बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 610, कुल 728 में से
संदर्भ में पढ़ें५६८ बृहत्संहिता
मांसौदनमद्याद्यैरिति । पिशाचा देवयोनयः । दितितनया दैत्याः । दानवा दनुपुत्राश्च ।
मांसेनामिषेणौदनेन भक्तेन मद्येन मधुना न पूज्या अर्चनीयाः । आदिग्रहणात् सुरासवैः ।
तथा पितरोऽभ्यञ्जनेन स्नेहदानेन । अञ्जनेन तिलतैलाभ्यञ्जनेन कज्जलेन च तिलैर्मांसौदनेन
च । एतैः पूज्याः ।
सामयजुर्भरिति । मुनयः ऋषयः सामभिर्यजुर्भिः ऋग्भिश्च । तथा गन्धैः सुगन्धद्रव्यैः
धूपमाल्ययुतैः । धूपैर्गुग्गुलप्रभृतिभिर्माल्यैश्च स्रग्भिः सहितैः । तथा नागान् पन्नगान् । अश्लेषक-
वर्णैः । यत्र बहूनां वर्णानामश्लेषस्संयोगो नास्ति तैः । तथा त्रिमधुरेण च, मधुना घृतेन
शर्करया चेत्यर्थः । एतैः पूजयेत् ।
धूप्याज्याहुतिमाल्यैरिति । विबुधान् देवान् धूपैराज्येन घृतेनाहुतिभिर्होमैर्माल्यैः स्रग्भिः
रत्नैर्मणिभिः स्तुतिभिस्तोत्रैः प्रणामैर्नमस्कारैश्च पूजयेत् । गन्धर्वानप्सरसश्च गन्धैः सुगन्ध-
द्रव्यैर्माल्यैश्च स्रग्भिः पूजयेत् । सुसुगन्धैः शोभनगन्धैः ।
शेषान् यक्षान् सार्ववर्णिकबलिभिः पूजयेत् । सार्ववर्णिकैर्बहुवर्णकैश्च बलिभिरुप-
हारैर्बहुद्रव्यमितैश्च पूजयेत् । सर्वेषां मण्डले यथाभिलिखितानां विरचितानां पूजामर्चां न्यसेत्
कारयेत् । तथा प्रतिसरमन्तरान्तरात् कुङ्कुमेन रक्तं सूत्रम् । वस्त्रमम्बरम् । पताका ध्वजः ।
भूषणमलङ्करणम् । यज्ञोपवीतं सुप्रसिद्धम् । एतानि च सर्वेषां न्यसेत् ।।२९-३३।।
ततः किं कुर्यादित्याह—
मण्डलपश्चिमभागे कृत्वाग्निं दक्षिणेऽथवा वेद्याम् ।
आदद्यात् सम्भारान् दर्भान् दीर्घानिगर्भार्ंश्च ।। ३४ ।।
मण्डल के पश्चिम या दक्षिण भाग में वेदी बना कर उस पर अग्निस्थापन करके
सामग्रियों को एकत्रित करे । लम्बे, अच्छिन्न और गर्भरहित कुशाओं को लावे ।।३४।।
मण्डलस्य पश्चिमभागे पश्चिमायां दिशि दक्षिणेऽथवा दक्षिणभागे वेदिं कुर्यात् । वेदी-
लक्षणमस्माभिः प्रागुक्तं नीराजने । तस्यां वेद्यामग्निं हुताशनं कृत्वा प्रज्वाल्य ततः सम्भा-
रानौपायोगिनादद्यात् ढौकयेत् । दर्भान् दीर्घानच्छिन्नानगर्भान् गर्भसहितांश्चाऽऽहरेत् ।।३४।।
अन्यत्किमित्याह—
लाजाज्याक्षतदधिमधुसिद्धार्थकगन्धसुमनसो धूपः ।
गोरोचनाञ्जनतिलाः स्वर्तुजमधुराणि च फलानि ।। ३५ ।।
सघृतस्य पायसस्य च तत्र शरावाणि तैश्च सम्भारैः ।
पश्चिमवेद्यां पूजां कुर्यात् स्नानस्य सा वेदी ।।३६।।
खीर, घृत, अक्षत, दधि, मधु, सरसों, सुगन्ध द्रव्य, पुष्प, धूप, गोरोचन, कज्जल,
तिल, स्व ऋतु के उत्पन्न मधुर फल—यह सामग्री है। इस सामग्री में प्रत्येक के साथ-
साथ घृत और खीर का शराव ( मिट्टी का पात्र ) देवे । इनसे वेदी के पश्चिम भाग में