सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पुष्यस्नानाध्यायः ५६९
पूजा करे, क्योंकि वह पुष्यस्नान की वेदी होती है।।३५-३६।।
लाजाः प्रसिद्धाः। आज्यं घृतम्। अक्षता यवाः। दधि क्षीरविकारः। मधु माक्षिकम्।
सिद्धार्था गौरसर्षपाः। गन्धाः सुगन्धद्रव्याणि। सुमनसः पुष्पाणि। धूपः प्रसिद्धः। गोरोचना
गोपित्तसम्भवा। अञ्जनं प्रसिद्धम्। तिलास्तथा। स्वर्तुजानि स्वार्तवात्मीयतौं जातानि
उत्पन्नानि यानि मधुराणि फलानि।
तथा तस्मिन् मण्डले सघृतस्य घृतसहितस्य च पायसस्य शरावाणि मृन्मयानि
पात्राणि सुपरिपूर्णानि दातव्यानि। तैश्च सम्भारैः पूर्वोक्तैः पश्चिमायां वेद्यां पूजां कुर्यात्।
यतः सा वेदी स्नातस्य। तस्यां पुष्यस्नानं कार्यमित्यर्थः।।३५-३६।।
ततः किं कुर्यादित्याह—
तस्याः कोणेषु दृढान् कलशान् सितसूत्रवेष्टितग्रीवान्।
साक्षीरवृक्षपल्लवफलापिधानान् व्यवस्थाप्य ।।३७।।
पुष्यस्नानविमिश्रेणापूर्णानम्भसा सरत्नांश्च।
पुष्यस्नानद्रव्याण्यादद्याद् गर्गगीतानि ।।३८।।
इसके चारों कोणों में दृढ़, सफेद सूत्र से वेष्टित गले वाले, दूध वाले, वृक्ष के
पल्लव फलों से ढके चार कलशों को स्थापित करे। उनको पुष्यस्नान की ओषधियों से
मिश्रित जल से, रत्नों से और गर्ग महर्षि के द्वारा प्रतिपादित पुष्यस्नान के द्रव्यों से
परिपूर्ण करे।।३७-३८।।
तस्या वेद्याः कोणेष्वस्रेषु चतुर्षु दृढानभग्नान् कलशान् घटान् सितसूत्रवेष्टितग्रीवान्।
सितेन श्वेतवर्णेन सूत्रेण तन्तुना वेष्टिता ग्रीवा कण्ठो येषां तान्। तथाभूतान् व्यवस्थाप्य
स्थापयित्वा। कीदृशान्? सक्षीरवृक्षपल्लवफलापिधानान्, सक्षीरा वृक्षा अर्कादयस्तेषां
ये पल्लवा अभिनवपत्राणि तथान्यानि च फलानि तान्येव समन्तादपिधानमाच्छादनं येषाम्।
पुनः कीदृशान्? पुष्यस्नानौषधिविमिश्रेणाम्भसा जलेनाऽऽपूर्णान् सुभरितान्। सरत्नान्
रत्नसहितांश्च। गर्गगीतानि गर्गमहर्षिणा कथितानि पुष्यस्नानार्थं द्रव्याण्यादद्यात् ढौकयेदिति।
तथा च गर्गः—
कलशैर्हेमताम्रैश्च राजतैर्मृन्मयैस्तथा।
सूत्रसंवेष्टितग्रीवैश्चन्दनागुरुचर्चितैः ।।
प्रशस्तवृक्षपत्रैश्च फलपुष्पसमन्वितैः।
पुण्यतोयेन सम्पूर्णै रत्नगर्भैर्मनोहरैः।। इति।।३७-३८।।
अथ पुष्यस्नानद्रव्याण्याह—
ज्योतिष्मतीं त्रायमाणामभयामपराजिताम्।
जीवां विश्वेश्वरीं पाठां समङ्गां विजयां तथा।।३९।।
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA

सहां च सहदेवीं च पूर्णकोशां शतावरीम्।
अरिष्टिकां शिवां भद्रां तेषु कुम्भेषु विन्यसेत् ॥४०॥
ब्राह्मीं क्षेमामजां चैव सर्वबीजानि काञ्चनीम्।
मङ्गल्यानि यथालाभं सर्वौषध्यो रसास्तथा ॥४१॥
रत्नानि सर्वगन्धांश्च बिल्वं च सविकङ्कतम्।
प्रशस्तनाम्यश्चौषध्यो हिरण्यं मङ्गलानि च ॥४२॥
ज्यौतिष्मती ( कंगनी = मालकाकणी ), त्रायमाणा ( चिरायते का फल ), अभया
( हर्रे = हरीर ), अपराजिता ( विष्णुक्रान्ता ), जीवा ( जीवन्ती = डोढी ), विश्वेश्वरी
( सोंठ ), पाठा ( पाढ़ = पाढ़रि ), समङ्गा ( रक्तमञ्जिष्ठा = पसरन ), विजया ( भंग ),
सहा (मुद्गपर्णी = वनमूड़ ), सहदेवी ( सहदेई ), पूर्णकोशा ( नागरमोथा ), शतावरी,
अरिष्टिका ( रीठा ), शिवा ( शमी ), भद्रा ( बला )—इन ओषधियों को पूर्व स्थापित
चारो कलशों में डाल दे। ब्राह्मी, क्षेमा ( काष्ठगुग्गुल ), अजा ( औषधिविशेष ), सब
प्रकार के बीज, काञ्चनी ( हल्दी = हरदी, 'निशाह्वा काञ्चनी पीता हरिद्रा वरवर्णिनी'त्यमरः ),
अन्य मङ्गल द्रव्य ( दधि, अक्षत, पुष्प आदि )—इन द्रव्यों में जितने की प्राप्ति हो,
उतने ही लेना चाहिये। सब ओषधि, सब रस, रत्न, सब सुगन्धद्रव्य, बेल, विकङ्कत
( कंटाप = कंघी ), प्रशस्त ओषधि ( जया, जयन्ती, जीवन्ती, जीवपुत्रिका, पुनर्नवा,
विष्णुक्रान्ता, चक्राङ्गा, वाराही और लक्षणा ), सुवर्ण आदि धातु, माङ्गलिक ओषधि
( गोरोचन, सरसों, दूर्वा, हस्तिमद आदि ) सब द्रव्यों को पूर्वस्थापित कलशों में डाल
दे॥३९-४२॥
ज्योतिष्मतीं सुसन्नद्धां। त्रायमाणां प्रसिद्धां। अभयां हरीतकीम्। अपराजितां
शमीम्। जीवां जीवन्तीम्। विश्वेश्वरीं पद्मचारिणीम्। पाठां प्रसिद्धां। समङ्गां रक्तमञ्जिष्ठाम्।
विजयां वचाम्। सहां मुद्गपर्णीम्। सहदेवीं प्रसिद्धां। पूर्णकोशां प्रसिद्धां। शतावरीं
प्रसिद्धामेव। अरिष्टिकां प्रसिद्धां। शिवां प्रसिद्धां। भद्रां बलाम्। एता ओषधीस्तेषु
प्रागुद्दिष्टेषु कुम्भेषु विन्यसेत् क्षिपेत्।
ब्राह्मीं प्रसिद्धां। क्षेमां काष्ठगुग्गुलम्। चोरकमिति प्रसिद्धम्। अजां प्रसिद्धां।
केचिदेडिकाक्षीमिच्छन्ति। सर्वाणि च बीजानि। काञ्चनीं सुप्रसिद्धाम्। अन्यानि मङ्गल्यानि
द्रव्याणि दध्यक्षतकुसुमादीनि। यथालाभमेतानि द्रव्याणि यावन्ति प्राप्यन्ते तावन्त्येव
ग्राह्याणि नान्येषां विकल्पः। सर्वा ओषधयः। रसाश्च सर्व एव मधुराम्ललवणतिक्तकटुकषायाः।
रत्नानि मणिविशेषाः। सर्वगन्धांश्च निःशेषसुगन्धद्रव्याणि। बिल्वं फलम्। सवि-
कङ्कतं विकङ्कतफलेन सह। प्रशस्तनाम्यो या ओषधयः। यथा—जया। जयन्ती।
जीवन्ती। जीवपुत्रिका। पुनर्नवा। विष्णुक्रान्ता। चक्राङ्गा। वाराही। लक्षणा। हिरण्यं सुवर्णादयो
धातवः। मङ्गलानि च मङ्गलवन्त्यौषधानि। यथा—गोरोचना। सर्षपः। दूर्वाहस्तिमदमिति।
एवमादि।।३९-४२।।

पुष्यस्नानाध्यायः ५७१
ततः किं कुर्यादित्याह—
आदावनडुहश्चर्म जरया संहतायुषः ।
प्रशस्तलक्षणभृतः प्राचीनग्रीवमास्तरेत् ॥४३॥
ततो वृषस्य योधस्य चर्म रोहितमक्षतम् ।
सिंहस्याथ तृतीयं स्याद् व्याघ्रस्य च ततः परम् ॥४४॥
चत्वार्येतानि चर्माणि तस्यां वेद्यामुपास्तरेत् ।
शुभे मुहूर्ते सम्प्राप्ते पुष्ययुक्ते निशाकरे ॥४५॥
पहले वृद्ध होकर मरे हुये, प्रशस्त लक्षणों ( ६१ वें अध्याय में कथित लक्षणों )
से युत बैल का चर्म लेकर पूर्वाभिमुख करके बिछावे । इसके बाद लोहित वर्ण वाले
योद्धा बैल का छिद्ररहित चर्म बिछावे, बाद में तृतीय सिंह का चर्म और इसके बाद
चतुर्थ व्याघ्र का चर्म बिछावे । पुष्य नक्षत्रगत चन्द्र के समय शुभ मुहूर्त में वेदी के ऊपर
इन चारो चमड़ों को बिछावे ॥४३-४५॥
आदौ प्रथममनडुहो बलीवर्दस्य चर्म। कीदृशस्य? जरया वार्द्धकेन संहतायुषो
मृतस्य। पुनः कीदृशस्य? प्रशस्तलक्षणभृतः, प्रशस्तानि गोलक्षणोक्तानि लक्षणानि
विभर्ति धारयति तस्य। ततश्च प्राचीनग्रीवं पूर्वाभिमुखकण्ठमास्तरेत् प्रसारयेत्।
ततोऽनन्तरं योधस्य वृषस्य रोहितं लोहितवर्णं चर्म। अक्षतमच्छिद्रमास्तरेत्। द्वितीयम्।
अनन्तरं सिंहस्य चर्म तृतीयं चाऽऽस्तरेत्। ततः परं चतुर्थं व्याघ्रस्य चर्माऽऽस्तरेत्।
एतानि चत्वारि चर्माणि तस्यां प्रागुक्तायां वेद्यामुपास्तरेत्। कस्मिन् काले? निशाकरे
चन्द्रे पुष्ययुक्ते पुष्यस्य योगतारकसमीपस्थे, शुभे च मुहूर्ते सम्प्राप्ते ॥४३-४५॥
ततः किं कुर्यादित्याह—
भद्रासनमेकतमेन कारितं कनकरजतताम्राणाम् ।
क्षीरतरुनिर्मितं वा विन्यस्यं चर्मणामुपरि ॥४६॥
त्रिविधस्तस्योच्छ्रायो हस्तः पादाधिकोऽर्धयुक्तश्च ।
माण्डलिकानन्तरजित्समस्तराज्यार्थिनां शुभदः ॥४७॥
चमड़े के ऊपर सोना, चाँदी, ताँबा या दुधैले वृक्ष का बना हुआ सुन्दर आसन
बिछावे। इस भद्रासन की ऊँचाई तीन प्रकार ( एक हाथ पादाधिक हस्त = तीस अंगुल
और डेढ हाथ ) की होनी चाहिये। प्रथम माण्डलिक राजा का शुभ करने वाला, द्वितीय
विजयेच्छु राजा का हित करने वाला और तृतीय चक्रवर्ती राजा बनने की इच्छा रखने
वाले राजा का शुभकारी होता है ॥४६-४७॥
कनकं सुवर्णम्। रजतं रूप्यम्। ताम्रं प्रसिद्धम्। एषां कनकरजतताम्राणामेकत-
मेनान्यतमेन भद्रासनं भद्रपीठं कारितं निर्मितम्। अथवा क्षीरतरवः क्षीरवृक्षा अर्कपिप्पलौ-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५७२ बृहत्संहिता
दुम्बरादयस्तन्निर्मितं तन्मयम्। तथाभूतं तेषां प्राक्तनानां चर्मणामुपर्य्युपरि स्थितानामुपरि
विन्यस्यं स्थाप्यम्।
त्रिविधस्तस्योच्छ्राय इति । तस्य भद्रासनस्य त्रिविधस्त्रिप्रकार उच्छ्राय औच्च्यम्।
हस्तः शयो माण्डलिकानां राज्ञां शुभदः शर्मदः। पादाधिको हस्तः, त्रिंशदङ्गुलानीत्यर्थः।
अनन्तरजितां विजिगीषूणां राज्ञां शुभदः। अर्धयुक्तो हस्तः। सार्धशयः समस्तराज्यार्थिनां
राजाधिराजैषिणां राज्ञां शुभदः॥४६-४७॥
ततः किं कुर्यादित्याह—
अन्तर्धाय हिरण्यं तत्रोपविशेन्नरेश्वरः सुमनाः।
सचिवाप्तपुरोहितदैवपौरकल्याणनामवृतः ॥४८॥
उस भद्रासन के मध्य में सुवर्ण देकर मन्त्री, विश्वस्त बन्धु, पुरोहित, दैवज्ञ और
शुभ ( जयराज, सिंहराज, बन्धुराज, व्याघ्रराज आदि ) नामों से युत पुरवासियों के
साथ प्रसन्न चित्त होकर राजा बैठे॥४८॥
तत्र तस्मिन् भद्रासने हिरण्यं सुवर्णमन्तर्धायाभ्यन्तरे क्षिप्त्वा नरेश्वरो राजा सुमनाः
शोभनचित्तः। उपविशेदध्यारोहेत्। सचिवैर्मन्त्रिभिः। आप्तैर्जनैर्विश्वस्तैर्बन्धुभिः। पुरोहिते-
नाचार्येण। दैवशब्देन दैवज्ञः। सांवत्सरिक उच्यते। एतैर्वृतः समायुक्तः। तथा अन्यैश्च
पौरैर्जनैः कल्याणनामभिर्वृतः परिवृतः। कल्याणनामानः शुभनामानः। यथा—जयराजः,
सिंहराजः, बन्धुराजः, व्याघ्रराजः इत्येवमादि॥४८॥
किम्भूतो राजेत्याह—
वन्दिजनपौरविप्रैः प्रघुष्टपुण्याहवेदनिर्घोषैः ।
समृद्धशङ्खतूर्यैर्मङ्गलशब्दैर्हतानिष्टः ॥४९॥
बन्दिजन, पुरवासी तथा ब्राह्मणों के द्वारा उद्घोषित पुण्याह शब्द, वेदध्वनि, मृदङ्ग,
शङ्ख और तुरही के मङ्गल शब्दों से नष्ट हो गया है अनिष्ट जिसका, ऐसा राजा उस
आसन पर बैठे॥४९॥
वन्दिनश्चाटुकारिणस्तैर्वन्दिजनैः। तथा पौरैश्च नागरैः। विप्रैर्ब्राह्मणैः। एतैः कीदृशैः?
प्रघुष्टपुण्याहवेदनिर्घोषैः। प्रकर्षेण घुष्ट उद्घोषितः पुण्याहशब्दो वेदशब्दश्च यैः। एतैः।
तथा समृद्धशङ्खतूर्यैर्मङ्गलशब्दैः, सह मृदङ्गशब्दैः, शङ्खशब्दैः, तूर्यशब्दैर्ये मङ्गलशब्दा
वर्तन्ते तैर्हतो विनाशितोऽनिष्टोऽशुभः शब्दो यस्य स तथोक्तः॥४९॥
ततः किं कुर्यादित्याह—
अहतक्षौमनिवसनं पुरोहितः कम्बलेन सञ्छाद्य।
कृतबलिपूजं कलशैरभिषिञ्चेत् सर्पिषा पूर्णैः ॥५०॥
नवीन रेशमी वस्त्र पहने हुये और कर लिया है बलि और पूजा जिसने, ऐसे राजा
को कम्बल से आच्छादित करके पुरोहित घृतपूर्ण कलश से अभिषेक करे॥५०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुष्यस्नानाध्यायः ५७३
ततः पुरोहितो राजानमभिषिञ्चेत्। कीदृशं राजानम्? अहतक्षौमनिवसनम्, अहतं
नवं क्षौमं क्षुभाकृतं निसवनं यस्य। तथा कृतबलिपूजम्, कृतो बलिरुपहारः। पूजा अर्चा
च येन तम्। कथमभिषिञ्चेत्? कम्बलेनौर्णिकेन सञ्छाद्य छादयित्वा। कैरभिषिञ्चेत्?
कलशैः सर्पिषा पूर्णैः, घृतपरिपूर्णैः कुम्भैरित्यर्थः।।५०।।
तथा कलशप्रमाणमाह—
अष्टावष्टाविंशतिरष्टशतं वापि कलशपरिमाणम्।
अधिकेऽधिके गुणोत्तरमयं च मन्त्रोऽत्र मुनिगीतः ॥५१॥
आठ, अट्ठाईस, एक सौ आठ या आठ सौ कलश का प्रमाण है। अधिक-अधिक
प्रमाण के कलश अधिक-अधिक गुण देते हैं। इस घृत के अभिषेक में मुनि ( वृद्धगर्ग )
के द्वारा प्रतिपादित आगे मन्त्र हैं॥५१॥
अष्टौ कलशाः, अष्टाविंशतिर्वा, अष्टशतमष्टाधिकं शतं वा। एतत्कलशानां परिमाणम्।
अधिकेऽधिके कलशपरिमाणे गुणोत्तरं गुणाधिक्यम्। अत्र घृताभिषेके मन्त्रोऽयं मुनिगीतो
मुनिना वृद्धगर्गेण उक्तः॥५१॥
तमेवाह—
आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम्।
आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः ॥५२॥
भौमान्तरिक्षं दिव्यं वा यत्ते कल्मषमागतम्।
सर्वं तदाज्यसंस्पर्शात् प्रणाशमुपगच्छतु ॥५३॥
घृत तेज है, घृत प्रकृष्ट पाप का नाश करने वाला है। घृत देवताओं का आहार है।
घृत में लोक ( भूः आदि ) स्थापित हैं, भौम ( चराचरोद्भव ), आन्तरिक्ष ( उल्का,
निर्घात, पवन, परिवेष, गन्धर्वपुर, इन्द्रचाप आदि से उत्पन्न ), दिव्य ( ग्रहनक्षत्रोद्भव )
जो पाप तुम्हारे ऊपर आये हों, वे सब घी के स्पर्श से नाश को प्राप्त हों॥५२-५३॥
आज्यं घृतं तदेव तेजः समुद्दिष्टं कथितम्। तथा आज्यं परं प्रकृष्टं पापहरं कल्मष-
नाशनम्। आज्यं सुराणां देवानामाहारो भोजनम्। आज्ये लोका भूर्लोकादयः प्रतिष्ठिताः
स्थापिताः।
ते तव कल्मषं यत्पापं दिव्यं ग्रहनक्षत्रविकारजम्। आन्तरिक्षमुल्कानिर्घातपवन-
परिवेषगन्धर्वपुरपुरन्दरचापादिजातम्। भौमं वा चरस्थिरोद्भवम्। आगतं प्राप्तम्। तत्सर्व-
माज्यसंस्पर्शात् घृतसंस्पर्शमात्रादेव प्रणाशं क्षयमुपगच्छतु प्रयातु॥५२-५३॥
ततः किं कुर्यादित्याह—
कम्बलमपनीय ततः पुष्यस्नानाम्बुभिः सफलपुष्पैः ।
अभिषिञ्चेन्मनुजेन्द्रं पुरोहितोऽनेन मन्त्रेण ॥५४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५७४ बृहत्संहिता
इसके बाद पुरोहित राजा के शरीर पर से कम्बल उतार कर फल-फूलों के साथ
पुष्यस्थानीय जल से आगे कथित मन्त्र के द्वारा अभिषेक करे।।५४।।
ततोऽनन्तरं कम्बलमपनीयापास्य। ततः सफलपुष्पैः फलपुष्पसहितैः। पुष्यस्नानाम्बुभिः
पुष्यस्नानद्रव्ययुक्तैर्जलैः। पुरोहित आचार्यों मनुजेन्द्रं राजानमनेन मन्त्रेणाभिषिञ्चेदभिषेकं
कुर्यादिति।।५४।।
अथ तमेव स्नानमन्त्रमाह—
सुरास्त्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः।
ब्रह्मा विष्णुश्च रुद्रश्च साध्याश्च समरुद्गणाः ।।५५।।
आदित्या वसवो रुद्रा अश्विनौ च भिषग्वरौ।
अदितिर्देवमाता च स्वाहा सिद्धिः सरस्वती ।।५६।।
कीर्तिर्लक्ष्मीर्धृतिः श्रीश्च सिनीवाली कुहूस्तथा।
दनुश्च सुरसा चैव विनता कद्रुरेव च ।।५७।।
देवपत्न्यश्च सा नोक्ता देवमातर एव च।
सर्वास्त्वामभिषिञ्चन्तु दिव्याश्चाप्सरसां गणाः ।।५८।।
नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्रसन्धयः।
संवत्सरा दिनेशाश्च कलाः काष्ठाः क्षणा लवाः ।।५९।।
सर्वे त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः।
एते चान्ये च मुनयो वेदव्रतपरायणाः ।।६०।।
सशिष्यास्तेऽभिषिञ्चन्तु सदाराश्च तपोधनाः।
वैमानिकाः सुरगणा मनवः सागरैः सह ।।६१।।
सरितश्च महाभागा नागाः किम्पुरुषास्तथा।
वैखानसा महाभागा द्विजा वैहायसाश्च ये ।।६२।।
सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि च।
मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः ।।६३।।
भृगुः सनत्कुमारश्च सनकोऽथ सनन्दनः।
सनातनश्च दक्षश्च जैगीषव्यो भगन्दरः ।।६४।।
एकतश्च द्वितश्चैव त्रितो जाबालिकश्यपौ।
दुर्वासा दुर्विनीतश्च कण्वः कात्यायनस्तथा ।।६५।।
मार्कण्डेयो दीर्घतपाः शुनःशेपो विदूरथः।
ऊर्ध्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः ।।६६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुष्यस्नानाध्यायः ५७५
द्वैपायनो यवक्रीतो देवराजः सहानुजः।
पर्वतास्तरवो वल्ल्यः पुण्यान्यायतनानि च॥६७॥
प्रजापतिर्दितिश्चैव गावो विश्वस्य मातरः।
वाहनानि च दिव्यानि सर्वलोकाश्चराचराः॥६८॥
अग्नयः पितरस्तारा जीमूताः खं दिशो जलम्।
एते चान्ये च बहवः पुण्यसङ्कीर्तनाः शुभैः॥६९॥
तोयैस्त्वामभिषिञ्चन्तु सर्वोत्पातनिबर्हणैः।
यथाभिषिक्तो मघवानेतैर्मुदितमानसैः॥७०॥
सभी देवता तुम्हारा अभिषेक करें—सिद्ध, पुरातन देव ( ब्रह्मा, विष्णु, शिव ),
साध्य, वायु के समुदाय, आदित्य, वसु, रुद्र, वैद्यों में श्रेष्ठ दोनों अश्विनीकुमार, अदिति,
देवमाता, स्वाहा, सिद्धि, सरस्वती, कीर्ति, लक्ष्मी, धृति, श्री, सिनीवाली ( दृश्यचन्द्रा ),
कुहू ( अदृश्यचन्द्रा अमावस्या ), दनु, सुरसा, विनता, कद्रू, देवपत्नी, देवमाता, दिव्य
अप्सरायें—ये सब तुम्हारा अभिषेक करें। अश्विनी आदि नक्षत्र, मुहूर्त, पक्ष, अहोरात्र
की सन्धि, संवत्सर, सूर्यादि सात ग्रह, कला, काष्ठा, क्षण, लव—ये सब काल के शुभ
अवयव तुम्हारा अभिषक करें। ये सब तथा अन्य भी वेदव्रतपरायण, शिष्य और स्त्रियों
के साथ तपस्वीगण तुम्हारा अभिषेक करें। विमान पर चलने वाले देवतागण, मनु,
समुद्र, नदी, प्रधान नाग, किन्नर, वैखानस, श्रेष्ठ ब्राह्मण, आकाशमार्ग से गमन करने
वाले, स्त्रियों के साथ सप्तर्षि गण, सभी ध्रुवस्थान, मरीचि, अत्रि, पुलह, पुलस्त्य,
क्रतु, अङ्गिरा, भृगु, सनत्कुमार, सनक, सनन्दन, सनातन, दक्ष, जैगीषव्य, भगन्दर,
एकत, द्वित, त्रित, जाबालि, कश्यप, दुर्वासा, दुर्विनीत, कण्व, कात्यायन, मार्कण्डेय,
दीर्घतप, शुनःशेप, विदूरथ, ऊर्व, संवर्तक, च्यवन, अत्रि, पराशर, द्वैपायन ( व्यास ),
यवक्रीत, भाइयों के साथ देवराज ( इन्द्र ), पर्वत, वृक्ष, लता, पुण्यगृह, प्रजापति,
दिति, गौ, विश्व की मातायें, दिव्य वाहन, चराचर समस्त लोक, अग्नि, पितर, तारा,
मेघ, आकाश, दिशा, जल—ये सब तथा अन्य भी पवित्र कीर्ति वाले, सभी उत्पातों
का नाश करने वाले, पवित्र जल से जिस तरह प्रसन्न चित्त होकर इन्द्र का अभिषेक
किया गया था, उसी तरह तुम्हारा अभिषेक करें॥५५-७०॥
अथ पयोऽभिषेकमन्त्रः सुबोधस्तथापि मन्दबुद्धिव्युत्पादनाय किञ्चिद् व्याख्यायते।
सुरा देवास्त्वां नृपमभिषिञ्चन्तु। ये च सिद्धा देवयोनयः। पुरातनाः ब्रह्माद्याः सुराः।
साध्याः समरुद्गणाः, मरुतां गणैर्वायुसमूहैः सहिताः। भिषग्वरौ वैद्यप्रधानावश्विनौ। अदिति-
र्देवमाता सुरजननी। स्वाहाद्या देवताः। सिनीवाली दृश्यचन्द्रा अमावास्या यस्यां प्रभाते
शशी दृश्यते, नष्टक्षपाकरा अमावास्या कुहूः, यस्यां प्रभाते चन्द्रमा न दृश्यते। दनु-
प्रभृतयः कश्यपपत्न्यः। देवपत्न्यः सुरदाराः। देवमातरः सुरजनन्यः। एताः सर्वास्त्वाम-
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA

५७६ बृहत्संहिता
भिषिञ्चन्तु। दिवि भवा दिव्याः। अप्सरसां गणाः समूहाः। नक्षत्राण्यश्विन्यादीनि सप्त-
विंशतिः। मुहूर्ताः क्षणाः। पक्षाहोरात्राणि। तेषां ये च सन्धयः। संवत्सरा वर्षाणि। दिनेशाः
सूर्योदयः सप्तग्रहाः। कलाद्याः कालावयवाः। कालस्याङ्गानि। एत उक्ता अन्ये परे च
मुनयः ऋषयो वेदव्रतपरायणा वेदासक्ताः। सशिष्याः शिष्यसहिताः। सदाराः सकलत्राः।
तपोधनास्तपःप्रधानाः तपस्विनः। वैमानिका विमानेन ये यान्ति। मनवः। सागरैः समुद्रैः
सहिताः। सरितो नद्यः। महाभागाः प्रधानाः। नागाः। किम्पुरुषाः किन्नराः। वैखानसा
वैहायसा इति संज्ञाविकृताः। महाभागा द्विजानां मुनीनाम्। सप्तर्षयो मरीच्यादयो मुनयः।
इहैव सप्तर्षिचारे उक्ताः। सदाराः सपत्नीकाः ध्रुवस्थानानि ध्रुवप्रदेशाः। दीर्घतपा मुनिविशेषः।
द्वैपायनो व्यासः। देवराज इन्द्रः। सहानुजैर्भातृभिः सह। जीमूता मेघाः। खं नभः। दिश
आशाः। जलमुदकम्। एते ये उक्तास्तथा अन्येऽपरे बहवः प्रभूताः। पुण्य-सङ्कीर्तनाः।
पुण्यं पवित्रं सङ्कीर्तनं येषां ते तथाभूताः। शुभैः पवित्रैः। तोयैर्जलैस्त्वाम-भिषिञ्चन्तु।
किम्भूतैः? सर्वोत्पातनिबर्हणैः, सर्वेषामुत्पातानां यानि निबर्हणानि नाशकर्त्तृणि तैः।
निःशेषानिष्टनिवारणैः। यथा येन प्रकारेणैतैः पूर्वोक्तैर्देवतामुनिभिः। मुदितमानसैः संहृष्टचित्तैः।
मघवानिन्द्रः पूर्वमभिषिक्तस्तथा ते अभिषिञ्चन्त्विति।। ५५-७०।।
अथान्यान्मन्त्रानप्याह—
इत्येतैश्चान्यैश्चाप्यथर्वकल्पाहितैः सरुद्रगणैः।
कौष्माण्डमहारौहिणकुबेरहृद्यैः समृद्ध्या च।। ७१।।
इन मन्त्रों के अतिरिक्त अथर्वकल्प में कथित मन्त्रों से, रुद्रगण ( 'एकदशानुवाका
रुद्राः' ), कौष्माण्ड ( 'षडनुवाका मरुद्गणाः' ), महारोहिण और कुबेरहृदय नामक ऋचा
से अभिषेक करें।। ७१।।
इत्येवंप्रकारैरेतैर्मन्त्रैस्तथान्यैरपरैरप्यथर्वकल्पाहितैरथर्वकल्पनिर्दिष्टैः। सरुद्रगणै
रुद्रगणसहितैः। एकादशानुवाका रुद्राः। कौष्माण्डैः, षडनुवाकाः कौष्माण्डाः महारौहिणेन
मन्त्रेण। कुबेरहृदयेन समृद्ध्या ऋचा।। ७१।।
ततः किं कुर्यादित्याह—
आपोहिष्ठातिसृभिर्हिरण्यवर्णेति चतसृभिर्जप्तम्।
कार्पासिकवस्त्रयुगं बिभृयात् स्नातो नराधिपतिः ॥७२॥
स्नान करके राजा आपोहिष्ठा इत्यादि तीन ऋचाओं और हिरण्यवर्णां इत्यादि चार
ऋचाओं से अभिमन्त्रित वस्त्र पहने।। ७२।।
ततो नराधिपती राजा स्नातः कृतस्नानः कार्पासिकवस्त्रयुगं बिभृयाद्धारयेत्। कार्पा-
सिकेत्यनेनान्यवस्त्राणां परिहारः। कीदृशम्? आपोहिष्ठेति तिसृभिर्ऋग्भिर्जप्तं तथा हिरण्य-
वर्णेति चतसृभिर्ऋग्भिर्जप्तम्। आपोहिष्ठा हिरण्यवर्णेत्याद्यपदग्रहणम्।। ७२।।
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA

पुष्यस्नानाध्यायः ५७७
ततः किं कुर्यादित्याह—
पुण्याहशङ्खशब्दैराचान्तोऽभ्यर्च्य देवगुरुविप्रान्।
छत्रध्वजायुधानि च ततः स्वपूजां प्रयुञ्जीत ॥७३॥
इसके बाद पवित्र होकर राजा देवता, गुरु और ब्राह्मणों की पूजा करके छत्र, ध्वज
और खड्ग की पूजा करे; तत्पश्चात् अभीष्ट देवता की पूजा करे॥७३॥
ततो नृपः पुण्याहशङ्खशब्दैश्च सहाऽऽचान्तः शुद्धकायो देवान् सुरान्। गुरून्नुपाध्यायान्।
विप्रान् ब्राह्मणान्। अभ्यर्च्य सम्पूज्य। तथा छत्रध्वजायुधानि, छत्रमातपत्रम्, ध्वजं चिह्नम्,
आयुधं खड्गादि। एतानि सम्पूज्य ततोऽनन्तरं स्वपूजामात्मीयेष्टदेवतार्चां प्रयुञ्जीत कारये-
दिति॥७३॥
ततः किं कुर्यादित्याह—
आयुष्यं वर्चस्यं रायस्पोषाभिर्ऋग्भिरेताभिः ।
परिजप्तं वैजयिकं नवं विदध्यादलङ्कारम् ॥७४॥
आयुष्यं, वर्चस्यं, रायस्पोष आदि छः ऋचाओं से अभिमन्त्रित विजय करने वाला
नवीन आभूषण राजा पहने॥७४॥
ततोऽनन्तरं नवमभिनवमलङ्कारं विभूषणादि वैजयिकं विजयावहं विदध्याद्धारयेत्।
कीदृशम्? आयुष्यं वर्चस्यम्। रायस्पोषाभिरेताभिः षड्भिर्ऋग्भिः परिजप्तमभिमन्त्रितम्।
ततः किं कुर्यादित्याह—
गत्वा द्वितीयवेदीं समुपविशेच्चर्मणामुपरि राजा।
देयानि चैव चर्माप्युपर्यपर्यमेतानि ॥७५॥
वृषस्य वृषदंशस्य रुरोश्च पृषतस्य च।
तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् ॥७६॥
बाद में द्वितीय वेदी पर जाकर राजा चमड़े के ऊपर बैठे, चमड़ों को आगे दी गई
विधि के अनुसार ऊपर-ऊपर रक्खे। जैसे सबसे पहले बैल का, बाद में बिल्ली का,
इसके बाद काले मृग का, इसके बाद हरिण का, इसके बाद सिंह का और अन्त में
व्याघ्र का चमड़ा रक्खे॥७५-७६॥
ततो द्वितीयवेदीं दक्षिणां गत्वा प्राप्य तत्र च राजा नृपश्चर्मणामुपरि समुपविशेतितिष्ठेत्।
तथोपर्य्युपरि चर्माण्यनेकप्रकारेणैतानि स्थाप्यानि यानि तानीत्याह।
वृषस्येति। तद्यथा—वृषस्य बलीवर्दस्य सम्बन्धि प्रथमं दद्यात्। तत्रोपरि वृषदंशस्य
मार्जारस्य। तस्योपरि रुरोर्मृगजातेः। तस्योपरि पृषतस्य च मृगजातेरेव। तेषामुपरि सिंहस्य
हरेः। ततः परं तस्योपरि व्याघ्रस्येति॥७५-७६॥
बृ० भ० प्र०-३७
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५७८ बृहत्संहिता
ततः किं कुर्यादित्याह—
मुख्यस्थाने जुहुयात् पुरोहितोऽग्निं समित्तिलघृताद्यैः ।
त्रिनयनशक्रबृहस्पतिनारायणनित्यगतिऋग्भिः ॥७७॥
पुरोहित मुख्य स्थान ( दक्षिण स्थान ) में लकड़ी, तिल, घृत आदि से रुद्र, इन्द्र,
बृहस्पति, विष्णु और वायुसम्बन्धी ऋचा पढ़ कर अग्नि में आहुति दे।।७७।।
पुरोहित आचार्यः। मुख्यस्थानं प्रधानस्थानं दक्षिणस्थानमित्यर्थः। समित्तिलघृताद्यैः,
समिद्भिः, तिलैः घृतेनाज्येन च। आदिग्रहणादन्यैः शान्तिकैः श्रीफलादिभिरग्निं जुहुयात्।
त्रिनयनो रुद्रः। शक्र इन्द्रः। बृहस्पतिर्देवगुरुः। नारायणो विष्णुः। नित्यगतिर्वायुः। एत-
त्सम्बन्धिन्य ऋचस्ताभिः ।।७७।।
अन्यच्च—
इन्द्रध्वजनिर्दिष्टान्यग्निनिमित्तानि दैवविद् ब्रूयात् ।
कृत्वाऽशेषसमाप्तिं पुरोहितः प्राञ्जलिर्ब्रूयात् ॥७८॥
दैवज्ञ इन्द्रध्वज में कथित अग्नि के लक्षण को बोले, सबकी समाप्ति के अनन्तर
पुरोहित हाथ जोड़ कर बोले।।७८।।
दैववित् सांवत्सरिकः। इन्द्रध्वजनिर्दिष्टानीन्द्रध्वजोक्तानि। अग्निनिमित्तानि अग्नि-
लक्षणानि ब्रूयाद् वदेत्। तद्यथा—
स्वाहावसानसमये स्वयमुज्ज्वलार्चिः स्निग्धः प्रदक्षिणशिखो हुतभुग् नृपस्य।
गङ्गादिवाकरसुताजलचारुहारां धात्रीं समुद्ररशनां वशगां करोति।।
एतत्सर्वं विचार्यम्। अशेषसमाप्तिं सर्वकर्मणां परिसमाप्तिं कृत्वा ततः प्राञ्जलिः
पुरोहितः। अञ्जलिं कृत्वा आचार्य इदं ब्रूयाद्वदेत्।।७८।।
किं तदित्याह—
यान्तु देवगणाः सर्वे पूजामादाय पार्थिवात्।
सिद्धिं दत्त्वा तु विपुलां पुनरागमनाय च॥७९॥
हे देवगण! आप सब राजा द्वारा दत्त पूजा को प्राप्त कर उनको महान् सिद्धि
देकर फिर आगमन के लिये गमन करें।।७९।।
सर्वे देवगणाः सुरसमूहाः पार्थिवाद् राज्ञः पूजामर्चामदाय गृहीत्वा तस्य च विपुलां
विस्तीर्णां सिद्धिं दत्वा पुनर्भूयः। आगमनाय च प्रयान्तु व्रजन्तु।।७९।।
ततो राज्ञा किं कर्तव्यमित्याह—
नृपतिरतो दैवज्ञं पुरोहितं चार्चयेद्धनैर्बहुभिः ।
अन्यांश्च दक्षिणीयान् यथोचितं श्रोत्रियप्रभृतीन् ॥८०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुष्यस्नानाध्यायः ५७९
इसके बाद राजा बहुत प्रकार के धनों से दैवज्ञ और पुरोहित की पूजा करे तथा
अन्य दक्षिणा देने के लायक श्रोत्रिय आदि की भी यथोचित पूजा करे॥८०॥
अतोऽनन्तरं नृपती राजा दैवज्ञं सांवत्सरं पुरोहितं चाचार्यं बहुभिः प्रभूतैर्धनैर्वित्तैरर्चयेत्।
तथा अन्यान् दक्षिणीयान् दक्षिणार्हान् यथोचितं कुलशीलपाठश्रुतानुसारेण श्रोत्रियप्रभृतीन्
यजमानाग्निहोतृंश्चार्चयेत्। तथा च गर्गः—
दत्वा वित्तं ब्राह्मणेभ्यो गावो हेमपरिष्कृताः।
वास्तु युग्मं मही रूप्यं तेभ्यश्च बहुभोजनम् ।।
शङ्खभेरीस्वनैर्दिद्व्यैर्गजैश्चैव मनोहरैः।
सम्प्रविश्य ततो राजा सचिवैः परिवारितः।।
श्वेतकुञ्जरमारूढः श्वेतमश्वमथापि वा।
श्वेतचन्दनलिप्ताङ्गः श्वेताम्बरधरः शुभः ।।
पुरस्ताद्विकरेद्वित्तमाशीर्वादैश्च पूजितः।। इति ॥८०॥
ततः किं कुर्यादित्याह—
दत्त्वाऽभयं प्रजानामाघातस्थानगान् विसृज्य पशून् ।
बन्धनमोक्षं कुर्यादभ्यन्तरदोषकृद्वर्जम् ॥८१॥
प्रजाओं को अभयदान देकर बध्य स्थानगत पशु (छाग) आदि को छोड़कर
अभ्यन्तर (राजा के शरीर या अन्तःपुर) में जिन्होंने अपराध किया है, उनके सिवाय
समस्त बन्धन स्थानस्थित पुरुषों को मुक्त करे॥८१॥
ततः प्रजानां लोकानामभयं दत्वा आघातस्थानगान् वध्यस्थानप्राप्तान् पशून् छागादीन्
विसृज्य विमुच्य ततो बन्धनमोक्षं कुर्यात्। बन्धनस्थान् पुरुषान् परित्यजेत्। किं त्वभ्यन्तर-
दोषकृद्वर्जम्। अभ्यन्तरे नृपशरीरे अन्तःपुरे वा यैर्दोषः कृतस्तान् वर्जयित्वेत्यर्थः ॥८१॥
अथ पुष्यस्नानमाहात्म्यमाह—
एतत्प्रयुज्यमानं प्रतिपुष्यं सुखयशोऽर्थवृद्धिकरम्।
पुष्याद्विनाध्र्धफलदा पौषी शान्तिः परा प्रोक्ता ॥८२॥
प्रत्येक पुष्य नक्षत्र में किया हुआ यह स्नान सुख, यश और धन की वृद्धि करने
वाला होता है। पुष्य नक्षत्र को छोड़कर अन्य नक्षत्र में यथाविधि यह स्नान करने से
आधा फल देने वाला होता है। पर पुष्य नक्षत्रयुत पूर्णिमा के दिन का यह स्नान
सर्वोत्कृष्ट है॥८२॥
एतत् स्नानं प्रतिपुष्यं पुष्यं पुष्यं प्रति प्रयुज्यमानं क्रियमाणं सुखयशोऽर्थवृद्धिकरं
सुखस्य यशसेऽर्थस्य वृद्धिकरं भवति। पुष्याद्विना अन्यत्र क्रियमाणमर्धफलं यथोक्तात्
फलादर्धं ददाति। पौषी शान्तिः। पुष्यनक्षत्रेण युता पौषी पौर्णमासी च परा प्रकृष्टा प्रोक्ता
कथिता॥८२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५८० बृहत्संहिता
अथ केषु कालेषु पुष्यस्नानं कुर्यादित्याह—
राष्ट्रोत्पातोपसर्गेषु राहोः केतोश्च दर्शने ।
ग्रहावमर्दने चैव पुष्यस्नानं समाचरेत् ॥८३॥
राज्य में किसी प्रकार का उत्पात या उपसर्ग ( उपद्रव ) होने पर तथा केतु का
दर्शन होने पर पुष्यस्नान करना चाहिये॥८३॥
राष्ट्रे राज्ये। उत्पातेषु दिव्यान्तरिक्षभौमेषु। तथोपसर्गेषूपद्रवेषु। अन्येषु व्याध्यादिषु।
राहborder्दर्शने रविचन्द्रग्रहणे। केतोर्दर्शने केतूद्ये। ग्रहावमर्दने ग्रहयुद्धे चैवमनेन प्रकारेण स
यथा पुष्यस्नानं समाचरेत् कारयेत्॥८३॥
अन्यच्चाह—
नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति ।
मङ्गलं चापरं नास्ति यदस्मादतिरिच्यते ॥८४॥
इस लोक में इस तरह का कोई उत्पात नहीं है, जो इस स्नान से नष्ट न हो और
ऐसा कोई माङ्गलिक कार्य नहीं है, जो इससे अधिक फल देने वाला हो॥८४॥
लोके स उत्पातो नास्ति न विद्यते यो ह्यनेन पुष्यस्नानेन न शाम्यति न शमं याति;
अति तु सर्व एव शाम्यतीत्यर्थः। हिर्यस्मार्थे। अस्मात् पुष्यस्नानाद्यदतिरिच्यते श्रेष्ठतरं
तदपरमन्यन्मङ्गलं नास्ति न विद्यते। तथा च गर्गः—
प्रतिपुष्येण यो राजा स्नायीत विधिपूर्वकम्।
तस्य राष्ट्रे न सीदन्ति मर्त्या ये जन्तवो भुवि।। इति।।८४।।
अन्यत् पुष्यस्नानमाहात्म्यमाह—
अधिराज्यार्थिनो राज्ञः पुत्रजन्म च काङ्क्षतः ।
तत्पूर्वमभिषेके च विधिरेष प्रशस्यते ॥८५॥
महाराजाधिराज पद की और पुत्र की इच्छा करने वाले राजा को उसके प्रथम
अभिषेक में भी यही विधि प्रशस्त है॥८५॥
राज्ञो नृपस्याधिराज्यार्थिनोऽधिराज्यमिच्छतस्तथा पुत्रजन्म सुतसम्भवं च कांक्षतः
समभिलषितः। तत्पूर्वं तत्प्रथमं योऽभिषेकस्तस्मिन्नप्यभिषेके एष एव विधिः प्रशस्यते
स्तूयत इष्यत इति। अतोऽभीष्टमभिलाषी किल्विषक्षयार्थं माङ्गलिकं स्नानं कुर्वीतेति
स्थितिः।।८५।।
अन्यदप्याह—
महेन्द्रार्थमुवाचेदं बृहत्कीर्तिर्बृहस्पतिः ।
स्नानमायुष्प्रजावृद्धिसौभाग्यकरणं परम् ॥८६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुष्यस्नानाध्यायः ५८१
बहुत बड़ी कीर्ति वाले बृहस्पति ने इन्द्र के लिये यह स्नान कहा था। यह स्नान
आयु और प्रजा की वृद्धि करने वाला तथा सौभाग्य प्रदान करने वाला है।।८६।।
इदं स्नानं बृहस्पतिः सुरगुरुर्बृहत्कीर्तिर्विपुलकीर्तिः, महेन्द्रार्थं देवराजहितार्थमुवा-
चोक्तवान्। कीदृशम्? आयुष्प्रजावृद्धिसौभाग्यकरणम्, आयुषो जीवितस्य प्रजानां सुतानां
च वृद्धिं करोति। सौभाग्यकरणं परं प्रकृष्टम्।।८६।।
अन्यदप्याह—
अनेनैव विधानेन हस्त्यश्वं स्नापयेत्ततः ।
तस्यामयविनिर्मुक्तं परां सिद्धिमवाप्नुयात् ॥८७॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां पुष्य-
स्नानाध्यायाष्टचत्वारिंशः ॥४८॥
जो राजा इस पूर्वोक्त विधि से हाथी और घोड़ों को भी अभिषेक कराता है, रोग से
मुक्त होकर उसके वे हाथी-घोड़े परम सिद्धि प्राप्त करते हैं।।८७।।
इति 'विमला'हिन्दीटीकायां पुष्यस्नानाध्यायोऽष्टचत्वारिंशः ॥४८॥
यो राजा अनेनैव पूर्वोक्तेन विधानेन हस्त्यश्वं गजतुरंगं स्नापयेत् तस्य राजस्तद्धस्त्य-
श्वमामयविनिर्मुक्तं रोगरहितं परां प्रकृष्टां सिद्धिमाप्नुयाल्लभत इति।।८७।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ पुष्यस्नानं
नामाष्टचत्वारिंशोऽध्यायः ॥४८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ पट्टलक्षणाध्यायः
अथ पट्टलक्षणं व्याख्यायते। तत्रादावेवाऽऽगमप्रदर्शनार्थमाह—
विस्तरशो निर्दिष्टं पट्टानां लक्षणं यदाचार्यैः ।
तत्संक्षेपः क्रियते मयाऽत्र सकलार्थसम्पन्नः ॥१॥
प्राचीन आचार्यों ने विस्तारपूर्वक जो पट्टों ( नरेन्द्र-मुकुटों ) का लक्षण कहा है,
यहाँ पर सकल अर्थ से युत उसी को संक्षेप करके कहते हैं॥१॥
आचार्यैः काश्यपादिभिर्यत्पट्टानां नरेन्द्रमुकुटानां लक्षणं विस्तरशो विस्तरेण निर्दिष्टमुक्तम्।
तस्य मया सकलार्थसम्पन्नः परिपूर्णार्थसमासः संक्षेपः क्रियते विरच्यत इति॥१॥
अधुना तदेवाह—
पट्टः शुभदो राज्ञां मध्येऽष्टावङ्गुलानि विस्तीर्णः ।
सप्त नरेन्द्रमहिष्याः षड् युवराजस्य निर्दिष्टः ॥२॥
चतुरङ्गुलविस्तारः पट्टः सेनापतेर्भवति मध्ये ।
द्वे च प्रसादपट्टः पञ्चैते कीर्तिताः पट्टाः ॥३॥
मध्य में आठ अङ्गुल विस्तार वाला मुकुट राजा का, सात अङ्गुल विस्तार वाला
रानी का, छः अङ्गुल विस्तार वाला युवराज का और चार अङ्गुल विस्तार वाला सेनापति
का शुभ करने वाला होता है तथा दो अङ्गुल विस्तार वाला मुकुट प्रसादपट्ट कहलाता
है, यह मुकुट राजा किसी को भी पहना सकता है। इस तरह ये पाँच मुकुट कहे गये
हैं॥२-३॥
राज्ञां नृपाणां पट्टो मुकुटो मध्ये मध्यभागे अष्टावङ्गुलानि विस्तीर्णः कार्यः। नरेन्द्र-
महिष्या राजपत्नयाः सप्ताङ्गुलानि मध्ये विस्तीर्णः। षडङ्गुलानि युवराजस्य निर्दिष्टः कथितः।
सेनापतेश्चमूनाथस्य मध्ये चतुरङ्गुलविस्तीर्णः कार्यः। द्वे चाङ्गुले प्रसादपट्टो विस्तीर्णः
कार्यः। प्रसादपट्टं राजा कस्यचिद्बध्नाति। एवमेते पञ्च पट्टाः कीर्तिता उक्ताः॥२-३॥
अन्यदप्याह—
सर्वे द्विगुणायामा मध्यादर्धेन पार्श्वविस्तीर्णाः ।
सर्वे च शुद्धकाञ्चनविनिर्मिताः श्रेयसो वृद्धयै ॥४॥
सब पूर्वोक्त मुकुट के विस्तार से द्विगुणित दैर्घ्य और विस्तार का आधा पार्श्व का
विस्तार होना चाहिये। ये शुद्ध सुवर्ण के बने हों तो श्रेयवृद्धिकारक होते हैं॥४॥
सर्वे पञ्चैव पट्टा द्विगुणायामाः। विस्ताराद् द्विगुणायामा द्विगुणा दीर्घाः कर्तव्याः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पट्टलक्षणाध्यायः ५८३
यस्य पट्टस्य यो विस्तार उक्तस्तस्य दैर्घ्यं विस्तारद्विगुणं कार्यम्। यथा नृपपट्टोऽष्टावङ्गुलानि
विस्तीर्णः स च षोडशाङ्गुलायामः कार्यः। एवमन्येषामप्यायामप्रमाणं ज्ञेयम्। तथा पट्टस्य
मध्ये यो विस्तार उक्तस्तस्यार्धेन पार्श्वयोर्विस्तारः कार्यः। यथा नृपपट्टोऽष्टावङ्गुलानि
मध्याद्विस्तीर्णः, स च पार्श्वयोश्चतुरङ्गुलविस्तारः कार्य इति। एवमन्येषामपि। सर्वे च
पट्टाः शुद्धेन शुभेन काञ्चनेन सुवर्णेन विनिर्मिता रचिताः श्रेयसो वृद्धयै वृद्धये भवन्ति।
आरोग्यस्य वृद्धिं कुर्वन्ति।।४।।
अन्यल्लक्षणमप्याह—
पञ्चशिखो भूमिपतेस्त्रिशिखो युवराजपार्थिवमहिष्योः ।
एकशिखः सैन्यपतेः प्रसादपट्टो विना शिखया ॥५॥
पाँच शिखा वाला राजा के लिये, तीन शिखा वाला युवराज तथा रानी के लिये
और एक शिखा वाला मुकुट सेनापति के लिये शुभकारी होता है। प्रसादपट्ट विना शिखा
का बनाना चाहिये॥५॥
भूमिपते राज्ञः पञ्च शिखः पट्टः कार्यः। पञ्चशिखा यस्य स तथाभूतः। युवराजस्य
तथा पार्थिवमहिष्या नृपपत्न्यास्त्रिशिखः कार्यः। सैन्यपतेश्चमूनाथस्यैकशिखः। प्रसादपट्टः
शिखया विना शिखावर्जितः कार्यः॥५॥
अत्रैव शुभाशुभज्ञानमाह—
क्रियमाणं यदि पत्रं सुखेन विस्तारमेति पट्टस्य ।
वृद्धिर्जयौ भूमिपतेस्तथा प्रजानां च सुखसम्पत् ॥६॥
यदि मुकुट के बनाये हुये पत्र अनायास फैल जायँ तो राजा की वृद्धि और विजय
होती है तथा प्रजा को सुख-सम्पत्ति प्राप्त होती है॥६॥
पट्टस्य सम्बन्धि पत्रं क्रियमाणं यदि सुखेनाक्लेशेन विस्तारमेत्यायाति तदा भूमिपते
राज्ञो वृद्धिजयौ भवतः। तथा प्रजानां लोकानां च सुखसम्पत् सौख्यवृद्धिर्भवति।।६।।
अन्यदप्याह—
जीवितराज्यविनाशं करोति मध्ये व्रणः समुत्पन्नः ।
मध्ये स्फुटितस्त्याज्यो विघ्नकरः पार्श्वयोः स्फुटितः ॥७॥
यदि बनाते हुये मुकुट के मध्य में छिद्र हो जाय तो प्राण-राज्य दोनों का नाश करता
है। मध्य में फट जाय तो उसका त्याग कर देना चाहिये तथा दोनों पार्श्व में फटा हो तो
विघ्नकारी होता है।।७।।
पट्टस्य क्रियमाणस्य मध्ये व्रणश्छिद्रः समुत्पन्नो जीवितस्यायुषो राज्यस्य च
विनाशं करोति। तथा मध्ये यः स्फुटितः स त्याज्यः। पार्श्वयोः स्फुटितः स विघ्नकरः
विघ्नं करोति। तथा च काश्यपः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५८४ बृहत्संहिता
क्रियमाणं यदा पत्रं मध्ये स्फुटति भिद्यते।
तदा नृपभयं प्रोक्तं यस्यार्थे वा प्रकल्पितम्॥
सुलक्षणं प्रमाणस्थं सुकरं च हितावहम्।
सुरूपं दर्शनीयं च प्रजानां वृद्धिदं स्मृतम्॥ इति॥७॥
अथाशुभे लक्षणे दृष्टे किं कुर्यादित्याह—
अशुभनिमित्तोत्पत्तौ शास्त्रज्ञः शान्तिमादिशेद्राज्ञः।
शस्तनिमित्तः पट्टो नृपराष्ट्रविवृद्धये भवति॥८॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां पट्ट-
लक्षणाध्याय एकोनपञ्चाशः॥४९॥
यदि मुकुट में अशुभ लक्षण दिखाई दे तो शास्त्र को जानने वाले पण्डित राजा को
शान्ति कराने का आदेश करें तथा शुभ लक्षणयुत मुकुट राजा-राज्य दोनों की वृद्धि के
लिये होता है॥८॥
इति 'विमला' हिन्दीटीकायां पट्टलक्षणाध्याय एकोनपञ्चाशः॥४९॥
अशुभनिमित्तस्याशुभलक्षणस्योत्पत्तौ सत्यां शास्त्रज्ञः पट्टलक्षणज्ञो राज्ञो नृपस्य
शान्तिमादिशेद्ददेत्। यः पट्टः शस्तनिमित्तः शुभलक्षणसंयुक्तः स नृपस्य राज्ञो राष्ट्रस्य
च विवृद्धये भवति॥८॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ पट्टलक्षणं
नामैकोनपञ्चाशोऽध्यायः॥४९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ खड्गलक्षणाध्यायः
अथ खड्गलक्षणं व्याख्यायते। तत्रादावेव खड्गस्य प्रमाणं व्रणानां च शुभाशुभ-
ज्ञानार्थमाह—
अङ्गुलशतार्धमुत्तम ऊनः स्यात् पञ्चविंशतिः खड्गः ।
अङ्गुलमानाज्ज्ञेयो व्रणोऽशुभो विषमपर्वस्थः ॥१॥
पचास अङ्गुल प्रमाण वाला खड्ग उत्तम, पच्चीस अङ्गुल का अधम और पच्चीस
अङ्गुल से पचास अङ्गुल के भीतर का खड्ग मध्यम होता है। अङ्गुलमान को लेकर विषम
पर्व पर स्थित व्रण अशुभ है, जैसे—प्रथम, तृतीय, पञ्चम आदि विषम अङ्गुल पर आगे
कथित लक्षणयुत व्रण हो तो अशुभ होता है।।१।।
उत्तमः प्रधानखड्गः। अङ्गुलशतार्धं पञ्चाशदङ्गुलानि दीर्घ इत्यर्थः। पञ्चविंशतिरङ्गुलानि
च ऊनः कनीयान् खड्गः स्याद्भवेत्। अनयोः प्रमाणयोर्मध्ये स्थितः पञ्चाशत् ऊनः
पञ्चविंशतेरधिकः स मध्यम एव। अङ्गुलमानाद्यो व्रणो विषमपर्वस्थः। अङ्गुलगणनया
विषमाङ्गुले स्थितः। प्रथमतृतीयपञ्चमसप्तमादिष्वङ्गुलेषु स्थितः सोऽशुभोऽनिष्टफलदः।
अर्थादेव समाङ्गुलेषु द्वितीयचतुर्थषष्ठमादिषु यः स्थितः स शुभः। मिश्रेष्वङ्गुलेषु मध्यम
इति।।१।।
अथ व्रणानामाकृतिलक्षणमाह—
श्रीवृक्षवर्धमानातपत्रशिवलिङ्गकुण्डलाब्जानाम् ।
सदृशा व्रणाः प्रशस्ता ध्वजायुधस्वस्तिकानां च ॥२॥
बेल, वर्धमान, छत्र, शिवलिङ्ग, कुण्डल, कमल, पताका, खड्ग और शुभ वस्तुओं
का व्रण ( चिह्न ) प्रशस्त होता है।।२।।
श्रीवृक्षो बिल्वः। वर्धमानं चिह्नविशेषो वर्धमानवास्तुनाः सदृशम्। केचिच्छरावक-
मितीच्छन्ति। आतपत्रं छत्रम्। शिवलिङ्गं प्रसिद्धम्। कुण्डलं कर्णाभरणम्। अब्जं पद्मम्।
एषां सदृशास्तुल्या आकृत्या ये व्रणास्ते खड्गे प्रशस्ताः शुभदाः। तथा ध्वजस्य चिह्नस्य
पताकारूपस्य। आयुधस्य खड्गादेः। स्वस्तिकस्य चिह्नस्य स्वस्तिकवास्तुनाः सदृशाश्च
व्रणाः प्रशस्ता एव।।२।।
अथाशुभलक्षणान्याह—
कृकलासकाककङ्कक्रव्यादकबन्धवृश्चिकाकृतयः ।
खड्गे व्रणा न शुभदा वंशानुगताः प्रभूताश्च ॥३॥
गिरगिट, काक, गिद्ध, मांसभोजी पक्षी, बिना शिर के पुरुष और बिच्छू की आकृति
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५८६ बृहत्संहिता
का व्रण शुभ नहीं होता है तथा वंश ( खड्ग के उच्च भाग में ) अनुगत ( स्थित )
नाना आकृति वाले व्रण भी शुभ नहीं होते हैं ।। ३ ।।
कृकलासः प्राणिविशेषः । काककङ्कौ प्रसिद्धौ । क्रव्यादा मांसाशिनो विहङ्गाः श्येन-
गृध्रप्रभृतयः । कबन्धश्छिन्नशिराः पुमान् । वृश्चिकः कीटजातिः । एतेषां सदृशी आकृतिर्येषां
ते व्रणाः खड्गे अशोभना अशुभदाः, तथा वंशानुगताः, वंशशब्देन खड्गमध्य उच्चभाग
उच्यते। तत्र ये अनुगताः स्थिताः प्रभूताश्च बहवोऽपि श्वाकृतयस्तेऽप्यशुभा एव ।। ३ ।।
अन्यल्लक्षणमाह—
स्फुटितो ह्रस्वः कुण्ठो वंशच्छिन्नो न दृङ्मनोऽनुगतः ।
अस्वन इति चानिष्टः प्रोक्तविपर्यस्त इष्टफलः ।। ४ ।।
फटा हुआ, छोटा, टूटा हुआ, वंशप्रदेश से कटा हुआ, दृष्टि और मन से अप्रिय तथा
शब्दरहित खड्ग अशुभकारी और इसके विपरीत लक्षणयुक्त खड्ग शुभकारी होता है ।
स्फुटितः क्वचित् क्वचिदुच्चाटित इव दृश्यते । ह्रस्वः प्रमाणहीनः । कुण्ठो भग्नः ।
वंशच्छिन्नो वंशप्रदेशाद्विच्छिन्न इव दृश्यते, न च दृङ्मनोऽनुगतः । दृशोश्चक्षुषोर्मनसश्चित्तस्य
यो नानुगतो न प्रियः । अस्वनो निःशब्दो यस्याऽऽहतस्य शब्दो नोत्पद्यत इति । एवंविधोऽनिष्टो
न शुभः । प्रोक्तविपर्यस्त इष्टफलः । उक्तदोषलक्षणेभ्यो विपर्यस्तो विपरीतलक्षणस्य इष्ट-
फलः शुभफलः । अस्फुटितो दीर्घस्तीक्ष्णो वंशप्रदेशादविच्छिन्नो दृङ्मनोऽनुगतः सस्वन
इति शुभलक्षणानि । एतैर्युक्त इष्टफलः ।। ४ ।।
अथ खड्गचेष्टितमाह—
क्वणितं मरणायोक्तं पराजयाय प्रवर्तनं कोशात् ।
स्वयमुद्गीर्णे युद्धं ज्वलिते विजयो भवति खड्गे ।। ५ ।।
खड्ग से अचानक शब्द हो तो मरण, म्यान से नहीं निकलता हो तो पराजय,
म्यान से अपने-आप निकल जाय तो युद्ध और अनायास खड्ग प्रज्ज्वलित हो जाय तो
विजय होती है ।। ५ ।।
स्वयमेव खड्गस्य क्वणितं शब्दो मरणायोक्तम् । खड्गस्वामिनो मृत्यवे कथितम् ।
कोशात् परिवारादप्रवर्तनमनिर्गमनं युद्धकाले पराजयाय भवति। स्वयमुद्गीर्णे परीवारात्
स्वयमेव निर्गते खड्गे युद्धं संग्रामो भवति । संग्रामकाले ज्वलिते सज्वाले खड्गे विजयो
भवति ।। ५ ।।
अथ परिभाषार्थमाह—
नाकारणं विवृणुयान्न विघट्टयेच्च
पश्येन्न तत्र वदनं न वदेच्च मूल्यम् ।
देशं न चास्य कथयेत् प्रतिमानयेन्न
नैव स्पृशेन्नृपतिरप्रयतोऽसियष्टिम् ।। ६ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

खड्गलक्षणाध्यायः ५८७
राजा अकारण खड्ग को म्यान से न निकाले, न चलाये, उसमें अपना मुख न
देखे, उसकी कीमत न बतावे, उसका उत्पत्तिस्थान न बतावे, अङ्गुलियों से न नापे और
असंयत होकर उसको स्पर्श न करे।।६।।
नृपती राजा असियष्टिं खड्गयष्टिकमकारणं निष्प्रयोजनं न विवृणुयाद् विगतावरणं
न कुर्यात्, नोद्घाटयेदित्यर्थः, तथा अकारणं न विघट्टयेद् न चालयेत्। तत्र तस्यां खड्ग-
यष्टौ वदनं मुखं न पश्येद् न निरीक्षयेत्, तथा अकारणं मूल्यं न वदेद् न ब्रूयात्। तथा
खड्गस्य देशं जातिं न कथयेत्। अमुकदेशजोऽयं खड्ग इति। न प्रतिमानयेद् नाङ्गुलै-
र्मिनुयात्, तथा अप्रयतोऽसमाहितोऽपि यष्टिं न स्पृशेत्।।६।।
अन्यल्लक्षणमाह—
गोजिह्वासंस्थानो नीलोत्पलवंशपत्रसदृशश्च।
करवीरपत्रशूलाग्रमण्डलाग्राः प्रशस्ताः स्युः ॥७॥
गाय के जीभ के समान आकृति वाला, नीलकमलदल के सदृश, बाँस के पत्रसदृश,
करवीर फूल के पत्रसदृश, शूल की तरह अग्र भाग वाला और वर्तुलाकार अग्र भाग
वाला खड्ग प्रशस्त होता है।।७।।
एते खड्गाः प्रशस्ताः स्युर्भवेयुः। के? ते, गोजिह्वासंस्थानः। यत्र गोजिह्वासदृशी
आकृतिः तथा नीलोत्पलवंशपत्रसदृशः, कुवलयदलाकृतिः। वंशपत्रसदृशश्च यः, करवीर-
पत्रसदृशो वा, तथा शूलाग्रः शूलाकारमयं यस्य। मण्डलाग्रो मण्डलाकारमयं परिवर्तुलं
यस्य यथाभूत इति।।७।।
अन्यच्चाह—
निष्पन्नो न छेद्यो निकषैः कार्यः प्रमाणयुक्तः सः।
मूले म्रियते स्वामी जननी तस्याग्रतश्छिन्ने ॥८॥
यदि खड्ग प्रमाण से अधिक हो जाय तो उसको काटना नहीं चाहिये, किन्तु घिसकर
प्रमाणतुल्य करना चाहिये। यदि खड्ग को मूल भाग से काटे तो राजा और अग्रभाग से
काटे तो उसकी माता की मृत्यु होती है।।८।।
खड्गो निष्पन्नः कदाचित् प्रमाणादधिको भवति, तदा न छेद्यो न कल्पनीयः। स
खड्गो निकषैर्निघर्षणैः प्रमाणयुक्तः कार्यः। कल्पिते तत्र दोषमाह—मूले म्रियते स्वामीति।
तस्य खड्गस्य मूले छिन्ने स्वामी प्रभुर्म्रियते विपद्यते। अग्रतश्छिन्ने जननी, तस्य
स्वामिनो माता म्रियते। तथा च काश्यपः—
उत्पन्नो न पुनश्छेद्यो निष्पन्नो यः प्रमाणतः।
मुष्ट्या भङ्गे म्रियेत् स्वामी तदग्रे तस्य मातरम्।।
तस्मान्न छेदयेत् खड्गमात्मनोऽशुभदं यतः।
निघर्षणैः प्रमाणस्थः कार्यो येन शुभो भवेत्।। इति।।८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५८८ बृहत्संहिता
अथ खड्गमुष्टौ दृष्टायां व्रणज्ञानमाह—
यस्मिन् त्सरुप्रदेशे व्रणो भवेत् तद्वदेव खड्गस्य।
वनितानामिव तिलको गुह्ये वाच्यो मुखे दृष्ट्वा ॥९॥
जिस तरह स्त्रियों के मुख पर तिल देखकर गुह्य स्थानीय तिल बताया जाता है,
उसी तरह खड्ग की मूठ में दाग देखकर उसके मध्य में व्रण ( छेद ) कहना चाहिये ॥९॥
खड्गस्य या शिखा मुष्टावन्तः प्रविशति स प्रदेशः त्सरुशब्दवाच्यः। यस्मिन्
त्सरुप्रदेशे ग्रहणविभागे मूले मध्ये यो वा व्रणश्छिद्रं भवेत् स्यात्, तद्वत्तेनैव प्रकारेण
खड्गस्य मूले मध्ये अग्रे वा भवेत्। एतदुक्तं भवति—यदि मुष्टिमूले व्रणो दृश्यते तदा
खड्गस्यापि मूले व्रणो वाच्यः। अनेनानुसारेणान्तरालेऽपि योज्यम्। अत्र दृष्टान्तमाह—
वनितानामिव तिलक इति। वनितानां स्त्रीणां यथा तिलकं मुखे दृष्ट्वा अवलोक्य
स एव गुह्येऽपि वाच्यो वक्तव्यः। एवं यस्मिन् खड्गे मुष्टौ व्रणो भवति तस्मिन्निश्चयान्मध्ये
व्रणोऽग्रे च वाच्यः॥९॥
अत्र व्रणज्ञानोपायमाह—
अथवा स्पृशति यदङ्गं प्रष्टा निस्त्रिंशभृत्तदवधार्य।
कोशस्थस्यादेश्यो व्रणोऽस्ति शास्त्रं विदित्वेदम् ॥१०॥
यदि कोई खड्गधारी पुरुष आकर प्रश्न करे कि 'इस खड्ग में व्रण है या नहीं' तो
उस समय वह प्रश्नकर्ता जिस अङ्ग का स्पर्श करता हो, उसको निश्चय करके वक्ष्यमाण
शास्त्र को जान कर कोशस्थित खड्ग में व्रण कहना चाहिये ॥१०॥
वाशब्दः प्रकारे। अथवा निस्त्रिंशभृत्प्रष्टा खड्गे गृहीते ससंशयः पृच्छति, यथा
अस्मिन् खड्गे व्रणोऽस्ति न वेति। तत्रायमुपायः—तस्मिन् काले यल्लग्नं वर्तते तस्य
यदि केन्द्रस्थः पापग्रहो भवति, तदा निश्चयातस्मिन् खड्गे व्रणो भवति। एवं व्रणे ज्ञाते
सति स निस्त्रिंशभृत्प्रष्टा यदङ्गं स्वावयवं स्पृशति तदङ्गं समवधार्यावलोक्य कोशस्थस्यैव
खड्गस्य व्रण आदेश्यो वक्तव्यः। इदं वक्ष्यमाणमपि शास्त्रं विदित्वा ज्ञात्वा॥१०॥
तच्चाह—
शिरसि स्पृष्टे प्रथमेऽङ्गुले द्वितीये ललाटसंस्पर्शे।
भ्रूमध्ये च तृतीये नेत्रे स्पृष्टे चतुर्थे च ॥११॥
यदि प्रश्नकर्ता शिर को स्पर्श करे तो खड्ग मूल से प्रथम अङ्गुल में, ललाट का
स्पर्श करे तो द्वितीय अङ्गुल में, भ्रूमध्य का स्पर्श करे तो तृतीय अङ्गुल में और नेत्र का
स्पर्श करे तो चतुर्थ अङ्गुल में व्रण कहना चाहिये॥११॥
निस्त्रिंशभृत्प्रष्टा पृच्छाकाले यद्यात्मीयं शिरः स्पृशति, तदा खड्गस्य मूलादेव
प्रथमेऽङ्गुले व्रणो वाच्यः। एवं ललाटसंस्पर्शे द्वितीयेऽङ्गुले, भ्रूमध्ये स्पृष्टे तृतीयेऽङ्गुले,
नेत्रे नयने दक्षिणे वामे वा स्पृष्टे चतुर्थेऽङ्गुले वाच्यः॥११॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA