बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 604, कुल 728 में से
संदर्भ में पढ़ें५६२ बृहत्संहिता
इत्यर्थः। तथा घनाः सन्तता ये निचुला वृक्षविशेषास्तेषु ये लीनाः श्लिष्टा जलचरा जल-
प्राणिनः, तथा सिताः श्वेता ये खगाः पक्षिणः, तैः शबलीकृताश्चित्रिता उपान्ताः समीपा
यत्र।। १२ ।।
अन्यत्कीदृशे कुर्यादित्याह—
क्षमया क्रोध इव जितः सिंहो मृग्याभिभूयते येषु।
दत्ताभयखगमृगशावकेषु तेष्वाश्रमेष्वथवा ।।१३।।
अथवा जहाँ पर शान्ति से क्रोध की तरह हरिणियों से सिंह जीत लिया गया हो अर्थात्
हरिणी और सिंह साथ-साथ रहते हों तथा अभयदान पाकर पक्षी और मृग के बच्चे
निर्भय घूमते हैं, ऐसे मुनियों के आश्रम में पुष्यस्नान करना चाहिये।। १३ ।।
अथवा आश्रमेषु मुनिनिवासेषु कुर्यात्। कीदृशेषु? येषु सिंहो हरिः, मृग्या एण्या
अभिभूयते कृतपरिभवः सम्पाद्यते। कथम्? क्षमया क्रोध इव जितः। यथा क्षमया क्षान्त्या
क्रोधः कोपो जितः। तथा खगानां पक्षिणां मृगाणामेणानां च सम्बन्धिनो ये शावकाः पोत-
कास्तेषु अभया दत्तो येषु। येषु गतेषु हिंसां न कश्चित् करोतीत्यर्थः ।।१३।।
अन्यत्कीदृशेषु कुर्यादित्याह—
काञ्चीकलापनूपुरगुरुजघनोद्वहनविघ्नितपदाभिः ।
श्रीमति मृगेक्षणाभिर्गृहेऽन्यभृतवल्गुवचनाभिः ॥१४॥
अथवा करधनी, पायजेब और भारी जंघाओं के भार से मन्द गति वाली तथा कोयल
की तरह मधुर बोलने वाली मृगनयना स्त्रियों से शोभित गृह में पुष्यस्नान करना चाहिये।
अथवा गृहे वेश्मनि कुर्यात्। कीदृशे? श्रीमति। श्रीर्विद्यते यस्मिन्। तथा एवंविधाभिः
स्त्रीभिर्युक्ते? किम्भूताभिः? काञ्चीकलापनूपुरगुरुजघनोद्वहनविघ्नितपदाभिः, काञ्ची मेखला
तस्या यः कलापो विस्तारस्तस्योद्वहनेन विघ्नितौ मन्दगामिनौ पादौ चरणौ यासां ताभिः।
मृगेक्षणाभिः, हरिणसदृशनेत्राभिः। अन्यभृतवल्गुवचनाभिः, अन्यभृतः कोकिलस्तद्वद्वल्गु
रम्यं मधुरं वचनं यासां ताभिर्युक्ते ।।१४।।
अन्यत्कीदृशेषु स्थानेषु कुर्यादित्याह—
पुण्येष्वायतनेषु च तीर्थेषूद्यानरम्यदेशेषु।
पूर्वोदक्प्लवभूमौ प्रदक्षिणाम्भोवहायां च ।।१५।।
अथवा पवित्र देवस्थान, तीर्थ, जलाशय, उपवन, सुन्दर देश, पूर्व या उत्तर तरफ
नीची भूमि पर प्रदक्षिण क्रम से जहाँ जल बहता हो, ऐसे स्थान में पुष्यस्नान कराना
चाहिये ।। १५ ।।
पुण्येषु पवित्रेष्वायतनेषु च देवस्थानेषु च कुर्यात्। पुण्येषु तीर्थेषु सलिलाशयेषु।
उद्यानेषूपवनेषु। रम्येषु रमणीयेषु देशेषु स्थानेषु। तथा पूर्वोदक्प्लवभूमौ, पूर्वस्यां दिश्युत-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA