बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
१५२ बृहत्संहिता
नृपभयमव्यङ्गायां हीनाङ्गायामकल्यता कर्तुः ।
शातोदर्यां क्षुद्भयमर्थविनाशः कृशाङ्गायाम् ॥५०॥
मरणं तु सक्षतायां शस्त्रनिपातेन निर्दिशेत् कर्तुः ।
वामावनता पत्नीं दक्षिणविनता हिनस्त्यायुः ॥५१॥
अन्धत्वमूर्ध्वदृष्ट्या करोति चिन्तामधोमुखी दृष्टिः ।
सर्वप्रतिमास्वेयं शुभाशुभं भास्करोक्तसमम् ॥५२॥
एक हाथ ऊँची सूर्य की प्रतिमा शुभ, दो हाथ ऊँची धन देने वाली तथा तीन हाथ
ऊँची प्रतिमा क्षेम और सुभिक्ष के लिये होती है। अधिक अंग वाली प्रतिमा राजा से
भय, हीनांग प्रतिमा बनाने वाले को रोगी, कृश उदर वाली प्रतिमा क्षुधा का भय और
कृश अंग वाली प्रतिमा धन का नाश करती है। क्षत प्रतिमा बनाने वाले की शस्त्र से
मृत्यु, बायीं ओर झुकी हुई प्रतिमा बनाने वाले की पत्नी का नाश और दाहिनी तरफ
झुकी हुई प्रतिमा आयु का नाश करती है। प्रतिमा की दृष्टि ऊपर की तरफ हो तो बनाने
वाले को अन्धा और नीचे की तरफ हो तो बनाने वाले को चिन्तित करती है। सूर्य की
प्रतिमा के सम्बन्ध में उक्त शुभाशुभ फल ही अन्य प्रतिमाओं के सम्बन्ध में भी जानना
चाहिये।।४९-५२।।
सौम्या तु हस्तमात्रेति । हस्तमात्रा हस्तप्रमाणा दीर्घा प्रतिमा सौम्या शुभावहा भवति।
हस्तद्वयोच्छ्रिता वसुदा धनप्रदा भवति। या त्रिचतुर्हस्तप्रमाणा सा यथासङ्ख्यं क्षेमसुभिक्षाय
भवेत्। त्रिहस्ता क्षेमाय चतुर्हस्ता सुभिक्षाय भवेत् स्यात्।
नृपभयमिति । अत्यङ्गायामिति । स्थूलावयवायां नृपभयं राजभयं भवति। हीनाङ्गायां
प्रमाणहीनावयवायां कर्तुरकल्यता अनारोग्यम्। शातोदर्यां तनूदरायां क्षुद्भयं भवति। कृशा-
ङ्गायां दुर्बलावयवायामर्थविनाशो वित्तक्षयः।
सक्षतायां क्षतसंयुक्तायां प्रतिमायां कर्तुः शस्त्रनिपातेन मरणं निर्दिशेद्वदेत्। वामे
वामभागे अवनता प्रतिमा कर्तुः पत्नीं भार्यां हिनस्ति मारयति, दक्षिणे विनता आयुर्जीवितं
हिनस्ति मारयति। आयुषः क्षयं करोति। अन्धत्वमूर्ध्वदृष्ट्या प्रतिमा नेत्रनाशं करोति। अधो-
मुखी दृष्टिश्चिन्तां शोकं करोति। एवं भास्करोक्तसमं सूर्यकथिततुल्यं शुभाशुभं सर्वासु
प्रतिमास्वन्यासु ज्ञेयं ज्ञातव्यम्।।४९-५२।।
अधुना लिङ्गस्य लक्षणमाह—
लिङ्गस्य वृत्तपरिधिं दैर्घ्येणासूत्र्य तत्रिधा विभजेत् ।
मूले तच्चतुरस्रं मध्ये त्वष्टाश्रिं वृत्तमत्तः ॥५३॥
चतुरस्रमवनिखाते मध्यं कार्यं तु पिण्डिकाश्वभ्रे ।
दृश्योच्छ्रायेण समा समन्ततः पिण्डिका श्वभ्रात् ॥५४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
प्रतिमालक्षणाध्यायः १५३
लिङ्ग की परिधि को लम्बाई में सूत्र से नाप कर उसके तुल्य पत्थर, लकड़ी या
मणि का लिङ्ग बनाना चाहिये। उसको तीन भाग करके मूल का प्रथम भाग चतुरस्र,
मध्य भाग अष्टास्र और ऊपर का भाग गोल बनाना चाहिये। प्रतिमा के चतुरस्र भाग को
भूमि में गाड़ना चाहिये, अष्टास्र भाग को पिण्डिका ( जलहरी = जलधरी ) के गड्ढे में
रखना चाहिये और वर्तुल भाग को ऊपर रखना चाहिये। ऊपर के दृश्य वर्तुल भाग की
ऊँचाई के तुल्य ही गड्ढे के चारो और पीठिका बनानी चाहिये।।५३-५४।।
लिङ्गस्य वृत्तभागे यः परिणाहस्तं सूत्रेण परिच्छिद्य तत् सूत्रं दैर्घ्येण दीर्घत्वेन आसूत्र्य
मित्वा तत्प्रमाणं पाषाणं काष्ठं मणिं वा कृत्वा त्रिधा विभजेत्, भागत्रयं कुर्यात्। ततो
लिङ्गस्य मूले योऽसौ त्रिभागस्तं चतुरस्रं कार्यम्। मध्ये यस्तमष्टाश्रिं कुर्यात्। अतः परं
यस्तृतीयभागस्तं वृत्तं परिवर्तुलं कुर्यात्।
तत्र चतुरस्रं यद्भागं तदवनिखाते भूखाते कार्यं क्षेप्यम्। मध्यं यदष्टाश्रि तत्
पिण्डिकाश्वभ्रे पीठगर्ते क्षिपेत्। श्वभ्रात् पीठविवरात् समन्ततः सर्वासु दिक्षु पीठिका दृश्यो-
च्छ्रायेण समा कार्या। दृश्यभागस्य परिवर्तुलस्य लभ्यो य उच्च्रायस्तत्समः। एतदुक्तं
भवति—यावत्प्रमाणं वृत्तभागस्य दैर्घ्यं तावत्प्रमाणं समन्ततः पीठिकापृथुत्वं कार्य-
मिति।।५३-५४।।
अन्यद्विशेषलक्षणमाह—
कृशदीर्घं देशघ्नं पार्श्वविहीनं पुरस्य नाशाय।
यस्य क्षतं भवेद् मस्तके विनाशाय तल्लिङ्गम् ॥५५॥
यदि शिवलिङ्ग पतला या लम्बा हो तो देश का नाश, दोनों तरफ से खण्डित हो तो
नगर का नाश और क्षत मस्तक वाला हो तो स्वामी का नाश करता है।।५५।।
यल्लिङ्गं कृशं दुर्बलं दीर्घमभ्युच्छ्रितं तद्देशघ्नं देशं हन्ति। यत् पार्श्वभ्यां विहीनं
तत् पुरस्य नगरस्य नाशाय भवति। यस्य मस्तके मूर्धनि क्षतं छिद्रं भवेत् स्यात् तल्लिङ्गं
विनाशाय भर्तुरिव भवति।।५५।।
अथ मातृगण एवं तस्य लक्षणमाह—
मातृगणः कर्तव्यः स्वनामदेवानुरूपकृतचिह्नः।
रेवन्तोऽश्वारूढो मृगयाक्रीडादिपरिवारः ॥५६॥
मातृगणों की प्रतिमा अपने नाम में जो देवता हों, उनके सदृश बनानी चाहिये। जैसे
ब्रह्मा के तुल्य ब्राह्मी की, इन्द्र के तुल्य इन्द्राणी की, शिव के तुल्य शिवा की इत्यादि;
परन्तु इन प्रतिमाओं में स्तन-शोभा, मध्य में कृश और पृथु नितम्ब भी बना देना चाहिये,
जिससे कि स्त्री की शोभा प्रतिमा में अवतरित हो जाय। घोड़े पर सवार और मृगयारूप
क्रीडा में संलग्न परिवार वाली प्रतिमा रेवन्त (सूर्य के पुत्र) की बनानी चाहिये।।५६।।
मातृगणो मातृसमूहः स्वनामदेवानुरूपकृतचिह्नः कर्तव्यः। स्वनामा यो देवस्तदनुरूपं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१५४ बृहत्संहिता
तादृक् कृतं चिह्नं लक्षणं यस्य। यथा ब्रह्मणो यल्लिङ्गम् 'ब्रह्माकमण्डलुकरश्चतुर्मुखः
पङ्कजासनस्थश्च' इति ब्राह्मी कार्या। 'कार्योऽष्टभुजो भगवान्' इति वैष्णवी। 'शम्भोः
शिरसीन्दुकला' इति रौद्र्यः कार्याः। 'स्कन्दः कुमाररूपः' इति कौमार्यः। 'शुक्लश्चतुर्विषाणो
द्विपो महेन्द्रस्य वज्रपाणित्वम्' इत्यैन्द्र्यः। 'दण्डी यमो महिषगः' इति याम्यः। 'हंसारूढः
पाशभृद्वरुणः' इति वारुण्यः। 'नरवाहनः कुबेरः' इति कौबेर्यः। एवमन्यासां नारसिंहिवाराहिवै-
नायकीनामप्यूह्यम्; किन्तु तासां स्तनशोभा मध्यक्षामता नितम्बवैपुल्यं कार्यम्, येन
प्रकारेण स्त्रीरूपस्य शोभा जायत इति। रेवन्तोऽर्कतनयोऽश्वारूढः कार्यः। अश्वस्तुरगः
तत्रारूढस्तदुपरि स्थित इत्यर्थः। तथा मृगया मृगवधस्तत्क्रीडादिपरिवार इति। यः परिवारः
स मृगयायुक्तः क्रीडायुक्तः। आदिग्रहणादश्ववाहने तत्परीक्षणं तदन्वेषणादि।।५६।।
अथ यमवरुणकुबेरलक्षणमाह—
दण्डी यमो महिषगो हंसारूढश्च पाशभृद्वरुणः।
नरवाहनः कुबेरो वामकिरीटी बृहत्कुक्षिः ।।५७।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां प्रतिमालक्षणं
नामाष्टपञ्चाशत्तमोऽध्यायः ।।५८।।
यम की प्रतिमा को हाथ में दण्ड देकर भैंस पर चढ़ाना चाहिये। वरुण की प्रतिमा
को हंस पर चढ़ा कर हाथ में पाश धारण कराना चाहिये। कुबेर की प्रतिमा मनुष्य पर
चढ़ी हुई, बायीं ओर झुकी हुई किरीट वाली और बड़े उदर वाली बनानी चाहिये।।५७।।
यमः प्रेतपतिर्दण्डी दण्डहस्तो महिषारूढश्च कार्यः। वरुणोऽपाम्पतिः, हंसारूढः
हंसः पक्षी तस्मिन्नारूढस्तस्योपरि स्थितः, पाशभृत् पाशहस्तः कार्यः। कुबेरो वैश्रवणो
नरवाहनो मनुष्यारूढः। खरवाहन इति केचित् पठन्ति। वामकिरीटी वामभागे किरीटी
मुकुटं यस्य। बृहत्कुक्षिर्विस्तीर्णकुक्षिः कार्यः। अत्र प्रतिमालक्षणं देवानां देवतानां यल्लक्षण-
माचार्येणोक्तं तेषां लोकप्रसिद्धा यथा यथा शरीरशोभा भवति, तथा तथोक्तवत्प्रतिमा कार्या
लक्षणज्ञैः, स्वैरङ्गुलप्रमाणैरित्यादि यदुक्तं तत्सर्वं कार्यमिति। तथा च काश्यपः—
एकदंष्ट्रो गजमुखश्चतुर्बाहुर्विनायकः।
लम्बोदरः स्थूलदेहो नेत्रत्रयविभूषितः।।
नवकुवलयकान्तिमक्षमालां कमलकमण्डलुदर्पणाक्षहस्ताम्।
प्रणमतवरपीनपीठपद्मासनसुखितां परमेश्वरीं वितस्ताम्।।
ब्रह्मा चतुर्मुखो दण्डी कृष्णाजिनकमण्डली।
विष्णुश्चतुर्भुजः शार्ङ्गी शङ्खचक्रगदाधरः।
श्रीवत्साङ्कः पीतवासा वनमालाविभूषितः।।
नरसिंहः स्थूलदेहो रोमावर्तविभूषितः।
उद्घाटितमुखः स्रग्वी वह्निकान्तिर्बृहद्भुजः।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
प्रतिमालक्षणाध्यायः १५५
वराहः सूकरमुखश्चतुर्बाहुर्विभूषितः ।
नीलाञ्जनचयप्रख्यो ध्यानशक्तः सुलोचनः ।।
ईश्वरो जटिलस्त्र्यक्षो वृषचन्द्राङ्कभूषितः ।
उरगेन्द्रोपवीती च कृत्तिवासाः पिनाकधृक् ।।
चण्डिकाष्टदशभुजा सर्वप्रहरणान्विता ।
त्र्यक्षा सिंहरथा धन्या महिषासुरसूदिनी ।।
मयूरवाहनः स्कन्दः शक्तिकुक्कुटधारकः ।
सुरूपदेहो विक्रान्तो देवः सेनापतिः शिशुः ।।
आदित्यस्तरुणः स्रग्वी कवची खड्गधृक् तथा ।
तेजस्वी पङ्कजकरः षड्वर्गश्च किरीटवान् ।।
ऐरावतश्चतुर्दन्तः श्वेतगात्रो महागज़ः ।
तदारूढो महेन्द्रस्तु वज्रहस्तो महाबलः ।।
तिर्यग्ललाटगं नेत्रं तृतीयं तस्य कारयेत् ।
नीललोहितवर्णा च शची तस्य समीपगा ।।
एवं देवगणाः सर्वे स्वायुधाभरणोज्ज्वलाः ।
कर्तव्याः स्वस्वरूपाश्च सम्पूर्णाः शुभलक्षणाः ।।
हस्तमात्रा भवेत् सौम्या द्विहस्तानान्नधनप्रदा ।
सुभिक्षक्षेमदा पुण्या त्रिहस्ता तु चतुष्करा ।।
वैकल्यं कुरुते हीना कृशाङ्गी देहनाशिनी ।
मरणं सक्षतायां तु सुदीर्घा वित्तनाशिनी ।।
वामे नता हन्ति पत्नीं कर्तुर्दक्षिणभागगा ।
ऊर्ध्वदृष्टिर्नेत्ररोगं गोकर्णा स्यादधोमुखी ।।
सुरूपा सुप्रभागैव सर्वाभरणभूषिता ।
स्वायुधैश्च समायुक्ता कर्तव्या प्रतिमा शुभा ।। इति ।। ५७ ।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ प्रतिमालक्षणं
नामाष्टपञ्चाशत्तमोऽध्यायः ।। ५८ ।।
( प्रमथाधिपो गजमुखः प्रलम्बजठरः कुठारघाती स्यात् ।
एकविषाणो बिभ्रन्मूलककन्दं सुनीलदलकन्दम् ।।
हाथी के समान मुख वाली, लम्बे उदर वाली, कुठारधारिणी, एक दाँत वाली और
मूलककन्द तथा सुनीलदलकन्द धारण की हुई गणेश की प्रतिमा बनावे । )
इति 'विमला' हिन्दीटीकायां प्रतिमालक्षणाध्यायोऽष्टपञ्चाशत्तमः ॥ ५८ ॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ वनसम्प्रवेशाध्यायः
अथ वनसम्प्रवेशाध्यायो व्याख्यायते। तत्रादावेव विधानमाह—
कर्तुरनुकूलदिवसे दैवज्ञविशोधिते शुभनिमित्ते।
मङ्गलशकुनैः प्रास्थानिकैश्च वनसम्प्रवेशः स्यात् ॥१॥
प्रतिमा बनाने वाले को चाहिये कि अनुकूल दिन में, दैवज्ञ के द्वारा विशोधित मुहूर्त
में, यात्रा प्रकरण में विहित शुभ शकुन को देख कर प्रतिमा बनाने हेतु लकड़ी लाने के
लिये वन में प्रवेश करे ॥१॥
कर्तुः प्रतिमाकर्तुः। अनुकूलदिवसे उपचयकर्तृग्रहस्य दिने निरुपहते नक्षत्रे च। दैवज्ञ-
विशोधिते शुभनिमित्ते, दैवज्ञेन कालविदा यच्च विशोधितं दत्तं शुभनिमित्तं शकुनं सुमुहूर्ता-
दिकं च तस्मिन्। प्रास्थानिकैर्मङ्गलशकुनैः, प्रस्थाने भवाः प्रास्थानिकाः प्रस्थाने यात्रायां यानि
मङ्गलशकुनानि उक्तानि तैः। सिद्धार्थकादर्शपयोऽञ्नानीत्यादिकानि मङ्गलानि। श्रेष्ठे हयसिते
प्राच्यामित्यादिकाः शकुनाः। एतैः प्रास्थानिकैर्मङ्गलशकुनैर्वनसम्प्रवेशः स्याद् भवेत्। वने
वृक्षबहुले देशे प्रवेशः प्रतिमाकाष्ठार्थं कार्य इति॥१॥
अत्र च वर्जनीयान् वृक्षानाह—
पितृवनमार्गसुरालयवल्मीकोद्यानतापसाश्रमजाः ।
चैत्यसरित्सङ्गमसम्भवाश्च घटतोयसिक्ताश्च ॥२॥
कुब्जानुजातवल्लीनिपीडिता वज्रमारुतोपहताः ।
स्वपतितहस्तिनिपीडितशुष्काग्निप्लुष्टमधुनिलयाः ॥३॥
तरवो वर्जयितव्याः शुभदाः स्युः स्निग्धपत्रकुसुमफलाः ।
अभिमतवृक्षं गत्वा कुर्यात् पूजां सबलिपुष्पाम् ॥४॥
श्मशान के मार्ग, देवालय, वल्मीक, उपवन और तपस्वियों के आश्रम में उत्पन्न,
चैत्य (प्रधान), नदियों के संगम-स्थान में उत्पन्न, घड़ों के जल से सिञ्चित, कुबड़े
अन्य वृक्षों के संयोग से पीड़ित, लताओं से पीड़ित, बिजली से भग्न, वायु से भग्न,
हाथियों से भग्न, सूखे, अग्नि से दग्ध और मधुमक्खियों के छत्ते वाले वृक्षों का
(प्रतिमा-निर्माण हेतु लकड़ी के इच्छुक व्यक्ति द्वारा) त्याग कर देना चाहिये। स्निग्ध
पत्ते, फूल और फल वाले वृक्ष शुभ होते हैं। इस प्रकार अभीष्ट वृक्ष के पास जाकर
बलि और पुष्पों के द्वारा सर्वप्रथम उस वृक्ष की पूजा करनी चाहिये॥२-४॥
एवंविधास्तरवो वृक्षा वर्जयितव्याः। कीदृशाः ? पितृवनं श्मशानम्, मार्गः पन्थाः,
सुरालयं देवगृहम्, वल्मीको वल्मीककृतो मृत्स्तूपः, उद्यानमुपवनम्, तापसाश्रमस्तपोवनम्,
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
वनसम्प्रवेशाध्यायः १५७
एतेषु ये जाता उत्पन्ना वृक्षाः, तथा चैत्यः प्रधानवृक्षः, सरितो नद्यस्तासां सङ्गमो मेलक-
स्तत्र येषां वृक्षाणां सम्भव उत्पत्तिः, तथा घटतोयेन कलशजलेन सिक्ताः सेचिता ये
वृक्षाः, तेषां स्वयं रोपितत्वाच्छेदाईत्वात्।
कुब्जोऽस्पष्टः, अनुजातो वृक्षस्य अनु पश्चादन्यो यो वृक्षो जात उत्पन्नस्तेन योगेन
पीडितः। ये च वृक्षा वल्लीभिर्निपीडिताः, वज्रमशनिर्मारुतो वायुस्ताभ्यां ये चोपहता भग्नाः,
यश्च स्वपतितः स्वयमेव पतितः, हस्तिना गजेन निपीडितो यो भग्नः, शुष्को विगतरसः,
अग्निप्लुष्टोऽग्निना दग्धः, मधुनिलयो मधुमक्षिकाणामाश्रयः।
एवमेते यथोक्तास्तरवो वर्ज्याः। अन्ये परिशिष्टा वृक्षाः शुभदाः। ते च स्निग्धपत्राः स्निग्ध-
कुसुमाः सस्नेहपुष्पाः स्निग्धफलाश्च शुभदा एव। ततोऽभिमतमभीष्टं वृक्षं तरुं गत्वा आसाद्य
तस्य सबलिपुष्पां बलिभिरुपहारैः पुष्पैः कुसुमैः सहितां पूजामर्चां कुर्यात्।।२-४।।
अथ वर्णानुक्रमेण वृक्षानाह—
सुरदारुचन्दनशमीमधूकतरवः शुभा द्विजातीनाम्।
क्षत्रस्यारिष्टाश्वत्थखदिरबिल्वा विवृद्धिकराः ॥५॥
वैश्यानां जीवकखदिरसिन्धुकस्यन्दनाश्च शुभफलदाः।
तिन्दुककेसरसर्जार्जुनाम्रशालाश्च शूद्राणाम् ॥६॥
देवदारू, चन्दन, शमी और महुआ के वृक्ष ब्राह्मणों के लिये; निम्ब, पीपल, खैर
और बेल के वृक्ष क्षत्रियों के लिये; जीवक, खैर, सिन्धुक और स्यन्दन के वृक्ष वैश्यों
के लिये तथा तेन्दू, नागकेसर, सर्ज, अर्जुन और साल के वृक्ष शूद्रों के लिये शुभदायक
कहे गये हैं।।५-६।।
सुरदारुर्देवदारुः। चन्दनं मलयजम्। शमी प्रसिद्धा। मधूको वृक्षः प्रसिद्धः। एते तरवो
वृक्षाः प्रतिमार्थं देवविग्रहार्थं च द्विजातीनां ब्राह्मणानां शुभदाः। अरिष्टः, अश्वत्थः, खदिरो
बिल्वश्चैते सर्व एव वृक्षविशेषाः क्षत्रस्य क्षत्रियजातेर्विवृद्धिकराः।
जीवकः, खदिरः, सिन्धुकः, स्यन्दनः—एते वृक्षविशेषा वैश्यानां शुभफलदाः।
तिन्दुकः, केसरः, सर्जः, अर्जुनः, आम्रः, शालः—एते वृक्षाः शूद्राणां शुभदाः। तथा च
काश्यपः—
सुरदारुः शमीवृक्षो मधूकश्चन्दनस्तथा।
प्रतिष्ठार्थं ब्राह्मणानामेते प्रोक्ताः शुभावहाः।।
अरिष्टाश्वत्थखदिरबिल्वाः क्षत्रियजातिषु।
जीवकः खदिरश्चैव सिन्धुकः स्यन्दनस्तथा।।
वैश्यानां शुभदाः प्रोक्तास्तिन्दुकः केसरस्तथा।
सर्जार्जुनाम्रशालाश्च शूद्राणां शुभदाः स्मृताः।। इति।।५-६।।
१५८ बृहत्संहिता
अत्रैव विशेषमाह—
लिङ्गं वा प्रतिमा वा द्रुमवत् स्थाप्या यथा दिशं यस्मात् ।
तस्माच्चिह्नयितव्या दिशो द्रुमस्योर्ध्वमथवाधः ॥७॥
वृक्ष की दिशाओं की तरह शिवलिङ्ग या प्रतिमा को स्थापित करना चाहिये तथा
वृक्ष के ऊर्ध्व भाग से प्रतिमा का ऊर्ध्व भाग और वृक्ष के अधोभाग से प्रतिमा का
अधोभाग बनाना चाहिये। अतः अभीष्ट वृक्ष को काटने से पहले ही उसमें सभी दिशाओं
का चिह्न लगा देना चाहिये ॥७॥
लिङ्गं शिवलिङ्गं वा प्रतिमार्चा वा यस्माद् द्रुमवद्वृक्षवद्यथा दिशं स्थाप्याः। अयमर्थः—
द्रुमस्य यः पूर्वाभिमुखो भागः स एव प्रतिमायाः पूर्वभागः कार्यः। एवं दक्षिणो दक्षिणः,
पश्चिमः पश्चिमः, उत्तरभाग उत्तरभाग एव कार्यः। वृक्षस्य योऽधो भागः स एव प्रतिमाया
अधोभागः कार्यः, वृक्षस्य य ऊर्ध्वभागः सोऽपि प्रतिमाया ऊर्ध्वभागः कार्यः। तस्माद्धेतोर्द्रुमस्य
वृक्षस्य दिश आशाश्चिह्नयितव्याः। एवमूर्ध्वाधरौ भागावाप चिह्नयितव्यौ। तथा च काश्यपः—
वृक्षवत् प्रतिमा कार्या प्राग्भागाद्युपलक्षिता।
पादाः पादेषु कर्तव्याः शीर्षमूर्ध्वे तु कारयेत्।। इति।।७।।
अथ वृक्षच्छेदनविधानमाह—
परमान्नमोदकौदनदधिपललोल्लोपिकादिभिर्भक्ष्यैः ।
मद्यैः कुसुमैर्धूपैर्गन्धैश्च तरुं समभ्यर्च्य ॥८॥
सुरपितृपिशाचराक्षसभुजगासुरगणविनायकाद्यानाम् ।
कृत्वा रात्रौ पूजां वृक्षं संस्पृश्य च ब्रूयात् ॥९॥
खीर, लड्डु, भात, दही, मांस, उल्लोपिका ( एक प्रकार की भोज्य वस्तु ) आदि
भक्ष्य वस्तुयें, पुष्प और सुगन्ध द्रव्यों से वृक्ष की पूजा करने के उपरान्त रात्रि में देवता,
पितर, पिशाच, राक्षस, नाग, सुरगण, गणेश आदि ( भूत, प्रेत, सिद्ध, विद्याधर और
गन्धर्व ) की पूजा करने के पश्चात् वृक्ष को स्पर्श करके वक्ष्यमाण मन्त्र का पाठ करना
चाहिये।।८-९।।
परमान्नं पायसम्, मोदका लड्डुकाः, ओदनं भक्तम्, दधि क्षीरविकारः, पललमर्ध-
निष्पीडितास्तिलाः, उल्लोपिकाः प्रसिद्धाः। आदिग्रहणाद् बहुभिर्भक्ष्यप्रकारैरपूपप्रभृतिभि-
र्लेह्यपेयचोष्यैः मद्यैः, कुसुमैः पुष्पैः, धूपैर्गन्धैः सुगन्धद्रव्यैश्च तरुं वृक्षं समभ्यर्च्य सम्पूज्य।
सुरा देवाः, पितरो देवयोनयः, पिशाचा देवयोनय एव, राक्षसा नक्तञ्चराः पिशिताशिनः,
भुजगाः पन्नगाः, असुरा दैत्याः, गणाः प्रमथाः, विनायका विघ्नाः, आदिग्रहणाद् भूतप्रेत-
सिद्धविद्याधरगन्धर्वाः। एतेषां रात्रौ निशि पूजामर्चां कृत्वा विधाय वृक्षं तरुं पाणिना संस्पृश्य
च इमं मन्त्रं ब्रूयाद् वदेत्।।८-९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वनसम्प्रवेशाध्यायः १५९
किं तदित्याह—
अर्चार्थममुकस्य त्वं देवस्य परिकल्पितः।
नमस्ते वृक्ष पूजेयं विधिवत् सम्प्रगृह्यताम् ॥१०॥
यानीह भूतानि वसन्ति तानि बलिं गृहीत्वा विधिवत् प्रयुक्तम्।
अन्यत्र वासं परिकल्पयन्तु क्षमन्तु तान्यद्य नमोऽस्तु तेभ्यः ॥११॥
हे वृक्ष! अमुक देवता की पूजा के लिये कल्पित किये हुये आपको मैं नमस्कार
करता हूँ, मेरे द्वारा की गई विधिपूर्वक इस पूजा को आप ग्रहण करें तथा इस वृक्ष पर
जो प्राणी निवास करते हैं, वे सब विधिपूर्वक इस पूजा को ग्रहण करके कहीं अन्यत्र
अपना निवासस्थान कल्पित करें, आज वे सब मुझे क्षमा करें, उनको मैं नमस्कार करता
हूँ॥१०-११॥
हे वृक्ष! अमुकस्य अमुकनाम्नो देवस्य सुरस्यार्चार्थं पूजार्थं परिकल्पितो व्यवस्थापितः,
नमस्ते तव नमस्कारं भवतु। इयं पूजा मयोपनीता विधिवद्विधानेन सम्प्रगृह्यताम्।
इहास्मिन् वृक्षे यानि भूतानि वसन्ति व्यवस्थितानि तान्यमुं बलिमुपहारं विधिवद्विधानेन
प्रयुक्तमुपनीतं गृहीत्वा सङ्गृह्य अन्यत्रान्यस्मिन् वृक्षे वासं गृहं परिकल्पयन्तु व्यवस्थापयन्तु।
तानि भूतान्यद्य क्षमन्तु क्षांतिं कुर्वन्तु। तेभ्यो भूतेभ्यो नमोऽस्तु नमस्कारो भवतु।
ततः किं कुर्यादित्याह—
वृक्षं प्रभाते सलिलेन सिक्त्वा पूर्वोत्तरस्यां दिशि सन्निकृत्य।
मध्वाज्यदिग्धेन कुठारकेण प्रदक्षिणं शेषमतो निहन्यात् ॥१२॥
इसके पश्चात् प्रातःकाल जल से वृक्ष को सींच कर शहद और घृत से चुपड़े हुए
कुठार से पहले ईशान कोण में काट कर शेष को प्रदक्षिण क्रम से काटे॥१२॥
प्रभाते प्रभातकाले वृक्षं तरुं सलिलेनोदकेन सिक्त्वा संसिञ्च्य कुठारकेण परशुना
मध्वाज्यदिग्धेन मधुना माक्षिकेणाज्येन घृतेन दिग्धेनोपलिप्तेन प्रथमं पूर्वोत्तरस्यामैशान्यां
सन्निकृत्य छित्त्वा ततः शेषं प्रदक्षिणेन पूर्वाग्नेययाम्यनैर्ऋतपश्चिमवायव्योत्तरासु दिक्षु निहन्यात्
छिन्द्यात्॥१२॥
अथ पतितस्य तरोर्लक्षणमाह—
पूर्वेण पूर्वोत्तरतोऽथवोदक् पतेयदा वृद्धिकरस्तदा स्यात्।
आग्नेयकोणात् क्रमशोऽग्निदाहरुग्रागरोगास्तुरगक्षयश्च ॥१३॥
यदि कटा हुआ वृक्ष पूरब, ईशान कोण या उत्तर दिशा में गिरे तो वृद्धि करने वाला
होता है। अग्निकोण आदि पाँच दिशाओं में कटे हुये वृक्ष के गिरने से क्रमशः अग्निदाह,
रोग, रोग, रोग और घोड़े का नाश होता है अर्थात् अग्निकोण में अग्निदाह, दक्षिण में
रोग, नैर्ऋत्य कोण में रोग, पश्चिम में रोग और वायव्य कोण में यदि वृक्ष गिरता है तो
घोड़े का नाश होता है॥१३॥
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA
१६० बृहत्संहिता
पूर्वेण पूर्वस्यां दिशि, अथवा पूर्वोत्तरत ऐशान्याम्, उदगुत्तरस्यां दिशि, यदा पतेत्,
तदा वृद्धिकरः स्याद् भवेत्। आग्नेयकोणात् प्रभृति क्रमेण यदा पतति, तदैतानि गर्गेण
फलानि उक्तानि। तद्यथा—आग्नेयकोणे यदि पतति, तदा अग्निदाहो भवति, दक्षिणे रुजो
रोगा भवन्ति, नैर्ऋते रोगा भवन्ति, पश्चिमायां रोगा एव, वायव्ये तुरगक्षयोऽश्वविनाशः ।।१३।।
अत्र यन्नोक्तं तदत्रोह्यमित्याह—
यन्नोक्तमस्मिन् वनसम्प्रवेशे निपातविच्छेदनवृक्षगर्भाः ।
इन्द्रध्वजे वास्तुनि च प्रदिष्टाः पूर्वं मया तेऽत्र तथैव योज्याः ।।१४।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वनसम्प्रवेशो
नामैकोनषष्टितमोऽध्यायः ।।५९।।
इस वनसम्प्रवेश नामक अध्याय में वृक्ष के निपात, विच्छेदन, वृक्षगर्भ आदि जो
मैंने नहीं कहे हैं, उनको पूर्वकथित इन्द्रध्वजाध्याय और वास्तुविद्याध्याय में कथित रीति
की तरह समझना चाहिये ।।१४।।
इति 'विमला' हिन्दीटीकायां वनसम्प्रवेशाध्याय एकोनषष्टितमः ।।५९।।
अस्मिन्निह वनसम्प्रवेशे यन्नोक्तं यन्न कथितम्। किं तत्? निपातविच्छेदनवृक्षगर्भाः,
निपातः पतनं वृक्षस्य। यथा—
नृपजयदमविध्वस्तं पतनमनाकुञ्चितं च पूर्वोदक्।
अविलग्नं चान्यतरौ विपरीतमतस्त्यजेत् पतितम् ।।
विच्छेदनं यथा—
परशोर्जर्जरशब्दो नेष्टः स्निग्धो घनश्च हितः। इति।
तथा वृक्षगर्भः—'पीते तु मण्डले निर्दिशेत्तरोर्मध्यगां गोधाम्' इत्यादि। एते निपात-
विच्छेदनवृक्षगर्भाः। ते मया पूर्वमादाविन्द्रध्वजे वास्तुनि च ये वास्तुविद्यायां प्रदिष्टा उक्तास्ते
चात्रास्मिन् वनसम्प्रवेशे तथैव तेनैव प्रकारेण योज्या योजनीया इति ।।१४।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ वनसम्प्रवेशो
नामैकोनषष्टितमोऽध्यायः ।।५९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ प्रतिमाप्रतिष्ठापनाध्यायः
अथ प्रतिमाप्रतिष्ठापनं व्याख्यायते। तत्रादावेवाधिवासने मण्डपस्य लक्षणमाह—
दिशि याम्यायां कुर्यादधिवासनमण्डपं बुधः प्राग्वा।
तोरणचतुष्टययुतं शस्तद्रुमपल्लवच्छन्नम् ॥१॥
पूर्वे भागे चित्राः स्रजः पताकाश्च मण्डपस्योक्ताः ।
आग्नेय्यां दिशि रक्ताः कृष्णाः स्युर्याम्यनैर्ऋत्योः ॥२॥
श्वेता दिश्यपरस्यां वायव्यां तु पाण्डुरा एव।
चित्राश्चोत्तरपार्श्वे पीताः पूर्वोत्तरे कार्याः ॥३॥
चार तोरणों से युत, प्रशस्त वृक्ष के पत्रों से आच्छादित अधिवासन ( संस्कारविशेष )
का मण्डप बनाना चाहिये। मण्डप के पूर्व भाग में अनेक वर्ण की पुष्पमाला और पताका
लगानी चाहिये तथा अग्निकोण में लाल, दक्षिण और नैर्ऋत्य कोण में काली, पश्चिम में
सफेद, वायव्य कोण में पाण्डुर ( कुछ सफेद ), उत्तर में अनेक वर्ण वाली और ईशान
कोण में पीली पुष्पमाला और पताका लगानी चाहिये॥१-३॥
बुधः पण्डितो याम्यायां दक्षिणस्यां प्राक् पूर्वस्यां वा अधिवासनमण्डपं कुर्यात्।
अधिवासनं संस्कारविशेषः। केचित् सौम्यायामिति पठन्ति। सौम्यायामुत्तरस्याम्। कीदृशं
मण्डपं तोरणचतुष्टययुतं चतुर्दिशं चतुर्भिस्तोरणैर्युक्तम्, शस्तानां प्रशस्तानां द्रुमाणां याज्ञिकानां
पल्लवैः पत्रैश्छन्नमाच्छादितं कुर्यात्।
मण्डपस्य पूर्वभागे पूर्वस्यां दिशि स्रजो मालाः पताकाश्च वैजयन्त्यश्चित्रा नानावर्णा
उक्ताः कथिताः। आग्नेय्यां पूर्वदक्षिणस्यां दिशि स्रजःपताका रक्ता लोहिताः। याम्यं दक्षिणं
नैर्ऋती दक्षिणपश्चिमा तयोर्याम्यनैर्ऋत्योः कृष्णा कृष्णवर्णाः॥२॥
अपरस्यां पश्चिमाया दिशि श्वेताः शुक्लवर्णाः कार्याः। वायव्यां पश्चिमोत्तरस्यां दिशि
पाण्डुरा ईषच्छुक्लाः। एवमुत्तरपार्श्वे उत्तरस्यां दिशि चित्रा नानावर्णाः। पूर्वोत्तरे ऐशाने स्रजः
पताकाश्च पीतवर्णाः कार्या इति॥१-३॥
अधुना प्रतिमायाः प्रविभागेन फलमाह—
आयुःश्रीबलजयदा दारुमयी मृण्मयी तथा प्रतिमा।
लोकहिताय मणिमयी सौवर्णी पुष्टिदा भवति ॥४॥
रजतमयी कीर्तिकरी प्रजाविवृद्धिं करोति ताम्रमयी।
भूलाभं तु महान्तं शैली प्रतिमाथवा लिङ्गम् ॥५॥
बृ० सं० द्वि० ११
१६२ बृहत्संहिता
लकड़ी और मिट्टी की प्रतिमा आयु, श्री, बल और विजय प्रदान करती है। मणि
की प्रतिमा लोगों के हित के लिये होती है। सोने की प्रतिमा पुष्टि देती है। चाँदी की प्रतिमा
यश प्रदान करती है। ताम्बे की प्रतिमा सन्तान की वृद्धि करती है। पत्थर की प्रतिमा या
शिवलिङ्ग अत्यधिक भूमि का लाभ कराते हैं॥४-५॥
प्रतिमा दारुमयी काष्ठनिर्मिता तथा मृण्मयी पार्थिवी आयुर्जीवितम्, श्रियं लक्ष्मीम्,
बलं वीर्यम्, जयं विजयं च ददाति। मणिमयी रत्ननिर्मिता प्रतिमा लोकानां जनानां हिताय
भवति। सौवर्णी काञ्चननिर्मिता पुष्टिदा शरीरपुष्टिं ददाति।
रजतमयी रौप्यनिर्मिता कीर्तिं यशः करोति। ताम्रमयी प्रजानां पुत्रादीनां विवृद्धिं करोति।
शैली शिलामयी प्रतिमार्चाऽथवा लिङ्गं शैलं शिलामयं महान्तमतिप्रभूतं भूलाभं करोति।
तथा च काश्यपः—
यार्चा मृद्दारुसम्भूता सायुःश्रीबलदा मता।
सौवर्णी पुष्टिदा ज्ञेया रत्नजा हितकारिणी।।
राजती कीर्तिदा ज्ञेया ताम्रजा जनवर्धिनी।
महत् करोति भूलाभं यार्चा पाषाणनिर्मिता।। इति॥४-५॥
पुनरपि विशेषमाह—
शङ्कूपहता प्रतिमा प्रधानपुरुषं कुलं च घातयति।
श्वभ्रोपहता रोगानुपद्रवांश्च क्षयं कुरुते ॥६॥
किसी प्रकार की कील से पीड़ित प्रतिमा प्रधान पुरुष और सन्तान का नाश करती
है तथा किसी प्रकार के गड्ढे से युत प्रतिमा रोग, उपद्रव और मृत्यु को करती है॥६॥
शङ्कुस्तिर्यग् निर्गतः कीलकः। अङ्ग इति प्रसिद्धो लोके। तेनोपहता प्रतिमार्चा प्रधान-
पुरुषं नायकं कुलं वंशं च घातयति; श्वभ्रं गर्तस्तेनोपहता प्रतिमा रोगान् गदानुपद्रवान्
दोषान् क्षयं च करोति। तथा च काश्यपः—
यार्चा शङ्कुहता सा तु प्रधानकुलनाशिनी।
छिद्रेणोपहता या तु बहुदोषकरी मता।। इति॥६॥
अथाधिवासनलक्षणमाह—
मण्डपमध्ये स्थण्डिलमुपलिप्यास्तीर्य सिकतयाथ कुशैः।
भद्रासनकृतशीर्षोपधानपादां न्यसेत् प्रतिमाम् ॥७॥
अधिवासन मण्डप के मध्य में बनाये हुये स्थण्डिल को लीप कर उस पर रेत और
रेत के ऊपर कुशा बिछा कर उसके ऊपर प्रतिमा को सुला देना चाहिये। प्रतिमा का शिर
राजा के आसन पर और पाँव को तकिये पर रखना चाहिये॥७॥
अधिवासनमण्डपस्य मध्येऽन्तः स्थण्डिलं भूभागमुपलिप्य ततः सिकतया बालुकया
कुशैर्दर्भैश्चास्तीर्य। अथशब्दोऽत्र चार्थे। आस्तरणमाच्छादनं बालुकां प्रसार्य तदुपरि दर्भैराच्छादनं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
प्रतिमाप्रतिष्ठापनाध्यायः १६३
कुर्यात्। तत्र प्रतिमां भद्रासनकृतशीर्षोपधानपादां न्यसेत्, भद्रासनं राजासनं तत्र कृतशीर्षा-
स्थितमस्तकां तथोपधानपादामुपधानं शीर्षोपधानं तत्र कृतपादां न्यसेत्।।७।।
अन्यद्विधानमाह—
प्लक्षाश्वत्थोदुम्बरशिरीषवटसम्भवैः कषायजलैः।
मङ्गल्यसंज्ञिताभिः सर्वौषधिभिः कुशाद्याभिः ॥८॥
द्विपवृषभोद्धतपर्वतवल्मीकसरित्समागमतटेषु ।
पद्मसरःसु च मृद्भिः सपञ्चगव्यैश्च तीर्थजलैः ॥९॥
पूर्वशिरस्कां स्नातां सुवर्णरत्नाम्बुभिश्च ससुगन्धैः ।
नानातूर्यनिनादैः पुण्याहैर्वेदनिर्घोषैः ॥१०॥
पाकर, पीपल, सिरस और बड़ के पत्तों के काढ़े से; मंगलसंज्ञक ( जया, जयन्ती,
जीवन्ती, जीवपुत्री, पुनर्नवा, विष्णुक्रान्ता और लक्ष्मणा ) सर्वौषधियों से; हाथी और घोड़े
से उखाड़ी हुई पर्वत की, वल्मीक की, नदियों के संगमस्थान की और कमलयुत सरोवर
की मिट्टियों से; पञ्चगव्ययुत तीर्थ के जल से तथा सुवर्ण और रत्नों के जल से पूर्व दिशा
में शिर है जिसका, ऐसी प्रतिमा को स्नान करा कर सुगन्ध द्रव्य, अनेक प्रकार के तुरही
आदि वाद्य, पुण्याहवाचन और वेदध्वनियों से पूजा करनी चाहिये॥८-१०॥
प्लक्षः, अश्वत्थः, उदुम्बरः, शिरीषः, वट—एते सर्व एव वृक्षविशेषाः। एषां सम्भवैः
कषायजलैरेतत्पल्लवक्वथितपानीयैः, तथा मङ्गल्यसंज्ञिताभिः सर्वौषधिभिः। मङ्गल्यसंज्ञिताः
प्रशस्तनाम्यो याश्चौषध्यः। यथा—जया, जयन्ती, जीवन्ती, जीवपुत्री, पुनर्नवा, विष्णुक्रान्ता,
अभया, विश्वम्भरी, महामोदा, सहदेवी, पूर्णकोशा, शतावरी, सहस्रवीर्या लक्ष्मणा चेति,
ताभिः तथा कुशाद्याभिः, कुशा दर्भाः आद्याः प्रथमा यासामोषधीनां ताः कुशाद्याः। आदि-
ग्रहणाच्छद्वलाङ्कुरा ज्ञेयाः। एताभिरौषधिभिः।
द्विपो हस्ती, तेनोद्धृता या मृत्, वृषभो दान्तस्तेनोद्धृता या मृत्, पर्वतमृत्, वल्मीक-
मृत्, सरिन्नदी द्वयोर्द्वयोर्नद्योर्यत्र समागमः संयोगो मेलकस्तत्र तटेषु या मृत्, पद्मसरःसु
च मृद्भिः, पद्मैः कमलैः संयुक्तानि यानि च सरांसि, तेषु या मृदस्ताभिः, तीर्थजलैः पुण्यतीर्थ-
जलैः सपञ्चगव्यैः, पञ्चगव्यसहितैः; गोमयम्, गोमूत्रम्, क्षीरम्, दधि, सर्पिः, कुशोदकमिति।
एतैः प्रागुक्तैः प्रतिमां स्नाताम्, तथा ससुगन्धैः शोभनगन्धसंयुक्तैः सुवर्णरत्नाम्बुभिः
सुवर्णरत्नगर्भतोयैः स्नातां कृतस्नातां पूर्वशिरस्कां पूर्वस्यां दिशि शिरः कृत्वा न्यसेत्
स्थापयेत्, तथा नानाविधानां तूर्याणां निनादैः शब्दैः सह तथा पुण्याहैः पुण्याहशब्दै-
र्वेदनिर्घोषैर्वेदपदोद्गारैश्च सह॥८-१०॥
ततः किं कुर्यादित्याह—
ऐन्द्रयां दिशीन्द्रलिङ्गा मन्त्राः प्राग्दक्षिणेऽग्निलिङ्गाश्च ।
वक्तव्या द्विजमुख्यैः पूज्यास्ते दक्षिणाभिश्च ॥११॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१६४ बृहत्संहिता
मुख्य ब्राह्मणों के द्वारा पूर्व दिशा में इन्द्र के और अग्नि कोण में अग्नि के मन्त्र का
जप कराना चाहिये। तत्पश्चात् यजमान द्वारा उन ब्राह्मणों की दक्षिणा आदि से पूजा की
जानी चाहिये॥११॥
ऐन्द्रयां पूर्वस्यां दिशीन्द्रलिङ्गा मन्त्रा इन्द्रदैवत्या ऐन्द्रा मन्त्रा द्विजमुख्यैर्ब्राह्मणश्रेष्ठैर्वक्तव्याः
पाठनीयाः। केचित् 'जप्तव्याः' इति पठन्ति। तथा प्राग्दक्षिणे आग्नेय्यां दिशि। अग्निलिङ्गा
अग्निदैवत्या मन्त्रा वक्तव्याः। ते च द्विजमुख्या दक्षिणाभिः पूज्या अर्च्याः॥११॥
ततः किं कुर्यादित्याह—
यो देवः संस्थाप्यस्तन्मन्त्रैश्चानलं द्विजो जुहुयात्।
अग्निनिमित्तानि मया प्रोक्तानीन्द्रध्वजोत्थाने ॥१२॥
धूमाकुलोऽपसव्यो मुहुर्मुहुर्विस्फुलिङ्गकृन्न शुभः।
होतुः स्मृतिलोपो वा प्रसर्पणं चाशुभं प्रोक्तम् ॥१३॥
जिस देवता की प्रतिष्ठा हो रही हो, उस देवता के मन्त्रों से ब्राह्मण के द्वारा हवन
कराना चाहिये। इन्द्रध्वजाध्याय में अग्नि के शुभाशुभ लक्षण हमारे द्वारा कहे गये हैं।
यदि हवन के समय अग्नि धूमयुत हो, उसकी ज्वाला वामावर्त क्रम से घूमती हो, बार-
बार शब्द करती हो या उसमें चिनगारी उड़ती हो तो शुभ नहीं होता है तथा यदि हवन
करने वाले की स्मृति का उस समय लोप हो जाय या प्रसर्पण हो जाय ( जहाँ पहले
बैठा हो, वहाँ से सरक जाय ) तो भी शुभ नहीं होता है॥१२-१३॥
यो देवः संस्थाप्यः प्रतिष्ठापनीयः, तन्मन्त्रैस्तद्दैवत्यैर्वैदिकैर्मन्त्रैर्द्विजो ब्राह्मणोऽनलमग्निं
जुहुयात्। मया अग्निनिमित्तानि अग्निलक्षणानि इन्द्रध्वजोत्थाने उक्तानि कथितानि। 'स्वाहाव-
सानसमये स्वयमुज्ज्वलार्चिः' इत्यादि। अग्निर्धूमाकुलो धूमेनाकुलीकृतः सधूमः। अपसव्यो
वामावर्तः। मुहुर्मुहुः, मुहुर्मुहुरिति शब्दं करोति। विस्फुलिङ्गकृद्विस्फुलिङ्गं करोति मुञ्चति,
तथाविधो न शुभः। अथवा होतुः पुरोहितस्य स्मृतिलोपो विस्मृतिर्भवति, प्रसर्पणं च पश्चाद्
गमनमशुभमनिष्टं प्रोक्तं कथितम्॥१३॥
ततः किं कुर्यादित्याह—
स्नातामभुक्तवस्त्रां स्वलङ्कृतां पूजितां कुसुमगन्धैः।
प्रतिमां स्वास्तीर्णायां शय्यायां स्थापकः कुर्यात् ॥१४॥
प्रतिष्ठा करने वाला पुरुष द्वारा स्नान कराई हुई, वस्त्र पहनाई हुई, भूषण पहनाई
हुई, पुष्प और सुगन्धित द्रव्यों से पूजा की हुई प्रतिमा को सुन्दर बिछी हुई शय्या पर
स्थापित करना चाहिये॥१४॥
तां प्रतिमां स्नातां कृतस्नानाम्। अभुक्तवस्त्रामभिनववस्त्रप्रावृताम्। स्वलङ्कृतां शोभनैर्-
लङ्करणैरलंकृताम्। कुसुमैः पुष्पैः। गन्धैः सुगन्धद्रव्यैरगुरुप्रभृतिभिश्च पूजितामर्चिताम्। स्थापकः
प्रतिष्ठापकः। स्वास्तीर्णायां शोभनास्तृतायां शय्यायां कुर्यात् स्थापयेदित्यर्थः॥१४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
प्रतिमाप्रतिष्ठापनाध्यायः १६५
ततस्तस्याः सुप्तायाः किं कुर्यादित्याह—
सुप्तां सगीतनृत्यैर्जागरणैः सम्यगेवमधिवास्य ।
दैवज्ञसम्प्रदिष्टे काले संस्थापनं कुर्यात् ॥१५॥
सोई हुई प्रतिमा को गीत, नृत्य और जागरण के द्वारा अधिवासन करके दैवज्ञों के
द्वारा प्रतिपादित मुहूर्त्त में उसकी प्रतिष्ठा करनी चाहिये ॥१५॥
तां प्रतिमां सुप्तां सगीतनृत्यैर्गाननृत्यसहितैर्जागरणैरस्वापनिषेवणैः सम्यक् कृत्वैवमनेन
प्रकारेणैवाधिवास्य ततो दैवज्ञेन कालविदा योऽसौ सम्प्रदिष्ट उक्तः कालः। उदगयने सितपक्ष
इत्यनेन विधानेन तस्मिन् काले समये संस्थापनं प्रतिष्ठापनं कुर्यात् ॥१५॥
कथं प्रतिष्ठापयेदित्याह—
अभ्यर्च्य कुसुमवस्त्रानुलेपनैः शङ्खतूर्यनिर्घोषैः ।
प्रादक्षिण्येन नयेदायतनस्य प्रयत्नेन ॥१६॥
कृत्वा बलिं प्रभूतं सम्पूज्य ब्राह्मणांश्च सभ्यांश्च ।
दत्त्वा हिरण्यशकलं विनिक्षिपेत् पिण्डिकाश्वभ्रे ॥१७॥
स्थापकदैवज्ञद्विजसभ्यस्थपतीन् विशेषतोऽभ्यर्च्य ।
कल्याणानां भागी भवतीह परत्र च स्वर्गी ॥१८॥
उस प्रतिमा का पुष्प, वस्त्र, चन्दन और सुगन्धित द्रव्यों से पूजन करके शंख और
तुरही के शब्दों के साथ अधिवासन मण्डप से प्रदक्षिण क्रम से प्रासाद के अन्दर प्रवेश
कराना चाहिये। तत्पश्चात् वहाँ पर अनेक प्रकार की बलि देकर वस्त्र, दक्षिणा आदि से
सभ्य जनों का पूजन करके, सोने का टुकड़ा देकर पिण्डिका के गड्ढे में प्रतिमा का
स्थापन करना चाहिये। प्रतिष्ठा करने वाले मनुष्य को ज्योतिषी, सभ्य मनुष्य, कारीगर—
इन सबों का विशेष रूप से पूजन करना चाहिये। इस तरह करने वाला मनुष्य इस लोक
में कल्याणों का भागी होता है और परलोक में स्वर्ग प्राप्त करता है ॥१६-१८॥
तां प्रतिमाम्। कुसुमैः पुष्पैः, वस्त्रैरम्बरैः, अनुलेपनैः समालम्भनैर्गन्धैः, अभ्यर्च्य
सम्पूज्य। ततः शङ्खानां तूर्याणां निर्घोषैः शब्दैः। आयतनस्य प्रासादस्य प्रयत्नेन प्रादक्षिण्येन
नयेत्। अधिवासनमण्डपान्निष्क्राम्य प्रादक्षिण्येन प्रासादस्य गर्भगृहं प्रवेशयेदित्यर्थः।
ततः प्रभूतं बहु बलिमुपहारं कृत्वा ब्राह्मणान् द्विजान् सभ्यान् सभागतांश्च जनान्
सम्पूज्याभ्यर्च्य हिरण्यशकलं सुवर्णखण्डं पिण्डिकाश्वभ्रे पीठगर्ते दत्त्वा विनिक्षिप्य ततः
प्रतिमां विनिक्षिपेद् न्यसेत्।
स्थापकः प्रतिष्ठापकः, दैवज्ञः सांवत्सरः, द्विजा ब्राह्मणाः, सभ्याः सभागताः प्रधान-
पुरुषाः, स्थपतिः वर्धकिः, एतान् विशेषतोऽभ्यर्च्य इहास्मिन् लोके कल्याणानां श्रेयसां भागी
फलभाग्भवति, परत्र च परलोके स्वर्गीभवति। स्वर्गमधिवसतीत्यर्थः ॥१६-१८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१६६ बृहत्संहिता
अथ प्रतिष्ठापनलक्षणमाह—
विष्णोर्भागवतान् भगांश्च सवितुः शम्भोः सभस्मद्विजान्
मातृणामपि मण्डलक्रमविदो विप्रान् विदुर्ब्रह्मणः ।
शाक्यान् सर्वहितस्य शान्तमनसो नग्नान् जिनानां विदु-
र्यं यं देवमुपाश्रिताः स्वविधिना तैस्तस्य कार्या क्रिया ॥१९॥
विष्णु की प्रतिष्ठा वैष्णव, सूर्य की प्रतिष्ठा भगब्राह्मण, शिव की प्रतिष्ठा भस्म लगाने
वाले ब्राह्मण, मातृकाओं की प्रतिष्ठा मण्डलक्रम जानने वाले ब्राह्मण, ब्रह्मा की प्रतिष्ठा
ब्राह्मण, जितेन्द्रिय बुद्ध की प्रतिष्ठा रक्तपटधारी और जिन की प्रतिष्ठा दिगम्बर क्षपणक
को करनी चाहिये। जो मनुष्य जिस देवता का परम उपासक हो, उसे उस देवता की
क्रिया करनी चाहिये॥१९॥
विष्णोर्नारायणस्य भागवतान्, सवितुरादित्यस्य मगांन् मगब्राह्मणान्, शम्भोर्महादेवस्य,
द्विजान् ब्राह्मणान् भस्मसहितान् पाशुपतानित्यर्थः। मातृणां ब्राह्म्यादीनाम्। मण्डलक्रमविदो
ये मण्डलक्रमं पूजाक्रमं विदन्ति जानन्ति, तान् स्थापकान् विदुः। ब्रह्मणः पितामहस्य विप्रान्
ब्राह्मणान् विदुः। सर्वहितस्य बुद्धस्य शान्तमनसो जितेन्द्रियस्य शाक्यान् रक्तपटान् विदुः।
जिनानामर्हतां नग्नान् नग्नक्षपणकान् विदुः। ये नरा यं देवमुपाश्रिताः शरण्यं भक्तिभावेन
प्राप्तास्तैर्नरैस्तस्य देवस्य स्वविधिना आत्मीयदर्शनोक्तेन विधानेन। पञ्चरात्रविधिना विष्णोः।
सौरदर्शनविधानेन सवितुः। वातुलतन्त्रोक्तेनान्यतन्त्रोक्तविधिना वा शम्भोः। मातृणां स्वकल्प-
विहितविधानेन ब्राह्मणैर्वेदविहितकर्मणा बुद्धस्य पारमिताक्रमेण। अर्हतां तद्दर्शनविधिना
क्रिया कार्या इति॥१९॥
अथ प्रतिष्ठाकाललक्षणमाह—
उदगयने सितपक्षे शिशिरगभस्तौ च जीववर्गस्थे।
लग्ने स्थिरे स्थिरांशे सौम्यैर्धीधर्मकेन्द्रगतैः ॥२०॥
पापैरुपचयसंस्थैर्ध्रुवमृदुहरितिष्यवायुदेवेषु ।
विकुजे दिनेऽनुकूले देवानां स्थापनं शस्तम् ॥२१॥
उत्तरायण में, शुक्ल पक्ष में, चन्द्र और गुरु के षड्वर्ग में, स्थिर लग्न में, स्थिर
नवांश में, शुभ ग्रह पञ्चम, नवम, लग्न, चतुर्थ, सप्तम और दशम स्थान में हों, पापग्रह
तृतीय, षष्ठ, दशम और एकादश में हों, तीनों उत्तरा, रोहिणी, मृगशिरा, रेवती, चित्रा,
अनुराधा, श्रवण, पुष्य और स्वाती नक्षत्रों में, मंगल को छोड़कर शेष दिनों में और
प्रतिष्ठा करने वाले के लिये शुभदायक समयों में देवता का स्थापन करना कल्याणकारी
होता है॥२०-२१॥
उदगयने उत्तरायणे मकरादिराशिषट्कस्थे रवौ। सितपक्षे शुक्लपक्षे। तथैवोत्तरायणे
शुक्लपक्षे शिशिरगभस्तौ चन्द्रे। शिशिराः शीतला गभस्तयो रश्मयो यस्य तस्मिन् जीव-
प्रतिमाप्रतिष्ठापनाध्यायः १६७
वर्गस्थे बृहस्पतिवर्गस्थे। वर्गो गृहहोराद्रेष्काणनवांशद्वादशांशत्रिंशद्भागाख्यः। तथा लग्ने
स्थिरे वृषसिंहकुम्भानामन्यतमे, तथाऽन्यस्मिन् मिथुनकर्कटकन्यातुलधन्विमीनानामन्यतमे
स्थिरनवांशकोदये। यतोऽन्यराशयोऽनेनैव प्रकारेणान्तरे निषिद्धाः।
सद्भर्गे स्थिरभोदये च भवनं कार्यं प्रवेशोऽपि वा।। इति।
सौम्यैर्बुधजीवशुक्रैर्धीधर्मकेन्द्रगतैः, धीस्थानं पञ्चमम्, धर्मस्थानं नवमम्; केन्द्राणि
लग्नचतुर्थसप्तमदशमानि, एतेषामन्यतमस्थानस्थैः। पापैरादित्याङ्गारकशनैश्चरैरुपचयसंस्थैः,
त्रिषडेकादशदशमस्थानानामन्यतमस्थानस्थैः। तथा ध्रुवमृदुहरितिष्यवायुदेवेषु नक्षत्रेषु। उत्तरा-
त्रितयं रोहिणी चेति ध्रुवाणि। मृगशिरश्चित्रानुराधा रेवती चेति मृदूनि। हरिः श्रवणः। तिष्यः।
वायुदेवः स्वातिः। एतेषु नक्षत्रेषु। विकुजे अङ्गारकविवर्जिते दिने वासरे। रविशशिबुधगुरु-
सितासितानां दिने। तस्मिंश्चानुकूले कर्तुः शुभकरे देवानां सुराणां स्थापनं प्रतिष्ठापनं शोभन-
मिति शस्तं शोभनमिति।।२०-२१।।
एतत् प्रतिष्ठापनं सर्वदेवानां सामान्यं मया कृतमित्येतदाह—
सामान्यमिदं समासतो लोकानां हितदं मया कृतम्।
अधिवासनसन्निवेशने सावित्रे पृथगेव विस्तरात् ॥२२॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां प्रतिमाप्रतिष्ठापनं
नाम षष्टितमोऽध्यायः ॥६०॥
इस प्रकार यह संक्षेप में सामान्य रूप से प्रतिमा का प्रतिष्ठापन-विधान मैंने कहा
है। सूर्य की प्रतिमा का अधिवासन और प्रतिष्ठापन-विधान सौर शास्त्र में अलग से कहा
गया है।।२२।।
इति 'विमला' हिन्दीटीकायां प्रतिमाप्रतिष्ठापनाध्यायः षष्टितमः ॥६०॥
इदं प्रतिष्ठापनं समासतः संक्षेपतः सामान्यमविशेषं वैदिकेन विधानेन सर्वेषां जनानां
हितमनुकूलमनायासकरं मया कृतं रचितम्। सावित्रे शास्त्रे प्रत्येकस्य देवस्याधिवासन-
सन्निवेशने। अधिवासनं प्रतिष्ठापनं निवेशनं च ते पृथक्पृथग्विस्तराद्विस्तारेण तत्र भवतः।
अथवा सावित्रे सवितुरादित्यस्य ये अधिवासनसन्निवेशने पृथगेव विस्तारात् तच्छास्त्रे सौरे
भवत इति।।२२।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ प्रतिमाप्रतिष्ठापनं
नाम षष्टितमोऽध्यायः ॥६०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ गोलक्षणाध्यायः
अथ गोलक्षणं व्याख्यायते। तत्रादावेवागमप्रदर्शनार्थमाह—
पराशरः प्राह बृहद्रथाय गोलक्षणं यत् क्रियते ततोऽयम्।
मया समासः शुभलक्षणास्ताः सर्वास्तथाऽप्यागमतोऽभिधास्ये ॥१॥
पराशर मुनि ने अपने शिष्य बृहद्रथ से जो गोलक्षण कहा है, यहाँ पर मैं उसका
संक्षेप में वर्णन करता हूँ। यद्यपि सभी गौवें शुभ लक्षण वाली होती हैं, तथापि मुनि-
प्रणीत शास्त्र से लेकर उनका शुभाशुभ लक्षण यहाँ कहते हैं॥१॥
पराशराख्यो मुनिर्बृहद्रथाय शार्ङ्गरवनाम्ने स्वशिष्याय यद् गोलक्षणं प्राहोक्तवान्,
ततस्तस्माद् गोलक्षणान्मया आचार्येण समासः संक्षेपः क्रियते। सर्वाः समस्ता गावः शुभ-
लक्षणाः प्रशस्तलक्षणाः। अपिग्रहणादशुभलक्षणाः सर्वा निःशेषास्तथा तेनैव प्रकारेणागमत
आगमाद् मुनिप्रणीताच्छास्त्रादभिधास्ये कथयिष्ये॥१॥
तत्रादावेवाशुभलक्षणान्याह—
सास्त्राविलरूक्षाक्ष्यो मूषकनयनाश्च न शुभदा गावः ।
प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाश्च ॥२॥
दशसप्तचतुर्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठ्यः ।
ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च ॥३॥
श्यावातिदीर्घजिह्वा गुल्फैरतितनुभिरतिबृहद्भिर्वा ।
अतिककुदाः कृशदेहा नेष्टा हीनाधिकाङ्ग्यश्च ॥४॥
आसुओं से भरी आँखों वाली, गँदली आँखों वाली, रूखी आँखों वाली, चूहे के
समान आँखों वाली, हिलती हुये सींग वाली, चपटे सींग वाली, कृष्ण, लोहित वर्ण
वाली और गदहे के समान वर्ण वाली गौ शुभ देने वाली नहीं होती है। दश, सात या
चार दाँत वाली, लम्बी मुख वाली, विना सींग वाली, झुकी हुई पीठ वाली, छोटी तथा
मोटी गरदन वाली, जौ के समान मध्य भाग से मोटी, फटे हुये खुर वाली, श्याम रंग
की लम्बी जिह्वा वाली, बहुत छोटे, बहुत बड़े या बहुत मोटे गुल्फ वाली, दुबली, कम
अंग वाली या अधिक अंग वाली गौ शुभ देने वाली नहीं होती है॥२-४॥
अक्षिशब्दः प्रत्येकमभिसम्बध्यते। सास्राक्ष्यः सास्रे नित्यमश्रुणा संयुक्ते अक्षिणी
यासां ताः सास्राक्ष्यः। आविले कलुषे अप्रसन्ने अक्षिणी यासां ताः। रूक्षे अस्निग्धे अक्षिणी
यासां ताः। मूषकनयनाः, मूषकसदृशनेत्रास्ता गावो न शुभदा अप्रशस्ताः। तथा प्रचलच्चि-
पिटविषाणाः प्रचलन्ति कम्पमानानि चिपिटानि चर्पटानि विषाणानि शृङ्गाणि यासां ता
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
[Page Header]
गोलक्षणाध्यायः १६९
अप्यशुभाः । याश्च करटकाः, करतो वर्णः कृष्णलोहित इत्यर्थः । खरसदृशवर्णाश्च न शुभदाः ।
या गावो दशदन्त्यः । सप्तदन्त्यः । चतुर्दन्त्यः । दश सप्त चत्वारो वा दन्ता यासां
ताः । प्रलम्बं लम्बमानं मुण्डं शृङ्गरहितमाननं मुखं यासाम् । विनतमस्पष्टं पृष्ठं मध्यं यासाम् ।
ह्रस्वानुच्चा स्थूला बृहती ग्रीवा शिरोधरा यासाम् । यवमध्या यवसदृशं मध्यं यासाम् ।
दारितखुराः प्रभग्नाः खुराः पादा यासाम् ।
श्यावाः श्याववर्णा अतिदीर्घा अत्यायामिनी जिह्वा रसना यासाम् । गुल्फैरतितनुभिरत्य-
ल्पैरतिबृहद्भिरतिस्थूलैर्वा अरूपैः । खुरोपरि गुल्फप्रदेशः । अतिककुदा बृहत्ककुद्युक्ताः ।
ककुदो ग्रीवान्ते पृष्ठभागेऽत्युच्चतरो भागः । कृशदेहा दुर्बलशरीराः । हीनाङ्ग्यः अधिकाङ्ग्यो
वा नेष्टा न शुभाः । तथा च पराशरः—
साश्रुणी लोचने यासां रूक्षाल्पे च न ताः शुभाः ।
चलच्चिपिटशृङ्गश्च करटाः खरसन्निभाः ।।
दशसप्तचतुर्दन्त्योऽलम्बवक्त्रा न ताः शुभाः ।
विषाणवर्जिता ह्रस्वा. पृष्ठमध्यातिसन्नताः ।।
ह्रस्वस्थूलगला याश्च यवमध्याः शुभा न ताः ।
भिन्नपादा बृहद्गुल्फा याश्च स्युस्तनुगुल्फकाः ।।
श्यावातिदीर्घजिह्वाश्च महत्ककुदसंयुताः ।
याश्चातिकृशदेहाश्च हीना अवयवैश्च याः ।।
न ताः शुभप्रदा गावो भर्तुर्यूथस्य नाशना ।। इति ।। २-४ ।।
अथ वृषभलक्षणमाह—
वृषभोऽप्येवं स्थूलातिलम्बवृषणः शिराततक्रोडः ।
स्थूलशिराचितगण्डस्त्रिस्थानं मेहते यश्च ।। ५ ।।
मार्जाराक्षः कपिलः करतो वा न शुभदो द्विजस्यैव ।
कृष्णोष्ठतालुजिह्वः श्वसनो यूथस्य घातकरः ।। ६ ।।
पूर्वकथित लक्षणों से युक्त बैल भी शुभ नहीं होता है। साथ ही मोटे और लम्बे
अण्डकोश वाला, शिराओं से व्याप्त पूर्व पादद्वय वाला, मोटी शिराओं से व्याप्त कपोल
वाला, तीन स्थानों से मेहन करने वाला (जिसके नेत्रों से आँसू एवं शिश्न से मूत्र और
पुरीष एक साथ गिरता हो वह), बिल्ली के समान नेत्र वाला, पीला और कृष्ण-
लोहित वर्ण वाला बैल ब्राह्मण को भी शुभ देने वाला नहीं होता है; फिर अन्य वर्णों की
तो बात ही क्या है? जिसके ओठ, तालु या जीभ काले हों और जो हाँफने वाला हो,
ऐसा बैल अपने यूथ का नाश करता है ।। ५-६ ।।
वृषभो दान्तोऽप्येवं लक्षणसंयुक्तः पूर्वोक्तलक्षणैः सास्त्राविलरूक्षाक्ष्य इत्यादिकैर्युक्तो
न शुभः, किन्तु विशेषणलक्षणानि । स्थूलातिलम्बवृषणः स्थूलावतिप्रमाणौ वृषणौ मुष्कौ
१७० बृहत्संहिता
यस्य। शिराततक्रोडः शिरोभिस्ततं व्याप्तं क्रोडं पूर्वपादद्वयमध्यं यस्य। तथा स्थूला-
भिर्बृहतीभिः शिराभिश्चितौ संयुक्तौ गण्डौ कपोलदेशौ यस्य। यश्च त्रिस्थानं मेहते सिञ्चते
मूत्रपुरीषौ तुल्यकालं करोति। अक्षिभ्यां शिश्नेन च सिञ्चतीति केचित्। नित्यं गलदश्रुणी
चक्षुषी भवत इत्यर्थः।
मार्जाराक्षो विडालनेत्रसदृशे अक्षिणी यस्य। कपिलः कपिलवर्णः। करटः करटवर्णों
वा नीललोहितवर्णः स तथाभूतो द्विजस्य ब्राह्मणस्यैव न शुभः, किन्त्वन्यवर्णानाम्।
यतोऽनिष्टलक्षणसंयुक्तो द्विजस्य देय इति लोकस्थितिः। तस्यापि न शुभः। यश्च कृष्णोष्ठ-
तालुजिह्वः। ओष्ठतालुजिह्वाः कृष्णा यस्य। यः श्वसनश्वासयुक्तश्च यूथस्य वृन्दस्य घातकरो
विनाशकरः क्षयकृदित्यर्थः ॥५-६॥
अन्यदप्याह—
स्थूलशकृन्मणिशृङ्गः सितोदरः कृष्णसारवर्णश्च।
गृहजातोऽपि त्याज्यो यूथविनाशावहो वृषभः ॥७॥
स्थूल गोबर, स्थूल लिंग का अग्र भाग और स्थूल सींग वाला, सफेद पेट वाला
और कृष्ण-लोहित वर्ण वाला बैल यदि अपने घर में भी उत्पन्न हुआ हो तो भी उसका
त्याग कर देना चाहिये; क्योंकि ऐसा बैल भी यूथ का नाश करने वाला होता है॥७॥
यश्च स्थूलशकृत् स्थूलं शकृद् गोमयं यस्य। मणिसदृशे च शृङ्गे विषाणे दृश्येते
यस्य स तथाभूतः। केचित् स्थूलशकृत् स्थूलगोमयः। स्थूलमणिः स्थूललिङ्गप्रान्तः।
स्थूलशृङ्ग इतीच्छन्ति। सितोदरः श्वेतजठरः। कृष्णसारवर्णः कृष्णोऽसितः सारः श्वेतश्च
वर्णो यस्य। क्वचित् कृष्णः क्वचिच्छ्वेत इत्यर्थः। अपिशब्दः सम्भावनायां वर्तते। स
वृषो दान्तो गृहजातो वेश्मसम्भूतोजपि त्याज्यः परिहर्तव्यः। किं पुनस्तथाभूतो मूल्येन गृह्यते।
ततः स यूथस्य विनाशावहः क्षयकरः। यस्मिन् यूथे स वसति तं क्षयं नयतीत्यर्थः ॥७॥
अन्यदप्याह—
श्यामकपुष्पचिताङ्गो भस्मारुणसन्निभो बिडालाक्षः।
विप्राणामपि न शुभं करोति वृषभः परिगृहीतः ॥८॥
जिस बैल के देह में श्याम वर्ण के फूल के समान चिह्न हो, सफेद और लाल
मिश्रित वर्ण हो और बिल्ली के समान जिसके नेत्र हों, ऐसा बैल यदि ब्राह्मणों द्वारा भी
ग्रहण कर लिया जाय तो उनका भी वह बैल शुभ नहीं करता है॥८॥
यो वृषभो दान्तः श्यामकपुष्पचिताङ्गः श्यामकैः श्यामवर्णैः पुष्पैः कुसुमेश्चितानि
संयुक्तान्यङ्गान्यवयवानि यस्य। श्यामकश्चासौ पुष्पचिताङ्गश्चेति केचित्। श्यामकवर्णैः
श्वेतैस्तिलकैः कुसुमाकारैश्चिताङ्गः। भस्मारुणसन्निभो भस्मलोहितमिश्रवर्णः। बिडालाक्षो
मार्जारनेत्रः। स तथाभूतो विप्राणां ब्राह्मणानामपि प्रतिग्रहपरिगृहीतो न शुभं करोति, किन्त्व-
न्येषामिति ॥८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
गोलक्षणाध्यायः १७१
अन्यदप्याह—
ये चोद्धरन्ति पादान् पङ्कादिव योजिताः कृशग्रीवाः ।
कातरनयना हीनाश्च पृष्ठतस्ते न भारसहाः ॥९॥
गाड़ी आदि में जोड़ा हुआ बैल, कर्दम में गड़े पाँव को उठाने की तरह पाँव उठाने
वाला, दुर्बल ग्रीवा वाला और छोटी या दबी हुई पीठ वाला बैल भार उठाने में समर्थ
नहीं होता है॥९॥
ते न भारसहा भारोद्वहने न समर्था इति। ये च वृषभा योजिता भारादौ नियुक्ताः पङ्कात्
कर्दमादिव पादान् खुरानुद्धरन्ति। कृशग्रीवा दुर्बलकन्धराः। तथा च पराशरः—
आपादक्षारकपिलाः कृष्णपुष्पचिताश्च ये।
मार्जारकपिलाक्षाश्च दुर्बला यूथघातिनः॥
पङ्कादिवार्ताः पादानुद्धरन्तो वृजन्ति ये।
अधूर्वहा भवन्त्येते भाराध्वनि विगर्हिताः॥ इति॥९॥
अधुना शुभलक्षणमाह—
मृदु