सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 255, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 255

पुरुषलक्षणाध्यायः २२७
लोहितवर्णा अन्ताः पर्यन्ता विलोचनयोर्येषां ते रक्तान्तविलोचनास्ते च श्रियो भाजो लक्ष्मीवन्तः।
मधुपिङ्गलैर्मधुवत् कपिलवर्णैर्नयनैर्महार्था महाधनाः। मार्जारो विडालस्तत्सदृशविलोचना-
स्तदाकाराक्षाः पापा भवन्ति।
हरिणाक्षा मृगलोचनास्तथा मण्डललोचनाः परिवर्तुलनेत्रा जिह्मैश्चरैश्च लोचनैश्चौ-
रास्तस्करा भवन्ति। केकरनेत्रा नीलाक्षाः क्रूराः कराला विषमा भवन्ति। गजसदृशविलोचना
हस्तितुल्यनेत्राश्चभूपतयः सेनापतयो भवन्ति।
गम्भीरैर्नेत्रैश्वर्यं भवति। नीलोत्पलकान्तिभिनेत्रैस्तत्सदृशतारकैर्विद्वांसः पण्डिता भवन्ति।
अतिकृष्णतारकाणामक्ष्णां नेत्राणामुत्पाटनं भवति। अत्यसिततारके अक्षिणी उत्पाट्येते।
स्थूला दृष्टियेषां ते स्थूलदृशस्तेषां मन्त्रित्वं भवति। मन्त्री भवतीत्यर्थः। श्यावाक्षाणां
श्यावे मुद्गाभे अक्षिणी तारके येषां तेषां सौभाग्यं भवति। दीना दैत्यं गता दृग् दृष्टियेषां
ते निःस्वा निर्धना भवन्ति। स्निग्धा निर्मला विपुला विस्तीर्णा च दृष्टिरर्थवतां धनिनां भोगवतां
च भवति। तथा च—
समे गोक्षीरवर्णाभे रक्तान्ते कृष्णतारके।
प्रसन्ने च विशाले च स्निग्धे चैवायते शुभे।।
अतसी पुष्पसङ्काशे भवेतां यस्य लोचने।
भूपतिः स तु विज्ञेयो समुद्रवचनं यथा।।
व्याघ्रचक्षुर्धनैर्युक्तः कर्कटाक्षः कलिप्रियः।
विडालहंसनेत्राश्च भवन्ति पुरुषाधमाः।।
मयूरनकुलाक्षाश्च नरास्ते मध्यमाः स्मृताः।
न स्त्रीस्त्यजति सर्वत्र पुरुषं मधुपिङ्गलम्।।
आज्यपिङ्गलनेत्राश्च राजानो भोगसंयुताः।
रोचनाहरितालाक्ष गजपिङ्गा धनेश्वराः।।
बलवन्तो गुणोपेताः पृथिव्यां चक्रवर्तिनः।
तप्तहाटकवर्णाभे भवेतां यस्य लोचने।।
भूपतिः स तु विज्ञेयः समुद्रवचनं यथा।
द्विमात्रस्पन्दिनो ये तु धनिनस्ते प्रकीर्तिताः।।
त्रिमात्रस्पन्दिनो ज्ञेयाः पुरुषाः सुखजीविनः।
चतुर्मात्रनिमेषश्च धनवान् परिकीर्तितः।।
दीर्घायुषो धर्मरताः पञ्चमात्रनिमेषिणः।। इति।।६४-६७।।
अथ भ्रूलक्षणमाह—
अभ्युन्नताभिरल्पायुषो विशालोन्नताभिरतिसुखिनः।
विषमभ्रुवो दरिद्रा बालेन्दुनतभ्रुवः सधनाः।।६८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA