ, तालु, अधर, जीभ, नख—
ये सात अंग रक्त वर्ण हों तो सुख देने वाले होते हैं। दाँत, अंगुलियों के पर्व, केश,
त्वचा, नख—ये पाँच अंग सूक्ष्म दुःखियों के नहीं होते अर्थात् जिनके ये अंग सूक्ष्म हों,
२३४ बृहत्संहिता
वे सुखी होते हैं। हनु, नेत्र, बाहु, नासिका, दोनों स्तनों के मध्यभाग—ये पाँच अंग दीर्घ
राजाओं के अतिरिक्त और किसी के नहीं होते हैं।।८५-८८।।
नाभी शरीरमध्यस्थानम्। स्वरः शब्दः। सत्त्वं गुणभावः। तस्य लक्षणम्—
अविकारकं सत्त्वं व्यसनाभ्युदयागमे।
एतत् त्रितयं नराणां पुरुषाणां गम्भीरं प्रशस्तम्। उरो वक्षः। ललाटं मुखपृष्ठम्।
वदनं वक्त्रम्। सकलमेतत् त्रितयं पुंसां पुरुषाणां विस्तीर्णं प्रशस्तम्।
वक्ष उरः। अथशब्दश्चार्थे। कक्षाशब्देन शरीरमध्यभाग उच्यते। नखाः कररुहाः।
नासिका घ्राणम्। आस्यं वक्त्रम्। कृकाटिका ग्रीवापश्चिमभागः। एतानि च षडुन्नतानि
उच्चानि हितप्रदानि प्रशस्तानि। लिङ्गं मेढ्रम्। पृष्ठं शरीरपश्चिमभागः। ग्रीवा शिरोधरा।
जङ्घे। चशब्दः सर्वत्र समुच्चये। एतानि चत्वारि ह्रस्वानि अदीर्घाणि हितप्रदानि प्रशस्तानि।
नेत्रान्तं चक्षुःपर्यन्तम्। पादौ चरणौ। करौ हस्तौ। ताल्वास्यपृष्ठम्। अधर ओष्ठः।
जिह्वा रसना। नखाः कररुहाः। एतानि सप्त रक्तानि लोहितानि सुखावहानि सुखप्रदानि।
दशना दन्ताः। अङ्गुलिपर्वाणि करशाखाश्रिता रेखाः। केशा मूर्धजाः। त्वचा चर्मणा साकं
सह कररुहा नखाः। एतानि पञ्च सूक्ष्माणि न दुःखितानां भवन्ति, अपि तु सुखितानां
भवन्तीत्यर्थः।
हनुनी प्रसिद्धे। लोचने नेत्रे। बाहू भुजौ। नासिका घ्राणम्। स्तनयोरन्तरं मध्यम्।
अत्रास्मिन् वर्गे पञ्चमसङ्ख्यम्। इत्येतत् पञ्चकं दीर्घमह्रस्वं नृणां पुंसामभूभृतामराज्ञां न
भवन्ति। येषां च भवन्ति ते राजानो भवन्तीत्यर्थः। तथा च गर्गः—
चतुर्दशसमो द्वन्द्वश्चतुःकृष्णश्चतुःसमः।
दशपद्मो दशबृहत् त्रिशुक्लः शस्यते नरः।।
पादौ गुल्फौ स्फिजौ पार्श्वे वृषणौ चक्षुषी स्तनौ।
स्कन्धौष्ठौ वंक्षणे जङ्घे हस्तौ बाह्वंसकौ तथा।।
चतुर्दशसमद्वन्द्वः समुद्रो नृषु शंसति।
अक्षितारे भ्रुवौ श्मश्रुकेशाश्चैवासिताः शुभाः।।
अङ्गुल्यो हृदयं नेत्रे दशनाश्च समा नृणाम्।
चत्वारः सम्प्रशस्यन्ते सदैश्वर्यसुखावहाः।।
जिह्वौष्ठतालु चास्यं च मुखं नेत्रे स्तनौ नखाः।
हस्तौ पादौ च शस्यन्ते पद्माभा दश देहिनाम्।।
पाणिपादमुरो ग्रीवा वृषणौ हृदयं शिरः।
ललाटमुदरं पृष्ठं बृहन्तः पूजिता दश।।
नेत्रे ताराविरहिते दशनाश्चलिताः शुभाः।
एतच्च लक्षणं कृत्स्नं नराणां समुदाहृतम्।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
पुरुषलक्षणाध्यायः २३५
पञ्चदीर्घश्चतुर्ह्रस्वः पञ्चसूक्ष्मः षडुन्नतः।
पञ्चरक्तस्त्रिविस्तीर्णस्त्रिगम्भीरः प्रशस्यते।।
बाहू नेत्रान्तरे चापि हनूनी वृषणौ तथा।
स्तनयोरन्तरं चैव पञ्चदीर्घः प्रशस्यते।।
ग्रीवा प्रजननं श्रोणिर्ह्रस्वे जङ्घे च पूजिते।
तथेतरेषु सर्वेषु सर्वमेव प्रशस्यते।।
सूक्ष्माण्यङ्गुलिपर्वाणि दन्ता रोमाणि च च्छविः।
तथा नखाश्च सर्वे च पञ्चसूक्ष्मः प्रशस्यते।।
कक्षाक्षिकुक्षांसि तथा मुखं पृष्ठं कृकाटिका।
सर्वभूतेषु निर्दिष्टः षडुत्सेधः प्रशस्यते।।
पाणी पादौ तथा चास्यमुभे नेत्रे स्तनौ नखाः।
पञ्च रक्तानि यस्याहुर्मनुजेन्द्रं तमादिशेत्।।
उरो मुखं ललाटं च त्रिविस्तीर्णः प्रशस्यते।
सत्त्वं स्वरश्च नाभिश्च त्रिगम्भीरः प्रशस्यते।।
इति क्षेत्रम्।।८५-८८।।
अथ छायालक्षणमाह—
छायाशुभाशुभफलानि निवेदयन्ती
लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः ।
तेजोगुणान् बहिरपि प्रविकाशयन्ती
दीपप्रभा स्फटिकरत्नघटस्थितेव ॥८९॥
छाया के लक्षण को जानने वाले मनुष्यों को शुभाशुभ फल निवेदन करने वाली
और स्फटिक रत्नों से बने हुये घड़े में स्थित दीपप्रभा की तरह तेजसम्बन्धी गुणों को
बाहर में प्रकाशित करने वाली छाया का विचार करना चाहिये।।८९।।
छाया शरीरकान्तिः शुभानि अशुभानि च फलानि निवेदयन्ती कथयन्ती। लक्षणज्ञैश्छाया-
चिह्नज्ञैश्छाया लक्ष्या लक्षणीया, विचार्येत्यर्थः। केषु? मनुष्यपशुपक्षिषु। मनुष्याः पुरुषाः।
पशवश्चतुष्पदाः। पक्षिणो विहङ्गमाः। सा च शरीरान्तर्वर्तिनी बहिरपि शरीरबाह्येऽपि तेजो-
गुणान् तेजःसम्बन्धिगुणान् प्रकर्षेणातिशयेन विकासयन्ती प्रकाशयन्ती। कथम्? दीपप्रभा
स्फटिकरत्नघटस्थितेव, स्फटिकश्चासौ रत्नं च तत् स्फटिकरत्नं, स्फटिकरत्नस्य घटः
स्फटिकरत्नघटः, स्फटिकरत्नघटाभ्यन्तरस्थिता दीपप्रभा दीपकान्तिर्यथा बहिरपि तेजोगुणान्
प्रविकाशयति, तथान्तर्स्था छाया विकासयतीत्यर्थः।
तत्र तावत् पञ्चानां महाभूतानां सम्बन्धिन्यः पञ्च छाया भवन्ति। प्रथमत एव जातक
उक्तम्—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२३६ बृहत्संहिता
छायां महाभूतकृतां च सर्वे निर्व्यञ्जयन्ति स्वदशामवाप्य।
क्वम्ब्वग्नवाय्वम्बरजान् गुणांश्च नासास्यदृक्त्वक्श्रवणानुमेयान्।। इति।।८९।।
तत्रादावेव पार्थिवच्छायालक्षणमाह—
स्निग्धद्विजत्वङ्नखरोमकेशाश्छाया सुगन्धा च महीसमुत्था।
तुष्ट्यर्थलाभाभ्युदयान् करोति धर्मस्य चाहन्यहनि प्रवृत्तिम् ॥९०॥
जिस प्राणी के दाँत, त्वचा, नख, रोम और शिर के बाल स्निग्ध तथा शरीर
सुगन्धित हो, उसके ऊपर भूमि की छाया जाननी चाहिये। भूमि की छाया पुष्टि, धन-
लाभ, अभ्युदय और प्रति दिन धर्म में प्रवृत्ति कराती है॥९०॥
महीसमुत्था भूमिजा छाया यस्य जन्तोर्भवति यदा, तदा तस्य द्विजा दन्ताः, त्वक्
चर्म, नखाः, कररुहाः, रोमाण्यङ्गजानि, केशा मूर्धजाः। एते सर्व एव स्निग्धाः सस्नेहा
भवन्ति। तथा सा छाया शरीरकान्तिः सु
पुरुषलक्षणाध्यायः २३७
आग्नेयीति प्राणिनां स्याज्जयाय
क्षिप्रं सिद्धिं वाञ्छितार्थस्य दत्ते ॥९२॥
अग्नि की छाया क्रोधशीला, अधृष्या ( किसी से तिरस्कार को नहीं पाने वाली ),
कमल, अग्नि और सुवर्ण के समान कान्ति वाली तथा तेज, पराक्रम और प्रताप से युत
होती है। अग्नि की छाया प्राणियों की जय के लिये होती है तथा अति शीघ्र ही अभीष्ट
अर्थ की सिद्धि देने वाली होती है॥९२॥
आग्नेयी छाया चण्डा क्रोधशीला। अधृष्या अनभिभवनीया। पद्महमाग्निवर्णा, पद्मस्य
कमलस्य हेम्नः सुवर्णस्याग्नेर्हुताशनस्य सदृशवर्णा तुल्यकान्तिः। तथा युक्ता तेजोविक्रमैः
सप्रतापैः, तेजसा दीप्त्या विक्रमेण पराक्रमेण प्रतापेन शौर्येण शत्रूणां निग्रहेण च युक्ता
समवेता। एतैस्तेजोविक्रमैः सप्रतापैर्युक्ता एषा आग्नेयी छाया। इतिशब्दः प्रकाराय। एवं-
प्रकारा प्राणिनां देहिनां जयाय स्याद्भवेत् वाञ्छितस्याभिलषितस्यार्थस्य क्षिप्रमाश्वेव
सिद्धिं दत्ते ददाति॥९२॥
अधुना वायवीनाभस्योश्छाययोर्लक्षणमाह—
मलिनपरुषकृष्णा पापगन्धानिलोत्था
जनयति वधबन्धव्याध्यनर्थार्थनाशान् ।
स्फटिकसदृशरूपा भाग्ययुक्तात्युदारा
निधिरिव गगनोत्था श्रेयसां स्वच्छवर्णा ॥९३॥
वायु की छाया मलिन, रूखी, काली और दुर्गन्धयुत होती है। यह छाया वध,
बन्धन, रोग, लाभ में बाधा औन धन का नाश करती है। आकाश की छाया स्फटिक के
समान कान्ति वाली होती है। यह छाया भाग्ययुत, अति उदार, शुभ कार्यों की निधि के
समान और स्वच्छ वर्ण वाली होती है॥९३॥
अनिलोत्था वायुसमुत्था वायुसम्भवा छाया मलिनवर्णा अप्रसन्ना। परुषा रूक्षा।
कृष्णा असिता। पापगन्धा दुर्गन्धा। सा च जनयति उत्पादति। वधो मरणम्। बन्धो बन्धनम्।
व्याधयः पीडाः। अनर्थोऽलाभः। अर्थनाशः सञ्चितवित्तस्य क्षयः। एतान्।
अथ नाभस्याश्छायाया लक्षणमाह—स्फटिकेति। गगनोत्था आकाशजा छाया नाभसी।
स्फटिकसदृशरूपा स्फटिकमणेः सदृशं तुल्यं रूपं कान्तिर्यस्याः। अतिनिर्मलेत्यर्थः।
भाग्ययुक्ता भाग्यैः समेता। अत्युदारा अतिशयेनोदारा दानशीला श्रेयसां सर्वेषां शुभकार्याणां
निधिरिव। सर्वप्रदेत्यर्थः। सा च स्वच्छवर्णा निर्मलेति॥९३॥
अत्रैव परमतेनान्याः पञ्चच्छाया आह—
छायाः क्रमेण कुजलाग्न्यनिलाम्बरोत्थाः
केचिद्वदन्ति दश ताश्च यथानुपूर्व्या।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२३८ बृहत्संहिता
सूर्याब्जनाभपुरुहूतयमोडुपानां
तुल्यास्तु लक्षणफलैरिति तत्समासः ॥९४॥
क्रम से भूमि, जल, अग्नि, वायु और आकाश की छाया मैंने कही है। कोई-कोई
मुनि दश छाया कहते हैं। जैसे पूर्वोक्त भूमि आदि की पाँच छाया और सूर्य, विष्णु, इन्द्र,
यम, चन्द्र—इन पाँचों की पाँच छाया, इस प्रकार दश छाया कहते हैं; किन्तु सूर्य की
छाया आदि पाँच छायाओं का लक्षण और फल भी भूमि आदि के समान ही हैं। अतः
मैंने दश छाया का संक्षेप करके पाँच ही छाया कही है॥९४॥
कुः पृथिवी। जलं वारुणम्। अग्निर्मुताशनः। अनिलो वायुः। अम्बरमाकाशम्। एभ्य
उत्पन्नाश्छायाः क्रमेण परिपाट्या पञ्च। केचिन्मुनयो गर्गादयो दश च्छाया वदन्ति। उक्ताः
पञ्च पञ्च चेदानीं वक्ष्यन्ते। ताश्चापि यथानुपूर्व्या क्रमपरिपाट्या सूर्याब्जनाभपुरुहूतयमोडुपानां
सम्बन्धिन्यो भवन्ति। सूर्य आदित्यः। अब्जनाभो नारायणः। पुरुहूत इन्द्रः। यमः पितृपतिः।
उडुपश्चन्द्रः। एताश्छाया लक्षणैः फलैश्च यथाक्रमेण प्रागुक्तानां पञ्चानां तुल्या सदृश्यः।
यतः सौरी एवाग्नेयी। आब्जनाभी नाभसी। पौरहूति पार्थिवी। याम्या वायवी। औडुपी
चाप्या। इति तत्समासः। इति हेतोस्तासां दशानां छायानां समासः संक्षेपः कृतः। फल-
साम्यात् पञ्चैव छायाः कृताः। तथा च गर्गः—
भूम्यापोऽनलवाय्वभ्रसम्भूताः पञ्च कीर्तिताः।
छाया भूविष्णुशक्रार्कचन्द्राणां च तथापराः ॥
इति मृजा ॥९४॥
अथ स्वरलक्षणमाह—
करिवृषरथौघभेरीमृदङ्गसिंहाभ्रनिःस्वना भूपाः ।
गर्दभजर्जररूक्षस्वराश्च धनसौख्यसन्त्यक्ताः ॥९५॥
हाथी, बैल, रथसमूह, भेरी, मृदङ्ग, सिंह या मेघ के समान स्वर वाले राजा तथा
गर्दभ, जर्जर ( विकृत ) और रूखे स्वर वाले धन और सुख से हीन होते हैं॥९५॥
करी हस्ती। वृषो दान्तः। रथौघः स्यन्दनसमूहः। भेरी ढक्का। मृदङ्गो वादित्रो मण्डलेति
प्रसिद्धः। सिंहो हरिः। अभ्रो मेघः। अब्देति पाठः। अब्दो मेघः। एतेषां सदृशानिःस्वनाः,
तुल्यशब्दा भूपा राजानो भवन्ति। गर्दभः खरः। जर्जरो विकृतस्वरः। रूक्षः परुषः। गर्दभादि-
सदृशस्वरा धनसौख्यसन्त्यक्ता धनैः सुखैश्च वर्जिता इत्यर्थः। तथा च गर्गः—
गम्भीरो दुन्दुभिः स्निग्धो महांश्चैवानुनादवत्।
इति स्वरगुणान् पञ्च समुद्रः प्राह तत्त्ववित्॥
एभिरायुर्यशो विद्या मानं सौख्यं धनागमः।
वाहनानि सुता नार्यो राज्यभोगागमास्तथा॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुरुषलक्षणाध्यायः २३९
भिन्नो जर्जरितश्चैव मिर्मिणो गद्गदस्तथा।
क्षामस्वरस्तथैवोक्ताः समुद्रेणाभिनिन्दिताः ॥
स्वरैरेभिः कलिक्रोधलोभमोहतमोरजः।
नैर्घृण्यमभिमानं च पारुष्यं शाठ्यमेव च।। इति स्वरः ।।९५।।
अथ सारानाह—
सप्त भवन्ति च सारा मेदोमज्जात्वगस्थिशुक्राणि ।
रुधिरं मांसं चेति प्राणभृतां तत्समासफलम् ।।९६।।
शरीर में मेद (हड्डियों के अन्तर्गत स्नेह भाग), मज्जा (खोपड़ी के मध्य का
स्नेह भाग), चमड़ा, हड्डी, वीर्य, रुधिर, मांस—ये सात सार होते हैं। अब यहाँ संक्षेप
से इनके फल कहते हैं ।।९६।।
सप्त नराणां सारा भवन्ति । मेदोऽस्थ्यन्तरगतः स्नेहभागः। मज्जा कपालान्तरस्था।
त्वक् चर्म। अस्थि प्रसिद्धम्। शुक्रं रेतः। रुधिरं रक्तम्। मांसं पललम्। चशब्दः समुच्चये।
इत्येवम्प्रकाराः सप्त साराः प्राणभृतां देहिनां भवन्ति। तत्समासफलं तेषां संक्षेपफलं
कथ्यत इति ।।९६।।
तत्र तावद्रक्तसारस्य लक्षणमाह—
ताल्वोष्ठदन्तपालीजिह्वानेत्रान्तपायुकरचरणैः ।
रक्ते तु रक्तसारा बहुसुखवनितार्थपुत्रयुताः ॥९७॥
जिसके तालु, ओंठ, दाँत, मांस, जीभ, नेत्र के अन्तभाग, गुदा, हाथ, पाँव—ये
सभी लाल हों, वे रुधिरसार वाले मनुष्य होते हैं। रुधिरसार वाले पुरुष बहुत सुख, स्त्री,
धन और पुत्रों से युत होते हैं।।९७।।
ताल्वास्यपृष्ठभागः। ओष्ठौ दन्तच्छदौ। दन्तपाली दन्तमांसपङ्क्तिः। जिह्वा रसना।
नेत्रान्तं चक्षुष्पर्यन्तम्। पायुर्गुह्यस्थानम्। करौ हस्तौ। चरणौ पादौ। अस्मिन्नष्टके रक्ते
लोहिते सति रक्तसारा नरा भवन्ति। ते च बहुभिः सुखैर्वनिताभिः स्त्रीभिर्बहुभिरर्थैर्धनैर्बहुभिः
पुत्रैः सुतैश्च युताः संयुक्ता भवन्ति ।।९७।।
अथ त्वग्मज्जामेदःसारानाह—
स्निग्धत्वक्का धनिनो मृदुभिः सुभगा विचक्षणास्तनुभिः ।
मज्जामेदःसाराः सुशरीराः पुत्रवित्तयुताः ॥९८॥
स्निग्ध त्वचा वाले पुरुष धनी, कोमल त्वचा वाले भाग्यशाली और पतली त्वचा
वाले पण्डित होते हैं। मज्जासार वाले तथा मेदसार वाले मनुष्य सुन्दर, पुत्रवान और
धनी होते हैं।।९८।।
त्वक् चर्म। तच्च स्निग्धमरूक्षं येषां ते स्निग्धत्वक्कास्ते च धनिनो वित्तान्विता
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
२४० बृहत्संहिता
भवन्ति। मृदुभिः सुभगाः सौभाग्योपेता भवन्ति। तनुभिस्त्वग्भिर्विचक्षणाः पण्डिताः। ये
मज्जासारा नरा मेदःसाराश्च ते सुशरीराः शोभनशरीरा भवन्तीति तल्लक्षणम्। ते च पुत्र-
वित्तयुताः सुतधनान्विता भवन्तीति।।९८।।
अथास्थिशुक्रसारमाह—
स्थूलास्थिरस्थिसारो बलवान् विद्यान्तगः सुरूपश्च।
बहुगुरुशुक्राः सुभगा विद्वांसो रूपवन्तश्च ॥९९॥
अस्थिसार वाला मनुष्य मोटी हड्डी वाला, बलवान्, विद्वान् और सुन्दर होता है।
वीर्यसार वाला मनुष्य गाढ़े वीर्य वाला, भाग्यशाली, विद्वान् और सुन्दर होता है।।९९।।
स्थूलान्यस्थीनि यस्य सोऽस्थिसारः स च बलवान् प्राणी भवति। विद्यान्तगो विद्या-
स्वन्तः शक्तः, सुरूपः शोभनरूपश्च भवति। बहुगुरुशुक्राः, बहु प्रभूतं गुरु घनं शुक्लं
येषां ते शुक्रसारास्ते च सुभगाः, सौभाग्योपेता विद्वांसः पाठकाः पण्डिता रूपवन्तः सुरूपाश्च
भवन्ति।।९९।।
अथ मांससारलक्षणं संहतिलक्षणं चाह—
उपचितदेहो विद्वान् धनी सुरूपश्च मांससारो यः।
सङ्घात इति च सुश्लिष्टसन्धिता सुखभुजो ज्ञेया ॥१००॥
मांससार वाला मनुष्य स्थूल शरीर वाला, विद्वान्, धनी और सुन्दर रूप वाला
होता है। समस्त अंगसन्धियों की सुश्लिष्टता को 'संघात' कहा जाता है। संघातयुत मनुष्य
सुखी होते हैं।।१००।।
उपचितदेहः स्थूलशरीरः। स मांससारः स च विद्वान् पण्डितः। धनी वित्तवान् सुरूपः
शोभनरूपो भवति—इति सारः।
अथ संहतिलक्षणम्—सङ्घात इति। सुश्लिष्टसन्धिता सर्वाङ्गसन्धीनां सुश्लिष्टत्वं
सङ्घातः। सा च सुश्लिष्टसन्धिता सुखभुजः सुखिनो ज्ञेया। सुश्लिष्टसन्धिता येषां ते
सुखभुज इत्यर्थः।।१००।।
अथ स्नेहलक्षणमाह—
स्नेहः पञ्चसु लक्ष्यो वाग्जिह्वादन्तनेत्रनखसंस्थः।
सुतधनसौभाग्ययुताः स्निग्धैस्तैर्निर्धना रूक्षैः ॥१०१॥
पुरुष की वाणी, जीभ, दाँत, आँख, नख—इन पाँच स्थानों में स्नेह का विचार
करना चाहिये। जिनके ये पाँचों स्निग्ध हों वे पुरुष पुत्र, धन और सौभाग्य से युत तथा
जिनके रूक्ष हों वे निर्धन होते हैं।।१०१।।
पञ्चसु स्नेहो लक्ष्यो विचार्यः। केषु? वाचि वचने। जिह्वायां रसनायाम्। दन्तेषु
रदेषु। नेत्रयोश्चक्षुषोः। नखेषु कररुहेषु। एतेषु संस्थः। तैश्च वागादिभिः सर्वैः स्निग्धैः सस्नेहैः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुरुषलक्षणाध्यायः २४१
सुतधनसौभाग्ययुता नरा भवन्ति। सुतः पुत्रः। धनं वित्तम्। सौभाग्यं सर्वजनानां लक्ष्यम्।
एतैर्गुणैः संयुक्ताः। तैरेव सर्वै रूक्षैरस्निग्धैर्निर्धना दरिद्रा भवन्ति।।१०१।।
अथ वर्णलक्षणमाह—
द्युतिमान् वर्णस्निग्धः क्षितिपानां मध्यमः सुतार्थवताम्।
रूक्षो धनहीनानां शुद्धः शुभदो न सङ्कीर्णः ॥१०२॥
राजाओं का वर्ण कान्तियुत और स्निग्ध, पुत्रवान् धनिकों का वर्ण मध्यम और
निर्धनों का वर्ण रूखा होता है। पुरुष का शुद्ध स्निग्ध वर्ण शुभ और मिश्रित वर्ण अशुभ
होता है।।१०२।।
वर्णो गौरलोहितश्यामादिकः। वर्णः स्निग्धो यस्यासौ वर्णस्निग्धः स द्युतिमान्
दीप्तिमान् भवति। स च क्षितिपानां राज्ञां भवति। मध्यमो वर्णो नातिरूक्षो नातिस्निग्धः
ससुतार्थवतां पुत्रधनान्वितानां भवति। रूक्षो वर्णो धनहीनानां दरिद्राणां भवति। शुद्धो वर्णः
स्निग्ध एव शुभदः प्रशस्तः। न सङ्कीर्णो व्यामिश्रवर्णः। क्वचित् स्निग्धः क्वचिद्रूक्षो न
शुभदः। इति वर्णः।।१०२।।
अथानूकलक्षणमाह—
साध्यमनूकं वक्त्राद् गोवृषशार्दूलसिंहगरुडमुखाः।
अप्रतिहतप्रतापा जितरिपवो मानवेन्द्राश्च ॥१०३॥
वानरमहिषवराहाजतुल्यवदनाः श्रुतार्थसुखभाजः।
गर्दभकरभप्रतिमैर्मुखैः शरीरैश्च निःस्वसुखाः ॥१०४॥
मुख को देखकर पूर्व जन्म की कल्पना करनी चाहिये। गौ, बैल, बाघ, सिंह या
गरुड़ के समान मुख वाले मनुष्य का पूर्व जन्म शुभ होता है तथा वे अप्रतिहत प्रताप
वाले और शत्रुओं को जीतने वाले राजा होते हैं। बन्दर, महिष, सूअर या बकरे के
समान मुख वाले का पूर्व जन्म मध्यम होता है तथा वे शास्त्र, धन और सुख से युत
होते हैं। गदहा या ऊँट के समान मुख वाले का पूर्व जन्म अशुभ होता है तथा वे धन
और सुख से रहित होते हैं।।१०३-१०४।।
अनूकं प्राग्जन्म। तच्च वक्त्राद् मुखात् साध्यं कल्पनीयम्। गौः प्रसिद्धा। वृषो
दान्तः। शार्दूलः सिंहसदृशः प्राणिविशेषः। सिंहो हरिः। गरुडो वैनतेयः। एतेषां ये सदृश-
मुखास्तुल्यवक्त्राः। तेषां प्राग्जन्म शुभम्। ते चाप्रतिहतप्रतापा भवन्ति। अप्रतिहतोऽनभि-
भवनीयः प्रतापो येषाम्। जितरिपवो निर्जितशत्रवः, मानवेन्द्राश्च राजानो भवन्ति।
वानरः कपिः। महिषः प्रसिद्धः। वराहः सूकरः। अजश्छागः। एतेषां तुल्यवदनाः
सदृशमुखा नराः श्रुतार्थसुखभाजः। श्रुतं शास्त्रम्। अर्थो धनम्। सुखं प्रसिद्धम्। एषां भागिनो
भवन्ति। एतेषां मध्यमं प्राग्जन्म। गर्दभः खरः। करभ उष्ट्रः। गर्दभकरभप्रतिमैस्तत्सदृशै-
बृ० भ० द्वि०-१६
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२४२ बृहत्संहिता
मुँखैर्वदनैः शरीरैश्च देहैर्निःस्वसुखा भवन्ति। निःस्वा निर्धनाः। निःसुखाः सुखरहिताश्च।
तेषामशुभं प्राग्जन्म। इत्यनूक्तम्॥१०३-१०४॥
अथोन्मानलक्षणमाह—
अष्टशतं षण्णवतिः परिमाणं चतुरशीतिरति पुंसाम्।
उत्तमसमहीनानामङ्गुलसङ्ख्या स्वमानेन ॥१०५॥
अपनी अंगुलियों से १०८ अंगुल अपनी ऊँचाई हो तो उत्तम, ९६ अंगुल हो तो
मध्यम और ८४ अंगुल हो तो अधम होता है॥१०५॥
पुंसां पुरुषाणां स्वमानेनात्मीयप्रमाणेनाङ्गुलसङ्ख्याङ्गुलप्रमाणम्। अष्टशतमष्टाधिकं
शतं स्वाङ्गुलैरुत्तमानां नराणां परिमाणं भवति। षण्णवतिरङ्गुलानि मध्यमानाम्। चतुर-
शीतिरङ्गुलानि हीनानां परिमाणं भवति। उत्थितस्य पुरुषस्य भूपदसंयोगाच्छिरोमध्यं यावत्
सूत्रं दत्त्वा तन्मापयेत् स्वाङ्गुलैरिति स्थितिः। इत्युन्मानम्॥१०५॥
अथ मानलक्षणमाह—
भारार्धतनुः सुखभाक् तुलितोऽतो दुःखभागभवतूनः।
भारोऽतीवाढ्यानामध्यर्धः सर्वधरणीशः ॥१०६॥
एक भार में दो हजार पल होते हैं। आधा भार वाला पुरुष सुखी, इससे कम भार
वाला दुःखी, एक भार वाला अति धनी और डेढ भार वाला चक्रवर्ती होता है॥१०६॥
भारः पलसहस्रद्वयम्। यः पुरुषस्तुलायां तुलितो भारार्धतनुर्भवति दशपलशतानीत्यर्थः।
स सुखभाक् सुखितो भवति। अतोऽस्माद्भारार्धाद् य ऊनतनुः स दुःखभाग् दुःखितो
भवति। भारप्रमाणतनुरतीवाढ्यानामतिधनिनां भवति। अध्यर्धभारतनुस्त्रिसहस्रपलानि यः
स सर्वधरणीशः, सार्वभौमो राजा भवतीत्यर्थः॥१०६॥
कस्मिन् काले उन्मानमानेन मापयेदित्येतत्प्रतिपादयन्नाह—
विंशतिवर्षा नारी पुरुषः खलु पञ्चविंशतिभिरब्दैः।
अर्हति मानोन्मानं जीवितभागे चतुर्थे वा ॥१०७॥
बीस वर्ष की स्त्री और पच्चीस वर्ष वाले पुरुष के उन्मान और मान का विचार
करना चाहिये अथवा गणित से निर्णीत आयु का चतुर्थ भाग व्यतीत हो जाने पर उन्मान
और मान का विचार करना चाहिये॥१०७॥
नारी स्त्री विंशतिवर्षा मानोन्मानमर्हति। मानं तुलामानम्, उन्मानमूर्ध्वमानमङ्गुलादि।
एवं पुरुषो नरो वर्षपञ्चविंशत्या मानोन्मानमर्हति, मानोन्मानयोग्यो भवति। खलुशब्दो
वाक्यालङ्कारे। वर्षशतं जीवितप्रमाणं निश्चित्य विंशतिवर्षा नारीत्युक्तम्। जीवितभागे चतुर्थे-
ऽतीते वा मानोन्मानमर्हति। वर्षशतादूने तु जीविते निश्चिते चतुर्थभाग इत्युक्तम्। इति
मानम्॥१०७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुरुषलक्षणाध्यायः २४३
अथ प्रकृतिलक्षणमाह—
भूजलशिख्यनिलाम्बरसुरनररक्षःपिशाचकतिरश्चाम् ।
सत्त्वेन भवति पुरुषो लक्षणमेतद् भवति तेषाम् ॥१०८॥
पुरुषों में भूमि, जल, अग्नि, वायु, आकाश, देवता, मनुष्य, राक्षस, पिशाच, तिरछे
चलने वाले—इनका सत्त्व ( स्वभाव ) होता है, उनके ये वक्ष्यमाण लक्षण हैं॥१०८॥
भूः प्रसिद्धा। जलं वारुणम्। शिखी अग्निः। अनिलो वायुः। अम्बरमाकाशम्। सुरा
देवाः। नरा मनुष्याः। रक्षो राक्षसः। पिशाचा देवयोनयः। तिर्यञ्चस्तिर्यग्जातयः। एतेषां
सत्त्वेन प्रकृत्या पुरुषो नरो भवति। तेषां चैतद्वक्ष्यमाणं लक्षणं भवति। अत्र केचित् पठन्ति—
‘भूजलशिख्यनिलाम्बरसुरनररक्षःपिशाचतिर्यञ्चम्’ इति। तन्न; यस्मात् तिरश्चामिति भवितव्यम्।
तस्मात् प्राक्तनः पाठः शोभनः॥१०८॥
तत्र भूजलस्वभावयोर्लक्षणमाह—
महीस्वभावः शुभपुष्पगन्धः
सम्भोगवान् सुश्वसनः स्थिरश्च ।
तोयस्वभावो बहुतोयपायी
प्रियाभिभाषी रसभाजनश्च ॥१०९॥
भूमि प्रकृति वाला पुरुष सुन्दर पुष्पों के समान गन्ध वाला, भोगी, सुगन्धियुत
श्वास वाला और स्थिर स्वभाव वाला होता है। जल प्रकृति वाला मनुष्य अधिक जल
पीने वाला, मधुर बोलने वाला और मधुर रसप्रिय होता है॥१०९॥
महीस्वभावः भूप्रकृतिः पुरुषः। शुभपुष्पगन्धः शोभनानां चम्पकप्रभृतीनां पुष्पाणां
कुसुमानां सदृशो गन्धो यस्य स सम्भोगवान् सम्भोगशीलः। सुश्वसनः शोभनः श्वसनो
वातो यस्य। श्वसनशब्देनात्र सुखवहो वातः। स च सुगन्धस्तस्य भवतीत्यर्थः। स्थिरश्च
स्थिरस्वभावः। तोयस्वभावो जलप्रकृतिर्बहुतोयपायी बहु प्रभूतं तोयं जलं पिबति तच्छीलः।
प्रियाभिभाषी प्रियमनुकूलमभिभाषते वक्ति। रसभाजनश्च रसा मधुरादयस्तेषां भाजनो
योग्यस्तत्प्रियः। केचिद्रसभोजनश्चेति पठन्ति॥१०९॥
अथाग्निमारुतयोर्लक्षणमाह—
अग्निप्रकृत्या चपलोऽतितीक्ष्णश्चण्डः क्षुधालुर्बहुभोजनश्च ।
वायोः स्वभावेन चलः कृशश्च क्षिप्रञ्च कोपस्य वशं प्रयाति ॥११०॥
अग्नि प्रकृति वाला मनुष्य चञ्चल, खल, क्रूर, क्षुधा को नहीं सहने वाला और
बहुत भोजन करने वाला होता है। वायु प्रकृति वाला मनुष्य चञ्चल, दुर्बल और बहुत
जल्दी क्रोध के वश में आने वाला होता है॥११०॥
अग्निप्रकृत्या नरश्चपलः क्रियास्वनवस्थितः। अतितीक्ष्णः खलः। चण्डः क्रूरः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२४४ बृहत्संहिता
क्षुधालुः क्षुधां न सहते। बहुभोजनश्च बह्वाशी। वायोः स्वभावेन पुरुषश्चलोऽस्थिरमतिः।
कृशो दुर्बलः। कोपस्य क्रोधस्य क्षिप्रमाश्वेव वशं प्रयाति विधेयतां गच्छति।।११०।।
अथाकाशसुरसत्त्वयोर्लक्षणमाह—
खप्रकृतिर्निपुणो विवृतास्यः
शब्दगतेः कुशलः सुशिराङ्गः।
त्यागयुतः पुरुषो मृदुकोपः
स्नेहरतश्च भवेत् सुरसत्त्वः ॥१११॥
आकाश प्रकृति वाला मनुष्य कार्य में निपुण, खुले हुये मुख वाला, संस्कृत पद-
ज्ञान में कुशल और छिद्रयुत अंग वाला होता है। देवता प्रकृति वाला मनुष्य दानी, थोड़े
क्रोध वाला और प्रेमी होता है।।१११।।
खप्रकृतिराकाशस्वभावो नरो निपुणः कलासु सूक्ष्मदृष्टिः। विवृतास्य उद्घाटितमुखः।
शब्दगतेः कुशलः शब्दानां संस्कृतपदानां गतिर्व्याप्तिस्तस्याः कुशलः शक्तः। अथवा
शास्त्रे गतेर्गमनस्य कुशलः। केचिच्छब्दगतौ कुशल इति पठन्ति। शब्दगतौ गतिविषये
कुशलः। सुशिराङ्गः सुशिरावयवः। सुरसत्त्वो देवप्रकृतिः पुरुषस्त्यागयुतस्त्यागी। मृदुकोपो-
ऽल्पक्रोधः। स्नेहरतः प्रीतियुक्तश्च भवति।।१११।।
अथ पुरुषसत्त्वस्य लक्षणमाह—
मर्त्यसत्त्वसंयुतो गीतभूषणप्रियः।
संविभागशीलवान् नित्यमेव मानवः ॥११२॥
मनुष्य प्रकृति वाला मनुष्य गान और भूषण का प्रिय तथा बन्धुओं का उपकार
करने वाला होता है।।११२।।
मर्त्यो नरः। तत्सत्त्वसंयुतो गीतभूषणप्रियः, गीतप्रियो भूषणप्रियः। भूषणानि अलङ्करणानि
प्रियाणि यस्य। सम्यग्विभजनं संविभागः। संविभागवान् बान्धवानामुपकर्ता। शीलवान्
चरित्रयुक्तः। नित्यं सर्वकालम्। मानवो मनुष्यो भवति।।११२।।
अथ रक्षःपिशाचानां लक्षणमाह—
तीक्ष्णप्रकोपः खलचेष्टितश्च
पापश्च सत्त्वेन निशाचराणाम्।
पिशाचसत्त्वश्चपलो मलाक्तो
बहुप्रलापी च समुल्बणाङ्गः ॥११३॥
राक्षस प्रकृति वाला मनुष्य क्रोधी, दुष्ट स्वभाव वाला और पापी होता है। पिशाच
प्रकृति वाला मनुष्य चञ्चल, मलिन, बहुत प्रलाप करने वाला और मोटे शरीर वाला
होता है।।११३।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुरुषलक्षणाध्यायः २४५
निशाचराणां रक्षसां सत्त्वेन नरस्तीक्ष्णप्रकोपश्चण्डक्रोधः। खलचेष्टितः खलस्य
दुर्जनस्येव चेष्टितं यस्य। पापश्च, पापरतो भवति। पिशाचसत्त्वः पिशाचप्रकृतिर्नरश्चपलो-
ऽनेकमतिः। मलाक्तो मलोपदिग्धशरीरः। बहुप्रलापी बहुविधं प्रलपति। समुल्बणाङ्गः स्थूलाङ्गो
भवति।।११३।।
अथ तिर्यक्सत्त्वस्य लक्षणमाह—
भीरुः क्षुधालुर्बहुभुक् च यः स्याद्
ज्ञेयश्च सत्त्वेन नरस्तिरश्चाम्।
एवं नराणां प्रकृतिः प्रदिष्टा
यल्लक्षणज्ञाः प्रवदन्ति सत्त्वम्।।११४।।
तिर्यक् प्रकृति वाला पुरुष डरपोक, क्षुधा को नहीं सहन करने वाला और बहुत
भोजन करने वाला होता है। इस तरह मनुष्यों की प्रकृति का लक्षण कहा गया है, जो
प्रकृतिलक्षणज्ञों के द्वारा सत्त्व नाम से कही जाती है।।११४।।
यो नरः पुरुषो भीरुर्भयार्त्तः। क्षुधालुः क्षुधां न सहते। बहुभुग् बह्वाशी च यः स्यात्
स तिरश्चां तिर्यग्जातीनां सत्त्वेन ज्ञेयो ज्ञातव्यः। एवमनेन प्रकारेण नराणां पुंसां प्रकृतिः
प्रदिष्टा उक्ता। लक्षणज्ञाः पुरुषलक्षणविदो यत् सत्त्वमिति प्रवदन्ति कथयन्ति। तथा च गर्गः—
धन्यधन्यतरो वर्णो वर्णाद्धन्यतरः स्वरः।
स्वराद्धन्यतरं सत्त्वं सर्वं सत्त्वे प्रतिष्ठितम्।।
इति प्रकृतिसत्त्वम्।।११४।।
अथ गतिलक्षणमाह—
शार्दूलहंससमदद्विपगोपतीनां
तुल्या भवन्ति गतिभिः शिखिनां च भूपाः।
येषां च शब्दरहितं स्तिमितं च यातं
तेऽपीश्वरा द्रुतपरिप्लुतगा दरिद्राः ।।११५।।
सिंह, हंस, मतवाले हाथी, बैल और मयूर के समान गति वाले मनुष्य राजा होते
हैं। शब्दरहित और मन्द गति वाले भी धनी होते हैं तथा शीघ्र और मेढक के समान गति
वाले मनुष्य दरिद्र होते हैं।।११५।।
शार्दूलः सिंहः। हंसः पक्षी। केचिच्छार्दूलसिंहेति पठन्ति। शार्दूलः प्राणिविशेषः।
सिंहो हरिः। समदो मदसहितो द्विपो हस्ती। मत्तगज इत्यर्थः। गोपतिर्वृषः। तथा शिखी
मयूरः। एषां गतिभिर्गमनैस्तुल्याः सदृशगतयो भूपा राजानो भवन्ति। येषां च यातं गमनं
शब्दरहितं निःशब्दं स्तिमितमल्पं च तेऽपीश्वरा धनिनः। द्रुतपरिप्लुतगा दरिद्राः, द्रुतं त्वरितं
परिप्लुतं मण्डूकवज्जाताक्षेपं गच्छन्ति। ते दरिद्रा निर्धना भवन्ति। इति गतिः।।११५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२४६ बृहत्संहिता
सिद्धान्तमाह—
श्रान्तस्य यानमशनं च बुभुक्षितस्य
पानं तृषांपरिगतस्य भयेषु रक्षा।
एतानि यस्य पुरुषस्य भवन्ति काले
धन्यं वदन्ति खलु तं नरलक्षणज्ञाः ॥११६॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां पुरुषलक्षणं
नामाष्टषष्टितमोऽध्यायः ॥६८॥
जिस मनुष्य को थकने पर सवारी, भूख लगने पर भोजन, प्यास लगने पर पानी
और भय के समय रक्षक मिल जाय; मनुष्य के लक्षण जानने वाले पण्डित उस मनुष्य
को भाग्यशाली कहते हैं।।११६।।
इति 'विमला'हिन्दीटीकायां पुरुषलक्षणाध्यायोऽष्टषष्टितमः ॥६८॥
यस्य नरस्य श्रान्तस्य खिन्नस्य यानं वाहनमश्वादिकं भवति। बुभुक्षितस्याशनं भोजनं
भवति। तृषापरिगतस्य पिपासां गतस्य पानं जलं भवति। भयेषूत्पन्नेषु रक्षा परिपालनम्।
एतानि काले यथोपयुज्यमानानि भवन्ति। तं नरं धन्यं शुभलक्षणं वदन्ति कथयन्ति।
नरलक्षणज्ञाः पुरुषचिह्नविदः ।।११६।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ पुरुषलक्षणं
नामाष्टषष्टितमोऽध्यायः ॥६८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA