बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
५५२ बृहत्संहिता
नक्षत्रेषु रविपुत्रः शनैश्चरस्तिष्ठेद्यदा च वक्रं करोति प्रतीपगमनमाश्रयति। तदा महदुग्रमतीव
कष्टं दुर्भिक्षं कुरुते। येषु देशेषु भानि नक्षत्राणि तेषु विशेषतः। तथा मित्राणां सुहृदां च
परस्परं विरोधं द्वेषमवृष्टिं च करोति। तथा च गर्गः—
विलम्बितगतिः सौरः प्राग्द्वारेषु यदा भवेत्।
महाभयानि चत्वारि विजानीयात् समन्ततः।।
अनावृष्टिभयं घोरं दुर्भिक्षं मित्रविग्रहम्।। इति।।१३।।
अन्यदप्याह—
रोहिणीशकटमर्कनन्दनो यदि भिनत्ति रुधिरोऽथवा शिखी।
किं वदामि यदनिष्टसागरे जगदशेषमुपयाति संक्षयम् ।।१४।।
यदि रोहिणी शकट को शनि, मंगल या केतु भेदन करे तो अधिक क्या कहा जाय,
सम्पूर्ण विश्व ही अनिष्ट सागर में पड़ कर नष्ट हो जाता है, अर्थात् उस समय अमंगल ही
अमङ्गल चारो तरफ दिखाई देते हैं।।१४।।
अर्कनन्दनः सौरो यदि रोहिणीशकटं भिनत्ति विदारयति रुधिरोऽङ्गारको वा शिखी
केतुरथवा, तदा अनिष्टसागरे अनिष्टसमुद्रे अशेषं सर्वं जगद्विश्वं संक्षयं विनाशं याति।
किमन्यदपरं वदामि कथयामि यदनिष्टं न भवति। तथा च गर्गः—
रोहिणीशकटं भौमो भिनत्त्यर्कसुतोऽथवा।
केतुर्वा जगतो ब्रूयात् प्रलयं समुपस्थितम्।। इति।।१४।।
अन्यदप्याह—
उदयति सततं यदा शिखी चरति भचक्रमशेषमेव वा।
अनुभवति पुराकृतं तदा फलमशुभं सचराचरं जगत् ।।१५।।
जिस समय केतु सदा दिखाई दे या सम्पूर्ण नक्षत्रमण्डल में विचरण करे, उस
समय चराचर के साथ सम्पूर्ण जगत् बराबर किये हुये पूर्वार्जित अशुभ फलों का अनुभव
करता है।।१५।।
शिखी केतुर्यदा सततं सर्वकालमुदयति दर्शनं गच्छति, अशेषं समग्रं भचक्रं नक्षत्र-
मण्डलमेव वा चरति विचरति, तदा सचराचरं जङ्गमस्थावराख्यं जगद्विश्वं पुराकृतमन्य-
जन्माजितं फलमशुभमनिष्टमनुभवत्युपभुंक्ते इत्यर्थः।।१५।।
अधुना चन्द्रचारोक्तफलमाह—
धनुःस्थायी रूक्षो रुधिरसदृशः क्षुद्भयकरो
बलोद्योगं चन्द्रः कथयति जयं ज्याऽस्य च यतः।
गवां शृङ्गो गोघ्ने निधनमपि सस्यस्य कुरुते
ज्वलन् धूमायन् वा नृपतिमरणायैव भवति ।।१६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
मयूरचित्रकाध्यायः ५५३
यदि चन्द्र धनुषाकार होकर रूक्ष और रक्त वर्ण का दिखाई दे तो दुर्भिक्ष और
सेनाओं में परस्पर युद्ध का भय करता है तथा इस चन्द्र की ज्या जिस तरफ रहती है, उस
तरफ के राजाओं की विजय होती है। गौ के शृङ्ग की तरह शृङ्ग हो तो गौ और धान्यों का
नाश करता है तथा प्रज्ज्वलित या धूम की तरह दिखाई दे तो राजाओं के मरण के लिये
होता है।।१६।।
चन्द्र इन्दुः। धनुःस्थायी चापसंस्थानः। रूक्षः कलुषः। रुधिरसदृशो लोहितवर्ण-
स्तथाभूतः। क्षुद्भयकरो दुर्भिक्षभयं करोति। तथा बलानां सैन्यानामुद्योगं युद्धं कथयत्याचष्टे।
अस्य चन्द्रमसो यतो यस्यां दिशि ज्या गुणः स्थिता, तत्र ये नृपाः स्थितास्तेषां जयम्।
गवां शृङ्गो गोविषाणो गोघ्नो गवां नाशकरः सस्यस्यापि निधनं विनाशं कुरुते। अथ
ज्वलन् ज्वालामुद्वहन्। धूमायन् वा धूमं समुद्वहन् वा। नृपते राज्ञो मरणाय मृत्यव एव
भवति।।१६।।
अन्यदप्याह—
स्निग्धः स्थूलः समशृङ्गो विशालस्तुङ्गोदग्विचरन्नागवीथ्याम् ।
दृष्टः सौम्यैरशुभैर्विप्रमुक्तो लोकानन्दं कुरुतेऽतीव चन्द्रः ।।१७।।
यदि स्निग्ध, स्थूल, समान शृङ्ग वाला, विशाल और उन्नत होकर उत्तर तरफ नागवीथी
में स्थित चन्द्र शुभ ग्रह से देखा जाता हो और पापग्रह से युत न हो तो मनुष्यों को अतिशय
आनन्द देता है।।१७।।
एवंविधश्चन्द्रः शशी दृष्टोऽतीवात्यर्थं लोकानां जनानामानन्दं तुष्टिं कुरुते। कीदृशः ?
स्निग्धो निर्मलः, स्थूलो घनः, समशृङ्गस्तुल्यविषाणः, विशालो विस्तीर्णः, तुङ्ग उच्चस्थः,
उदगुत्तरशृङ्गः, उत्तरशृङ्गोन्नत इत्यर्थः। नागवीथ्याम् ‘नागा तु पवनयाम्यानलानि'त्युक्ता
तस्यां विचरंस्तिष्ठन् सौम्यैः शुभग्रहैर्बुधजीवशुक्रैर्दृष्टो विलोकितः। अशुभैः पापैरादित्य-
भौमसौरैर्विप्रयुक्तो विरहितः।।१७।।
अन्यदप्याह—
पित्र्यमैत्रपुरुहूतविशाखात्वाष्ट्रमेत्य च युनक्ति शशाङ्कः ।
दक्षिणेन न शुभः शुभकृत्स्याद्यद्युदक्चरति मध्यगतो वा ॥१८॥
यदि चन्द्रमा मघा, अनुराधा, ज्येष्ठा, विशाखा और चित्रा नक्षत्र में जाकर दक्षिण मार्ग
में होकर गमन करे तो अशुभ और उत्तर मार्ग या मध्य में होकर गमन करे तो शुभ करने
वाला होता है।।१८।।
पित्र्यं मघा। मैत्रमनुराधा। पुरुहूतो ज्येष्ठा। विशाखा। त्वाष्ट्रं चित्रा। एतानि नक्षत्राणि
शशाङ्कश्चन्द्रः समेत्य प्राप्य दक्षिणेन याम्येन भागेन यदि युनक्ति संयोगं करोति, तदा
न शुभोऽनिष्टफलदः। यद्युगुत्तरेण चरति गच्छति प्रागुक्तेषु नक्षत्रेषु मध्यगतो वा मध्येन
गच्छति, तदा शुभकृच्छुभफलं करोति।।१८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५५४ बृहत्संहिता
अथ परिघपरिधिदण्डामोघरश्मिरोहितेरावतानां लक्षणमाह—
परिघ इति मेघरेखा या तिर्यग्भास्करोदयेऽस्ते वा ।
परिधिंस्तु प्रतिसूर्यो दण्डस्त्वृजुरिन्द्रचापनिभः ॥१९॥
उदयेऽस्ते वा भानोर्ये दीर्घा रश्मयस्त्वमोघास्ते ।
सुरचापखण्डमृजु यद्रोहितमैरावतं दीर्घम् ॥२०॥
सूर्य के उदय या अस्त समय में तिरछी मेघ की रेखा 'परिघ' संज्ञक, प्रतिसूर्य
'परिधि' संज्ञक और स्पष्ट इन्द्रधनुष के समान रेखा 'दण्ड' संज्ञक होती है तथा उदय या
अस्त समय में सूर्य के लम्बे किरण 'अमोघ' संज्ञक, स्पष्ट इन्द्रधनुष के खण्ड 'रोहित'
संज्ञक और लम्बे सीधे इन्द्रधनुष 'ऐरावत' संज्ञक होते हैं॥१९-२०॥
भास्करस्यादित्यस्योदये अस्तमये वा तिर्यग् या स्थिता मेघरेखा भवति, स परिघ
इति परिघसंज्ञः। तथा प्रतिसूर्यः परिधिसंज्ञः। इन्द्रचापनिभः शक्रधनुःसदृशः ऋजुः स्पष्टो
दण्डसंज्ञः।
उदयेऽस्ते वेति। भानोरादित्यस्योदयेऽस्तमये वा ये दीर्घा आयामिनो रश्मयः किरणास्ते
त्वमोघाख्या अमोघसंज्ञाः। सुरचापखण्डमिन्द्रधनुःखण्डं यदृजु स्पष्टं तद्रोहितसंज्ञम्।
तदेव यदि दीर्घं भवति तदैरावतसंज्ञं ज्ञेयम्॥१९-२०॥
अथ सन्ध्यालक्षणमाह—
अर्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका यावत् ।
तेजःपरिहानिमुखाद्भानोरर्धोदयो यावत् ॥२१॥
तस्मिन् सन्ध्याकाले चिह्नैरैतैः शुभाशुभं वाच्यम् ।
सर्वैरैतैः स्निग्धैः सद्यो वर्षं भयं रूक्षैः ॥२२॥
अर्धास्त सूर्यबिम्ब के अनन्तर स्पष्ट रूप से ताराओं को दिखाई देने तक पश्चिमा
सन्ध्या और ताराओं के प्रकाशहानि के समय से अर्धोदित सूर्यबिम्ब काल तक प्राक्
सन्ध्या होती है। इस सन्ध्या समय में वक्ष्यमाण चिह्नों के द्वारा शुभाशुभ फल कहना चाहिये,
जैसे कि समस्त आकाशस्थित बिम्बगण स्निग्ध हों तो शीघ्र वर्षा और रूखे हों तो भय
उत्पन्न होता है॥२१-२२॥
भानोरादित्यस्यार्धास्तमयादारभ्य यावत्तारका नभसि न व्यक्तीभूता न परिस्फुटाः,
तावदपरा सन्ध्या। तथा तारकाणां तेजःपरिहानिमुखाद्दीप्तिनिवृत्तेरारभ्य यावद् भानोरर्कस्या-
र्धोदयस्तावत् पूर्वा सन्ध्या।
तस्मिन् यथोद्दिष्टे सन्ध्यासमये एतैः प्रागुक्तैश्चिह्नैर्वक्ष्यमाणैश्च शुभाशुभं फलं वाच्यं
वक्तव्यम्। एतैस्तथा वक्ष्यमाणैश्च चिह्नैः सर्वैः स्निग्धैः सस्नेहैः सद्यस्तस्मिन्नहनि वर्षं
ज्ञेयम्। तस्मिन्नेवाहनि वर्षति। तैरेव रूक्षैः सद्यो भयमिति॥२१-२२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
मयूरचित्रकाध्यायः ५५५
अथ वृष्टिज्ञानमाह—
अच्छिन्नः परिघो वियच्च विमलं श्यामा मयूखा रवेः
स्निग्धा दीधितयः मितं सुरधनुर्विद्युच्च पूर्वोत्तरा।
स्निग्धो मेघतरुर्दिवाकरकरैरालिङ्गितो वा यदा
वृष्टिः स्याद्यदि वाऽर्कमस्तसमये मेघो महान् छादयेत् ॥२३॥
अखण्डित परिघ, निर्मल आकाश, सूर्य की श्याम वर्ण किरणें, स्निग्ध दीधिति,
श्वेत वर्ण के इन्द्रधनुष, पूर्वोत्तरा विद्युत् और स्निग्ध या सूर्य के किरणों से व्याप्त मेघवृक्ष
हो तो वर्षा होती है अथवा यदि सायंकाल में बहुत बड़ा मेघ सूर्यबिम्ब को आच्छादित
करे तो भी वृष्टि होती है॥२३॥
परिघोऽच्छिन्नोऽखण्डः। सकल इत्यर्थः। वियदाकाशं विमलं निर्मलम्। रवेरादित्यस्य
मयूखा रश्मयः श्यामाः श्यामवर्णाः। ते च मेघाख्याः। तथा दीधितयः सामान्यरश्मयो
येऽन्ये अमोघवर्जितांस्ते स्निग्धाः। सुरधनुरिन्द्रचापं सितं श्वेतम्। पूर्वोत्तरा चैशानी विद्युत-
डिद् दृश्यते। मेघतरुर्मेघ एव वृक्षाकारः, स च स्निग्धो निर्मलः। अथवा सर्व एव मेघतरु-
र्दिवाकरकरैः सूर्यरश्मिभिरालिङ्गितो व्याप्तः समन्ततस्तदा वृष्टिर्वर्षणं स्याद् भवेत्। यदि
वाऽस्तसमये सूर्यास्तमयवेलायामर्कं रविं महान् मेघो बृहद् घनः छादयेत् स्थगयेत्तथापि
वृष्टिः स्यात्॥२३॥
अधुनार्कचारोक्तं फलमाह—
खण्डो वक्रः कृष्णो ह्रस्वः काकाद्यैर्वा चिह्नैर्विद्धः ।
यस्मिन् देशे रूक्षश्चार्कस्तत्राभावः प्रायो राज्ञः ॥२४॥
जिस देश में खण्डित, कुटिल, कृष्ण, स्वल्प, काक आदि पक्षियों के चिह्नों से
व्याप्त या रूक्ष सूर्यविम्ब दिखाई दे तो प्रायः उस देश के राजा का नाश होता है॥२४॥
अर्क आदित्यो यस्मिन् देशे खण्डोऽसकलः। वक्रः कुटिलो दीर्घश्च। कृष्णोऽसितवर्णः।
ह्रस्वः स्वल्पविम्बः। अथवा काकाद्यैश्चिह्नैर्विद्धः। आदिग्रहणाद् ध्वांक्षकबन्धप्रहरणा ग्रही-
तव्याः। तैर्विद्धः। तथा रूक्षो न निर्मलः। एवंविधो दृश्यते। तस्मिन् देशे यो राजा तस्य राज्ञः
प्रायो बाहुल्येनाभावो विनाश इत्यर्थः। तथा च गर्गः—
खण्डो वा कृष्णवर्णो वा ह्रस्वः पिङ्गलकोऽथवा।
यत्रार्को दृश्यते तत्र राज्ञो मृत्युं विनिर्दिशेत्॥ इति॥२४॥
अथ युद्धकाले जयपराजयज्ञानमाह—
वाहिनीं समुपयाति पृष्ठतो मांसभुक् खगगणो युयुत्सतः।
यस्य तस्य बलविद्रवो महानग्रगैस्तु विजयो विहङ्गमैः ॥२५॥
युद्ध की इच्छा करने वाले जिस राजा की सेनाओं के पीछे होकर मांस खाने वाले
पक्षीसमूह गमन करें, उस राजा की सेनाओं को युद्ध से भागना पड़ता है एवं यदि पक्षी
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५५६ बृहत्संहिता
गण सेनाओं के आगे होकर गमन करें तो विजय होती है।।२५।।
यस्य राज्ञो युयुत्सतो योद्धुमिच्छतो वाहिनीं सेनां मांसभुगामिषादः खगगणः पक्षि-
समूहः पृष्ठतः पश्चात् समुपयाति गच्छति तस्य महानतीव बलविद्रवः सेनापलायनं भवति।
अग्रगैषः पुरोगैर्विहङ्गमैः पाक्षिभिर्विजयो भवति।।२५।।
अथ गन्धर्वपुरलक्षणमाह—
भानोरुदये यदि वास्तमये गन्धर्वपुरप्रतिमा ध्वजिनी।
विम्बं निरुणद्धि तदा नृपतेः प्राप्तं समरं सभयं प्रवदेत् ॥२६॥
सूर्य के उदय या अस्त समय में पताकायुत गन्धर्व नगर की प्रतिमा सूर्यबिम्ब को
छादित करे तो राजा को भयङ्कर युद्ध की प्राप्ति होगी—ऐसा कहना चाहिये।।२६।।
भानोरादित्यस्योदये अस्तमये वा यदि गन्धर्वपुरप्रतिमा गन्धर्वनगरतुल्या ध्वजिनी
सेना यदा विम्बं मण्डलं निरुणद्धि छादयति, तदा नृपते राज्ञः समरं संग्रामं सभयं भय-
सहितं प्राप्तमायातमिति प्रवदेद् ब्रूयात्। तथा च गर्गः—
आदित्ये सरथा सेना सन्ध्याकाले यदा भवेत्।
प्रत्यासन्नं विजानीयाद् भूमिपस्य पराजयम्।। इति।।२६।।
अथ सन्ध्यालक्षणमाह—
शस्ता शान्तद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुपवना च।
पांशुध्वस्ता जनपदनाशं धत्ते रूक्षा रुधिरनिभा वा ॥२७॥
यदि सन्ध्याकाल में सूर्य के विरुद्ध दिशा में मुख करके पक्षीगण और जङ्गली पशु-
गण मधुर शब्द करें तथा निर्मल थोड़ी वायु चले तो शुभ होता है। यदि धूलियों से
व्याप्त, रूक्ष और लोहित वर्ण की सन्ध्या दिखाई दे तो देशों का नाश होता है।।२७।।
सन्ध्या शान्तैरनर्काभिमुखैर्मधुरस्वरैर्द्विजैः पक्षिभिर्मृगैरारण्यपशुभिश्च घुष्टा कृतशब्दा
शस्ता शुभदा, तथा स्निग्धा निर्मला, मृदुपवना अल्पवाता च शस्ता, पांशुध्वस्ता रजसा
कलुषीकृता, रूक्षा निःस्नेहा, रुधिरनिभा वा लोहितवर्णा जनपदानां नाशं संक्षयं धत्ते
ददाति।।२७।।
अथात्मनः पेशलत्वं प्रदर्शयितुमाह—
यद्विस्तरेण कथितं मुनिभिस्तदस्मिन्
सर्वं मया निगदितं पुनरुक्तवर्जम् ।
श्रुत्वाऽपि कोकिलरुतं बलिभुग्विरौति
यत्तत् स्वभावकृतमस्य पिकं न जेतुम् ॥२८॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां मयूरचित्रकाध्यायः सप्तचत्वारिंशः ॥४७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
मयूरचित्रकाध्यायः ५५७
गर्ग आदि मुनियों ने विस्तारपूर्वक जिन विषयों को कहा है, पुनरुक्त दोष रहते उन
सब विषयों को इस मयूरचित्र नामक अध्याय में मैंने कहा है। इतने पर भी यदि दुर्जन
गण बोलते ही रहें तो मेरी क्या हानि है? क्योंकि कोयल के शब्द सुनकर भी जो काक शब्द
करता है, वह स्वाभाविक शब्द होता है, न कि कोयल को जीतने की इच्छा से।।२८।।
इति 'विमला' हिन्दीटीकायां मयूरचित्रका-
ध्यायः सप्तचत्वारिंशः ॥४७॥
मुनिभिर्गर्गादिभिर्यन्मयूरचित्रकं विस्तरेण व्यासेन कथितमुक्तं तत्सर्वमस्मिन् मयूरचित्रके
मया पुनरुक्तवर्जं निगदितमुक्तम्। आदौ तावन्मयूरचित्रकं पुनरुक्तं तत्रापि मुनिभिः पुनरुक्तं
कृतं तन्मया नोक्तम्। यद्यप्येवं तथापि कोकिलस्य परभृतस्य रुतं शब्दितं श्रुत्वा आकर्ण्य
बलिभुक्काकस्तदनुसारेण विरोति यत्तदस्य काकस्य स्वभावकृतं प्राकृतं प्रकृतिभवमेवायाति,
न पिकं कोकिलं जेतुं शक्नोति। अनेनात्मनः पेशलत्वं प्रदर्शितं भवति।।२८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ मयूरचित्रकं
नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ पुष्यस्नानाध्यायः
अथ पुष्यस्नानं व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
मूलं मनुजाधिपतिः प्रजातरोस्तदुपघातसंस्कारात्।
अशुभं शुभं च लोके भवति यतोऽतो नृपतिचिन्ता ॥१॥
इस संसार में प्रजारूप वृक्ष का मूल स्वरूप राजा है। यतः उस राजा का विघात
होने से प्रजाओं का अशुभ और संस्कार से शुभ होता है; अतः राजा के शुभवृद्धि के
लिये चिन्ता करनी चाहिये ॥१॥
प्रजातरोः प्रजावृक्षस्य मनुजाधिपतिः राजा मूलं यथा वृक्षस्य शाखिनो मूलवर्धने
वृद्धिः सर्वावयवेषु भवति। एवं राजनि विवृद्धे प्रजाः सुस्थिताः। तदुपघातात्तस्य प्रजातरो-
र्मूलविघाताद्विनाशो जनपदस्यानिष्टमशुभं भवति। तत्संस्काराच्छुभमिष्टं भवति। वृक्षवद्यतो
यस्मादतोऽस्माद्धेतोर्नृपतिचिन्ता राज्ञः शुभवृद्ध्यर्थे चिन्ता कार्या। यत्नो विधेय इति। यतो
मूलात् फलसम्भवः फलसम्भवात् प्रजावृद्धिस्तदुपजीवनात् ॥१॥
अत्राऽऽगमप्रदर्शनार्थमाह—
या व्याख्याता शान्तिः स्वयम्भुवा सुरगुरोर्महेन्द्रार्थे ।
तां प्राप्य वृद्धगर्गः प्राह यथा भागुरेः शृणुत ॥२॥
जो शान्ति इन्द्र के लिये ब्रह्माजी ने बृहस्पति से कही थी, उसी को पाकर
वृद्धगर्गाचार्य ने भागुरि से जिस तरह कही, उसी तरह उस शान्ति को सुनो ॥२॥
या शान्तिः स्वयम्भुवा ब्रह्मणा महेन्द्रस्य सुराधिपस्यार्थे सुरगुरोर्बृहस्पतेर्व्याख्याता
कथिता तां शान्तिं वृद्धगर्गः प्राप्य लब्ध्वा यथा येन प्रकारेण भागुरेर्मुनिप्रधानस्य शिष्यस्य
प्राहोक्तवान् तथा तां शान्तिं शृणुताऽऽकर्णयत। तथा च वृद्धगर्गः—
देवाश्चादितिजैः सार्धं स्पर्धमाना हि मानिनः।
परस्परं महद्युद्धं चक्रुः सर्वे सुरासुराः॥
ततो दैत्यगणैः क्रुद्धैर्देवाः सर्वे विनिर्जिताः।
ततोऽङ्गिराः सुरगुरुर्ध्यानसक्तोऽभवत्पुरा॥
पुरन्दराभिषेकार्थं बृहस्पतिरकल्पयत्।
तिष्यमात्मीयनक्षत्रं यस्य देवो बृहस्पतिः॥
तेन चैवाभिषिक्तश्च देवराजः पुरन्दरः।
ततो बलसमारूढो नाशयामास दानवान्॥
देवाश्च हृष्टमनसः पुरीं प्राप्यामरावतीम्।
पुष्यस्नानं बलतरं तदारभ्य प्रवर्तितम्॥ इति॥२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुष्यस्नानाध्यायः ५५९
अथ पुष्यस्नानविधिमाह—
पुष्यस्नानं नृपतेः कर्तव्यं दैववित्पुरोधाभ्याम्।
नातः परं पवित्रं सर्वोत्पातान्तकरमस्ति॥३॥
ज्योतिषी और पुरोहित के द्वारा राजा को पुष्य स्नान कराना चाहिये। इससे अधिक
पवित्र और सभी उत्पातों को नाश करने वाला दूसरा कोई उपाय नहीं है॥३॥
नृपते राज्ञः पुष्यस्नानं पुष्येण नक्षत्रेण स्नपनम्। दैववित्पुरोधाभ्याम्। दैववित्सांवत्सरः,
पुरोधा आचार्यः, एताभ्यां कर्तव्यम्। अतोऽस्मात् पुष्यस्नानात् परं प्रकृष्टं परमं पवित्रं
पावनं तथा सर्वेषां निःशेषाणामुत्पातानामुपसर्गाणामन्तकरं नाशकरमन्यदपरं नास्ति न
विद्यते॥३॥
कस्मिन् स्थाने पुष्यस्नानं नृपतिः कुर्यादित्याह—
श्लेष्मातकाक्षकण्टकिकटुतिक्तविगन्धिपादपविहीने ।
कौशिकगृध्रप्रभृतिभिरनिष्टविहगैः परित्यक्ते ॥४॥
तरुणतरुगुल्मवल्लीलताप्रतानान्विते वनोद्देशे ।
निरुपहतपत्रपल्लवमनोज्ञमधुरद्रुमप्राये ॥५॥
श्लेष्मातक (लसौड़ा), अक्ष (बहेड़ा), कण्टक (खैर आदि), कटु, तिक्त (निम्बू
आदि) और दुर्गन्धियुत वृक्षों से रहित, उल्लू, गिद्ध आदि अशुभकारक पक्षियों से रहित,
नूतन वृक्ष, गुल्मलताओं के समुदाय से युत, पत्र, पल्लव, सुन्दर, मधुर (स्वादुयुत)
वृक्षों के समूह से युत वन के समीप में राजा को पुष्य स्नान करना चाहिये।।४-५।।
एवंविधे वनोद्देशे वनभूमौ पुष्यस्नानं कुर्यात्। कीदृशे? श्लेष्मातकेति। श्लेष्मातको
वृक्षविशेषः। अक्षो विभीतकः। कण्टकिनः सकण्टका वृक्षाः खदिरप्रभृतयः कटुस्तीक्ष्णो
निम्बो वा। तिक्तास्तिक्तस्वादा निम्बाद्याः। विगन्धिनो विगतगन्धा दुर्गन्धा ये पादपा वृक्षा-
स्तैर्विहीने वर्जिते। तथा कौशिका उलूकाः। गृध्रप्रभृतयो गृध्राद्याः काकाद्याः काककङ्क-
प्लवश्येनकपोताः। अनिष्टा अप्रशस्ता ये विहगाः पक्षिणस्तैः परित्यक्ते वर्जिते।
तरुणैरभिनवैस्तरुभिर्वृक्षैः। गुल्मैरेकमूलजैः शाखासमूहैः सूक्ष्मैः। वल्लीभिः प्रसिद्धाभिः।
लताप्रतानो लतानां समूहो विस्तारस्तेनान्वितः संयुक्तो योऽसौ वनोद्देशस्तस्मिन्। तथा
निरुपहतानि निरुपसृष्टानि पत्राणि पर्णानि पल्लवा अभिनवा अङ्कुरा येषां मनोज्ञानां चित्ता-
ह्लादकानां मधुराणां स्वादूनां द्रुमाणां वृक्षाणां प्रायो बाहुल्यं यत्र तत्रेति॥४-५॥
अन्यत्कीदृश इत्याह—
कृकवाकुजीवजीवकशुकशिखिशतपत्रचाषहारीतैः ।
क्रकरचकोरकपिञ्जलवञ्जुलपारावतश्रीकैः ॥६॥
कुसुमरसपानमत्तद्विरेफपुंस्कोकिलादिभिश्चान्यैः ।
विरुते वनोपकण्ठे क्षेत्रागारे शुचावथवा ॥७॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
५६० बृहत्संहिता
मुर्गा, तीतर, तोता, मयूर, शतपत्र ( कठफोरवा ), चाष ( नीलकण्ठ ), हारीत
( हारिल ), क्रकर ( करील, चकोर, कपिञ्जल, वञ्जुल, कबूतर, श्रीकण्ठ )—इन पक्षियों के
शब्दों से युक्त पुष्पों के रसास्वादन से मत्त भ्रमर, श्रेष्ठ कोकिल आदि और अन्य सुन्दर पक्षियों
के शब्दों से युत वन के समीप शुद्ध पुण्यभूमि में पुष्यस्नान करना चाहिये।।६-७।।
अथवैदृशे वनोपकण्ठे वनसमीपे पुष्यस्नानं कुर्यात्। कीदृशे ? कृकवाकुः कुक्कुटः।
जीवजीवकौ पक्षिविशेषौ प्रसिद्धौ। शुकः कीरः। शिखी मयूरः। शतपत्रो दार्वाघाटः पक्षी।
चाषहारीतावपि पक्षिविशेषौ। एतैर्विरुते कृतशब्दे। तथा क्रकरः। चकोरः। कपिञ्जलः। वञ्जुलः।
पारावतः। श्रीकः श्रीकण्ठः। एतैरपि पक्षिविशेषैर्विरुते।
तथा कुसुमानां पुष्पाणां रसपानेन रसास्वादनेन ये मत्ताः प्रहृष्टा द्विरेफा भ्रमराः। तथान्ये
वा ये पुंस्कोकिलादयः। पुंस्कोकिलः प्रधानकोकिकः। आदिग्रहणाच्चक्रवाकसारसहंसा
गृह्यन्ते। तैरपि विरुते। अथवा शुचौ शुद्धे क्षेत्रागारे क्षेत्रे पुण्यस्थाने यदागारं गृहं तत्र। क्षेत्रा-
गारमपि कदाचिद्रुधिरमेध्यसम्पर्कात्त्र शुचि भवत्यत उक्तं क्षेत्रागारे शुचाविति।।६-७।।
अन्यत्कीदृशे स्थाने पुष्यस्नानं कुर्यादित्याह—
ह्रदिनीविलासिनीनां जलखगनखविक्षतेषु रम्येषु।
पुलिनजघनेषु कुर्याद् दृङ्मनसोः प्रीतिजननेषु ॥८॥
जलचर पक्षी रूप नखों से क्षत, दृष्टि और मन को आनन्ददायक नदी रूप कामिनियों
के तटरूप सुन्दर जंघाओं पर ( सुन्दर नदीतट पर ) पुष्यस्नान करना चाहिये।।८।।
ह्रदिन्यो नद्यस्ता एव विलासिन्यो वारयोषितस्तासां यानि पुलिनानि तीराणि तान्येव
जघनानि नितम्बप्रदेशास्तेषु कुर्यात्। कीदृशेषु? जलखगनखविक्षतेषु, जलखगा उदकचराः
पक्षिणस्तैर्नखविक्षतेषु करप्रहतेषु, तथा रम्येषु रमणीयेषु, दृङ्मनसोः प्रीतिजननेषु, दृशोश्च-
क्षुषोः, मनसश्चित्तस्य यानि प्रीतिं तुष्टिं जनयन्त्युत्पादयन्ति तथाभूतेषु। अत एव विला-
सिनीनां जघनेषु सादृश्यम्।।८।।
अन्यत्कीदृशेषु कुर्यादित्याह—
प्रोत्प्लुतहंसच्छत्रे कारण्डवकुररसारसोद्गीते।
फुल्लेन्दीवरनयने सरसि सहस्राक्षकान्तिधरे ॥९॥
उड़ते हुये हंसरूप छत्र वाले कारण्डव, कुरर और सारस पक्षियों के ध्वनिरूप गाने
से युत, खिले हुये नीलकमलरूप नेत्रों से युत; अत एव इन्द्र के समान कान्ति वाले
सरोवर के तीर पर स्नान करना चाहिये।।९।।
अथवा सरसि कुर्यात्। कीदृशे? सहस्राक्षकान्तिधरे, सहस्राक्ष इन्द्रस्तस्य सम्बन्धिनीं
कान्तिं रुचिं यो धारयति बिभर्ति तस्मिन्। किम्भूते? प्रोत्प्लुतहंसच्छत्रे, प्रोत्प्लुता उड्डीय-
माना ये हंसाः पक्षिविशेषाः, त एव छत्रमातपत्रं यत्र। तथा कारण्डवैः कुररैः सारसैश्च पक्षि-
विशेषैरुद्गीतं गानं क्रियते यत्र। फुल्लानि विकसितानि इन्दीवराणि नीलोत्पलानि नयनानि
नेत्राणि यत्र। अत एव सहस्राक्षस्य सादृश्यम्।।९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुष्यस्नानाध्यायः ५६१
अन्यत्कीदृशे कुर्यादित्याह—
प्रोत्फुल्लकमलवदनाः कलहंसकलप्रभाषिण्यः ।
प्रोत्तुङ्गकुड्मलकुचा यस्मिन्नलिनीविलासिन्यः ॥१०॥
खिले हुए कमलरूप मुख वाली, राजहंस के मधुर शब्दरूप वाक्य वाली और
कमल के कली रूप ऊँचे स्तन वाली पुष्करिणी रूप स्त्री के जंघा ( तट ) पर पुष्य-
स्नान करना चाहिये ॥१०॥
अथवा यस्मिन् स्थाने नलिनीविलासिन्यः पुष्करिण्य एव विलासिन्यः वारयोषितस्तत्र
कुर्यात् । कीदृशः ? प्रोत्फुल्लकमलवदनाः, प्रोत्फुल्लानि प्रविकसितानि कमलानि यानि
पद्मानि तान्येव वदनानि मुखानि यासाम् तथा कलहंसा राजहंसास्तेषां कलं मधुरं यत्
क्वणं शब्दस्तदेव प्रभाषणं वचनं यासाम् तथा प्रोत्तुङ्गानि उच्चानि यानि कुड्मलानि कर्ण-
कास्तान्येव कुचाः स्तना यासाम् । केचित् प्रोद्बद्धकुड्मलकुचा इति पठन्ति । प्रकर्षेणोद्बद्धानि
अतिकठिनानि यानीति । अत एव विलासिनीनां सादृश्यम् ॥१०॥
अन्यत्कीदृशे स्थाने कुर्यादित्याह—
कुर्याद् गोरोमन्थजफेनलवशकृत्खुरक्षतोपचिते ।
अचिरप्रसूतहुङ्कृतवल्गितवत्सोत्सवे गोष्ठे ॥११॥
गायों के जुगाली करने से गिरे हुये फेन और गोबर खुरों से ताडित जहाँ पर हो तथा
उत्पन्न हुए बछड़ों के हुङ्कार और कूदना-फाँदना रूप उत्सवयुत गोष्ठ स्थान में पुष्यस्नान
करना चाहिये ॥११॥
अथवा गोष्ठे गोस्थाने कुर्यात् । कीदृशे ? गोरोमन्थजफेनलवशकृत् खुरक्षतोपचिते
गो रोमन्थो गोरोमन्थः । गवां चर्वितचर्वणम् । तस्माज्जातो योऽसौ फेनलवो लालाबिन्दुः ।
तथा शकृद्गोमयस्तु खुरैः शफैर्यानि क्षतानि छिद्राणि तैरुपचिते संयुक्ते । तथा अचिरप्रसूताः
सद्य एव जाता ये वत्सास्तूर्णकास्तेषां हुङ्कृतो हुङ्कारशब्दः । तथा वल्गितं क्रीडितं
तदेवोत्सवो महो यत्र ॥११॥
अन्यत्कीदृशे स्थाने कुर्यादित्याह—
अथवा समुद्रतीरे कुशलागतरत्नपोतसम्बाधे ।
घननिचुललीनजलचरसितखगशबलीकृतोपान्ते ॥१२॥
अथवा सकुशल आये हुये रत्नयुत नावों से व्याप्त तथा घने निचुल ( समुद्रफल )
वृक्षों के ऊपर लीन जलचर और सफेद पक्षियों से चित्रित समीप भाग है जिसका, ऐसे
समुद्र के तीर में पुष्यस्नान करना चाहिये ॥१२॥
अथवा समुद्रतीरे सागरकुले कुर्यात् । कीदृशे ? कुशलागतरत्नपोतसम्बाधे, कुशले-
नाविघ्नेनाऽऽगताः प्राप्ता ये रत्नानां मणीनां पोतास्तेषां सम्बाधः सङ्घट्टो यत्र । सङ्कट
बृ० सं० प्र०-३६
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५६२ बृहत्संहिता
इत्यर्थः। तथा घनाः सन्तता ये निचुला वृक्षविशेषास्तेषु ये लीनाः श्लिष्टा जलचरा जल-
प्राणिनः, तथा सिताः श्वेता ये खगाः पक्षिणः, तैः शबलीकृताश्चित्रिता उपान्ताः समीपा
यत्र।। १२ ।।
अन्यत्कीदृशे कुर्यादित्याह—
क्षमया क्रोध इव जितः सिंहो मृग्याभिभूयते येषु।
दत्ताभयखगमृगशावकेषु तेष्वाश्रमेष्वथवा ।।१३।।
अथवा जहाँ पर शान्ति से क्रोध की तरह हरिणियों से सिंह जीत लिया गया हो अर्थात्
हरिणी और सिंह साथ-साथ रहते हों तथा अभयदान पाकर पक्षी और मृग के बच्चे
निर्भय घूमते हैं, ऐसे मुनियों के आश्रम में पुष्यस्नान करना चाहिये।। १३ ।।
अथवा आश्रमेषु मुनिनिवासेषु कुर्यात्। कीदृशेषु? येषु सिंहो हरिः, मृग्या एण्या
अभिभूयते कृतपरिभवः सम्पाद्यते। कथम्? क्षमया क्रोध इव जितः। यथा क्षमया क्षान्त्या
क्रोधः कोपो जितः। तथा खगानां पक्षिणां मृगाणामेणानां च सम्बन्धिनो ये शावकाः पोत-
कास्तेषु अभया दत्तो येषु। येषु गतेषु हिंसां न कश्चित् करोतीत्यर्थः ।।१३।।
अन्यत्कीदृशेषु कुर्यादित्याह—
काञ्चीकलापनूपुरगुरुजघनोद्वहनविघ्नितपदाभिः ।
श्रीमति मृगेक्षणाभिर्गृहेऽन्यभृतवल्गुवचनाभिः ॥१४॥
अथवा करधनी, पायजेब और भारी जंघाओं के भार से मन्द गति वाली तथा कोयल
की तरह मधुर बोलने वाली मृगनयना स्त्रियों से शोभित गृह में पुष्यस्नान करना चाहिये।
अथवा गृहे वेश्मनि कुर्यात्। कीदृशे? श्रीमति। श्रीर्विद्यते यस्मिन्। तथा एवंविधाभिः
स्त्रीभिर्युक्ते? किम्भूताभिः? काञ्चीकलापनूपुरगुरुजघनोद्वहनविघ्नितपदाभिः, काञ्ची मेखला
तस्या यः कलापो विस्तारस्तस्योद्वहनेन विघ्नितौ मन्दगामिनौ पादौ चरणौ यासां ताभिः।
मृगेक्षणाभिः, हरिणसदृशनेत्राभिः। अन्यभृतवल्गुवचनाभिः, अन्यभृतः कोकिलस्तद्वद्वल्गु
रम्यं मधुरं वचनं यासां ताभिर्युक्ते ।।१४।।
अन्यत्कीदृशेषु स्थानेषु कुर्यादित्याह—
पुण्येष्वायतनेषु च तीर्थेषूद्यानरम्यदेशेषु।
पूर्वोदक्प्लवभूमौ प्रदक्षिणाम्भोवहायां च ।।१५।।
अथवा पवित्र देवस्थान, तीर्थ, जलाशय, उपवन, सुन्दर देश, पूर्व या उत्तर तरफ
नीची भूमि पर प्रदक्षिण क्रम से जहाँ जल बहता हो, ऐसे स्थान में पुष्यस्नान कराना
चाहिये ।। १५ ।।
पुण्येषु पवित्रेष्वायतनेषु च देवस्थानेषु च कुर्यात्। पुण्येषु तीर्थेषु सलिलाशयेषु।
उद्यानेषूपवनेषु। रम्येषु रमणीयेषु देशेषु स्थानेषु। तथा पूर्वोदक्प्लवभूमौ, पूर्वस्यां दिश्युत-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुष्यस्नानाध्यायः ५६३
रस्र्यां वा यस्यां भूमौ प्लवो निम्नता। तथा प्रदक्षिणाम्भोवहायाम् प्रादक्षिण्येन यस्यामम्भः
पानीयं वहति। तथा च वृद्धगर्गः—
समुद्रतीरे उद्याने नदीनां सङ्गमे शुभे।
महाह्रदेऽथवा तीर्थे देवतायतने तथा।।
सर्वर्तुकुसुमोपेते वने द्विजवरैर्युते।
गृहे रम्ये विविक्ते वा पुष्यस्नानं समाचरेत्।। इति।।१५।।
अथ भूलक्षणमाह—
भस्माङ्गारास्थ्यूषरतुषकेशश्वभ्रकर्कटावासैः ।
श्वाविधमूषकविवरैर्वल्मीकैर्या च सन्त्यक्ता ॥१६॥
धात्री घना सुगन्धा स्निग्धा मधुरा समा च विजयाय ।
सेनावासेऽप्येवं योजयितव्या यथायोगम् ॥१७॥
राख, कोयला, हड्डी, ऊषर, भूसी, केश, गड्डा हो तथा केंकड़ा, बिल में रहने वाला
जन्तु, चूहा और दीमक आदि से रहित, अन्तःसार वाली, सुगन्धयुत, निर्मल, मधुर और
समभूमि विजय के लिए होती है। सेनाओं के निवास के लिए भी पूर्वोक्त भूमि युक्तिपूर्वक
प्रयोग करनी चाहिये।।१६-१७।।
या धात्री भूरेवंविधा तस्यां पुष्यस्नानं कुर्यात्। कीदृशी? भस्मना भूतिना। अङ्गारै-
र्दग्धकाष्ठैः। अस्थिभिः। ऊषराः ससिकताश्च ताभिः। तुषैः शालिचर्मभिः। केशैः। श्वभ्रैः
खातैः। कर्कटाः प्राणिनो मृगजातयस्तेषामावासा गृहाणि विद्यन्ते येषां तैः सन्त्यक्ता
रहिता। तथा श्वाविधैर्बिलवासिभिः प्राणिभिः। मूषकविवरैराखुबिलैः। वल्मीकैश्च या सन्त्यक्ता
वल्मीककृतैर्मृत्स्तूपै रहिता सा शुभा। चशब्दः समुच्चये। न केवलं भस्माङ्गारादिदोषै
रहिता यावच्छ्वाविधादिभिर्दोषैश्च रहितेति।
तथा च धात्री घना अन्तःसारा। सुगन्धा शोभनसुरभिः। स्निग्धा सस्नेहा। मधुरा
सस्वादा। समा च तुल्या निम्नोन्नतरहिता। एवंविधा विजयाय भवति। न केवलं स्नाने
यावत्सेनावासे सैन्यनिवासनेऽप्येषा भूर्यथायोगं यथायुक्ति सैन्यनिवेशे विभागेन योजयितव्या
प्रयोज्या ग्राह्येति।।१६-१७।।
अथ तत्र विधानमाह—
निष्क्रम्य पुरान्नक्तं दैवज्ञामात्ययाजकाः प्राच्याम् ।
कौबेर्यां वा कृत्वा बलिं दिशीशाधिपायां वा ॥१८॥
लाजाक्षतदधिकुसुमैः प्रयतः प्रणतः पुरोहितः कुर्यात् ।
आवाहनमथ मन्त्रस्तस्मिन् मुनिभिः समुद्दिष्टः ॥१९॥
दैवज्ञ, मन्त्री और याजक लोग रात में पुर से निकल कर पूर्वोक्त स्थान के पूर्व, उत्तर
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५६४ बृहत्संहिता
या ईशान कोण में नम्र होकर पुरोहित को खीर, अक्षत, दधि और पुष्पों के द्वारा बलि देनी
चाहिये इसके बाद मुनियों द्वारा कथित आवाहन-मन्त्र पढ़ना चाहिये।।१८-१९।।
दैवज्ञः सांवत्सरिकः। अमात्यो मन्त्री। याजकः पुरोधाः। एते दैवज्ञामात्ययाजकाः
पुरान्नगरान्नक्तं रात्रौ निष्क्रम्य निर्गत्य प्राच्यां पूर्वस्यां दिशि कौबेर्यमुत्तरस्यां दिशि ईशाधि-
पायामैशान्यां दिशि आशायां बलिमुपहारं कुर्युः।
लाजाक्षतेति। प्रयत: संयतः। प्रणतः प्रह्वः। पुरोहितो लाजाभिरक्षतैर्यवैर्दध्ना क्षीर-
विकारेण कुसुमैः पुष्पैरावाहनमामन्त्रणं कुर्यात्। तस्मिन्नावाहने मुनिभिर्गर्गादिभिरयं वक्ष्यमाणो
मन्त्रः समुद्दिष्ट उक्तः।।१८-१९।।
अधुना तमेवाह—
आगच्छन्तु सुराः सर्वे येऽत्र पूजाभिलाषिणः।
दिशो नागा द्विजाश्चैव ये चाप्यन्येऽशभागिनः ॥२०॥
आवाह्यैवं ततः सवनिवं ब्रूयात् पुरोहितः।
श्वः पूजां प्राप्य यास्यन्ति दत्त्वा शान्तिं महीपतेः ॥२१॥
जो देवता इसमें पूजा के इच्छुक हैं, वे दिशा, नाग, ब्राह्मण और अन्य अंश भोगी
गण सभी यहाँ आगमन करें। इस तरह पुरोहित सबका आवाहन करके वक्ष्यमाण रूप
से प्रार्थनापूर्वक बोले—'आप सब आगामी प्रातःकाल में पूजा पाकर राजा को शान्ति
प्रदान करके जायेंगे'।।२०-२१।।
सर्वे सुरा ये चात्रास्मिन् पूजाभिलाषिणोऽर्चार्थिनस्ते सर्वः एव निःशेषा आगच्छन्तु
आयान्तु। तथा दिश आशाः। नागाः पन्नगाः। द्विजा मुनयः। ये चाप्यन्ये परे चानुकीर्तिताः।
अंशभागिनो भागभाजस्ते आयान्तु।
एवमनेन प्रकारेण सर्वानशेषानावाह्य परिमन्त्र्य ततः पश्चादनन्तरं पुरोहित आचार्य
एवमनेन प्रकारेण ब्रूयाद्वदेत्। येऽत्र सुरा आगतास्ते श्वः प्रातः पूजामर्चां प्राप्य लब्ध्वा
महीपते राज्ञः शान्तिं श्रेयो दत्वा यास्यन्ति गमिष्यन्ति।।२०-२१।।
ततः किं कुर्यादित्याह—
आवाहितेषु कृत्वा पूजां तां शर्वरीं वसेयुस्ते।
सदसत्स्वप्ननिमित्तं यात्रायां स्वप्नविधिरुक्तः ॥२२॥
आवाहिन देवता आदि की पूजा करके सभी (दैवज्ञ, मन्त्री, याजक) वह रात्रि
वहीं व्यतीत करें। बाद में रात्रि में जो स्वप्न दिखाई दे, तदनुसार ही शुभाशुभ फल
जानना चाहिये, इसको जानने की विधि यात्रा नामक ग्रन्थ में कही गई है।।२२।।
तेष्वावाहितेषु सुरेषु पूजामर्चां विधाय तां शर्वरीं रात्रिं ते दैवज्ञामात्ययाजका वसेयु-
स्तिष्ठेयुः। किमर्थम्? सदसत्स्वप्ननिमित्तम्, शुभाशुभसन्दर्शनार्थम्। यात्रायां यज्ञेऽश्वमे-
CC-0. JK Sanskrit Academy, Jammnu.. Digitized by S3 Foundation USA
पुष्यस्नानाध्यायः ५६५
धीयायां स्वप्नविधिः स्वप्नपरीक्षणविधिरुक्तः कथितः। तथा च यात्रायाम्—
दुकूलमुक्तामणिभृन्नरेन्द्रः समन्त्रिदैवज्ञपुरोहितोऽतः।
स्वदेवतागारमनुप्रविश्य निवेशयेत्तत्र दिगीश्वराचाम्।।
अभ्यर्च मन्त्रैस्तु पुरोहितस्तामधश्च तस्यां भुवि संस्कृतायाम्।
दर्भैश्च कृत्वा स्तरमक्षतैस्तां लिखेत् समन्तात्सितसर्षपैश्च।।
ब्राह्मीं सदूर्वामथ नागपुष्पीं कृत्वोपधानं शिरसि क्षितीशः।
पूजार्घजान् पुष्पफलाभिधानानाशासु दध्याच्चतुरः क्रमेण ।।
यज्जाग्रते दूरमुदैति दैवमावर्त्य मन्त्रं प्रयतस्त्रिरेतम्।
लघ्वेकभुग्दक्षिणपार्श्वशायी स्वप्नं परीक्षेत यथोपदेशम्।।
नमः शम्भो त्रिनेत्राय रुद्राय वरदाय च।
वामनाय विरूपाय स्वप्नाधिपतये नमः।।
भगवन् देवदेवेश शूलभृद् वृषवाहन।
इष्टानिष्टं समाचक्ष्व स्वप्ने स्वप्नस्य शाश्वतम् ।।
इष्टमन्त्रान् ततः स्मृत्वा शिवशक्तिपुरोगमान्।
अभ्यर्थनं ततस्तस्य कृत्वा सुप्रयतो नृपः।।
एकवस्त्रे कुशास्तीर्णे सुप्तः प्रयतमानसः।
निशान्ते पश्यति स्वप्नं शुभं वा यदि वाऽशुभम्।। इति।।२२।।
ततः किं कुर्यादित्याह—
अपरेऽहनि प्रभाते सम्भारानुपहरेद्यथोक्तगुणान् ।
गत्वाऽवनिप्रदेशे श्लोकांश्चाप्यत्र मुनिगीताः ।।२३।।
दूसरे दिन प्रातःकाल उस पृथ्वी प्रदेश में जाकर उक्त गुणों से युत सामान एकत्रित
करें। यहाँ पर मुनि (वृद्ध गर्ग) से कथित ये वक्ष्यमाण श्लोक हैं।।२३।।
अपरेऽहनि द्वितीयदिने प्रभाते प्रभातसमये तस्मिन्नेवावनिप्रदेशे भूस्थाने गत्वा
यथोक्तगुणान् यथोपयोज्यान् सम्भारानुपहरेत् ढौकयेत्। अत्राप्यस्मिन्नर्थे श्लोका मुनिगीताः,
मुनिना महर्षिणा वृद्धगर्गेण गीताः कथिताः। अपिशब्दः सम्भावनायाम्।।२३।।
तांश्चाह—
तस्मिन् मण्डलमालिख्य कल्पयेत्तत्र मेदिनीम् ।
नानारत्नाकरवतीं स्थानानि विविधानि च ॥२४॥
पुरोहितो यथास्थानं नागान् यक्षान् सुरान् पितॄन्।
गन्धर्वाप्सरसश्चैव मुनीन् सिद्धांश्च विन्यसेत् ।। २५ ।।
ग्रहांश्च सर्वनक्षत्रे रुद्रांश्च सह मातृभिः ।
स्कन्दं विष्णुं विशाखं च लोकपालान् सुरस्त्रियः ॥ २६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वर्णकैर्विविधैः कृत्वा हृद्यैर्गन्धगुणान्वितैः ।
यथास्वं पूजयेद्विद्वान् गन्धमाल्यानुलेपनैः ॥२७॥
भक्ष्यैरन्नैश्च विविधैः फलमूलामिषैस्तथा ।
पानैश्च विविधैर्हृद्यैः सुराक्षीरासवादिभिः ॥२८॥
पूर्वोक्त शुभ लक्षणयुत भूप्रदेश में एक मण्डल बनाकर अनेक प्रकार के रत्नों के
समुदाय से युत पृथ्वी की और बहुत तरह के स्थानों की कल्पना करे। बाद में पुरोहित
प्राधान्य क्रम से नाग, यक्ष, देव, पितर, गन्धर्व, अप्सरा, मुनि और सिद्धों की स्थापना
करे तथा अश्विनी आदि सब नक्षत्रों के साथ ग्रह, ब्राह्मी आदि माताओं के साथ रुद्र,
कार्तिकेय, विष्णु, विशाखा, लोकपाल और देवताओं की स्त्री ( इन्द्राणी, गौरी, लक्ष्मी
आदि ) को मन को प्रसन्न करने वाली सुगन्धियों से युत नाना प्रकार के वर्णों से बना
कर विद्वान् सुगन्धित द्रव्य, माला, चन्दन, भोज्यान्न, नाना प्रकार के फल, मूल, मांस, नाना
प्रकार के चित्ताह्लादक पान वस्तु, मद्य, दुग्ध, आसव आदि से पूजा करे॥२४-२८॥
तस्मिन् भूप्रदेशे यत्र पुष्यस्नानं क्रियते पूर्वोद्दिष्टलक्षणश्लेष्मातकाक्षकण्टकीत्यादिके
मण्डलमालिख्य विरचय्य तस्मिन् स्थाने मेदिनीं भूमिं नानारत्नाकरवतीं नानाप्रकाराणां
रत्नानामाकर उत्पत्तिस्थानं तद्विद्यते यस्यां तां तथाभूताम्। बहूनि रत्नानि तत्र स्थापयेदित्यर्थः।
तथा विविधानि नानाप्रकाराणि स्थानानि सन्निवेशसंस्थानानि च कल्पयेत् कारयेत्।
ततः पुरोहित आचार्यो नागान् पन्नगान्। यक्षान् गुह्यकान्। सुरान् देवान्। पितॄन् देव-
विशेषांश्च यथास्थानं यथाप्राधान्यानुसारेण समालिखेत्। गन्धर्वान् देवयोनीन्। अप्सरसो
देवयोषितः। मुनीनृषीन्। सिद्धान् देवयोनींश्च विन्यसेत्।
ग्रहानादित्यादीन् सर्वान्नक्षत्रैरश्विन्यादिभिः सह। तथा रुद्रान् देवविशेषान् मातृभिर्देवताभि-
र्ब्राह्यादिभिः सह लिखेत्। स्कन्दं कुमारम्। विष्णुं नारायणम्। विशाखं स्कन्दग्रहम्।
लोकपाला इन्द्राग्नियमनिर्र्ऋतिपाशिवायुकुबेरैशानास्तान्। सुरस्त्रियो देवस्त्रियः। यथा इन्द्राणी
गौरी लक्ष्मीः।
विविधैर्नानाप्रकारैर्धातुविशेषैः सितरक्तपीतकृष्णाव्यामिश्रैः। हृद्यैश्चित्ताह्लादकैर्गन्ध-
गुणान्वितैर्गन्धगुणसंयुक्तैः सुगन्धैरित्यर्थः। तथाभूतैः कृत्वा ततो विद्वान् पण्डितो गन्धैः
सुगन्धद्रव्यैर्माल्यैः स्रग्भिरनुलेपनैः समालम्भनैर्यथास्वं पूजयेदर्चयेत्। एतदुक्तं भवति—
यो यस्मिन् स्थाने लिखितो वर्णकानुसारेण तं तत्रैव गन्धमाल्यानुलेपनैर्हृद्यैः पूजयेदर्चयेत्।
तथा भक्ष्यैर्विविधैर्नानाकारैर्मोदकलोपिकापूपादिभिः। अन्नैश्च नानाप्रकारैरोदनपायसा-
दिभिः। नानाप्रकारैः फलैः श्रीफलादिभिः। मूलैः प्रसिद्धैः। आमिषैर्मांसैः। विविधैर्नाना-
प्रकारैर्हृद्यैर्हृदयचोदकैः पानैर्मदकरैः। तथा सुरया मद्येन क्षीरेण दुग्धेन। आसवेन मध्वासवेन।
आदिग्रहणाल्लेह्यपेयचोष्यादिभिरन्यैश्च पानविशेषैः पूजयेत्॥२४-२८॥
अतः परं पूजां कथयामीत्याह—
कथयाम्यतः परमहं पूजामस्मिन् यथाभिलिखितानाम् ।
ग्रहयज्ञे यः प्रोक्तो विधिर्ग्रहाणां स कर्तव्यः ॥२९॥
मांसौदनमद्याद्यैः पिशाचदितितनयदानवाः पूज्याः ।
अभ्यञ्जनाञ्जनतिलैः पितरो मांसौदनैश्चापि ॥३०॥
सामयजुर्भिर्मुिनयस्त्वग्भिर्गन्धैश्च धूपमाल्ययुतैः ।
अश्लेषकवर्णैस्त्रिमधुरेण चाभ्यर्चयेद् नागान् ॥३१॥
धूपाज्याहुतिमाल्यैर्विबुधान् रत्नैः स्तुतिप्रणामैश्च ।
गन्धर्वानप्सरसो गन्धैर्माल्यैश्च सुसुगन्धैः ॥३२॥
शेषांस्तु सार्ववर्णिकबलिभिः पूजां न्यसेच्च सर्वेषाम् ।
प्रतिसरवस्त्रपताकाभूषणयज्ञोपवीतानि ॥३३॥
इसके बाद इस यज्ञ में अभीष्ट देवताओं की पूजन-विधि बताते हैं। यात्रा नामक
पुस्तक के ग्रहयज्ञ प्रकरण में ग्रहों की पूजन विधि जो बताई गई है, उसी तरह यहाँ पर
भी ग्रहों की पूजा करनी चाहिये। मांस, भात, मद्य आदि से पिशाच, दैत्य और दानवों
की पूजा करनी चाहिये। अभ्यञ्जन ( स्निग्ध पदार्थ ), कज्जल, तिल, मांस और भात
से पितरों की; साम तथा यजुर्वेदों के मन्त्र, सुगन्ध द्रव्य, धूप और मालाओं से मुनियों
की; अश्लेषक ( अमिश्रित ) वर्ण और त्रिमधुर ( मधु, घृत और शर्करा ) से सर्पों की;
धूप, घृत, हवन, माला, रत्न, स्तोत्र और प्रणामों से देवताओं की; सुगन्ध द्रव्य, माला
और सुन्दर गन्धों से गन्धर्व तथा अप्सराओं की एवं समस्त वर्णयुत बलियों से शेष
( यज्ञ आदि ) की पूजा करनी चाहिये। पूजन के बीच-बीच में सबको कुङ्कुम से रक्त
किया हुआ सूत्र, वस्त्र, ध्वजा, भूषण और यज्ञोपवीत देना चाहिये॥२९-३३॥
कथयामीति । अतोऽस्मात्परमहमाचार्योऽस्मिन् मण्डले यथाभिलिखितानां विन्य-
स्तानां पूजामर्चां कथयामि वक्ष्यामि। ग्रहाणामादित्यादीनां यात्रायां ग्रहयज्ञे योऽयं विधिः
प्रोक्तः कथितः स एवात्र कर्तव्यः। तद्यथा—
यात्रायां ग्रहयज्ञे तत्रार्चा ताम्रमयसवितुः।
पालांशिकी समिद् वैकङ्कतजाता तथा स्रुक् च।
आकृष्णेति च मन्त्रो रक्ता गन्धाः सहागुरुणा।।
माषाऽतसीतिलालवकमुद्गान् चणकान् विहाय भोज्यविधिः।
वकुलार्कागस्त्यपलाशशल्यकीकुसुमपूजा च।।
अष्टशतसस्मितेभ्यो विप्रेभ्यो दक्षिणा हिताग्निभ्यः।
देया वृषकनक मही सहस्रकिरणं समुद्दिश्य।। इत्यादि।
५६८ बृहत्संहिता
मांसौदनमद्याद्यैरिति । पिशाचा देवयोनयः । दितितनया दैत्याः । दानवा दनुपुत्राश्च ।
मांसेनामिषेणौदनेन भक्तेन मद्येन मधुना न पूज्या अर्चनीयाः । आदिग्रहणात् सुरासवैः ।
तथा पितरोऽभ्यञ्जनेन स्नेहदानेन । अञ्जनेन तिलतैलाभ्यञ्जनेन कज्जलेन च तिलैर्मांसौदनेन
च । एतैः पूज्याः ।
सामयजुर्भरिति । मुनयः ऋषयः सामभिर्यजुर्भिः ऋग्भिश्च । तथा गन्धैः सुगन्धद्रव्यैः
धूपमाल्ययुतैः । धूपैर्गुग्गुलप्रभृतिभिर्माल्यैश्च स्रग्भिः सहितैः । तथा नागान् पन्नगान् । अश्लेषक-
वर्णैः । यत्र बहूनां वर्णानामश्लेषस्संयोगो नास्ति तैः । तथा त्रिमधुरेण च, मधुना घृतेन
शर्करया चेत्यर्थः । एतैः पूजयेत् ।
धूप्याज्याहुतिमाल्यैरिति । विबुधान् देवान् धूपैराज्येन घृतेनाहुतिभिर्होमैर्माल्यैः स्रग्भिः
रत्नैर्मणिभिः स्तुतिभिस्तोत्रैः प्रणामैर्नमस्कारैश्च पूजयेत् । गन्धर्वानप्सरसश्च गन्धैः सुगन्ध-
द्रव्यैर्माल्यैश्च स्रग्भिः पूजयेत् । सुसुगन्धैः शोभनगन्धैः ।
शेषान् यक्षान् सार्ववर्णिकबलिभिः पूजयेत् । सार्ववर्णिकैर्बहुवर्णकैश्च बलिभिरुप-
हारैर्बहुद्रव्यमितैश्च पूजयेत् । सर्वेषां मण्डले यथाभिलिखितानां विरचितानां पूजामर्चां न्यसेत्
कारयेत् । तथा प्रतिसरमन्तरान्तरात् कुङ्कुमेन रक्तं सूत्रम् । वस्त्रमम्बरम् । पताका ध्वजः ।
भूषणमलङ्करणम् । यज्ञोपवीतं सुप्रसिद्धम् । एतानि च सर्वेषां न्यसेत् ।।२९-३३।।
ततः किं कुर्यादित्याह—
मण्डलपश्चिमभागे कृत्वाग्निं दक्षिणेऽथवा वेद्याम् ।
आदद्यात् सम्भारान् दर्भान् दीर्घानिगर्भार्ंश्च ।। ३४ ।।
मण्डल के पश्चिम या दक्षिण भाग में वेदी बना कर उस पर अग्निस्थापन करके
सामग्रियों को एकत्रित करे । लम्बे, अच्छिन्न और गर्भरहित कुशाओं को लावे ।।३४।।
मण्डलस्य पश्चिमभागे पश्चिमायां दिशि दक्षिणेऽथवा दक्षिणभागे वेदिं कुर्यात् । वेदी-
लक्षणमस्माभिः प्रागुक्तं नीराजने । तस्यां वेद्यामग्निं हुताशनं कृत्वा प्रज्वाल्य ततः सम्भा-
रानौपायोगिनादद्यात् ढौकयेत् । दर्भान् दीर्घानच्छिन्नानगर्भान् गर्भसहितांश्चाऽऽहरेत् ।।३४।।
अन्यत्किमित्याह—
लाजाज्याक्षतदधिमधुसिद्धार्थकगन्धसुमनसो धूपः ।
गोरोचनाञ्जनतिलाः स्वर्तुजमधुराणि च फलानि ।। ३५ ।।
सघृतस्य पायसस्य च तत्र शरावाणि तैश्च सम्भारैः ।
पश्चिमवेद्यां पूजां कुर्यात् स्नानस्य सा वेदी ।।३६।।
खीर, घृत, अक्षत, दधि, मधु, सरसों, सुगन्ध द्रव्य, पुष्प, धूप, गोरोचन, कज्जल,
तिल, स्व ऋतु के उत्पन्न मधुर फल—यह सामग्री है। इस सामग्री में प्रत्येक के साथ-
साथ घृत और खीर का शराव ( मिट्टी का पात्र ) देवे । इनसे वेदी के पश्चिम भाग में
पुष्यस्नानाध्यायः ५६९
पूजा करे, क्योंकि वह पुष्यस्नान की वेदी होती है।।३५-३६।।
लाजाः प्रसिद्धाः। आज्यं घृतम्। अक्षता यवाः। दधि क्षीरविकारः। मधु माक्षिकम्।
सिद्धार्था गौरसर्षपाः। गन्धाः सुगन्धद्रव्याणि। सुमनसः पुष्पाणि। धूपः प्रसिद्धः। गोरोचना
गोपित्तसम्भवा। अञ्जनं प्रसिद्धम्। तिलास्तथा। स्वर्तुजानि स्वार्तवात्मीयतौं जातानि
उत्पन्नानि यानि मधुराणि फलानि।
तथा तस्मिन् मण्डले सघृतस्य घृतसहितस्य च पायसस्य शरावाणि मृन्मयानि
पात्राणि सुपरिपूर्णानि दातव्यानि। तैश्च सम्भारैः पूर्वोक्तैः पश्चिमायां वेद्यां पूजां कुर्यात्।
यतः सा वेदी स्नातस्य। तस्यां पुष्यस्नानं कार्यमित्यर्थः।।३५-३६।।
ततः किं कुर्यादित्याह—
तस्याः कोणेषु दृढान् कलशान् सितसूत्रवेष्टितग्रीवान्।
साक्षीरवृक्षपल्लवफलापिधानान् व्यवस्थाप्य ।।३७।।
पुष्यस्नानविमिश्रेणापूर्णानम्भसा सरत्नांश्च।
पुष्यस्नानद्रव्याण्यादद्याद् गर्गगीतानि ।।३८।।
इसके चारों कोणों में दृढ़, सफेद सूत्र से वेष्टित गले वाले, दूध वाले, वृक्ष के
पल्लव फलों से ढके चार कलशों को स्थापित करे। उनको पुष्यस्नान की ओषधियों से
मिश्रित जल से, रत्नों से और गर्ग महर्षि के द्वारा प्रतिपादित पुष्यस्नान के द्रव्यों से
परिपूर्ण करे।।३७-३८।।
तस्या वेद्याः कोणेष्वस्रेषु चतुर्षु दृढानभग्नान् कलशान् घटान् सितसूत्रवेष्टितग्रीवान्।
सितेन श्वेतवर्णेन सूत्रेण तन्तुना वेष्टिता ग्रीवा कण्ठो येषां तान्। तथाभूतान् व्यवस्थाप्य
स्थापयित्वा। कीदृशान्? सक्षीरवृक्षपल्लवफलापिधानान्, सक्षीरा वृक्षा अर्कादयस्तेषां
ये पल्लवा अभिनवपत्राणि तथान्यानि च फलानि तान्येव समन्तादपिधानमाच्छादनं येषाम्।
पुनः कीदृशान्? पुष्यस्नानौषधिविमिश्रेणाम्भसा जलेनाऽऽपूर्णान् सुभरितान्। सरत्नान्
रत्नसहितांश्च। गर्गगीतानि गर्गमहर्षिणा कथितानि पुष्यस्नानार्थं द्रव्याण्यादद्यात् ढौकयेदिति।
तथा च गर्गः—
कलशैर्हेमताम्रैश्च राजतैर्मृन्मयैस्तथा।
सूत्रसंवेष्टितग्रीवैश्चन्दनागुरुचर्चितैः ।।
प्रशस्तवृक्षपत्रैश्च फलपुष्पसमन्वितैः।
पुण्यतोयेन सम्पूर्णै रत्नगर्भैर्मनोहरैः।। इति।।३७-३८।।
अथ पुष्यस्नानद्रव्याण्याह—
ज्योतिष्मतीं त्रायमाणामभयामपराजिताम्।
जीवां विश्वेश्वरीं पाठां समङ्गां विजयां तथा।।३९।।
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA
सहां च सहदेवीं च पूर्णकोशां शतावरीम्।
अरिष्टिकां शिवां भद्रां तेषु कुम्भेषु विन्यसेत् ॥४०॥
ब्राह्मीं क्षेमामजां चैव सर्वबीजानि काञ्चनीम्।
मङ्गल्यानि यथालाभं सर्वौषध्यो रसास्तथा ॥४१॥
रत्नानि सर्वगन्धांश्च बिल्वं च सविकङ्कतम्।
प्रशस्तनाम्यश्चौषध्यो हिरण्यं मङ्गलानि च ॥४२॥
ज्यौतिष्मती ( कंगनी = मालकाकणी ), त्रायमाणा ( चिरायते का फल ), अभया
( हर्रे = हरीर ), अपराजिता ( विष्णुक्रान्ता ), जीवा ( जीवन्ती = डोढी ), विश्वेश्वरी
( सोंठ ), पाठा ( पाढ़ = पाढ़रि ), समङ्गा ( रक्तमञ्जिष्ठा = पसरन ), विजया ( भंग ),
सहा (मुद्गपर्णी = वनमूड़ ), सहदेवी ( सहदेई ), पूर्णकोशा ( नागरमोथा ), शतावरी,
अरिष्टिका ( रीठा ), शिवा ( शमी ), भद्रा ( बला )—इन ओषधियों को पूर्व स्थापित
चारो कलशों में डाल दे। ब्राह्मी, क्षेमा ( काष्ठगुग्गुल ), अजा ( औषधिविशेष ), सब
प्रकार के बीज, काञ्चनी ( हल्दी = हरदी, 'निशाह्वा काञ्चनी पीता हरिद्रा वरवर्णिनी'त्यमरः ),
अन्य मङ्गल द्रव्य ( दधि, अक्षत, पुष्प आदि )—इन द्रव्यों में जितने की प्राप्ति हो,
उतने ही लेना चाहिये। सब ओषधि, सब रस, रत्न, सब सुगन्धद्रव्य, बेल, विकङ्कत
( कंटाप = कंघी ), प्रशस्त ओषधि ( जया, जयन्ती, जीवन्ती, जीवपुत्रिका, पुनर्नवा,
विष्णुक्रान्ता, चक्राङ्गा, वाराही और लक्षणा ), सुवर्ण आदि धातु, माङ्गलिक ओषधि
( गोरोचन, सरसों, दूर्वा, हस्तिमद आदि ) सब द्रव्यों को पूर्वस्थापित कलशों में डाल
दे॥३९-४२॥
ज्योतिष्मतीं सुसन्नद्धां। त्रायमाणां प्रसिद्धां। अभयां हरीतकीम्। अपराजितां
शमीम्। जीवां जीवन्तीम्। विश्वेश्वरीं पद्मचारिणीम्। पाठां प्रसिद्धां। समङ्गां रक्तमञ्जिष्ठाम्।
विजयां वचाम्। सहां मुद्गपर्णीम्। सहदेवीं प्रसिद्धां। पूर्णकोशां प्रसिद्धां। शतावरीं
प्रसिद्धामेव। अरिष्टिकां प्रसिद्धां। शिवां प्रसिद्धां। भद्रां बलाम्। एता ओषधीस्तेषु
प्रागुद्दिष्टेषु कुम्भेषु विन्यसेत् क्षिपेत्।
ब्राह्मीं प्रसिद्धां। क्षेमां काष्ठगुग्गुलम्। चोरकमिति प्रसिद्धम्। अजां प्रसिद्धां।
केचिदेडिकाक्षीमिच्छन्ति। सर्वाणि च बीजानि। काञ्चनीं सुप्रसिद्धाम्। अन्यानि मङ्गल्यानि
द्रव्याणि दध्यक्षतकुसुमादीनि। यथालाभमेतानि द्रव्याणि यावन्ति प्राप्यन्ते तावन्त्येव
ग्राह्याणि नान्येषां विकल्पः। सर्वा ओषधयः। रसाश्च सर्व एव मधुराम्ललवणतिक्तकटुकषायाः।
रत्नानि मणिविशेषाः। सर्वगन्धांश्च निःशेषसुगन्धद्रव्याणि। बिल्वं फलम्। सवि-
कङ्कतं विकङ्कतफलेन सह। प्रशस्तनाम्यो या ओषधयः। यथा—जया। जयन्ती।
जीवन्ती। जीवपुत्रिका। पुनर्नवा। विष्णुक्रान्ता। चक्राङ्गा। वाराही। लक्षणा। हिरण्यं सुवर्णादयो
धातवः। मङ्गलानि च मङ्गलवन्त्यौषधानि। यथा—गोरोचना। सर्षपः। दूर्वाहस्तिमदमिति।
एवमादि।।३९-४२।।
पुष्यस्नानाध्यायः ५७१
ततः किं कुर्यादित्याह—
आदावनडुहश्चर्म जरया संहतायुषः ।
प्रशस्तलक्षणभृतः प्राचीनग्रीवमास्तरेत् ॥४३॥
ततो वृषस्य योधस्य चर्म रोहितमक्षतम् ।
सिंहस्याथ तृतीयं स्याद् व्याघ्रस्य च ततः परम् ॥४४॥
चत्वार्येतानि चर्माणि तस्यां वेद्यामुपास्तरेत् ।
शुभे मुहूर्ते सम्प्राप्ते पुष्ययुक्ते निशाकरे ॥४५॥
पहले वृद्ध होकर मरे हुये, प्रशस्त लक्षणों ( ६१ वें अध्याय में कथित लक्षणों )
से युत बैल का चर्म लेकर पूर्वाभिमुख करके बिछावे । इसके बाद लोहित वर्ण वाले
योद्धा बैल का छिद्ररहित चर्म बिछावे, बाद में तृतीय सिंह का चर्म और इसके बाद
चतुर्थ व्याघ्र का चर्म बिछावे । पुष्य नक्षत्रगत चन्द्र के समय शुभ मुहूर्त में वेदी के ऊपर
इन चारो चमड़ों को बिछावे ॥४३-४५॥
आदौ प्रथममनडुहो बलीवर्दस्य चर्म। कीदृशस्य? जरया वार्द्धकेन संहतायुषो
मृतस्य। पुनः कीदृशस्य? प्रशस्तलक्षणभृतः, प्रशस्तानि गोलक्षणोक्तानि लक्षणानि
विभर्ति धारयति तस्य। ततश्च प्राचीनग्रीवं पूर्वाभिमुखकण्ठमास्तरेत् प्रसारयेत्।
ततोऽनन्तरं योधस्य वृषस्य रोहितं लोहितवर्णं चर्म। अक्षतमच्छिद्रमास्तरेत्। द्वितीयम्।
अनन्तरं सिंहस्य चर्म तृतीयं चाऽऽस्तरेत्। ततः परं चतुर्थं व्याघ्रस्य चर्माऽऽस्तरेत्।
एतानि चत्वारि चर्माणि तस्यां प्रागुक्तायां वेद्यामुपास्तरेत्। कस्मिन् काले? निशाकरे
चन्द्रे पुष्ययुक्ते पुष्यस्य योगतारकसमीपस्थे, शुभे च मुहूर्ते सम्प्राप्ते ॥४३-४५॥
ततः किं कुर्यादित्याह—
भद्रासनमेकतमेन कारितं कनकरजतताम्राणाम् ।
क्षीरतरुनिर्मितं वा विन्यस्यं चर्मणामुपरि ॥४६॥
त्रिविधस्तस्योच्छ्रायो हस्तः पादाधिकोऽर्धयुक्तश्च ।
माण्डलिकानन्तरजित्समस्तराज्यार्थिनां शुभदः ॥४७॥
चमड़े के ऊपर सोना, चाँदी, ताँबा या दुधैले वृक्ष का बना हुआ सुन्दर आसन
बिछावे। इस भद्रासन की ऊँचाई तीन प्रकार ( एक हाथ पादाधिक हस्त = तीस अंगुल
और डेढ हाथ ) की होनी चाहिये। प्रथम माण्डलिक राजा का शुभ करने वाला, द्वितीय
विजयेच्छु राजा का हित करने वाला और तृतीय चक्रवर्ती राजा बनने की इच्छा रखने
वाले राजा का शुभकारी होता है ॥४६-४७॥
कनकं सुवर्णम्। रजतं रूप्यम्। ताम्रं प्रसिद्धम्। एषां कनकरजतताम्राणामेकत-
मेनान्यतमेन भद्रासनं भद्रपीठं कारितं निर्मितम्। अथवा क्षीरतरवः क्षीरवृक्षा अर्कपिप्पलौ-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA