सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 259, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 259

पुरुषलक्षणाध्यायः २३१
विच्छिन्नाभिश्चेदयुक्ताभिर्ललाटरेखाभिरगम्यगामिनोऽगम्यागमनशीला भवन्ति, नवतिश्च
वर्षाणां तेषामायुर्भवति। अरेखेन रेखावर्जितेन ललाटेन नवतिरपि वर्षाणामायुः। अपिशब्दोऽत्र
चार्थे। अगम्यागामिनश्च भवन्ति। केशान्तो यतः प्रभृति केशानामुत्पत्तिः। केशान्तोपगताभिस्तत्र
प्राप्ताभिर्लेखाभिरशीतिर्वर्षाणामायुर्भवति।
पञ्चभिर्लेखाभिर्ललाटस्थिताभिः सप्ततिर्वर्षाणामायुः। एकस्मिन्नग्रे अवस्थिता एकाग्रा-
वस्थितास्ताभिः सर्वाभिरेकाग्रावस्थिताभिर्मिलिताभिरविच्छिन्नप्राप्ताभिः षष्टिर्वर्षाणामायुः। बहु-
रेखेण षड्भी रेखाभिरुपलक्षितेन शतार्धं पञ्चाशद्वर्षाणामायुः। रेखाभिर्वक्राभिरस्पष्टाभिश्च-
चत्वारिंशद्वर्षाण्यायुः।
रेखाभिर्भ्रूलग्नाभिः त्रिंशद्वर्षाणि। वामभागवक्राभिः कुटिलाभिर्विंशतिकः, विंशतिवर्षाणां
जीवितपरिमाणं यस्य स विंशतिकः। क्षुद्राभिः सूक्ष्माभिरल्पायुर्विंशतेरूनमायुः। उक्तान्यूनाभी
रेखाभिर्द्वाभ्यामेकया वा चशब्दात् स्वल्पायुरेव। अन्तरे मध्ये कल्प्यं कल्पनीयं स्वबुद्धयोह्यम्।
यथा तिस्रो रेखाः शतजीविनामिति, चतसृभिर्नवतिश्चायुषः सपञ्चाब्दा इत्युक्तम्। अत्रान्तरे
सार्धास्तिस्रो रेखा यस्य तस्य सार्धसप्तनवतिवर्षाण्यायुरित्याद्यन्तरे कल्पनीयम्। तथा च—
रेखाः पञ्च ललाटे तु यस्यासौ धनवान् स्मृतः।
शतं जीवति वर्षाणामैश्वर्यमधिगच्छति॥
चतू रेखो ह्यशीतिस्तु त्रिभिः सप्ततिरेव च।
षष्टिर्द्वाभ्यां तु रेखाभ्यां चत्वारिंशत् तथैकया॥
अरेखेन ललाटेन भवन्ति निधिपालकाः।
रेखाछेदैस्तु विज्ञेयाः पापकर्मरता नराः॥
अल्पायुष्स्तथल्पासु व्याधियुक्ताश्च ते सदा।
त्रिशूलं पट्टिसं वापि ललाटे यस्य दृश्यते॥
ऐश्वर्यं तस्य विज्ञेयं सेनानां नायकश्च सः॥ इति॥७५-७८॥
अथ शिरोलक्षणमाह—
परिमण्डलैर्गवाढ्याश्छत्राकारैः शिरोभिरवनीशाः।
चिपिटैः पितृमातृघ्नाः करोटिशिरसां चिरान्मृत्युः॥७९॥
घटमूर्धान्वानरुचिर्द्विमस्तकः पापकृद्धनैस्त्यक्तः।
निम्नं तु शिरो महतां बहुनिम्नमनर्थदं भवति॥८०॥
गोल शिर वाले पुरुष गायों से युत, छत्र की तरह ऊपर से विस्तीर्ण शिर वाले
राजा, चिपटे शिर वाले पिता-माता के घातक और करोटि (शिरस्त्राण) के समान शिर
वाले दीर्घायु होते हैं। घड़े के समान शिर वाले पुरुष पापी और निर्धन, निम्न शिर वाले
प्रतिष्ठित तथा अतिनिम्न शिर वाले पुरुष अनर्थकारी होते हैं॥७९-८०॥
परिमण्डलैः परिवर्तुलैः शिरोभिर्मस्तकैर्र्गवाढ्या गोबहुला भवन्ति। छत्राकारैश्छत्राकृति-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA