बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 605, कुल 728 में से
संदर्भ में पढ़ेंपुष्यस्नानाध्यायः ५६३
रस्र्यां वा यस्यां भूमौ प्लवो निम्नता। तथा प्रदक्षिणाम्भोवहायाम् प्रादक्षिण्येन यस्यामम्भः
पानीयं वहति। तथा च वृद्धगर्गः—
समुद्रतीरे उद्याने नदीनां सङ्गमे शुभे।
महाह्रदेऽथवा तीर्थे देवतायतने तथा।।
सर्वर्तुकुसुमोपेते वने द्विजवरैर्युते।
गृहे रम्ये विविक्ते वा पुष्यस्नानं समाचरेत्।। इति।।१५।।
अथ भूलक्षणमाह—
भस्माङ्गारास्थ्यूषरतुषकेशश्वभ्रकर्कटावासैः ।
श्वाविधमूषकविवरैर्वल्मीकैर्या च सन्त्यक्ता ॥१६॥
धात्री घना सुगन्धा स्निग्धा मधुरा समा च विजयाय ।
सेनावासेऽप्येवं योजयितव्या यथायोगम् ॥१७॥
राख, कोयला, हड्डी, ऊषर, भूसी, केश, गड्डा हो तथा केंकड़ा, बिल में रहने वाला
जन्तु, चूहा और दीमक आदि से रहित, अन्तःसार वाली, सुगन्धयुत, निर्मल, मधुर और
समभूमि विजय के लिए होती है। सेनाओं के निवास के लिए भी पूर्वोक्त भूमि युक्तिपूर्वक
प्रयोग करनी चाहिये।।१६-१७।।
या धात्री भूरेवंविधा तस्यां पुष्यस्नानं कुर्यात्। कीदृशी? भस्मना भूतिना। अङ्गारै-
र्दग्धकाष्ठैः। अस्थिभिः। ऊषराः ससिकताश्च ताभिः। तुषैः शालिचर्मभिः। केशैः। श्वभ्रैः
खातैः। कर्कटाः प्राणिनो मृगजातयस्तेषामावासा गृहाणि विद्यन्ते येषां तैः सन्त्यक्ता
रहिता। तथा श्वाविधैर्बिलवासिभिः प्राणिभिः। मूषकविवरैराखुबिलैः। वल्मीकैश्च या सन्त्यक्ता
वल्मीककृतैर्मृत्स्तूपै रहिता सा शुभा। चशब्दः समुच्चये। न केवलं भस्माङ्गारादिदोषै
रहिता यावच्छ्वाविधादिभिर्दोषैश्च रहितेति।
तथा च धात्री घना अन्तःसारा। सुगन्धा शोभनसुरभिः। स्निग्धा सस्नेहा। मधुरा
सस्वादा। समा च तुल्या निम्नोन्नतरहिता। एवंविधा विजयाय भवति। न केवलं स्नाने
यावत्सेनावासे सैन्यनिवासनेऽप्येषा भूर्यथायोगं यथायुक्ति सैन्यनिवेशे विभागेन योजयितव्या
प्रयोज्या ग्राह्येति।।१६-१७।।
अथ तत्र विधानमाह—
निष्क्रम्य पुरान्नक्तं दैवज्ञामात्ययाजकाः प्राच्याम् ।
कौबेर्यां वा कृत्वा बलिं दिशीशाधिपायां वा ॥१८॥
लाजाक्षतदधिकुसुमैः प्रयतः प्रणतः पुरोहितः कुर्यात् ।
आवाहनमथ मन्त्रस्तस्मिन् मुनिभिः समुद्दिष्टः ॥१९॥
दैवज्ञ, मन्त्री और याजक लोग रात में पुर से निकल कर पूर्वोक्त स्थान के पूर्व, उत्तर
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA