बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 188, कुल 760 में से
संदर्भ में पढ़ें१६० बृहत्संहिता
पूर्वेण पूर्वस्यां दिशि, अथवा पूर्वोत्तरत ऐशान्याम्, उदगुत्तरस्यां दिशि, यदा पतेत्,
तदा वृद्धिकरः स्याद् भवेत्। आग्नेयकोणात् प्रभृति क्रमेण यदा पतति, तदैतानि गर्गेण
फलानि उक्तानि। तद्यथा—आग्नेयकोणे यदि पतति, तदा अग्निदाहो भवति, दक्षिणे रुजो
रोगा भवन्ति, नैर्ऋते रोगा भवन्ति, पश्चिमायां रोगा एव, वायव्ये तुरगक्षयोऽश्वविनाशः ।।१३।।
अत्र यन्नोक्तं तदत्रोह्यमित्याह—
यन्नोक्तमस्मिन् वनसम्प्रवेशे निपातविच्छेदनवृक्षगर्भाः ।
इन्द्रध्वजे वास्तुनि च प्रदिष्टाः पूर्वं मया तेऽत्र तथैव योज्याः ।।१४।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वनसम्प्रवेशो
नामैकोनषष्टितमोऽध्यायः ।।५९।।
इस वनसम्प्रवेश नामक अध्याय में वृक्ष के निपात, विच्छेदन, वृक्षगर्भ आदि जो
मैंने नहीं कहे हैं, उनको पूर्वकथित इन्द्रध्वजाध्याय और वास्तुविद्याध्याय में कथित रीति
की तरह समझना चाहिये ।।१४।।
इति 'विमला' हिन्दीटीकायां वनसम्प्रवेशाध्याय एकोनषष्टितमः ।।५९।।
अस्मिन्निह वनसम्प्रवेशे यन्नोक्तं यन्न कथितम्। किं तत्? निपातविच्छेदनवृक्षगर्भाः,
निपातः पतनं वृक्षस्य। यथा—
नृपजयदमविध्वस्तं पतनमनाकुञ्चितं च पूर्वोदक्।
अविलग्नं चान्यतरौ विपरीतमतस्त्यजेत् पतितम् ।।
विच्छेदनं यथा—
परशोर्जर्जरशब्दो नेष्टः स्निग्धो घनश्च हितः। इति।
तथा वृक्षगर्भः—'पीते तु मण्डले निर्दिशेत्तरोर्मध्यगां गोधाम्' इत्यादि। एते निपात-
विच्छेदनवृक्षगर्भाः। ते मया पूर्वमादाविन्द्रध्वजे वास्तुनि च ये वास्तुविद्यायां प्रदिष्टा उक्तास्ते
चात्रास्मिन् वनसम्प्रवेशे तथैव तेनैव प्रकारेण योज्या योजनीया इति ।।१४।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ वनसम्प्रवेशो
नामैकोनषष्टितमोऽध्यायः ।।५९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA