बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 601, कुल 728 में से
संदर्भ में पढ़ेंपुष्यस्नानाध्यायः ५५९
अथ पुष्यस्नानविधिमाह—
पुष्यस्नानं नृपतेः कर्तव्यं दैववित्पुरोधाभ्याम्।
नातः परं पवित्रं सर्वोत्पातान्तकरमस्ति॥३॥
ज्योतिषी और पुरोहित के द्वारा राजा को पुष्य स्नान कराना चाहिये। इससे अधिक
पवित्र और सभी उत्पातों को नाश करने वाला दूसरा कोई उपाय नहीं है॥३॥
नृपते राज्ञः पुष्यस्नानं पुष्येण नक्षत्रेण स्नपनम्। दैववित्पुरोधाभ्याम्। दैववित्सांवत्सरः,
पुरोधा आचार्यः, एताभ्यां कर्तव्यम्। अतोऽस्मात् पुष्यस्नानात् परं प्रकृष्टं परमं पवित्रं
पावनं तथा सर्वेषां निःशेषाणामुत्पातानामुपसर्गाणामन्तकरं नाशकरमन्यदपरं नास्ति न
विद्यते॥३॥
कस्मिन् स्थाने पुष्यस्नानं नृपतिः कुर्यादित्याह—
श्लेष्मातकाक्षकण्टकिकटुतिक्तविगन्धिपादपविहीने ।
कौशिकगृध्रप्रभृतिभिरनिष्टविहगैः परित्यक्ते ॥४॥
तरुणतरुगुल्मवल्लीलताप्रतानान्विते वनोद्देशे ।
निरुपहतपत्रपल्लवमनोज्ञमधुरद्रुमप्राये ॥५॥
श्लेष्मातक (लसौड़ा), अक्ष (बहेड़ा), कण्टक (खैर आदि), कटु, तिक्त (निम्बू
आदि) और दुर्गन्धियुत वृक्षों से रहित, उल्लू, गिद्ध आदि अशुभकारक पक्षियों से रहित,
नूतन वृक्ष, गुल्मलताओं के समुदाय से युत, पत्र, पल्लव, सुन्दर, मधुर (स्वादुयुत)
वृक्षों के समूह से युत वन के समीप में राजा को पुष्य स्नान करना चाहिये।।४-५।।
एवंविधे वनोद्देशे वनभूमौ पुष्यस्नानं कुर्यात्। कीदृशे? श्लेष्मातकेति। श्लेष्मातको
वृक्षविशेषः। अक्षो विभीतकः। कण्टकिनः सकण्टका वृक्षाः खदिरप्रभृतयः कटुस्तीक्ष्णो
निम्बो वा। तिक्तास्तिक्तस्वादा निम्बाद्याः। विगन्धिनो विगतगन्धा दुर्गन्धा ये पादपा वृक्षा-
स्तैर्विहीने वर्जिते। तथा कौशिका उलूकाः। गृध्रप्रभृतयो गृध्राद्याः काकाद्याः काककङ्क-
प्लवश्येनकपोताः। अनिष्टा अप्रशस्ता ये विहगाः पक्षिणस्तैः परित्यक्ते वर्जिते।
तरुणैरभिनवैस्तरुभिर्वृक्षैः। गुल्मैरेकमूलजैः शाखासमूहैः सूक्ष्मैः। वल्लीभिः प्रसिद्धाभिः।
लताप्रतानो लतानां समूहो विस्तारस्तेनान्वितः संयुक्तो योऽसौ वनोद्देशस्तस्मिन्। तथा
निरुपहतानि निरुपसृष्टानि पत्राणि पर्णानि पल्लवा अभिनवा अङ्कुरा येषां मनोज्ञानां चित्ता-
ह्लादकानां मधुराणां स्वादूनां द्रुमाणां वृक्षाणां प्रायो बाहुल्यं यत्र तत्रेति॥४-५॥
अन्यत्कीदृश इत्याह—
कृकवाकुजीवजीवकशुकशिखिशतपत्रचाषहारीतैः ।
क्रकरचकोरकपिञ्जलवञ्जुलपारावतश्रीकैः ॥६॥
कुसुमरसपानमत्तद्विरेफपुंस्कोकिलादिभिश्चान्यैः ।
विरुते वनोपकण्ठे क्षेत्रागारे शुचावथवा ॥७॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA