सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

१३० बृहत्संहिता
सोलह हाथ विस्तार वाला होता है। 'गुहराज' प्रासाद गुह की आकृति वाला और सोलह
हाथ विस्तार वाला होता है तथा इन दोनों ही प्रासादों का बलभी तीन चन्द्रशालाओं से
समन्वित होता है॥२५॥
कुञ्जरसंज्ञो गजपृष्ठो हस्तिपृष्ठाकारः। षोडशहस्तः समन्ततो मूलात्, मूलात् षोडश-
हस्तः समन्ततश्चतुर्दिक्कं षोडश हस्ता विष्कम्भः अन्येषां पाठः षोडशहस्तः सुविस्तरो
मूलात्। एवं द्वात्रिंशद्धस्तास्तस्यौच्च्यम्। उत्थितगजाकार एकभूमिकः। गुहराजो गुहाकारः।
षोडशकः षोडश हस्ता विस्तीर्णो द्वात्रिंशद्धस्तास्तस्यौच्च्यम्। एकभूमिकश्च। अनयोर्द्वयोरपि
वलभी कुहरैस्त्रिचन्द्रशाला भवेत् स्यात्। तिसृभिश्चन्द्रशालाभिर्युक्ता इत्यर्थः। तथा च
काश्यपः—
कुञ्जरो गजपृष्ठाभो हस्ताः षोडश विस्तृतः।
गुहराजो गुहाकारो विष्कम्भात् षोडश स्मृतः॥
त्रिचन्द्रशाला वलभी तयोः कार्या सुलक्षणा।
दशमैकादशावेतौ प्रासादौ द्वौ प्रकीर्तितौ॥ इति॥२५॥
अधुना वृषहंसघटानां लक्षणमाह—
वृष एकभूमिशृङ्गो द्वादशहस्तः समन्ततो वृत्तः।
हंसो हंसाकारो घटोऽष्टहस्तः कलशरूपः॥२६॥
'वृष' नामक प्रासाद एक भूमि वाला, एक शृङ्ग वाला, बारह हाथ विस्तार वाला
और चारो तरफ से वृत्ताकार होता है। 'हंस' प्रासाद हंस पक्षी की आकृति वाला, बारह
हाथ विस्तार वाला, एक भूमि और एक शृङ्ग वाला होता है। 'घट' नामक प्रासाद कलश
की आकृति वाला, आठ हाथ विस्तार वाला, एक शृङ्ग और एक भूमि वाला होता
है॥२६॥
वृषसंज्ञ एकभूमिशृङ्गः, एकया भूमिकयैकेन शृङ्गेण शिखरेण युक्तः। द्वादशहस्तो
द्वादश हस्तो विस्तीर्णः। विष्कम्भाच्चतुर्विंशतिर्हस्तास्तस्यौच्च्यम्। समन्ततः सर्वासु
दिक्षु वृत्तः परिवर्तुलः। हंसो हंसाकारो हंससदृशः। चञ्चुपक्षपुच्छयुक्तः। द्वादशहस्तविस्तीर्णः।
चतुर्विंशतिर्हस्तास्तस्यौच्च्यम्। एकभूमिकश्च। घटसंज्ञः कलशरूपः कलशाकारः। अष्टहस्तो
विस्तीर्णः। विष्कम्भात् षोडशहस्तास्तस्यौच्च्यम्। एकभूमिकश्च सर्व एकशृङ्गाः। तथा
च काश्यपः—
वृषो द्वादशहस्तस्तु समवृत्तैकभूमिकः।
शृङ्गेणैकेन संयुक्तः प्रासादः परिकीर्तितः॥
हंसो हंसाकृतिर्ज्ञेयो हस्तो द्वादश विस्तृतः।
एकभूमिकया युक्तः पक्षपुच्छाद्यलंकृतः॥
घटः कलशरूपस्तु विस्तीर्णोऽष्टकरः स्मृतः॥ इति॥२६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

प्रासादलक्षणाध्यायः १३१
अधुना सर्वतोभद्रस्य लक्षणमाह—
द्वारैर्युतश्चतुर्भिर्बहुशिखरो भवति सर्वतोभद्रः ।
बहुरुचिरचन्द्रशालः षड्विंशः पञ्चभौमश्च ॥२७॥
‘सर्वतोभद्र’ नामक प्रासाद चारो दिशाओं में चार द्वारों से युत, अनेक शिखरों से
शोभित, अनेक संख्यक सुन्दर चन्द्रशालाओं से शोभित, छब्बीस हाथ विस्तार वाला,
चतुष्कोण और पाँच भूमियों से युत होता है ॥२७॥
सर्वतोभद्रसंज्ञः प्रासादश्चतुर्भिर्द्वारैर्युक्तः । चतसृष्वपि दिक्षु तस्मिन् द्वाराणि भवन्तीत्यर्थः ।
बहुशिखरो भवति, बहूनि प्रभूतानि तस्मिन् शिखराणि भवन्ति । बहुरुचिरचन्द्रशालः,
बह्वीभिः प्रभूताभी रुचिराभिः सुशोभनाभिश्चन्द्रशालाभिर्युक्तः । षड्विंशः, षड्विंशतिर्हस्ता
विस्तीर्णः । विष्कम्भाद् द्विगुणेन द्वापञ्चाशद्धस्तास्तस्यौच्च्यम् । पञ्चभौमः पञ्चभिर्भूमिकाभिर्युक्तः ।
चतुरस्रः। तथा च काश्यपः—
शिखरैर्बहुभिर्युक्तश्चतुर्द्वारविभूषितः ।
रुचिरैश्चन्द्रशालैश्च बहुभिः परिवारितः ।।
चतुरस्रः पञ्चभौमः षड्विंशद्धस्तविस्तृतः ।
सर्वतोभद्र इत्युक्तः प्रासादो दशपञ्चमः ।। इति ।।२७।।
अथ सिंहवृत्तचतुष्कोणषोडशाश्र्यष्टाश्रीणां लक्षणमाह—
सिंहः सिंहाक्रान्तो द्वादशकोणोऽष्टहस्तविस्तीर्णः ।
चत्वारोऽञ्जनरूपाः पञ्चाण्डयुतस्तु चतुरस्रः ॥२८॥
‘सिंह’ नामक प्रासाद सिंह की प्रतिमाओं से शोभित, द्वादशास्र और आठ हाथ
विस्तार वाला होता है। शेष चार प्रासाद ( वृत्त, चतुष्कोण, षोडशाश्रि और अष्टाश्रि )
अपने नाम के समान ही आकार वाले और काले होते हैं अर्थात् इनके अन्दर अन्धकार
रहता है ॥२८॥
सिंहः सिंहाक्रान्तः सिंहलङ्कृतः । द्वादशकोणो द्वादशाश्रिः । अष्टहस्तो विस्तीर्णः ।
अन्ये चत्वारः सर्व एव वृत्तचतुष्कोणषोडशाष्टाश्रयः संज्ञासदृशाकृतयः । वृत्तः परिवर्तुलः ।
चतुष्कोणश्चतुरस्रः । षोडशाश्रिः षोडशकोणः । अष्टाश्रिरष्टकोणः । एते अञ्जनरूपा अव्यक्तरूपाः
सान्धकारा इत्यर्थः । बाह्यप्राकाश्यं तेषु न प्रविशत्ययमर्थः । देवप्रासादस्य सन्निकृष्टाश्चतसृ-
ष्वपि दिक्षु भित्तीः कृत्वा प्रासादस्य पश्चिमभागे द्वारं कार्यम् । ताश्च भित्तय ऊर्ध्वभागे तथा
छेदनीया यथा प्रासादोत्पन्ना एव लक्ष्यन्ते, न पृथक्स्थाः । तत्र बहिर्द्वारात् प्रविश्य प्रासादस्य
वामभागेनागत्य पुरतः प्रासादस्य द्वारं कार्यम् । तत्र मणिमयी प्रतिमा तत्कान्त्या यत्र प्राकाश्य-
मुत्पद्यते। एते सर्व एवैकभूमिकाः कार्या एकाण्डाश्च । चतुरस्रः पुनः पञ्चाण्डयुतः कार्यः ।
पञ्चभिरण्डैः संयुक्तः । तथा च काश्यपः—
सिंहः सिंहसमाक्रान्तः कोणैर्द्वादशभिर्युतः ।
विष्कम्भादष्टहस्तः स्यादेका तस्य च भूमिका ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१३२ बृहत्संहिता
वृत्तो वृत्ताकृतिः कार्याः संज्ञातुल्यास्तथापरे।
सान्धकारास्तु सर्वे ते भूमिकैकाः समावृताः।।
एकाण्डरूपिता सर्वे पञ्चभिश्चतुरस्रकः।। इति।।२८।।
अथ मयविश्वकर्मणोर्मतेन भूमिकाप्रमाणमाह—
भूमिकाङ्गुलमानेन मयस्याष्टोत्तरं शतम्।
सार्द्धं हस्तत्रयं चैव कथितं विश्वकर्मणा ॥२९॥
एक भूमि का प्रमाण मय के मतानुसार एक सौ आठ अंगुल और विश्वकर्मा के
मतानुसार साढ़े तीन हाथ कहा गया है॥२९॥
मयस्य मतेनाष्टोत्तरशतमङ्गुलानां मानेन भूमिका भवति। तथा च मयः—
प्रासादभूमिकामानं शतमष्टोत्तरं स्मृतम्।
...........................................................अङ्गुलानाम्।। इति।
विश्वकर्मणा सार्ध हस्तत्रयं भूमिकामानं कथितमुक्तम्। चतुरशीत्यङ्गुलानीत्यर्थः। तथा
च विश्वकर्मा—
चतुर्भिरधिकाशीतिरङ्गुलानां तु भूमिका।। इति।।२९।।
अत्रापि परमतेनैकवाक्यतां दर्शयितुमाह—
प्राहुः स्थपतयश्चात्र मतमेकं विपश्चितः।
कपोतपालिसंयुक्ता न्यूना गच्छन्ति तुल्यताम् ॥३०॥
बुद्धिमान् कारीगर मय और विश्वकर्मा—इन दोनों के मतों को एक ही कहते हैं।
उनका कहना है कि विश्वकर्मा ने भूमि का प्रमाण कपोतपालिका को छोड़कर कहा है;
अतः उसमें कपोतपालिका के प्रमाण चौबीस अंगुल जोड़ देने से मय के प्रमाणतुल्य ही
विश्वकर्मा की भी भूमि का प्रमाण हो जाता है॥३०॥
अत्रास्मिन्नर्थे विपश्चितः पण्डिताः स्थपतयो वार्धकिनः प्रतिष्ठातन्त्रज्ञा मयविश्वकर्मणो-
रेकमतं प्राहुरुक्तवन्तः। विश्वकर्मणो मतेन या न्यूनाः प्रमाणहीना भूमयस्ताः कपोतपालिसंयुक्ता
मयमतेन तुल्यतां गच्छन्ति समत्वं यान्ति। कपोतपालिग्रहणेन बहिर्निर्गतानि सिंहमुखानि
काष्ठान्युच्यन्ते। तथा चोक्तम्—
कपोतपालिं ब्रुवते विटङ्कं च बहुश्रुताः।
तथा च तन्त्रान्तरे पठ्यते—
कपोतपालिरहितं मानं चतुरशीतिकम्।
भूमिकानां सह तया शतमष्टोत्तरं स्मृतम्।।
अङ्गुलानामतः साम्यं भूमिकासु प्रकीर्तितम्।
एवं तुल्यता भवतीति॥३०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

प्रासादलक्षणाध्यायः १३३
अथोपसंहारार्थमाह—
प्रासादलक्षणमिदं कथितं समासाद्
गर्गेण यद्विरचितं तदिहास्ति सर्वम्।
मन्वादिभिर्विरचितानि पृथूनि यानि
तत्संस्पृशन् प्रति मयात्र कृतोऽधिकारः ॥३१॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां प्रासादलक्षणं
नाम षट्पञ्चाशत्तमोऽध्यायः ॥५६॥
मैंने संक्षेप से यह प्रासादों का लक्षण कहा है; किन्तु गर्ग मुनि ने इस प्रकरण में जो
कुछ कहा है, वे सभी विषय इसमें समाहित हैं। साथ ही मनु आदि ( वसिष्ठ, मय और
नग्नजित् ) आचार्यों ने जो विस्तारपूर्वक कहे हैं, उनकी स्मृति के लिये मैंने यह अधिकार
बनाया है॥३१॥
इति 'विमला' हिन्दीटीकायां प्रासादलक्षणाध्यायः षट्पञ्चाशत्तमः ॥५६॥
इदं मया प्रासादलक्षणं समासात् संक्षेपात् कथितमुक्तम्। गर्गेण मुनिना विरचितं
कृतं तत्सर्वं निरवशेषमिहास्मिन्नस्ति विद्यते। यानि च पृथूनि विस्तीर्णानि मन्वादिभिर्मनुवसिष्ठ-
मयनग्नजिद्भिर्विरचितानि कृतानि प्रासादलक्षणानि तानि प्रति मया द्वारमानाष्टभागोनेत्यादि-
लक्षणलक्षितानि संस्पृशन्नत्राधिकारः कृतः। प्रासादलक्षणं कृतमित्यर्थः। अथवा तत्सं-
स्पृशंस्तानि सर्वाणि लक्षणानि प्रतिसंस्पृशन् परामृशन् मयाधिकारः कृत इति॥३१॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ प्रासादलक्षणं नाम
षट्पञ्चाशत्तमोऽध्यायः ॥५६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ वज्रलेपलक्षणाध्यायः
अथ वज्रलेपलक्षणं व्याख्यायते। तत्रादावेव वज्रलेपमाह—
आमं तिन्दुकमामं कपित्थकं पुष्पमपि च शाल्मल्याः ।
बीजानि शल्लकीनां धन्वनवल्को वचा चेति ॥१॥
एतैः सलिलद्रोणः क्वाथयितव्योऽष्टभागशेषश्च ।
अवतार्योऽस्य च कल्को द्रव्यैरेतैः समनुयोज्यः ॥२॥
श्रीवासकरसगुग्गुलुभल्लातककुन्दुरूकसर्जरसैः ।
अतसीबिल्वैश्च युतः कल्कोऽयं वज्रलेपाख्यः ॥३॥
तेन्दू के कच्चे फल, कैथ के कच्चे फल, सेमल के फूल, शल्लकी ( सालई )
वृक्ष के बीज, धन्वन वृक्ष की छाल और वच—इन सबको एक द्रोणतुल्य जल में
मिलाकर काढ़ा बनाते हुये जब अष्टमांश शेष रह जाय तब उसको उतार ले। बाद में
उसमें श्रीवासक ( सरल ) वृक्ष का गोंद, बोल, गूगल, भिलावा, कुन्दरूक ( देवदारु
वृक्ष का गोंद ), सर्ज ( सखुआ ) का गोंद, अलसी, बेल की गिरी—इन सबको पीसकर
मिला देने पर ‘वज्रलेप’ नामक काढा बन जाता है।।१-३।।
तिन्दुकं तिन्दुकफलम्। आममपक्वम्। कपित्थकं कपित्थफलमाममेव। शाल्मल्याः
शाल्मलिवृक्षस्य च पुष्पम्। शल्लकीनां शल्लकीवृक्षाणां बीजानि। धन्वनवल्को धन्वन-
वृक्षस्य वल्कस्त्वक्। वचा च। इत्येवंप्रकारः।
एतैर्द्रव्यैः सह सलिलद्रोणः क्वाथयितव्यः। द्रोणः पलशतद्वयं षट्पञ्चाशदधिकम्।
यावदष्टभागावशेषो भवति द्वात्रिंशत् पलानि अवशिष्यन्त इत्यर्थः। ततोऽष्टभागावशेषोऽव-
तार्योऽवतारणीयो ग्राह्य इत्यर्थः। अस्य चाष्टभागशेषस्यैतद्द्रव्यैर्वक्ष्यमाणैः कल्कश्चूर्णः
समनुयोज्यो विधातव्यः। तच्चूर्णसंयुक्तः कार्य इत्यर्थः।
कैरित्याह—श्रीवासकेति। श्रीवासकः प्रसिद्धो वृक्षनिर्यासः। रसो बोलः। गुग्गुलुः
प्रसिद्धः। भल्लातकः प्रसिद्ध एव। कुन्दुरूको देवदारुवृक्षनिर्यासः। सर्जरसः सर्जरसकवृक्ष-
निर्यासः—एतैः तथा अतसी प्रसिद्धा, बिल्वं श्रीफलम्—एतैश्च युतः समवेतः। अयं कल्को
वज्रलेपाख्यः, वज्रलेपेत्याख्या नाम यस्य।।१-३।।
अथास्य गुणानाह—
प्रासादहर्म्यवलभीलिङ्गप्रतिमासु कुड्यकूपेषु।
सन्तप्तो दातव्यो वर्षसहस्रायुतस्थायी ॥४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वज्रलेपलक्षणाध्यायः १३५
गरम किये हुये वज्रलेप को देवप्रासाद, हवेली, वलभी, शिवलिङ्ग, देवप्रतिमा,
भीत और कूप में यदि लगाया जाय तो यह एक करोड़ वर्ष तक नहीं छूटता है।।४।।
प्रासादो देवप्रासादः। हर्म्यम्, वलभी वातायनम्, लिङ्गं शिवलिङ्गम्, प्रतिमार्चा। एतासु
तथा कुड्येषु भित्तिषु। कूपेषूदकोद्वारेषु। सन्तप्तोऽत्युष्णो दातव्यो देयः। वर्षसहस्रायुतस्थायी
भवति, वर्षाणां सहस्रायुतं वर्षकोटिं तिष्ठतीत्यर्थः।।४।।
अथान्यद्वज्रलेपमाह—
लाक्षाकुन्दुरुगुग्गुलुगृहधूमकपित्थबिल्वमध्यानि ।
नागफलनिम्बतिन्दुकमदनफलमधूकमञ्जिष्ठाः ॥५॥
सर्जरसरसामलकानि चेति कल्कः कृतो द्वितीयोऽयम् ।
वज्राख्यः प्रथमगुणैरयमपि तेष्वेव कार्येषु ॥६॥
पूर्व से सिद्ध किये गये क्वाथ में लाख, कुन्दरूक ( देवदारु वृक्ष का गोंद ),
गूगल, घर के धुयें का जाला, कैथ का फल, बेल की गिरी, नागबला का फल, महुये
का फल, मञ्जीठ, राल, बोल, आँवला—इन सबको पीस कर डाले तो प्रथम वज्रलेप के
गुणों से युत पूर्वोक्त कामों के लिये ही एक दूसरा वज्रलेप तैयार हो जाता है।।५-६।।
लाक्षा प्रसिद्धा वृक्षनिर्यासः। कुन्दुरुर्देवदारुवृक्षनिर्यासः। गुग्गुलुः प्रसिद्धः। गृहधूमो-
ऽगारधूमः श्यामेति प्रसिद्धः। कपित्थः कपित्थवृक्षफलम्। बिल्वमध्यम् एतानि, तथा नाग-
फलम्। निम्बः प्रसिद्धः। तिन्दुकं तिन्दुकफलम्। केचिन्नागबलाफलतिन्दुकमदनफलेति
पठन्ति। नागबलाफलं तिन्दुकफलं मदनफलं मधूकफलं मञ्जिष्ठा प्रसिद्धा।
सर्जरसः सर्जवृक्षनिर्यासः, रसो बोलः, आमलकं धात्रीफलम्—एतानि च। इत्येवं प्रकारो
द्वितीयः कल्कः कृतो वज्राख्यो वज्रलेपसंज्ञः। प्रथमगुणैः पूर्वोक्तैर्गुणैरेतैः सलिलद्रोणः
क्वाथयितव्योऽष्टभागशेषश्चेति, तथा सन्तप्तो दातव्य इति। अयमपि वज्रलेपस्तेष्वेव प्रागुक्तेषु
कार्येषु प्रासादादिषु। स च वर्षसहस्रायुतं स्थायी भवति।।५-६।।
अन्यदप्याह—
गोमहिषाजविषाणैः खररोम्णा महिषचर्मगव्यैश्च ।
निम्बकपित्थरसैः सह वज्रतलो नाम कल्कोऽन्यः ॥७॥
पूर्व में सिद्ध किये हुये काढ़े में गौ, भैंस, बकरा—इनका सींग; गदहे का बाल,
भैंस का चमड़ा, गव्य ( गोबर ), नीम का फल, कैथ का फल, बोल—इन सबको पीसकर
मिलाने पर पूर्वकथित गुणों से युत पूर्वोक्त कार्यों के लिये ही तीसरा लेप सिद्ध हो जाता
है, इसका नाम ‘वज्रतल’ कहा गया है।।७।।
गोमहिषौ प्रसिद्धौ, अजश्छागः, एषां सर्वेषां विषाणानि शृङ्गाणि तैः, तथा खररोम्णा
गर्दभरोमभिः। महिषचर्मणा गव्यैश्च निम्बकपित्थरसैः सह निम्बः कपित्थफलम्। रसो बोलः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१३६ बृहत्संहिता
एतैः सहान्यः कल्कः प्राग्वत् कृतः। एतैः सलिलद्रोणः क्वाथयितव्योऽष्टभाग-शेषश्चेत्यादि।
वज्रतलो नाम अयमपि प्रथमगुणैस्तेष्वेव कार्येष्विति।।७।।
अन्यदप्याह—
अष्टौ सीसकभागाः कांस्यस्य द्वौ तु रीतिकाभागः।
मयकथितो योगोऽयं विज्ञेयो वज्रसङ्घातः ॥८॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वज्रलेपलक्षणं
नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥
आठ भाग सीसा, दो भाग कांसा, एक भाग पीतल—इन सबको एक जगह गलाने
से मयकथित 'वज्रसङ्घात' नामक चौथा लेप सिद्ध होता है।।८।।
इति 'विमला' हिन्दीटीकायां वज्रलेपाध्यायः सप्तपञ्चाशत्तमः ॥५७॥
अष्टौ भागाः सीसकस्य। कांस्यस्य द्वौ भागौ। रीतिकाभाग एकः। अयं योगो वज्र-
सङ्घातो नाम। मयकथितो मयेनोक्तो विज्ञेयो ज्ञातव्यः। अयमपि प्रथमगुणैस्तेष्वेव कार्येष्विति।
अत्र प्रमाणानुसारेण नामपरिकल्पनोक्ता। अन्ये सममात्राः कार्या इत्यागमः। तथा च मयः—
संगृह्याष्टौ सीसभागान् कांस्यस्य द्वौ तथांशकम्।
रीतिकायास्तु सन्तप्तो वज्राख्यः परिकीर्तितः।। इति।।८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ वज्रलेपलक्षणं नाम
सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ प्रतिमालक्षणाध्यायः
अथ प्रतिमालक्षणं व्याख्यायते। तत्रादावेव परमाणुप्रमाणार्थमाह—
जालान्तरगे भानौ यदणुतरं दर्शनं रजो याति।
तद्विन्द्यात् परमाणुं प्रथमं तद्धि प्रमाणानाम् ॥१॥
जालान्तरगत सूर्यकिरण में जो धूलि दिखाई देती है, उसको 'परमाणु' जानना चाहिये।
यह सब प्रमाणों में पहला प्रमाण होता है॥१॥
भानावादित्ये जालान्तरगे गवाक्षस्थलकमध्यवर्तिनि यद्रजो धूलिरणुतरं सूक्ष्मतरं
दर्शनं याति दृष्टिपथमायाति तत् परमाणुं नाम प्रमाणं विन्द्याज्जानीयात्। हिर्यस्मादर्थे।
प्रमाणानां सर्वेषां तत्प्रथममाद्यं प्रमाणं परमाणुसंज्ञम्॥१॥
अथ परमाणौ ज्ञातेऽङ्गुलप्रमाणज्ञानमाह—
परमाणुरजो बालाग्रलिक्षयूकं यवोऽङ्गुलं चेति।
अष्टगुणानि यथोत्तरमङ्गुलमेकं भवति संख्या ॥२॥
आठ परमाणु का रज, आठ रज का बालाग्र, आठ बालाग्र की लिक्षा, आठ लिक्षा
का यूक, आठ यूक का यव और आठ यव का एक अंगुल होता है तथा एक अंगुल की
संख्या होती है॥२॥
एतानि परमाण्वादीनि यथोत्तरमष्टगुणान्यङ्गुलमेकं भवति। तद्यथा—अष्टभिः परमाणुभी
रजो भवति। अष्टभी रजोभिर्बालाग्रम्, अष्टभिर्बालाग्रैर्लिक्षा, अष्टभिर्लिक्षाभिर्यूका, अष्टभि-
र्यूकाभिर्यवः, अष्टभिर्यवैरङ्गुलम्। एवं यथोत्तरं परमाण्वादीन्यष्टगुणान्यङ्गुलं संख्या भवति।
तथा च—
जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः।
प्रथमं तत्प्रमाणानां परमाणुं प्रचक्षते॥
तस्माद्रजः कचाग्रं च लिक्षा यूका यवोऽङ्गुलम्।
क्रमादष्टगुणं ज्ञेयं जिनसंख्याङ्गुलैः करः॥ इति॥२॥
अथ समस्तायाः प्रतिमायाः प्रमाणमाह—
देवागारद्वारस्याष्टांशोनस्य यस्तृतीयोंऽशः।
तत्पिण्डिकाप्रमाणं प्रतिमा तद्द्विगुणपरिमाणा ॥३॥
देवालय के द्वार की अष्टमांशोन ऊँचाई की तिहाई, तुल्य पिण्डिका ( पीठिका )
और द्विगुणित पीठिकातुल्य प्रतिमा होती है॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१३८ बृहत्संहिता
देवागारे देवगृहे यद्द्वारं तस्य य उच्छ्रायस्तस्य योऽष्टांशोऽष्टभागस्तेन हीनस्य यः
तृतीयोऽशस्तृतीयभागः, तत्पिण्डिकाप्रमाणं पीठिकापरिमाणम्, तद्द्विगुणपरिमाणा पीठि-
काद् द्विगुणप्रमाणा प्रतिमा च भवति ।। ३ ।।
अथ प्रतिमाया अवयवप्रमाणमाह—
स्वैरङ्गुलप्रमाणैर्द्वादश विस्तीर्णमायतं च मुखम् ।
नग्नजिता तु चतुर्दश दैर्घ्येण द्राविडं कथितम् ॥४॥
प्रतिमा की ऊँचाई को बारह भाग करके फिर प्रत्येक भाग के नव-नव भाग करे।
इस तरह एक-एक अंगुल का भाग बन जायगा; क्योंकि समस्त प्रतिमायें अपने-अपने
अंगुलप्रमाण से १०८ अंगुल की होती हैं। अपने अंगुलप्रमाण से प्रतिमा का मुख बारह
अंगुल चौड़ा और चौदह अंगुल लम्बा बनाना चाहिये। यह द्रविड देश का मान कहा
गया है।।४।।
यस्मात् काष्ठात् पाषाणादिकाद्वा प्रतिमा क्रियते तद्दैर्घ्यं पीठप्रमाणविवर्जितं द्वादश-
भागविभक्तं कृत्वा तत्रैको भागो नवधा कार्यः, सोऽङ्गुलसंज्ञा भवति । यस्मादष्टाधिकमङ्गुल-
शतं प्रतिमाप्रमाणं वक्ष्यति—स्वैरङ्गुलप्रमाणैरिति । प्रतिमायाः स्वैरात्मीयैरङ्गुलप्रमाणैर्मुखं
वदनं द्वादशाङ्गुलानि विस्तीर्णं विपुलमायतं च दीर्घं कार्यम्। नग्नजिता मुनिना द्वादशाङ्गुलानि
विस्तीर्णं मुखं कथितं दैर्घ्येण च चतुर्दशाङ्गुलानि । एतद् द्राविडं द्रविडदेशजं मानम् ।
तथा च नग्नजित्—
विस्तीर्णं द्वादश मुखं दैर्घ्येण च चतुर्दश ।
अङ्गुलानि तथा कार्यं तन्मानं द्राविडं स्मृतम् ।। इति ।। ४ ।।
अन्यदप्याह—
नासाललाटचिबुकग्रीवाश्चतुराङ्गुलास्तथा कर्णौ ।
द्वे अङ्गुले च हनुनी चिबुकं च द्व्यङ्गुलं विततम् ॥५॥
प्रतिमा की नासिका, ललाट, ठोढ़ी, गरदन और कान चार-चार अंगुल लम्बे तथा
हनु और चिबुक ( ठोढ़ी ) दो-दो अंगुल विस्तार वाला होना चाहिये ।। ५ ।।
नासा चतुरङ्गुला दैर्घ्येण कार्या । ललाटं मुखपृष्ठं चतुरङ्गुलमेव । चिबुकं चतुरङ्गुलमेव ।
चिबुकग्रहणेन नासायाश्चतुरङ्गुलो भाग उच्यते। ग्रीवा चतुरङ्गुला दीर्घा, तथा कर्णौ श्रोत्रौ
चतुरङ्गुलौ दीर्घौ । हनुनी द्वे द्वे अङ्गुले च विस्तृते । मुखगलसन्धी हनुनी, चिबुकं च द्व्यङ्गुलं
विततं विस्तीर्णं कार्यम् । चिबुकशब्देनात्र मुखस्याधोभाग उच्यते ।। ५ ।।
अन्यदप्याह—
अष्टाङ्गुलं ललाटं विस्ताराद् द्व्यङ्गुलात् परे शङ्खौ ।
चतुरङ्गुलौ तु शङ्खौ कर्णौ तु द्व्यङ्गुलौ पृथुलौ ॥६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

प्रतिमालक्षणाध्यायः १३९
माथे की चौड़ाई आठ अंगुल, दोनों तरफ कनपटी की चौड़ाई दो-दो अंगुल और
लम्बाई चार-चार अंगुल तथा दोनों कानों की चौड़ाई दो-दो अंगुल बनानी चाहिये ।।६।।
ललाटं विस्तारादष्टाङ्गुलं कार्यम्, तस्मात् परे भागे उभयतो द्वयङ्गुलप्रमाणौ शङ्खौ कार्यौ,
ललाटात् परतः कार्यावित्यर्थः । शङ्खौ चतुरङ्गुलावधोभागौ दीर्घौ कार्यौ, यतः शङ्खाधो
गण्डभाग उच्यते। कर्णौ तु द्वयङ्गुलौ पृथुलौ विस्तीर्णौ कार्यौ ।।६।।
अन्यदप्याह—
कर्णोपान्तः कार्योऽर्धपञ्चमे भ्रूसमेन सूत्रेण ।
कर्णस्रोतः सुकुमारकं च नेत्रप्रबन्धसमम् ॥७॥
नेत्र के प्रान्तभाग से भ्रू के समानान्तर सूत्र में साढे चार अंगुल पर कान का अग्रभाग
बनाना चाहिये तथा कान के छेद और सुकुमारक (कान के छेद के समीप का उन्नत
मार्ग) को नेत्र-प्रबन्ध (प्रदूषिका) के समान बनाना चाहिये ।।७।।
अर्द्धपञ्चमे अर्धपञ्चममङ्गुलं यस्मिन् भागे। सार्धानि चत्वार्यङ्गुलानि नेत्रान्तादारभ्य
तस्मिन् भ्रूसमेन सूत्रेण नेत्रमध्यगेन कर्णोपान्तः कार्यः। कर्णस्योपान्तः समीपः, कर्णाग्रमित्यर्थः।
कर्णस्रोतः कर्णाच्छिद्रं सुकुमारकं च कर्णस्रोतःसमीपे उन्नतो मार्गस्तन्नेत्रप्रबन्धसमम्। नेत्र-
प्रबन्धशब्देन प्रदूषिकोच्यते। तत्समं तत्तुल्यं कार्यम्। अङ्गुलप्रमाणमित्यर्थः।।७।।
अन्यदप्याह—
चतुरङ्गुलं वसिष्ठः कथयति नेत्रान्तकर्णयोर्विवरम् ।
अधरोऽङ्गुलप्रमाणस्तस्यार्धेनोत्तरोष्ठश्च ॥८॥
वसिष्ठ मुनि कहते हैं कि आँख और कान का अन्तर चार अंगुल, नीचे का ओंठ
एक अंगुल और ऊपर का आधा अंगुल बनाना चाहिये ।।८।।
वसिष्ठमुनिर्नेत्रान्तकर्णयोर्विवरमन्तरं चतुरङ्गुलं कथयति। तथा च वसिष्ठः—
कर्णनेत्रान्तरं यच्च तद्विन्द्यात् चतुरङ्गुलम्।
अधरोष्ठोऽङ्गुलप्रमाणेण विस्तीर्णः कार्यः, उत्तरोष्ठश्च तस्यार्धेनाधरोष्ठस्यार्धेनार्धाङ्गुल-
विस्तीर्णः कार्यः।।८।।
अन्यदप्याह—
अर्धाङ्गुला तु गोच्छा वक्तं चतुरङ्गुलायतं कार्यम् ।
विपुलं तु सार्धमङ्गलमव्यात्तं त्र्यङ्गुलं व्यात्तम् ॥९॥
आधा अंगुल विस्तार गोच्छा और चार अंगुल दैर्घ्य मुख बनाना चाहिये। साथ ही
डेढ़ अंगुल विस्तार अव्यात्त (अविस्तृत) मुख और तीन अंगुल विस्तार व्यात्त (नृसिंह
आदि देवताओं का विस्तृत) मुख बनाना चाहिये ।।९।।
बृ० भ० द्वि०-९
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१४० बृहत्संहिता
गोच्छा अर्धाङ्गुलविस्तीर्णा कार्या। वक्त्रं चतुरङ्गुलायतं कार्यम्। तथा सार्धमङ्गुलं
विपुलं विस्तीर्णं कार्यम्, यद्व्यत्तमविकसितम्, व्याप्तं विकसितं मर्त्यसिंहादेरूढ्यङ्गुलं
विस्तीर्णं कार्यम्॥९॥
अन्यदप्याह—
द्व्यङ्गुलतुल्यौ नासापुटौ च नासा पुटाग्रतो ज्ञेया।
स्याद् द्व्यङ्गुलमुच्छ्रायश्चतुरङ्गुलमन्तरं चाक्ष्णोः ॥१०॥
नासिका के दोनों पुट दो-दो अंगुल, पुटों के अग्रभाग से नासिका चार अंगुल,
नासिका की ऊँचाई दो अंगुल और दोनों नेत्रों का अन्तर चार अंगुल जानना चाहिये॥१०॥
नासापुटौ द्व्यङ्गुलतुल्यौ द्व्यङ्गुलप्रमाणौ कार्यों। तथा नासा पुटाग्रतो द्व्यङ्गुलतुल्यैव
ज्ञेया ज्ञातव्या। नासाया द्व्यङ्गुलमुच्छ्राय औच्च्यं स्याद्भवेत्। अक्ष्णोर्नेत्रयोर्द्वयोर्मध्यं चतुरङ्गुल-
प्रमाणं भवति। एतदनुक्तमपि ज्ञायते॥१०॥
अन्यदप्याह—
द्व्यङ्गुलमितोऽक्षिकोषो द्वे नेत्रे तत्रिभागिका तारा।
दृक्तारा पञ्चांशो नेत्रविकाशोऽङ्गुलं भवति ॥११॥
नेत्र का कोष दो-दो अंगुल, नेत्र के तृतीयांशसम तारा, नेत्र के पञ्चम अंश के
बराबर दृक्तारा (नेत्र और तारा का मध्यवर्ती भाग) और नेत्रों का विकाश एक अंगुल
होता है॥११॥
अक्षिकोषोऽक्षिपुटो द्व्यङ्गुलमितो द्व्यङ्गुलप्रमाणः। द्वे अङ्गुले नेत्रे नयने। तत्रिभागिका
तारा। अङ्गुलद्वयत्रिभागप्रमाणा तारा नेत्रमध्ये कृष्णो भागः। दृक्तारा मध्यवर्तिनी कुमारी
अङ्गुलद्वयपञ्चांशः पञ्चांशभागः। नेत्रविकाशो नयनवैपुल्यमङ्गुलं भवति॥११॥
अन्यदप्याह—
पर्यन्तात् पर्यन्तं दश भ्रुवोऽर्धाङ्गुलं भ्रुवोर्लेखा।
भ्रूमध्यं द्व्यङ्गुलकं भ्रूर्दैर्घ्येणाङ्गुलचतुष्कम् ॥१२॥
एक भौं के अन्तभाग से दूसरे भौं के अन्तभाग तक दश अंगुल, भौं की चौड़ाई
आधा अंगुल, भौं के मध्यभाग दो अंगुल और प्रत्येक भौं की लम्बाई चार अंगुल बनानी
चाहिये॥१२॥
भ्रुवोः पर्यन्तात् पर्यन्तं दशाङ्गुलानि प्रमाणम्। वामभ्रूपर्यन्ताद् दक्षिणभ्रूपर्यन्तं यावद्
दशाङ्गुलानि। भ्रुवो लेखा भ्रूरेखा अर्धाङ्गुलं विस्तीर्णा। भ्रूमध्यं भ्रुवोरन्तरं द्व्यङ्गुलकं
द्व्यङ्गुलप्रमाणविस्तीर्णं कार्यम्। भ्रूर्दैर्घ्येण भ्रूदीर्घत्वेनाङ्गुलचतुष्कं कार्यमिति॥१२॥
अन्यत्—
कार्या तु केशरेखा भ्रूबन्धसमाङ्गुलार्धविस्तीर्णा।
नेत्रान्ते करवीरकमुपन्यसेदङ्गुलप्रमितम् ॥१३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

wait, is it न or ने?
Wait, look at line 25:
Line 25: तत्प्रमाणेन ।
Char 1: त
Char 2: त्प्र
Char 3: मा
Char 4: णे
Char 5: न
Followed by a space and a single danda ।.
Yes, तत्प्रमाणेन ।!
Now line 30:
त्प्र मा णे न
Wait, does it have े on न? No, it is त्प्रमाणेन!
Wait, but is it त्प्रमाणेन or त्प्रमाणेने?
Wait, look at line 29:
यावत्-
Line 30:
त्प्रमाणेने? Why would someone write त्प्रमाणेने? That's not even a word!
Wait, could it be त्प्रमाणेन? Yes, of course, यावत्तत्प्रमाणेन द्वादशाङ्गुलान्येव!
Wait! यावत् + तत्प्रमाणेन = यावत्तत्प्रमाणेन!
In line 29: यावत्-
In line 30: त्प्रमाणेन!

१४२ बृहत्संहिता
अथान्यत्—
ऊरू चाङ्गुलमानैश्चतुर्युता विंशतिस्तथा जङ्घे ।
जानुकपिच्छे चतुरङ्गुले च पादौ च तत्तुल्यौ ॥१७॥
ऊरु ( घुटनों का ऊपरी प्रदेश ) और जंघा ( जाँघ ) चौबीस-चौबीस अंगुल, जानु
( घुटने ) और कपिच्छ चार-चार अंगुल तथा पाँव की गाँठी से नीचे तक भी चार-चार
अंगुल का बनाना चाहिये॥१७॥
ऊरू दीर्घा चाङ्गुलमानैश्चतुर्युता विंशतिः । तथा जङ्घे चतुर्विंशतिरेव दीर्घा । जानुकपिच्छे
चतुरङ्गुले च चतुरङ्गुलप्रमाणे कार्ये, ये च लोके एक्कलके इति प्रसिद्धे । पादौ च तत्तुल्यौ
तत्समौ गुल्फादारभ्याधोभागश्चतुरङ्गुलः कार्यः ॥१७॥
अथान्यदप्याह—
द्वादशदीर्घौ षट् पृथुतया च पादौ त्रिकायताङ्गुष्ठौ ।
पञ्चाङ्गुलपरिणाहौ प्रदेशिनी त्र्यङ्गुलं दीर्घा ॥१८॥
बारह अंगुल लम्बे और छः अंगुल चौड़े पाँव, पाँव के अँगूठे तीन अंगुल लम्बे
और प्रदेशिनी ( अंगूठे के समीप की अंगुली ) तीन अंगुल लम्बी बनाना चाहिये॥१८॥
पादौ चरणौ पार्ष्या आरभ्याङ्गुष्ठमूलं यावद् द्वादशाङ्गुलानि दीर्घौ कार्यौ, पृथुतया
विस्तारेण षडङ्गुलानि । अङ्गुष्ठौ त्रिकायतौ त्रीण्यङ्गुलानि दीर्घौ कार्यौ । पञ्चाङ्गुलपरिणाहौ
परिणाहात् पञ्चाङ्गुलानि कार्यौ । प्रदेशिन्यङ्गुष्ठसमीपवर्तिन्यङ्गुली त्रीण्यङ्गुलानि दीर्घा कार्या।
अन्यदप्याह—
अष्टांशाष्टांशोनाः शेषाङ्गुल्यः क्रमेण कर्तव्याः ।
सचतुर्थभागमङ्गुलमुत्सेधोऽङ्गुष्ठकस्योक्तः ॥१९॥
प्रदेशिनी से अष्टांश-अष्टांश कम करके क्रम से शेष तीन अंगुलियाँ बनानी चाहिये।
अंगूठे की ऊँचाई सवा अंगुल और शेष अंगुलियों की ऊँचाई उसी के अनुपात से कुछ-
कुछ कम करके बनानी चाहिये॥१९॥
शेषास्तिस्रोऽङ्गुल्यः क्रमेण परिपाट्या अष्टांशेनाष्टांशेन ऊनाः कर्तव्यः, प्रदेशिनीतो
मध्यमा अष्टांशोना कार्या। अङ्गुष्ठस्योत्सेध उच्छ्रायः सचतुर्भागमङ्गुलमुक्तः कथितः।
शेषाङ्गुलीनामष्टांशाष्टांशोनानामङ्गुष्ठप्रमाणात् प्रमाणं कार्यम्॥१९॥
अन्यदप्याह—
अङ्गुष्ठनखः कथितश्चतुर्थभागोनमङ्गुलं तज्ज्ञैः ।
शेषनखानामर्धाङ्गुलं क्रमात् किञ्चिदूनं वा ॥२०॥
प्रतिमा के लक्षणों को जानने वालों ने अंगूठे के नख की लम्बाई पौन अंगुल और
शेष अंगुलियों की लम्बाई आधा अंगुल अथवा कुछ-कुछ कम करके बनाने का विधान
बताया है, जिससे कि प्रतिमा सुन्दर दिखाई दे॥२०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

प्रतिमालक्षणाध्यायः १४३
तज्ज्ञैः प्रतिमालक्षणज्ञैरङ्गुष्ठनखश्चतुर्थभागोनमङ्गुलं कथितः । शेषानामङ्गुलीनखाना-
र्धाङ्गुलं प्रमाणम्। अथवा क्रमात् परिपाट्या किञ्चिदूनमर्धाङ्गुलप्रमाणं कार्यं यथा शोभा जायत
इति ।।२०।।
अन्यदप्याह—
जङ्घाग्रे परिणाहश्चतुर्दशोक्तस्तु विस्तरात् पञ्च ।
मध्ये तु सप्त विपुला परिणाहात् त्रिगुणिताः सप्त ।।२१।।
जाँघ के आगे के भाग की मोटाई चौदह अंगुल और विस्तार पाँच अंगुल तथा मध्य
भाग का विस्तार आठ अंगुल और मोटाई इक्कीस अंगुल होती है।।२१।।
जङ्घाग्रे जङ्घापर्यन्ते चतुर्दशाङ्गुलानि परिणाह उक्तः कथितः। विस्तरात् पञ्चाङ्गुलानि।
जङ्घामध्ये मध्यभागे सप्ताङ्गुलानि विपुला विस्तीर्णा। परिणाहात् सप्त त्रिगुणिताः। एक-
विंशत्यङ्गुलानीत्यर्थः ।।२१।।
अन्यदप्याह—
अष्टौ तु जानुमध्ये वैपुल्यं त्र्यष्टकं तु परिणाहः ।
विपुलौ चतुर्दशोरू मध्ये द्विगुणश्च तत्परिधिः ।।२२।।
घुटने के मध्य भाग - विस्तार आठ अंगुल, मोटाई चौबीस अंगुल और ऊरु के
मध्य का विस्तार चौद० अंगुल एवं परिधि अट्ठाईस अंगुल होती है।।२२।।
जानुमध्ये अष्टाङ्गुलानि वैपुल्यं पृथुत्वम्। त्र्यष्टकं चतुर्विंशत्यङ्गुलानि परिणाहः,
ऊरू मध्ये मध्यभागे चतुर्दशाङ्गुलानि विपुलौ विस्तीर्णौ। तत्परिधिस्तत्परिणाहस्तयोः
पारिमाण्डल्यं द्विगुणोऽष्टाविंशत्यङ्गुलानि भवन्ति।।२२।।
अन्यदप्याह—
कटिरष्टादश विपुला चत्वारिंशच्चतुर्युता परिधौ ।
अङ्गुलमेकं नाभी वेधेन तथा प्रमाणेन ।।२३।।
कमर की चौड़ाई अठारह अंगुल और परिधि चौवालीस अंगुल होती है तथा नाभिभाग
का विस्तार और वेध एक-एक अंगुल का होता है।।२३।।
कटिरष्टादशाङ्गुलानि विपुला विस्तीर्णा। परिधौ परिणाहे चत्वारिंशच्चतुर्युता चतुश्चत्वा-
रिंशदङ्गुलानि। नाभी वेधेन गाम्भीर्येण तथा प्रमाणेन वैपुल्येन चाङ्गुलमेकं भवति।।२३।।
अन्यदप्याह—
चत्वारिंशद्द्वियुता नाभीमध्येन मध्यपरिणाहः ।
स्तनयोः षोडश चान्तरमूर्ध्वं कक्ष्ये षडङ्गुलिके ।।२४।।
नाभिस्थान की मोटाई बयालीस अंगुल, दोनों स्तनों का अन्तर सोलह अंगुल और
स्तनों के ऊपर बगल में छः-छः अंगुल के कोख होते हैं।।२४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१४४ बृहत्संहिता
नाभीमध्येन मध्यभागे परिणाहश्चत्वारिंशद्द्वियुता द्वाचत्वारिंशदङ्गुलानि। स्तनयोर्द्वयोरन्तरं
मध्यं षोडशाङ्गुलानि। स्तनयोरूर्ध्वं तिर्यक् कृत्वा षडङ्गुलिके षडङ्गुलप्रमाणे कक्ष्ये कार्ये।
अन्यदप्याह—
अष्टावंसौ द्वादश बाहू कार्यों तथा प्रबाहू च।
बाहू षड्विस्तीर्णौ प्रतिबाहू त्वङ्गुलचतुष्कम्॥२५॥
गरदन से लेकर दोनों कन्धों की लम्बाई आठ अंगुल तथा बारह अंगुल बाहु और
प्रबाहु (बाहु के समीपवर्ती बाहु) बनानी चाहिये। बाहु का विस्तार छः अंगुल और
प्रबाहु का विस्तार चार अंगुल बनाना चाहिये॥२५॥
अंसौ स्कन्धौ ग्रीवापार्श्वदंसान्तं यावदष्टाङ्गुलं विस्तीर्णं कार्यम्। अंससमीपवर्तिनौ
बाहू द्वादशाङ्गुलानि दीर्घौ कार्यों। बाहुसमीपवर्तिनौ प्रतिबाहू तावेव द्वादशाङ्गुलानि दीर्घौ
कार्यों। बाहू षडङ्गुलानि विस्तीर्णौ, प्रतिबाहू त्वङ्गुलचतुष्कं विस्तीर्णौ॥२५॥
अन्यदप्याह—
षोडश बाहू मूले परिणाहाद् द्वादशाग्रहस्ते च।
विस्तारेण करतलं षडङ्गुलं सप्त दैर्घ्येण॥२६॥
बाहुमूल की मोटाई सोलह अंगुल, प्रकोष्ठ की मोटाई बारह अंगुल, हथेली की
चौड़ाई छः अंगुल और लम्बाई सात अंगुल बनानी चाहिये॥२६॥
बाहू मूले षोडशाङ्गुलानि परिणाहात्। अग्रहस्ते च प्रकोष्ठप्रदेशे द्वादशाङ्गुलानि परिणाहः।
करतलं हस्ततलं विस्तारेण षडङ्गुलं कार्यं दैर्घ्येणायामेन सप्ताङ्गुलानि॥२६॥
अन्यदप्याह—
पञ्चाङ्गुलानि मध्या प्रदेशिनी मध्यपर्वदलहीना।
अनया तुल्या चानामिका कनिष्ठा तु पर्वोना॥२७॥
मध्यमा पाँच अंगुल, प्रदेशिनी और अनामिका पर्व के आधे से रहित पाँच अंगुल
और कनिष्ठिका एक पर्व से रहित पाँच अंगुल लम्बी होती है॥२७॥
अङ्गुष्ठादनन्तरं या अङ्गुली सा मध्यमायाः पर्वदलेन पर्वणोऽर्धेन हीना कार्या। सार्धानि
चत्वार्यङ्गुलानि पूर्वरेखायाः प्रभृतिद्वितीयां रेखां यावत् पर्वोच्यते। अनया प्रदेशिन्या चाना-
मिका कार्या। तस्या अनामिकायाः पर्वोना कनिष्ठिका कार्या॥२७॥
अन्यदप्याह—
पर्वद्वयमङ्गुष्ठः शेषाङ्गुल्यस्त्रिभिस्त्रिभिः कार्याः।
नखपरिमाणं कार्यं सर्वासां पर्वणोऽर्धेन॥२८॥
अंगूठे में दो पर्व एवं शेष चार अंगुलियों में तीन-तीन पर्व बनाने चाहिये तथा
अपने-अपने पर्व के आधे के तुल्य नखों का परिमाण बनाना चाहिये॥२८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

प्रतिमालक्षणाध्यायः १४५
अङ्गुष्ठः पर्वद्वयं कार्यः। शेषाः परिशिष्टा अङ्गुल्यस्त्रिभिस्त्रिभिः पर्वभिः कार्याः। सर्वा-
सामङ्गुलीनां पर्वणोऽर्धेन नखपरिमाणं कार्यम्॥२८॥
एवमवयवलक्षणमभिधायाधुना स्वरूपप्रदर्शनार्थमाह—
देशानुरूपभूषणवेषालङ्कारमूर्तिभिः कार्या।
प्रतिमा लक्षणयुक्ता सन्निहिता वृद्धिदा भवति ॥२९॥
प्रतिमा के भूषण, वेष, अलंकार और मूर्ति अपने-अपने देश के अनुरूप बनाने चाहिये;
क्योंकि शुभ लक्षणों से युत प्रतिमा उसका निर्माण करने वाले की सदा उन्नति करती
है॥२९॥
देशानुरूपैर्देशसदृशैर्भूषणैराभरणैर्हारकेयूरकटकादिभिः। वेषालङ्कारैः शरीरालङ्कारैः।
यस्मिन् देशे यादृशाः पुरुषाणां वेषास्तादृशैः, मूर्तिभिर्देहैः, स्थूलसूक्ष्मावयवत्वेन देशानुरूपेणैव
कार्या। यतः प्रतिमा लक्षणैः शास्त्रोक्तैर्युक्ता सन्निहिता सर्वकालं वृद्धिदा भवति, कर्तुर्वृद्धिं
ददाति। तथा च काश्यपः—
द्वादशाङ्गुलकं वक्त्रं ललाटं चतुरङ्गुलम्।
नासा ग्रीवा तु कर्तव्या तुल्या चैतत्प्रमाणतः॥
शङ्खान्तरं ललाटस्य ज्ञेयमष्टाङ्गुलं पृथु।
हनुद्वयं तु चिबुकमङ्गुलद्वितयं स्मृतम्॥
चतुरङ्गुलिकौ कर्णौ भ्रुवावेव तथा स्मृते।
द्व्यङ्गुलौ पृथुलौ कर्णौ भ्रूमध्यं तत्प्रमाणतः॥
कर्णनेत्रान्तरं कुर्यात् तत्सार्धं चतुरङ्गुलम्।
अधरोऽङ्गुलमानं तु तदर्धेनोत्तरं स्मृतम्॥
चतुरङ्गुलकं वक्त्रं नासाग्रं द्व्यङ्गुलं स्मृतम्।
नेत्रे द्व्यङ्गुलके दीर्घे तत्रिभागेन तारकः॥
दृक्तारा पञ्चमांशेन दूषिकाङ्गुलसम्मिता।
द्व्यङ्गुलं चाक्षिपुटकं तथा नासापुटौ स्मृतौ॥
कर्णस्रोतोऽङ्गुलमितं सुकुमारं तथैव च।
गोच्छा चाङ्गुलिका कार्या तत्समा केशरेखिका॥
द्व्यङ्गुलौ तु स्मृतौ शङ्खावायतौ चतुरङ्गुलौ।
चतुर्दशाङ्गुलः शीर्षो द्वात्रिंशत् परिणाहतः॥
एकविंशत् स्मृता ग्रीवा विस्तारात्स्याद्दशाङ्गुला।
कण्ठाच्च हृदयं नाभीं मेढ्रं तद्द्वादशाङ्गुलम्॥
ऊरू जङ्घे चतुर्विंशा जानुनी चतुरङ्गुले।
द्वादशाङ्गुलिकौ पादौ विस्तारात्तु षडङ्गुलौ॥
बृ० सं० १९ CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१४६ बृहत्संहिता
गुल्फादधोभागगतं चतुरङ्गुलमुन्नतम्।
अङ्गुष्ठं त्र्यङ्गुलं दीर्घं पञ्चैव परिणाहतः।।
शेषाः पादानुसारेण परिमाणं प्रकल्पयेत्।
जङ्घाग्रे परिधिर्ज्ञेयो ह्यङ्गुलानि चतुर्दश।।
ऊरू तद्विगुणौ प्रोक्तौ कटिस्तत्रिगुणा स्मृता।
अङ्गुलं तु भवेन्नाभी वेधगाम्भीर्ययोरपि।।
नाभीमध्ये परीणाहश्चत्वारिंशद्द्विसंयुतः।
षोडश स्तनयोर्मध्यं कक्ष्ये ऊर्ध्वं षडङ्गुले।।
अष्टाङ्गुलौ स्मृतौ स्कन्धौ बाहू विंशच्चतुर्युतौ।
बाहू मूले षोडश स्याद्धस्ताग्रे द्वादश स्मृताः।।
षडङ्गुलं हस्ततलं सप्त दैर्घ्येण च स्मृतम्।
पञ्चाङ्गुला भवेद् मध्या तर्जन्यर्धाङ्गुलोनिता।।
अनामिका च तत्तुल्या कनिष्ठा चाङ्गुलोनिता।
सुरूपास्ताश्च कर्तव्या द्विपर्वाङ्गुष्ठिका स्मृता।।
त्रिपर्वाङ्गुलयः शेषा नखाः पर्वाधंविस्तृताः।
देशवेषयुतान् हस्तान् सौम्यरूपांश्च कारयेत्।।
स्वरूपा लक्षणोपेता प्रतिमा वृद्धिदा भवेत्।। इति।।२९।।
अधुना प्रतिमानां विशेषलक्षणमाह—
दशरथतनयो रामो बलिश्च वैरोचनिः शतं विंशम्।
द्वादशहान्या शेषाः प्रवरसमन्यूनपरिमाणाः॥३०॥
दशरथतनय राम और विरोचन के तनय बलि की प्रतिमा एक सौ बीस अंगुल लम्बी
बनानी चाहिये। शेष समस्त प्रतिमायें एक सौ आठ अंगुल लम्बी उत्तम, छियानबे अंगुल
लम्बी मध्यम और चौरासी अंगुल लम्बी अधम होती हैं॥३०॥
दशरथतनयो दशरथपुत्रो रामः, वैरोचनिर्विरोचनपुत्रश्च बलिः। शतं विंशं विंशत्यधिक-
मङ्गुलशतं कार्यमित्यर्थः। शेषा अन्याः प्रतिमा द्वादशहान्या द्वादशकद्वादशकहीनत्वेन
प्रवरसमन्यूनपरिमाणा भवन्ति। विंशत्यधिकादङ्गुलशताद् द्वादशाङ्गुलान्यपास्याष्टाधिकं शत-
मङ्गुलानां प्रतिमा प्रधाना भवति। ततोऽपि द्वादशकमपास्य षण्णवत्यङ्गुलसमा मध्यमा
भवति। ततोऽपि द्वादशकमपास्य चतुरशीत्यङ्गुला न्यूनपरिमाणा प्रतिमा भवति। 'स्वैरङ्गुल-
प्रमाणैर्द्वादशविस्तीर्णमायतं च मुखम्' इत्यनेन न्यायेन या प्रतिमोक्ता साष्टाङ्गुलं शतमधिकं
भवति, यदत्रोक्तम्—'दशरथतनयो रामो बलिश्च वैरोचनिः शतं विंशम्' इत्यस्मिन् द्वादशा-
नामङ्गुलानामधिकानां तैरधिकेन परिमाणः कार्यः सर्वावयवानाम्। एवं हीनत्वेऽप्यनुपात
एवेत्यनुक्तं ज्ञायत इति॥३०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

प्रतिमालक्षणाध्यायः १४७
अधुना भगवतो विष्णोः स्वरूपकथनमाह—
कार्योऽष्टभुजो भगवांश्चतुर्भुजो द्विभुज एव वा विष्णुः।
श्रीवत्साङ्कितवक्षाः कौस्तुभमणिभूषितोरस्कः॥३१॥
अतसीकुसुमश्यामः पीताम्बरनिवसनः प्रसन्नमुखः।
कुण्डलकिरीटधारी पीनगलोरःस्थलांसभुजः॥३२॥
खड्गगदाशरपाणिर्दक्षिणतः शान्तिदश्चतुर्थकरः।
वामकरेषु च कार्मुकखेटकचक्राणि शङ्खश्च॥३३॥
अथ च चतुर्भुजमिच्छति शान्तिद एको गदाधरश्चान्यः।
दक्षिणपार्श्वे त्वेवं वामे शङ्खश्च चक्रं च॥३४॥
द्विभुजस्य तु शान्तिकरो दक्षिणहस्तोऽपरश्च शङ्खधरः।
एवं विष्णोः प्रतिमा कर्तव्या भूतिमिच्छद्भिः॥३५॥
विष्णु की प्रतिमा अष्टभुज, चतुर्भुज या द्विभुज बनानी चाहिये। उनके वक्षःस्थल
को श्रीवत्सचिह्न और कौस्तुभ मणि से शोभित करना चाहिये। अतसी-पुष्प के समान
श्याम वर्ण, पीताम्बर पहनी हुई, प्रसन्न मुख, पुष्ट कण्ठ, वक्षःस्थल, कन्धा और भुजा
वाली, दाहिने तीन हाथों में खड्ग, गदा और शर धारण की हुई, चौथा हाथ अभय मुद्रा
से युत, बाईं तरफ के चार हाथों से धनुष, ढाल, चक्र और शंख धारण की हुई अष्टभुज
विष्णु की प्रतिमा बनानी चाहिये।
चतुर्भुज विष्णु की प्रतिमा बनानी हो तो दाहिने तरफ के एक हाथ में अभय
मुद्रायुत, दूसरे में गदा धारण की हुई, बाईं तरफ के एक हाथ में शंख और दूसरे में चक्र
धारण की हुई मूर्ति बनानी चाहिये।
द्विभुज प्रतिमा बनानी हो तो दाहिने हाथ में अभय मुद्रा और बाँये में शंख धारण
की हुई मूर्ति बनानी चाहिये। ऐश्वर्य को चाहने वाले मनुष्य को इसी तरह विष्णु की
प्रतिमा बनानी चाहिये॥३१-३५॥
कार्योऽष्टभुजो भगवानिति। भगवान् विष्णुनारायणोऽष्टभुजोऽष्टहस्तः कार्यः,
चतुर्भुजो द्विभुज एव वा कार्यः। श्रीवत्साङ्कितवक्षाः। श्रीवत्सेन रोमावर्तेनाङ्कितं चिह्नितं
वक्ष उरो यस्य, तथा कौस्तुभाख्येन मणिना भूषितमलङ्कृतमुरो वक्षो यस्य।
अतसीकुसुमवदतसीपुष्पवत् श्यामः। पीतान्यम्बराणि वसनं परिधानं यस्य। प्रसन्नमुखः
सौम्यवदनः। कुण्डलं कर्णाभरणं किरीटं मुकुटं तद्धारणं शीलमस्य। पीनः पीवरो गलः
कण्ठो यस्य। मांसल इत्यर्थः। तथा पीनोरःस्थलः। पीनांसः पीनस्कन्धः। पीनभुजः पीनबाहुः।
दक्षिणतो दक्षिणभागे अष्टभुजस्य ये चत्वारः पाणयो हस्तास्तेष्वेकस्मिन् खड्गो
नन्दकः। द्वितीये गदा कौमोदकी। तृतीये शरः। चतुर्थे शान्तिदः। द्रष्टुरभिमुख ऊर्ध्वाङ्गुलिः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१४८ बृहत्संहिता
शान्तिदः करः। वामकरेषु वामहस्तेषु च कार्मुकं धनुः शार्ङ्गम्। खेटकं फरः। चक्रं सुदर्शनम्।
शङ्खश्च पाञ्चजन्यः।
अथशब्दो विकल्पे। तुशब्दो विशेषद्योतकः। यदि चतुर्भुजं कर्तुमिच्छति तदा दक्षिण-
पार्श्वे भुजद्वये एकः शान्तिदः करः। द्वितीयो गदाधरः। वामपार्श्वे भुजद्वये एकस्मिन् शङ्खो
द्वितीये चक्रम्।
द्विभुजस्य विष्णोर्दक्षिणहस्तः शान्तिदः। अपरो वामः शङ्खधरः। एवमनेन प्रकारेण
भूतिमिच्छद्भिः समृद्धिमभिलषद्भिर्विष्णोर्नारायणस्य प्रतिमाऽर्चा कार्या।।३१-३५।।
अथ हलधरस्य लक्षणमाह—
बलदेवो हलपाणिर्मदविभ्रमलोचनश्च कर्तव्यः।
बिभ्रत् कुण्डलमेकं शङ्खेन्दुमृणालगौरतनुः ॥३६॥
बलदेव की प्रतिमा के एक हाथ में हल धारण कराना चाहिये। मद से चलायमान
नेत्र बनाना चाहिये। उसके एक कान में कुण्डल धारण कराना चाहिये तथा प्रतिमा को
शंख, चन्द्र या मृणाल के समान सफेद वर्ण वाला बनाना चाहिये।।३६।।
बलदेवो हलधरो हलपाणिर्लाङ्गलहस्तः। मदविभ्रमलोचनो मदिरापानेन यो मदस्तेन
विभ्रमे चलिते लोचने नयने यस्य स तथाभूतः कर्तव्यः। एवं कुण्डलं कर्णाभरणं बिभ्रद्
धारयन्। शङ्खेन्दुमृणालगौरतनुः, शङ्खः प्रसिद्धः, इन्दुश्चन्द्रः। मृणालो बिसम्, तद्वद्गौरी
श्वेता तनुर्यस्य स तथाभूतः।।३६।।
अथैकानंशाया लक्षणमाह—
एकानंशा कार्या देवी बलदेवकृष्णयोर्मध्ये।
कटिसंस्थितवामकरा सरोजमितरेण चोद्वहती ॥३७॥
कार्या चतुर्भुजा या वामकराभ्यां सपुस्तकं कमलम्।
द्वाभ्यां दक्षिणपार्श्वे वरमर्थिष्वक्षसूत्रं च ॥३८॥
वामेऽथाष्टभुजायाः कमण्डलुश्चापमम्बुजं शास्त्रम्।
वरशरदर्पणयुक्ताः सव्यभुजाः साक्षसूत्राश्च ॥३९॥
बलदेव और कृष्ण की प्रतिमा के मध्य में 'एकानंशा' नाम की देवी की प्रतिमा
बनानी चाहिये। उसका बाँया हाथ उसके कमर पर रखना चाहिये और दाहिने हाथ में
कमल धारण कराना चाहिये। चतुर्भुजा एकानंशा देवी के बाईं तरफ एक हाथ में पुस्तक
और दूसरे में कमल तथा दाईं तरफ एक हाथ में वर देने वाली मुद्रा और दूसरे में माला
धारण कराना चाहिये। अष्टभुजा एकानंशा देवी की मूर्ति के बायें चार हाथों में क्रम से
कमण्डलु, धनुष, कमल और पुस्तक तथा दाहिने चार हाथों में क्रम से वर देने वाली
मुद्रा, बाण, दर्पण और अक्षसूत्र धारण कराना चाहिये।।३७-३९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

प्रतिमालक्षणाध्यायः १४९
एकानंशेति। बलदेवकृष्णयोर्हलधरवासुदेवयोर्मध्ये अन्तरे एकानंशाभिधाना देवी
देवता कार्या विधेया। कीदृशी? कटिसंस्थितवामकरा कटिसंस्थितो वामकरो वामहस्तो
यस्याः। इतरेण दक्षिणे सरोजं पद्ममुद्वहन्ती धारयन्ती कार्या—इति।
अथ चतुर्भुजा क्रियते तदा तस्या वामकरयोरेकस्मिन् पुस्तकं द्वितीये कमलं पद्मम्।
दक्षिणभागे द्वयोः करयोरेकस्मिन्नर्थिषु वरदो द्वितीयेऽक्षसूत्रम्। उत्तानोऽधोऽङ्गुलिर्हस्तो वरदः।
वामेऽथाष्टभुजाया इति। अथाऽष्टभुजा क्रियते तदा तस्य वामहस्तचतुष्के एकस्मिन्
कमण्डलुः। द्वितीये चापं धनुः। तृतीये अम्बुजं पद्मम्। चतुर्थे शास्त्रं पुस्तकम्। सव्ये दक्षिणभागे
एको हस्तो वरदः। द्वितीये शरः। तृतीये दर्पणमादर्शः। चतुर्थे अक्षसूत्रमिति।।३७-३९।।
अथ शाम्बप्रद्युम्नलक्षणमाह—
शाम्बश्च गदाहस्तः प्रद्युम्नश्चापभृत् सुरूपश्च।
अनयोः स्त्रियौ च कार्ये खेटकनिस्रिंशधारिण्यौ ।।४०।।
शाम्ब की प्रतिमा को गदा और प्रद्युम्न की प्रतिमा को धनुष धारण कराना चाहिये।
इन दोनों प्रतिमाओं को द्विभुज तथा सुन्दर बनाना चाहिये तथा इन दोनों के ही स्त्रियों की
भी प्रतिमा बनानी चाहिये, जिनके हाथों में खेटक ( फर ) और खड्ग धारण कराना
चाहिये।।४०।।
शाम्बो द्विभुजो गदाहस्तश्च कार्यः। प्रद्युम्नः कामदेवश्चापभृद्धनुः शरहस्तः। सुरूपः
शोभनरूपश्च। अनयोर्द्वयोः शाम्बप्रद्युम्नयोः स्त्रियौ कार्ये। कीदृश्यौ? खेटकनिस्रिंशधारिण्यौ,
खेटकः फरः, निस्रिंशः खड्गः, तौ धारयन्त्यौ।।४०।।
अथ ब्रह्मणः कुमारस्य च लक्षणमाह—
ब्रह्मा कमण्डलुकरश्चतुर्मुखः पङ्कजासनस्थश्च।
स्कन्दः कुमाररूपः शक्तिधरो बर्हिकेतुश्च ।।४१।।
ब्रह्मा की मूर्ति के एक हाथ में कमण्डलु धारण कराकर उसको चार मुख वाला
बनाना चाहिये और उसे कमलपुष्प के आसन पर बैठाना चाहिये। कार्तिकेय को बालक
के स्वरूप का बनाना चाहिये एवं उनके हाथ में शक्ति ( वर्छी ) और मयूरयुक्त ध्वजा
धारण कराना चाहिये।।४१।।
ब्रह्मा पितामहः कमण्डलुकरः कमण्डलुहस्तश्चतुर्मुखश्चतुर्वक्त्रश्च, पङ्कजासनस्थश्च
पङ्कजासने पद्मासने स्थितः। स्कन्दः कार्तिकेयः कुमाररूपो बालरूपः। शक्तिधरः शक्ति-
मायुधविशेषं धारयति। बर्हिकेतुर्मयूरध्वजः।।४१।।
अथेन्द्रलक्षणमाह—
शुक्लश्चतुर्विषाणो द्विपो महेन्द्रस्य वज्रपाणित्वम्।
तिर्यग् ललाटसंस्थं तृतीयमपि लोचनं चिह्नम् ।।४२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA