सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

५३० बृहत्संहिता
( क्षीरघृतक्षौद्राणां दध्नो रुधिरोष्णवारिणां वर्षे ।
देशविनाशो ज्ञेयोऽसृग्वर्षे चापि नृपयुद्धम् ॥१
दूध, घी, शहद, रुधिर अथवा गर्म जल की वृष्टि होने पर देश का नाश एवं रक्त
की वृष्टि होने पर राजाओं में परस्पर युद्ध होता है।। )
अन्यान्प्याह—
यद्यमलेऽर्के छाया न दृश्यते प्रतीपा वा।
देशस्य तदा सुमहद्भयमायातं विनिर्दिश्यम् ॥४३॥
निर्मल सूर्यकिरण होने पर भी यदि वृक्ष आदि द्रव्यों की छाया नहीं दिखाई दे या
उल्टी दिखाई दे तो देश में अति भय उत्पन्न होता है।।४३।।
अमले निर्मले अर्के सूर्ये सति यदि वृक्षादीनां छाया प्रतिबिम्बं न दृश्यते, अथवा
प्रतीपा विपर्ययस्था दृश्यते सूर्याभिमुखी, तदा देशस्य जनस्य सुमहदतिप्रभूतं भयमायातं
प्राप्तं विनिर्दिश्यं वक्तव्यमिति ॥४३॥
अन्यदप्याह—
व्यभ्रे नभसीन्द्रधनुर्दिवा यदा दृश्यतेऽथवा रात्रौ ।
प्राच्यामपरस्यां वा तदा भवेत्क्षुद्भयं सुमहत् ॥४४॥
मेघरहित आकाश में दिन या रात्रि में इन्द्रधनुष पूर्व या पश्चिम दिशा में दिखाई दे
तो अत्यन्त दुर्भिक्ष होता है।।४४।।
व्यभ्रे विगताभ्रे नभस्याकाश इन्द्रधनुरिन्द्रचापं तच्च दिवा दिवसे यदि दृश्यते,
अथवा रात्रौ निशि दृश्यते। प्राच्यां पूर्वस्यां दिशि। अपरस्यां पश्चिमायां वा। तदा सुमह-
दतिप्रभूतं क्षुद्भयं दुर्भिक्षं भवति।।४४।।
अथैतेषामुत्पातानां शान्तिमाह—
सूर्येन्दुपर्जन्यसमीरणानां यागः स्मृतो वृष्टिविकारकाले ।
धान्यान्नगोकाञ्चनदक्षिणाश्च देयास्ततः शान्तिमुपैति पापम् ॥४५॥
सूर्य, चन्द्रमा, मेघ और वायु के विकार-जन्य उत्पात के समय यज्ञ करना चाहिये
तथा शाली धान्य, भोज्यान्न, गाय और सुवर्ण की दक्षिणा ब्राह्मणों को देनी चाहिये। ऐसा
करने से पाप की शान्ति होती है।।४६।।
सूर्य आदित्यः। इन्दुश्चन्द्रः। पर्जन्यो मेघः। समीरणो वायुः। एषां वृष्टिविकारकाले वर्षण-
विकृतिसमये यागः स्मृत उक्तः। तथा धान्यानि शालयः। अन्नं भोज्यम्। गावो धेनवः। काञ्चनं
सुवर्णम्। एता दक्षिणा ब्राह्मणेभ्यो देयाः। ततोऽनन्तरं पापमनिष्टं शान्तिमुपैति गच्छति।।४५।।
इति वृष्टिवैकृतम्
१. श्लोकोऽयं बृहत्संहिताया अन्यसंस्करणे नोपलभ्यते।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उत्पाताध्यायः ५३१
अथान्यानुत्पातानाह—
अपसर्पणं नदीनां नगरादचिरेण शून्यतां कुरुते।
शोषश्चाशोष्याणामन्येषां वा हृदादीनाम् ॥४६॥
स्नेहासृङ्मांसवहाः सङ्कुलकलुषाः प्रतीपगाश्चापि।
परचक्रस्यागमनं नद्यः कथयन्ति षण्मासात् ॥४७॥
यदि नगर के मध्य या पास में बहती हुई नदियाँ दूर चली जायँ या नहीं सूखने
वाले हृद आदि सूख जायँ तो शीघ्र ही नगर प्राणियों से शून्य हो जाता है। यदि नदियों
में तेल, रुधिर या मांस बहने लगें या जल स्वल्प और मलिन हो जाय तो छः मास बाद
परचक्र का आगमन होता है॥४६-४७॥
नदीनां सरितां नगरात् पुरादपसर्पणं गमनं दूरतोऽचिरेण शीघ्रमेव नगरस्य शून्य-
तामुत्सादनं कुरुते। तथा अशोष्याणां बहुलजलानां स्थानानां शोषो जलाभावः। अन्येषां
वा हृदादीनाम्। हृदो यत्र पातालादुदकमागच्छति स्वयमेव। आदिग्रहणात् स्रोतसामपि
शोषः शून्यतामेव कुरुते।
स्नेहासृगिति। नद्यः सरितः। स्नेहासृङ्मांसवहाः, स्नेहं तैलादि। असृग्रक्तम्, मांसामा-
मिषम्, यदा वहन्ति; तथा सङ्कुलाः स्वल्पाः। कलुषा अनिर्मलाः। प्रतीपगा यत आगता-
स्तत्रैव यान्ति। एवंविधा नद्यः षण्मासात्षड्भिर्मासैः परतः परचक्रस्यागमनं कथयन्ति
प्रवदन्ति॥४६-४७॥
अन्यदप्याह—
ज्वालाधूमक्वाथारुदितोत्कृष्टानि चैव कूपानाम्।
गीतप्रजल्पितानि च जनमरकायोपदिष्टानि ॥४८॥
कूप में अग्नि की ज्वाला, धूआँ, जल का खौलना, रोने का शब्द, गीत या और
किसी प्रकार के शब्द लोगों की मृत्यु के सूचक होते हैं॥४८॥
कूपानां ज्वाला प्रज्वलनम्, धूमः, क्वाथः फेनः, आरुदितम्, उत्कृष्टमुद्घोषितम्,
एतानि यदि भवन्ति; तथा गीतम्, प्रजल्पितं व्याहरणमेतानि सर्वाणि जनानां लोकानां
मरकाय मृत्यवे उपदिष्टान्युक्तानि॥४८॥
अन्यदप्याह—
सलिलोत्पत्तिरखाते गन्धरसविपर्यये च तोयानाम्।
सलिलाशयविकृतौ वा महद्भयं तत्र शान्तिमिमाम् ॥४९॥
विना खोदी हुई जमीन में जल निकलना, जल के गन्ध और रसों में विपर्यय होना
तथा जलाशयों में विकार उत्पन्न होना अग्निभय करने वाला होता है। इसकी शान्ति का
प्रकार आगे कहते हैं॥४९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५३२ बृहत्संहिता
अखाते प्रदेशे सलिलस्य जलस्योत्पत्तिः सम्भवः । तोयानां जलानां गन्धरसविपर्यये ।
गन्धस्य सौगन्ध्यस्य रसस्य स्वादुताया विपर्यये अन्यत्वे । सलिलाशायानामुदकाधाराणां विकृतौ
विकारे स्वरूपान्यत्वे महदतीव भयं भवति। तत्र चेमां वक्ष्यमाणां शान्तिमाह।।४९।।
तां चाह—
सलिलविकारे कुर्यात् पूजां वरुणस्य वारुणैर्मन्त्रैः ।
तैरेव च जपहोमं शममेवं पापमुपयाति ॥५०॥
जल में विकार होने पर वरुण के मन्त्रों से पूजा, जप और हवन करना चाहिये।
ऐसा करने से भावी अशुभ फल का निवारण हो जाता है॥५०॥
सलिलविकारे जलविकृतौ वरुणस्यापाम्पतेर्वारुणैर्मन्त्रैः पूजामर्चां कुर्यात्, तैरेव
वारुणैर्मन्त्रैर्जपं होमं चाग्नौ कुर्यात्। एवमनेन प्रकारेण पापमनिष्टं शमं शान्तिमुपयाति
प्राप्नोति॥५०॥
इति जलवैकृतम्
•
अथान्यानुत्पातानाह—
प्रसवविकारे स्त्रीणां द्वित्रिचतुष्प्रभृतिसम्प्रसूतौ वा।
हीनातिरिक्तकाले च देशकुलसंक्षयो भवति ॥५१॥
स्त्रियों को किसी प्रकार का प्रसवविकार ( घोड़ा, हाथी, बैल, सर्प आदि जन्तु की
तरह जातक ) होने पर अथवा एक साथ दो, तीन, चार आदि बच्चे होने पर अथवा
प्रसवकाल ( 'तत्कालमिन्दुसहितो द्विरसांशको य' इत्यादि से निर्णीत काल ) से पहले
या बाद में प्रसव होने पर देश और कुल का नाश होता है॥५१॥
स्त्रीणां योषितां प्रसवविकारे प्रसूतिविकृतौ। प्रसवविकारः श्वाद्यङ्गसादृश्यम्। अथवा
द्वित्रिचतुष्प्रभृतिसम्प्रसूतौ। द्वित्रिचतुष्पञ्चषट्सप्ताष्टनवदश वा जायन्ते। हीनातिरिक्तकाले,
हीने अपरिपूर्णे। अतिरिक्ते चाधिके प्रसवे देशसङ्क्षयो देशविनाशः। कुलसंक्षयो वंशवि-
च्छेदश्च भवति॥५१॥
वडवोष्ट्रमहिषगोहस्तिनीषु यमलोद्भवे रणमरणमेषाम्।
षण्मासात् सूतिफलं शान्तौ श्लोकौ च गर्गोक्तौ ॥५२॥
घोड़ी, ऊँटनी, भैंस, गाय और हथिनी को एक साथ दो बच्चे हों तो उन ( घोड़ा
आदि ) का नाश होता है। छः मास बाद प्रसवविकार का फल प्राप्त होता है। इसकी
शान्ति संस्कृत व्याख्या में पठित दो श्लोकों द्वारा करानी चाहिये॥५२॥
वडवा अश्वतरी। उष्ट्रा करभी। महिषी। गौः। हस्तिनी करिणी। एतासु यमलोद्भवे
द्वाभ्यां जनने एषामेवाश्वादीनां मरणं भवति। तथा च गर्गः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उत्पाताध्यायः ५३३
अकाले प्रसवे चैव कालातीतेऽथवा पुनः।
असङ्ख्याजनने चैव युग्मस्य प्रसवे तथा।।
अमानुषाणि काण्डानि सञ्जातव्यञ्जनानि वा।
अनङ्गा ह्यधिकाङ्गा वा हीनाङ्गाः सम्भवन्ति वा।।
विमुखाः पक्षिसदृशास्तथार्थपुरुषाश्च वा।
विनाशं तस्य देशस्य कुलस्य च विनिर्दिशेत्।।
अप्राप्तवयसे गर्भे द्वौ चतुष्पात् त्रयोऽपि वा।
अत्युच्चा विनताश्चापि प्रजायन्तेऽनयो भवेत्।।
वडवा हस्तिनी गौर्वा यदि युग्मं प्रसूयते।
विजन्यं विकृतं वापि षड्भिर्मासैर्नृपक्षयः।। इति।
षण्मासादिति । सूतिफलं प्रसूतिफलं षण्मासात् परतो भवति। अत्र शान्तौ गर्गोक्तौ
गर्गमहर्षिकथितौ श्लोकौ द्वाविमौ वक्ष्यमाणौ।।५२।।
एतौ चाह—
नार्यः परस्य विषये त्यक्तव्यास्ता हितार्थिना ।
तर्पयेच्च द्विजान् कामैः शान्तिं चैवात्र कारयेत् ।।५३।।
चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु ।
नगरं स्वामिनं यूथमन्यथा तु विनाशयेत् ।।५४।।
अपना हित चाहने वाले मनुष्य को विकारयुत स्त्रियों को अन्य देश में ले जाकर
परित्याग कर देना चाहिये; साथ ही इच्छानुसार ब्राह्मणों को प्रसन्न कर इस उत्पात की
शान्ति करनी चाहिये। इसी प्रकार विकारयुत चतुष्पदों को भी समूह से अलग कर अन्य
स्थान पर ले जाकर त्याग देना चाहिये; अन्यथा वे विकारयुक्त चतुष्पद सम्बद्ध नगर,
नगर के स्वामी और समूह का नाश कर देते हैं।।५३-५४।।
ता नार्यो योषितः सञ्जातविकारा हितार्थिना हितमिच्छता परस्यान्यस्य विषये देशे
त्यक्तव्याः। द्विजान् ब्राह्मणान् कामैरिच्छाभिस्तर्पयेत् पूजयेत्, तथाऽत्रास्मिन्नुत्पाते शान्तिं
च कारयेत्।
चतुष्पदा वडवादयः स्वयूथेभ्य आत्मीयवृन्देभ्यः परभूमिष्वन्यदेशेषु त्यक्तव्याः।
एवं कृते श्रेयो भवति। अन्यथाऽपरित्यागान्नगं पुरं स्वामिनमधिपतिं यूथं तु विनाशयेत्
क्षयं नयति।।५३-५४।।
इति प्रसववैकृतम्
अथान्यानुत्पातानाह—
परयोनावभिगमनं भवति तिरश्चामसाधु धेनूनाम्।
उक्षाणो वान्योन्यं पिबति श्वा वा सुरभिपुत्रम्।।५५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५३४ बृहत्संहिता
मासत्रयेण विन्द्यात्तस्मिन्निःसंशयं परागमनम्।
तत्प्रतिघातायैतौ श्लोकौ गर्गेण निर्दिष्टौ ॥५६॥
एक जाति के पशु दूसरी जाति के पशु के साथ मैथुन करें, गाय या बैल परस्पर एक-
दूसरे का स्तनपान करें तो तीन मास बाद निःसंशय परचक्र का आगमन होता है। इसके
निवारण के लिये संस्कृत टीका में पठित गर्गोक्त दो श्लोक द्रष्टव्य हैं॥५५-५६॥
तिरश्चां तिर्यग्जातीनां चतुष्पदप्रायाणां परयोनावन्ययोनावभिगमनं यदि भवति, तदा-
ऽसाधु अशोभनम्। तथा धेनूनां गवामन्योन्यं परस्परं स्तनपाने सति, तथोक्षाणो वृषभा वा
अन्योन्यं स्तनं पिबन्ति वत्सांश्च वर्जयित्वा, अथवा सुरभिपुत्रं गोस्तनं श्वा सारमेयः पिबति।
तस्मिन्नुत्पाते मासत्रयेण परागमनं निःसंशयमसन्देहं विन्द्याज्जानीयात्। तथा च गर्गः—
वियोनिषु यदा यान्ति मिश्रीभावः प्रजायते।
खरोष्ट्रहयमातङ्गा मनुष्या वा न साधु तत्॥
अकालसक्ता दृश्यन्ते काले च विमदा यदि।
मातङ्गोष्ट्रहयश्वानः पक्षिणो वा न साधु तत्॥
धेनुं धेनुः पिबेद्यत्रानुड्वां - ह्यनुडुत्तथा।
श्वा वा पिबेद्धेनुमथ धेनुः श्वानमथापि वा।।
प्राप्तेषु त्रिषु मासेषु परचक्रागमं वदेत्।। इति।
एतेषामुत्पातानां प्रतिघाताय विनाशाय श्लोकौ द्वावेतौ गर्गेण निर्दिष्टौ कथितौ।।
तावेवाह—
त्यागो विवासनं दानं तत्तस्याशु शुभं भवेत्।
तर्पयेद् ब्राह्मणांश्चात्र जपहोमांश्च कारयेत् ॥५७॥
स्थालीपाकेन धातारं पशुना च पुरोहितः।
प्राजापत्येन मन्त्रेण यजेद्बह्वन्नदक्षिणम् ॥५८॥
विकारयुत पशुओं को छोड़ देने से या दूसरी जगह कर देने से शीघ्र ही चतुष्पदजन्य
उत्पातों की शान्ति हो जाती है। इस उत्पात में ब्राह्मणों को सन्तुष्ट, जप और हवन करना
चाहिये तथा चरु, पशु एवं प्राजापत्य मन्त्रों से ब्रह्मा का यज्ञ सम्पन्न कर प्रभूत अन्न की
दक्षिणा देनी चाहिये।।५७-५८।।
त्यागस्त्यजनम्। विवासनमन्यत्र स्थानम्। दानमन्यस्य ब्राह्मणादेः प्रतिपादनं यत्तस्य
चतुष्पदस्याशु क्षिप्रमेव शुभं भवेत् स्यात्। अत्रास्मिन्नुपसर्गे ब्राह्मणान् द्विजांस्तर्पयेत्
पूजयेत्। जपं मन्त्राणामद्भुतं होमानग्नौ च कारयेत्।
पुरोहितः स्थालीपाकेन चरुणा पशुना च छागादिना धातारं प्रजापतिं प्राजापत्येन
मन्त्रेण बह्वन्नं प्रभूतान्नं बहुदक्षिणं च यजेत्।।५७-५८।।
इति चतुष्पदवैकृतम्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उत्पाताध्यायः ५३५
अथान्यानप्युत्पातानाह—
यानं वाहवियुक्तं यदि गच्छेन्न व्रजेच्च वाहयुतम् ।
राष्ट्रभयं भवति तदा चक्राणां सादभङ्गे च ॥५९॥
यदि अश्व आदि वाहन, वाह ( सवार ) से अलग होकर भागे, सवार के साथ नहीं
चले और रथ का पहिया जमीन में गढ़ जाय या टूट जाय तो राष्ट्र को भय होता है ॥५९॥
यानमश्वादिकं वाहेन पुरुषेण वियुक्तं यदि गच्छेद् व्रजेत् । वाहेन युतं न व्रजेत् । तदा
राष्ट्रस्य भयं भवति। तथा चक्राणां रथचक्राणां सादे मज्जने भङ्गे च स्फोटने राष्ट्रभयमेव
भवति ॥५९॥
अन्यानप्याह—
गीतरवतूर्यशब्दा नभसि यदा वा चरस्थिरान्यत्वम् ।
मृत्युस्तदा गदा वा विस्वरतूर्ये पराभवः ॥६०॥
यदि आकाश में गीत या तुरही का शब्द सुनाई पड़े या स्थिर पदार्थ चर और चर
पदार्थ स्थिर दिखाई दे तो मरण और रोग होता है। अथवा तुरही बजने से विकारयुत
शब्द हो तो शत्रुओं से पराजय होती है ॥६०॥
नभस्याकाशे गीतरवा गीतशब्दास्तूर्यशब्दा वा श्रूयन्ते । अथवा चरस्थिरान्यत्वम्,
अस्थिरस्य शकटादेः स्थिरता, स्थिरस्य वृक्षादेश्चरत्वम्, तदा मृत्युर्मरणम्, गदा रोगा
भवन्ति । तथा विस्वरतूर्ये तूर्याणामाहतानां यद्यन्यादृशः सविकारः शब्द उत्पद्यते तदा
पराभवो भवति, परैः शत्रुर्भिरभिभवः पराजयः ॥६०॥
अन्यानप्याह—
अनभिहततूर्यनादः शब्दो वा ताडितेषु यदि न स्यात् ।
व्युत्पत्तौ वा तेषां परागमो नृपतिमरणं वा ॥६१॥
यदि विना बजाये तुरही से शब्द हो और बजाने पर शब्द न निकले या अनेक
प्रकार के शब्द निकलें तो शत्रु सेनाओं का आगमन और राजा का मरण होता है ॥६१॥
अनभिहतानामताडितानां तूर्याणां नादः शब्दो यदि वा ताडितेष्वाहतेषु शब्दो रवो
न स्यान्न भवेत् । तथा तूर्याणां व्युत्पत्तौ वा । विविधा उत्पत्तिर्व्युत्पत्तिर्नानाशब्दकृत्। परागमः
परचक्रस्यागमो भवति नृपते राज्ञो मरणं वा ॥६१॥
अन्यदप्याह—
गोलाङ्गलयोः सङ्गे दर्वीशूर्पाद्युपस्करविकारे ।
क्रोष्टुकनादे च तथा शस्त्रभयं मुनिवचश्चेदम् ॥६२॥
बैल और हल का अचानक संयोग हो जाने, दर्वी ( चमचा = करौछ ), शूर्प
( सूप = छाज ) आदि गृह-सामग्री में विकार उत्पन्न होने और शृगाल ( गीदड़ ) के
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

५३६ बृहत्संहिता
विकारयुत शब्द होने से भय होता है, यह मुनि का वचन है।।६२।।
लाङ्गलं हलम्। गोलाङ्गल्योः सङ्गः परस्परं श्लेषः। गौर्यत्र हललग्ना दृश्यते इति
तस्मिंस्तथा दर्वीशूर्पाद्युपस्करविकारे, दर्वी प्रसिद्धा, शूर्पमपि प्रसिद्धमेव। दर्वीशूर्पविकारे।
उपस्करभाण्डानां विकारे वैकृते। आदिग्रहणाम्मुशले उलूखलादि गृह्यते। एषां विकारे स्वरूपा-
न्यत्वे। हसने गायने रोदने वा। क्रोष्टुकः शृगालस्तत्सदृशे तेषांमेव नादे शब्दे शस्त्रभयं
भवति। इदं वक्ष्यमाणमत्रास्मिन्नुत्पाते शान्त्यर्थं मुनिवचः ऋषिवाक्यमिति।।६२।।
तच्चाह—
वायव्येष्वेषु नृपतिर्वायुं शक्तुभिरर्चयेत्।
आवायोरिति पञ्चर्चो जप्तव्याः प्रयतैर्द्विजैः ॥६३॥
ब्राह्मणान् परमान्नेन दक्षिणाभिश्च तर्पयेत्।
बह्वन्नदक्षिणा होमाः कर्तव्याश्च प्रयत्नतः ॥६४॥
इन पूर्वोक्त वायव्य विकारों में सत्तू (सतुआ) से वायु देवता की पूजा करे। नियमयुत
होकर ब्राह्मण 'आवायोः' इत्यादि पाँच ऋचाओं का जप करे। पायस से ब्राह्मणों को
तृप्त करे और प्रयत्नपूर्वक बहुत अन्न की दक्षिणा देकर हवन करे।।६३-६४।।
एषु वायव्येषूत्पातेषु नृपती राजा वायुमनिलं शक्तुभिरर्चयेत् पूजयेत्, तथा प्रयतैः
संयतैर्द्विजैर्ब्राह्मणैरावायोरित्यादिकाः पञ्चर्चो जप्तव्या इति। पञ्च ऋचो जप्तव्यो इति।
परमान्नेन पायसेन दक्षिणाभिश्च ब्राह्मणांस्तर्पयेत् तथा होमा बह्वन्नदक्षिणाः प्रभूतभोज्याः
प्रभूतदक्षिणाः प्रयत्नतश्च कर्तव्या इति।।६३-६४।।
इति वायव्यवैकृतम्
•
अथान्यानप्युत्पातानाह—
पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्ति पुरम्।
नक्तं वा दिसचराः क्षपाचरा वा चरन्त्यहनि ॥६५॥
सन्ध्याद्वयेऽपि मण्डलमाबध्नन्तो मृगा विहङ्गा वा।
दीप्तायां दिश्यथवा क्रोशन्तः संहता भयदाः ॥६६॥
यदि नगर में रहने वाले पक्षी वन में और वन में रहने वाले पक्षी निर्भय होकर नगर
में प्रवेश करें या दिन में चलने वाले पक्षी रात्रि में और रात्रि में चलने वाले पक्षी दिन
में चलें एवं सूर्य के उदय और अस्त समय में वन में रहने वाले पशु और पक्षी सूर्याभि-
मुख होकर मण्डल बाँधकर बैठें या सब इकट्ठे होकर अधिक शब्द करते हुये दिखाई दें
तो भय देने वाले होते हैं।।६५-६६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उत्पाताध्यायः ५३७
पुरपक्षिणो ग्राम्यविहगा यदि वनचरा भवन्ति। वनेऽरण्ये चरन्ति, तथा वन्याः पक्षिणो
निर्भया विगतभीतयो वा पुरं नगरं प्रविशन्ति। अथवा दिवसचराः पक्षिणः काकादयो
नक्तं रात्रौ चरन्ति। क्षपाचरा रात्रिचारिणः कौशिकादयोऽहनि दिवसे चरन्ति।
अन्यानप्याह—मृगा अरण्यप्राणिनः, विहङ्गा पक्षिणो वा सन्ध्याद्वयेऽपि सूर्योदयास्त-
समययोर्मण्डलं चक्राकारमाबध्नन्तो रचयन्तः अथवा संहताः समेता बहवोऽतीव क्रोशन्तो
वाच्यमाना दृश्यन्ते। दीप्तायां दिशि तत्कालं रवेर्वशेन या दीप्ता तस्याम्। तदा भयदा
इति। यस्यां रविस्तिष्ठति सा दीप्तेति तल्लक्षणम्।।६५-६६।।
अन्यानप्याह—
श्येनाः प्ररुदन्त इव द्वारे क्रोशन्ति जम्बुका दीप्ताः ।
प्रविशेन्नरेन्द्रभवने कपोतकः कौशिको यदि वा ॥६७॥
यदि श्येन ( बाज ) अधिक रोते हुये की तरह दिखाई दे, सूर्य की तरफ मुख करके
शृगाल ( गीदड़ ) पुरद्वार पर शब्द करे तथा राजभवन में कबूतर या उल्लू प्रवेश करे तो
भय देने वाला होता है। कहीं-कहीं पर 'श्यानः' की जगह 'श्वानः' पाठ मिलता है।।६७।।
श्येनाः प्राचिकाः पक्षिणः प्रकर्षेण रुदन्तो रोदमाना इव भवन्ति तथा जम्बुकाः
शृगाला दीप्ताः सूर्याभिमुखाः क्रूरशब्दाश्च द्वारे पुरद्वारे क्रोशन्ति शब्दं कुर्वते, नरेन्द्रभवने
राजगृहे, कपोतकः पक्षी कौशिक उलूको यदि वा प्रविशेत्। तथा च गर्गः—
श्येनगृध्रबलाकाश्च वामना मुण्डचारिणः।
शब्दायन्त इवात्यर्थं प्रदीप्ताः सङ्घशो यदि।।
रुदन्ति विविधं यत्र तदेवाशु विनश्यति।
यद्यभीक्ष्णं कपोता वा प्रविशन्ति वसन्ति वा।।
राजवेश्मन्युलूका वा तच्छून्यमचिराद् भवेत्।। इति।।६७।।
अथान्यानुत्पातानाह—
कुक्कुटरुतं प्रदोषे हेमन्तादौ च कोकिलालापाः ।
प्रतिलोममण्डलचराः श्येनाद्याश्चाम्बरे भयदाः ॥६८॥
गृहचैत्यतोरणेषु द्वारेषु च पक्षिसङ्गसम्पातः ।
मधुवल्मीकाम्भोरुहसमुद्भवश्चापि नाशाय ॥६९॥
यदि प्रदोष समय में मुर्गा और हेमन्त ऋतु के आदि में कोयल बोलें तथा आकाश
में बाज आदि मांस भक्षण करने वाले पक्षी वृत्ताकार मार्ग में प्रदक्षिण क्रम से चलें तो
भय देने वाले होते हैं। घर, प्रधान वृक्ष, तोरण ( पुरद्वार ) या गृहद्वार पर पक्षियों के
समुदायों का गिरना तथा इन्हीं घर आदि पर मधु ( शहद ) का छत्ता, वल्मीक ( वमई )
और कमलों की उत्पत्ति नाश के लिये होती है।।६८-६९।।
प्रदोषे रात्रिमुखे कुक्कुटरुतं तथा हेमन्तादौ हेमन्तप्रमुखे कोकिलालापाः परभृतां
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५३८ बृहत्संहिता
शब्दाः। श्येनाद्याः सर्वपक्षिणो मांसाशिनः। आदिग्रहणात् काकबकप्लवकङ्का गृह्यन्ते। एते
अम्बरे आकाशे प्रतिलोममण्डलचराः, अप्रदक्षिणेन मण्डलेन चरन्तस्तथाभूता भयदा भयं
जनयन्ति।
गृहं वेश्म। चैत्यं प्रधानवृक्षः। तोरणं प्रसिद्धम्। एतेषु गृहचैत्यतोरणेषु द्वारेषु पक्षि-
सङ्घानां खगवृन्दानां सम्पातः श्लेषो यत्र, तथैतेष्वेव गृहादिषु मधुवल्मीकाम्भोरुहसमुद्भवः,
मधूनां माक्षिकानाम्, वल्मीकस्य च सरीसृपकृतमृत्स्तूपस्य। अम्भोरुहस्य पद्मादेः समुद्भव
उत्पत्तिश्चापि नाशाय भवति॥६८-६९॥
अन्यानप्याह—
श्वभिरस्थिशवावयवप्रवेशनं मन्दिरेषु मरकाय।
पशुशस्त्रव्याहारे नृपमृत्युर्मुनिवचश्चेदम् ॥७०॥
यदि कुत्ते हड्डी या शव के कोई अंग घर में ले आवें तो मरी पड़ती है तथा पशु या
शस्त्र मनुष्य की तरह बोलें तो राजा की मृत्यु होती है, ऐसा मुनियों का वचन है॥७०॥
श्वभिः सारमेयैर्मन्दिरेषु गृहेष्वस्थिशवावयवानां प्रवेशनम्। अस्थ्नः शवावयवस्य
मृतपुरुषाङ्गस्य प्रवेशनं मरकाय भवति। पशूनां च चतुष्पदानां शस्त्राणां च व्याहारे
पुंवत्सम्भाषणे नृपस्य राज्ञो मृत्युर्मरणं भवति। इदं च वक्ष्यमाणं शान्त्यर्थं मुनिवचः
ऋषिवाक्यम्॥७०॥
तच्चाह—
मृगपक्षिविकारेषु कुर्याद्धीमान् सदक्षिणान्।
देवाः कपोत इति च जप्तव्याः पञ्चभिर्द्विजैः ॥७१॥
सुदेवा इति चैकेन देया गावः सदक्षिणाः।
जपेच्छाकुनसूक्तं वा मनो वेदशिरांसि च ॥७२॥
मृग और पक्षियों में पूर्वोक्त विकार होने पर दक्षिणा के साथ हवन करे, पाँच
ब्राह्मणों के द्वारा ‘देवाः कपोत’ इत्यादि मन्त्र का तथा एक ब्राह्मण के द्वारा ‘सुदेवा’
इत्यादि मन्त्र का जप करावे, दक्षिणा के साथ गोदान करे और शाकुन सूक्त या
‘वेदशिरांसि’ इत्यादि मन्त्र का जप करे॥७१-७२॥
मृगाणां पक्षिणां विकारेषु वैकृतेषु सदक्षिणान् दक्षिणाभिः सहितान् होमान् कुर्यात्।
पञ्चभिर्द्विजैर्ब्राह्मणैर्देवाः कपोत इति जप्तव्याः।
सुदेवा एतत्पदं यस्य मन्त्रस्यादि स चैकेन द्विजेन जप्तव्यः। तेषां ब्राह्मणानां गावो
धेनवः सदक्षिणा देयाः। शाकुनसूक्तं च मन्त्रं जपेत्पठेत्। वा मनो मन्त्रम्। वेदशिरांस्यथर्वशिरः-
प्रभृतीनि जपेत्॥७१-७२॥
इति मृगपक्ष्यादिवैकृतम्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उल्का, परिवेष, दिशादाह, भूकम्प एवं उत्पातलक्षण (अध्याय २९-५०)

उत्पाताध्यायः ५३९
अथान्यानुत्पातानाह—
शक्रध्वजेन्द्रकीलस्तम्भद्वारप्रपातभङ्गेषु ।
तद्वत्कपाटतोरणकेतूनां नरपतेर्मरणम् ॥७३॥
इन्द्रध्वज, इन्द्रकील और स्तम्भद्वार के गिरने या टूटने से तथा कपाट, तोरण और
ध्वज के गिरने या टूटने से राजा का मरण होता है॥७३॥
शक्रध्वज इन्द्रध्वजः। इन्द्रकीलो द्वारार्गलः। स्तम्भद्वारे प्रसिद्धे। एषामन्यतमस्य
प्रपातः पतनं भङ्गः स्फोटनं वा तेषु दृष्टेषु। कपाटं द्वारापिधानम्। तोरणं प्रसिद्धम्। केतुर्ध्वजः।
एतेषामपि तद्वत्प्रपातो भङ्गो दृश्यते, तदा नरपते राज्ञो मरणं विनिर्दिशेद्वदेत्॥७३॥
अन्यानप्याह—
सन्ध्याद्वयस्य दीप्तिर्धूमोत्पत्तिश्च काननेऽनग्नौ ।
छिद्राभावे भूमेर्दारणं कम्पश्च भयकारी ॥७४॥
दोनों सन्ध्याओं में तेज का होना, वन या अग्निरहित स्थान में धूम की उत्पत्ति
होना, छिद्राभाव वाली भूमि का फट जाना या कम्पन होना भयकारी होता है॥७४॥
सन्ध्याद्वयस्य सूर्योदयास्तमयोर्दीप्तिस्तेजः। कानने वने चानग्नौ अग्निरहिते धूमो-
त्पत्तिर्धूमसम्भवः तथा छिद्राभावे व्रणं विना भूमेरवनेर्दारणं स्फोटनं कम्पश्चलनं च भयकारी
भयं करोति॥७४॥
पाखण्डानां नास्तिकानां च भक्तः साध्वाचारप्रोज्झितः क्रोधशीलः ।
ईर्ष्युः क्रूरो विग्रहासक्तचेता यस्मिन् राजा तस्य देशस्य नाशः ॥७५॥
जिस देश में पाखण्डी और नास्तिक मनुष्यों का भक्त, सज्जनों के आचरणों से
रहित, क्रोधी, परच्छिद्रान्वेषी, खल तथा सदा युद्ध की इच्छा रखने वाला राजा हो, उस
देश का नाश होता है॥७५॥
यस्मिन् देशे ईदृशो राजा नृपतिस्तस्य देशस्य नाशो भवति। कीदृशो राजा?
पाखण्डानां वेदबाह्यानां नास्तिकानां च लौकायतिकानं भक्तस्तत्परः, तथा साध्वाचार-
प्रोज्झितः, साधूनां सज्जनानां सम्बन्ध्याचारः प्रोज्झितस्त्यक्तो येन। क्रोधशीलः क्रोधपरः।
ईर्ष्युः परमत्सरः। क्रूरः खलः। विग्रहासक्तचेताः, विग्रहे सर्वकालमकालेऽपि आसक्तं
चेतो यस्य॥७५॥
अन्यानप्याह—
प्रहर हर छिन्धि भिन्धीत्यायुधकाष्ठाश्मपाणयो बालाः ।
निगदन्तः प्रहरन्ते तत्रापि भयं भवत्याशु ॥७६॥
जिस स्थान पर शस्त्र, काठ ( छड़ी आदि ) और पत्थर हाथ में लेकर 'मारो, छीन
लो, काटो, तोड़ डालो' इत्यादि कहते हुये बालक गण एक-दूसरे के ऊपर प्रहार करें;
वहाँ शीघ्र भय होता है॥७६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५४० बृहत्संहिता
बालाः शिशवः। आयुधकाष्ठाश्मपाणयः, आयुधानि खड्गादीनि कृत्रिमरूपाणि,
काष्ठानि लगुडानि, अश्मनः पाषाणाः, पाणिषु हस्तेषु येषां ते तथाभूताः, प्रहर हर छिन्धि
भिन्धि इति निगदन्तः प्रवदन्तः परस्परमन्योन्यं प्रहरन्ते घ्नन्ति यत्र तत्राप्याशु क्षिप्रमेव
भयं भवति। तथा च पराशरः—
यदि धनुरसिकाष्ठलोष्टहस्ताः पुरशिशवो रणवत्समाचरन्ति।
प्रहर हर जहीत्युदाहरन्ते भयमचिरात्तुमुलं निवेदयन्ति।। इति।।७६।।
अन्यानप्याह—
अङ्गारगैरिकाद्यैर्विकृतप्रेताभिलेखनं यस्मिन्।
नायकचित्रितमथवा क्षये क्षयं याति न चिरेण ।।७७।।
जिस घर की दीवाल पर कोयले, गेरू आदि ( पीले और नीले ) रङ्गों से विकृत मृत
पुरुषों के चित्र बनाये जायें या कोयले आदि से बनाये हुये गृहस्वामी के चित्र दिखाई दें
तो वह घर शीघ्र ही नष्ट हो जाता है।।७७।।
यस्मिन् क्षये गृहे अङ्गारगैरिकाद्यैर्विदग्धकाष्ठेन गैरिकेण वा। आदिग्रहणादन्यैः
पीतनीलै रङ्गैर्विकृतानां विरूपाणां प्रेतानां मृतपुरुषाणां चाभिलेखनमालेखनम्, अथवा
नायको गृहस्वामी अङ्गारगैरिकाद्यैश्चित्रित आलेखितोऽपि कृतो यत्र दृश्यते गृहे तद्गृहं
न चिरेण शीघ्रमेव क्षयं नाशं याति।।७७।।
अन्यानप्याह—
लूतापटाङ्गशबलं न सन्ध्ययोः पूजितं कलहयुक्तम्।
नित्योच्छिष्टस्त्रीकं च यद् गृहं तत्क्षयं याति ।।७८।।
जो घर मकरियों के जाल से व्याप्त हो, दोनों सन्ध्याओं में देवादि के पूजन से रहित
हो, प्रतिदिन कलहयुत हो और अपवित्र स्त्रियों से युत हो, उसका नाश हो जाता है।
लूताशब्देन जालकरा उच्यन्ते, तदीयैस्तन्तुभिर्ये पटा अङ्गान्यवयवाश्च तदीयान्येव,
तैर्गृहं शबलं व्यामिश्रितम् तथा सन्ध्योर्द्वयोः सूर्योदयास्तमयोर्यन्न पूजितं नार्चितम्,
तथा नित्यं कलहयुक्तं प्रतिदिनं यत्र कलहः क्रियते तथा यद्गृहं नित्योच्छिष्टस्त्रीकं नित्यं
सर्वकालमुच्छिष्टाः स्त्रियो यत्र तत्क्षयं नाशं याति।।७८।।
अन्यानप्याह—
दृष्टेषु यातुधानेषु निर्दिशेन्मरकमाशु सम्प्राप्तम्।
प्रतिघातायैतेषां गर्गः शान्तिं चकारेमाम् ।।७९।।
यदि प्रत्यक्ष में राक्षस दिखाई दे तो बहुत शीघ्र मरी पड़ती है। इन पूर्वोक्त उत्पातों
के नाश के लिये गर्ग मुनि ने आगे कथित प्रकार की तरह शान्ति कही है।।७९।।
यातुधानेषु यक्षेषु प्रत्यक्षमवलोकितेषु आशु क्षिप्रमेव मरकं सम्प्राप्तं निकटवर्तिनं
CC-0. JK Sanskrit Academy, Jammmau. Digitized by S3 Foundation USA

उत्पाताध्यायः ५४१
निर्दिशेद्गदेत्। एतेषामुत्पातानां प्रतिघाताय नाशायैमां वक्ष्यमाणां शान्तिं गर्गश्चकार कृतवान्।
तां चाह—
महाशान्त्योऽथ बलयो भोज्यानि सुमहन्ति च।
कारयेत महेन्द्रं च माहेन्द्रीं च समर्च्चयेत् ॥८०॥
पूर्वोक्त उत्पातों की अधिक शान्ति करनी चाहिये। बलि और अधिक भोज्य करना
चाहिये तथा इन्द्र और इन्द्राणी का अधिक पूजन करना चाहिये॥८०॥
महाशान्त्यो महत्योऽतिप्रभूताः शान्त्यः। अथ बलयमुपहाराः तथा सुमहन्त्यपि प्रभूतानि
भोज्यानि च कारयेत। महेन्द्रमिन्द्रं च कारयेत। माहेन्द्रीमिन्द्राणीं च समर्च्चयेत् पूजयेत्॥८०॥
इति शक्रध्वजेन्द्रकीलादिवैकृतम्
अथ यत्र कालेषूत्पाता दृष्टा विफला भवन्ति तानाह—
नरपतिदेशविनाशे केतोरुदयेऽथवा ग्रहेऽर्केन्द्वोः।
[

५४२ बृहत्संहिता
द्रुमेभ्योऽन्नरसस्नेहबहुपुष्पफलोद्गमः ।
गोपक्ष्ममदवृद्धिश्च शिवाय मधुमाधवे ॥८४॥
वज्र ( बिजली ), अशनि ( पत्थरों की वर्षा या उल्कापात ), भूकम्प, दीप्ता, सन्ध्या,
निर्घात, शब्द, सूर्य-चन्द्र का परिवेष, धूली, धूम, रक्त वर्ण के रवि का उदयास्त, वृक्षों से
भोजन, मधुरादि रस और तेल आदि की उत्पत्ति, गाय और पक्षियों में काम की वृद्धि—
ये सब उत्पात चैत्र और वैशाख मास में कल्याण के लिये होते हैं॥८३-८४॥
एत उत्पाता मधौ माधवे च वैशाखे मासि शिवाय श्रेयसे भवन्ति। के तानित्याह—
वज्राशनीत्यादि। वज्रं विद्युत्, अशनिरश्मवर्षणमुल्काभेदो वा। महीकम्पो भूकम्पः।
सन्ध्या प्रसिद्धा दीप्ता। यतस्तस्या लक्षणमुक्तम्। निर्घातनिःस्वना निर्घातशब्दाः अथवा
निर्घाताः केवलाः, निःस्वनाश्च शब्दा यथा तथोच्चरिताः। परिवेषः सूर्यचन्द्रमसोः। रजो
धूलिर्नभसि। धूमः काननेषु। तथा रक्तस्य लोहितवर्णस्यार्कस्य सूर्यस्यास्तमयोदयौ।
द्रुमेभ्यो वृक्षेभ्योऽन्नस्य भोजनस्य। रसानां मधुरादीनाम्। स्नेहस्य तैलादेः। बहूनां पुष्पाणां
फलानां चोद्गमः सम्भवः। गवां धेनूनां पक्षिणां च मदवृद्धिः कामानुसेवनम्॥८३-८४॥
अथ ग्रीष्मे आह—
तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् ।
अनग्निज्वलनस्फोटधूमरेण्वनिलाहतम् ॥८५॥
रक्तपद्मारुणा सन्ध्या नभः क्षुब्धार्णवोपमम् ।
सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥८६॥
सदा उल्कापात से मलिन आकाश, सूर्य-चन्द्र के पीले मण्डल, अग्नि के बिना
ज्वाला का शब्द, धूप, धूली और वायु से आहत रक्तकमल की तरह लोहित वर्ण की
सन्ध्या, तरङ्गयुक्त समुद्र की तरह आकाश, नदियों में जल का सूखना—ये सब उत्पात
ग्रीष्म ( ज्येष्ठ और आषाढ़ ) में शुभ होते हैं॥८५-८६॥
एतानुत्पातान् ग्रीष्मे ज्येष्ठाषाढयोर्दृष्ट्वा विलोक्य शुभं वदेत् ब्रूयात्। नभ आकाशं
तारापातेनोल्कापातेन च कलुषमनिर्मलमनवरतपतनात्, तथा कपिलवर्णे अर्केन्द्रोः सूर्या-
चन्द्रमसौर्मण्डले बिम्बे यत्र। अनग्निज्वलनं विनाऽग्निना ज्वलनं ज्वाला स्फोटस्तेनैव
शब्दः, अथवा नभसः स्फोटः शब्दः धूमः। रेणुर्धूलिः। अनिलो वायुः। एतैराहतमुप-
हतम्॥८५-८६॥
तथा सन्ध्या रक्तपद्मारुणा रक्तपद्मवदरुणा लोहिता। नभ आकाशं क्षुब्धार्णवोपमं
क्षुब्धसमुद्रसदृशम्। जलवीचिभिरिव व्याप्तम्। सरितां नदीनामम्बुसंशोषणं जलाभावः।
अथ वर्षास्वाह—
शक्रायुधपरीवेषविद्युच्छुष्कविरोहणम् ।
कम्पोद्वर्तनवैकृत्यं रसनं दरणं क्षितेः ॥८७॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

उत्पाताध्यायः ५४३
सरोनद्युदपानानां वृद्ध्यूर्ध्वतरणप्लवाः ।
सरणं चाद्रिगेहानां वर्षासु न भयावहम् ॥८९॥
इन्द्रधनुष, सूर्य-चन्द्र का परिवेष, बिजली और सूखे वृक्षों में अङ्कुर निकलना,
पृथिवी का काँपना, उलटना, स्वरूप बदलना, शब्द करना, फटना, सरोवरों का बढ़
जाना, नदियों का ऊपर आना, वापी, कूप, तालाब आदि में अधिक जल होना, पर्वत
और गृहों का चलायमान होना—ये सब उत्पात वर्षा ऋतु में शुभ हैं।।८७-८८।।
वर्षास्वेतन भयावहं न भयप्रदम्। शुभमित्यर्थः। शक्रायुधमिन्द्रचापम्। परिवेषः।
सूर्याचन्द्रमसोः। विद्युत्तडित्। शुष्कविरोहणं शुष्काणां तरूणां पुनर्वरोहणं सरसत्वम्।
क्षितेर्भूमेः कम्पश्चलनम्। उद्वर्त्तनं परिवर्त्तनम्। वैकृत्यं विकृतता विकारः स्वरूपान्यत्वम्।
क्षितेर्भूमे रसनं शब्दः श्लेषणं वा। दरणं निःसरणं स्फोटनमित्यर्थः।
सरोनद्युदपानानां यथाक्रमं वृद्ध्यूर्ध्वतरणप्लवाः, सरसां वृद्धिवर्द्धनम्। नदीनामूर्ध्व-
तरणमूर्ध्वगमनम्, उदपानानां वापीकूपतडागानां प्लवो जलप्लवः। अद्रीणां पर्वतानां गेहानां
गृहाणां सरणं लुण्ठनमिति।।८७-८८।।
अथ शरद्याह—
दिव्यस्त्रीभूतगन्धर्वविमानाद्भुतदर्शनम् ।
ग्रहनक्षत्रताराणां दर्शनं च दिवाऽम्बरे ॥८९॥
गीतवादित्रनिर्घोषा वनपर्वतसानुषु ।
सस्यवृद्धिरपां हानिरपापाः शरदि स्मृताः ॥९०॥
दिव्य स्त्री, गन्धर्व, रथ तथा आश्चर्य करने वाली वस्तुओं का दर्शन, दिन के समय
ग्रह-नक्षत्र आदि का दर्शन, वन तथा पर्वतों में गीत और वाद्यों की ध्वनि, धान्य की
वृद्धि और जल की हानि—ये सब शरद् ऋतु में अपाप ( शुभ ) हैं।।८९-९०।।
एत उत्पाताः शरदि शरत्काले अपापाः शुभफलदाः स्मृता उक्ताः। दिव्यस्त्रीणामप्सर
आदीनाम्। भूतानां गन्धर्वाणां देवयोनीनाम्। विमानानां रथानाम्। अद्भुतानामाश्चर्योत्पादकानां
च दर्शनम्। तथा अम्बरे आकाशे दिवा दिवसे ग्रहनक्षत्रताराणां दर्शनम्।
वनेष्वरण्येषु पर्वतसानुष्वद्रिसमभागेषु। गीतस्य वादित्राणां च निर्घोषाः शब्दाः श्रूयन्ते।
सस्यानां वृद्धिरभ्यधिकता। अपां जलानां च हानिरल्पत्वम्।।८९-९०।।
अथ हेमन्ते आह—
शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् ।
रक्षोयक्षादिसत्त्वानां दर्शनं वाग्मानुषी ॥९१॥
दिशो धूमान्धकाराश्च सनभोवनपर्वताः ।
उच्चैः सूर्योदयास्तौ च हेमन्ते शोभनाः स्मृताः ॥९२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५४४ बृहत्संहिता
वायु तथा तुषार ( बर्फ ) में ठण्डापन, मृग और पक्षियों का शब्द, राक्षस, यक्ष
आदि प्राणियों का दर्शन, मनुष्य के बिना वाणी, अन्धकारयुक्त आकाश, वन, पर्वत और
दिशा तथा उच्च में सूर्य का उदयास्त होना—ये सब हेमन्त में शुभ हैं।।९१-९२।।
एत उत्पाताः शोभना इष्टफला हेमन्ते स्मृता उक्ताः। शीतस्यानिलस्य वायोस्तुषारस्य
च भावः। मृगाणां पक्षिणां च नर्दनं शब्दः। रक्षसां यक्षाणां सत्त्वानां च प्राणिनामदृश्यानां
दर्शनम्। आदिग्रहणाद् भूतप्रेतपिशाचवेतालानां च दर्शनम्। अमानुषी मानुषेण विना वाक्।
दिश आशा धूमान्धकारा धूमेनान्धकारीकृताः। कीदृश्यो दिशः? सनभोवनपर्वताः,
सह नभसा आकाशेन वनैररण्यैः पर्वतैश्च सहिताः, तथा सूर्यस्यादित्यस्योदयास्तमया-
वुच्चैरुच्चतरौ स्थानात्।। ९१-९२।।
अथ शिशिरे आह—
हिमपातानिलोत्पाता विरूपाद्भुतदर्शनम् ।
कृष्णाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम् ।।९३।।
चित्रगर्भोद्भवः स्त्रीषु गोऽजाश्वमृगपक्षिषु ।
पत्राङ्कुरलतानां च विकाराः शिशिरे शुभाः ।।९४।।
हिमपात, वायुसम्बन्धी उत्पात, भयानक प्राणियों का आश्चर्य करने वाला दर्शन, काले
अञ्जन की तरह रात और उल्कापात से पीला आकाश, स्त्रियों के गर्भ से नाना प्रकार के
( घोड़ा आदि के अङ्गसदृश ) प्राणियों की उत्पत्ति, गाय, बकरी, घोड़ा, मृग और पक्षियों
के गर्भ से विजातीय प्राणियों की उत्पत्ति, पत्र-लता और अङ्कुरों में विकार—ये सब
शिशिर ऋतु में शुभ होते हैं।।९३-९४।।
एत उत्पाताः शिशिरे शुभा इष्टफलदाः। हिमस्य तुहिनस्य पातः पतनम्। अनिलोत्पाता
वायवस्पर्शाः। विरूपाणां भीषणीयानां सत्त्वानामद्भुतानामाश्चर्योत्पादकानां च दर्शनम्।
दिव्यपुरुषादीनाम्। आकाशं नभः कृष्णाञ्जनाभम्, कृष्णाञ्जनवदाभा कान्तिर्यस्य। तारा-
पातैरुल्कापातैः पिञ्जरं चित्रितम्।
स्त्रीषु योषित्सु चित्रा नानाप्रकाराः श्वाद्यङ्गसदृशाः गर्भोद्भवाः गर्भाणां सम्भवाः तथा गोषु,
अजेषु छागेषु, अश्वेषु तुरगेषु, मृगेषु, पक्षिषु च विचित्रगर्भोद्भवाः। गोऽजाश्वानां मृगपक्षिणां
प्रकृतेर्विपर्यासः। पत्राणां पर्णानामङ्कुराणां लतानां विकारा विकृतय इति।।९३-९४।।
अत्रैव विशेषमाह—
ऋतुस्वभावजा ह्येते दृष्टाः स्वर्तौ शुभप्रदाः ।
ऋतोरन्यत्र चोत्पाता दृष्टास्ते चातिदारुणाः ।।९५।।
ये ऋतु-स्वभावजनित उत्पात अपने ऋतु में शुभ फल देने वाले होते हैं; पर अन्य
ऋतु में दिखाई दें तो अति कष्ट देने वाले होते हैं।।९५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उत्पाताध्यायः ५४५
एते यथोक्ता उत्पाता ऋतुस्वभावेन जायन्ते उत्पद्यन्ते स्वर्तावात्मीयतौं दृष्टा अवलोकिताः
शुभप्रदा भवन्ति। ऋतोरन्यत्राऽस्मिन् काले दृष्टास्त उत्पाताश्चातिदारुणा अतिकष्टफला
भवन्ति।।९५।।
यद्यद्विशेषफलप्रदं भवति तत्तदाह—
उन्मत्तानां च या गाथाः शिशूनां यच्च भाषितम्।
स्त्रियो यच्च प्रभाषन्ते तस्य नास्ति व्यतिक्रमः ।।९६।।
पागलों की गाथा ( गीत आदि ), बालकों का वचन और स्त्रियों की वाणी का
उल्लंघन नहीं होता अर्थात् जो बोलते हैं, सब सत्य होते हैं।।९६।।
उन्मत्तानां विचित्राणां या गाथाः प्राकृतकाव्यम्। शिशूनां बालानां यच्च भाषितं
व्याहृतम्, यच्च स्त्रियो योषितः प्रभाषन्ते व्याहरन्ति। तस्य व्यतिक्रमोऽन्यथात्वं नास्ति
न विद्यते। सर्वथा तद्भवतीत्यर्थः। येन कारणेनैतत्सत्यरूपं भवति।।९६।।
तत्प्रदर्शनार्थमाह—
पूर्वं चरति देवेषु पश्चाच्चरति मानुषान्।
नाचोदिता वाग्वदति सत्या ह्येषा सरस्वती ।।९७।।
विना प्रेरणा के नहीं बोलने वाली यह सत्यरूप सरस्वती पहले देवताओं में
विचरण करती थी, बाद में मनुष्यों को प्राप्त हुई ।।९७।।
एषा भगवती सरस्वती सत्या सत्यरूपा अचोदिता अप्रेरिता न वदति न ब्रवीति।
यतः प्रथमं पूर्वं देवेषु चरति देवलोकं याति। देवप्रेरिता पश्चादनन्तरं मानुषान् गच्छति।।९७।।
अथोत्पातशास्त्रज्ञस्य प्रभावमाह—
उत्पातान् गणितविवर्जितोऽपि बुद्ध्वा
विख्यातो भवति नरेन्द्रवल्लभश्च।
एतन्मुनिवचनं रहस्यमुक्तं
यज्ज्ञात्वा भवति नरस्त्रिकालदर्शी ।।९८।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायामुत्पात-
लक्षणाध्यायः षट्चत्वारिंशः ।।४६।।
गणित को नहीं जानने वाले मनुष्य भी पूर्वोक्त उत्पातों को जान कर यशस्वी और
राजा के प्रिय होते हैं। यह मुनि का वचन गोपनीय कहा गया है, जिसको जान कर
मनुष्य त्रिकालदर्शी होता है।।९८।।
इति 'विमला'हिन्दीटीकायामुत्पाताध्यायः षट्चत्वारिंशः ।।४६।।
बृ० सं० प्र०-३५
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५४६ बृहत्संहिता
गणितषिवर्जितो ग्रहगणितरहितोऽप्युत्पातान् बुद्ध्वा ज्ञात्वा विख्यातः कीर्तियुक्तो
नरेन्द्रवल्लभो नृपप्रियश्च भवति। एतद्रहस्यं परमार्थं मुनिवचनमृषिवाक्यमुक्तं कथितम्।
यज्ज्ञात्वा बुद्ध्वा नरः पुरुषस्त्रिकालदर्शी त्रिकालं पश्यति। अतीतानागतवर्तमानकालज्ञो
भवतीत्यर्थः। ।९८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृता-
वुत्पाताध्यायः षट्चत्वारिंशः ॥४६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ मयूरचित्रकाध्यायः
अथ मयूरचित्रकं व्याख्यायते। तत्रादावेव तत्प्रदर्शनार्थमाह—
दिव्यान्तरिक्षाश्रयमुक्तमादौ मया फलं शास्तमशोभनं च ।
प्रायेण चारेषु समागमेषु युद्धेषु मार्गादिषु विस्तरेण ॥१॥
भूयो वराहमिहिरस्य न युक्तमेतत्
कर्तुं समासकृदसाविति तस्य दोषः।
तज्ज्ञैर्न वाच्यमिदमुक्तफलानुगीति
यद्वर्हिचित्रकमिति प्रथितं वराङ्गम् ॥२॥
स्वरूपमेव तस्य तत्प्रकीर्तितानुकीर्तनम् ।
ब्रवीम्यहं न चेदिदं तथाऽपि मेऽत्र वाच्यता ॥३॥
पहले चार ( चन्द्रग्रह समागम ), युद्ध, मार्ग ( शुक्रचार ) और आदि ( मण्डल )
में दिव्य तथा आन्तरिक्ष के आश्रयवश शुभाशुभ फल विस्तारपूर्वक मैंने ( वराहमिहिर
ने ) कहे हैं; फिर उसी फलप्रसङ्ग को लेकर यहाँ कहना संक्षेप करने वाले वराहमिहिर
के लिये ठीक नहीं है; क्योंकि विस्तार करना उनका दोष है। पर यहाँ पुनरुक्त दोष है,
ऐसा पण्डितों को नहीं कहना चाहिये। यतः यह बर्हिचित्रक नामक प्रकरण संहिता का
प्रसिद्ध अङ्ग है। पुनरुक्त फल होने से ही इस मयूरचित्रक का निश्चित स्वरूप ज्ञान होगा
अर्थात् पूर्व फल-कथन के अतिरिक्त पुनः यहाँ पर मयूरचित्रक का सम्बन्ध लेकर उसी
फल का वर्णन कर देना ही उसका स्वरूप है; अतः फिर नहीं कहने से भी मेरी निन्दा
होगी ॥१-३॥
मया आदौ प्रथमं दिव्यान्तरिक्षाश्रयं फलम्। ग्रहाश्च नक्षत्राण्याश्रयो यस्य तद्दिव्यम्।
उल्कानिर्घातपवनपरिवेषगन्धर्वनगरेन्द्रचापाद्याश्रयो यस्य तदान्तरिक्षम्। तच्च शस्तं शुभम-
शोभनं चाशस्तं प्रायेण बाहुल्येन चारेषु समागमेषु चन्द्रग्रहसंयोगेषु। युद्धेषु। मार्गादिषु मार्गेषु
शुक्रचारोक्तेषु। आदिग्रहणान्मण्डलेषु सर्वं विस्तरेणोक्तं कथितम्।
एतत्सर्वं पूर्वोक्तं भूयः पुनर्वराहमिहिरस्य वक्तुं न युक्तं नोपपन्नम्। यतोऽसौ वराहमिहिरः
समासकृदिति संक्षेपकृदिति तस्य वराहमिहिरस्य दोषो व्यासकृतः। पुनरुक्तं कर्तुं न युज्यते।
यस्माद्यतो बर्हिचित्रकं मयूरचित्रकं वराङ्गं संहितायाः प्रधानमङ्गं प्रथितं प्रसिद्धम्। अतोऽत्रोक्त-
फलानुगीति तज्ज्ञैर्न वाच्यम्। उक्तानां कथितानां फलानामनुगीति पुनः कीर्तनं पण्डितैर्न
वक्तव्यम्।
स्वरूपमेवेति । तस्य मयूरचित्रकस्य च तदेव स्वरूपं चरितं यत्प्रकीर्तितानामनुकीर्तनं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

८ बृहत्संहिता
पुनःकरणम्। अहं यदीदं मयूरचित्रकं न ब्रवीमि न वच्मि तथाऽप्यत्र मे वाच्यता भवति,
यथा किमिति वराहमिहिरेण नोक्तम्॥१-३॥
तदत्र ग्रहणचारोक्तफलमाह—
उत्तरवीथिगता द्युतिमन्तः क्षेमसुभिक्षशिवाय समस्ताः।
दक्षिणमार्गगता द्युतिहीनाः क्षुद्भयतस्करमृत्युकरास्ते ॥४॥
यदि प्रकाशयुत होकर ग्रह उत्तर वीथियों (नाग, गज और ऐरावतसंज्ञक वीथी)
में गमन करें तो क्षेम, सुभिक्ष और कल्याण के लिये होते हैं। यदि प्रकाशहीन होकर
दक्षिण मार्ग (मृग, अज और दहनसंज्ञक वीथी) में गमन करें तो दुर्भिक्ष, चोरभय और
मृत्यु को करते हैं॥४॥
उत्तरवीथयो नागगजैरावताः तासु सर्व एव भौमादयस्ताराग्रहा गता ये च द्युति-
मन्तस्तेजस्विनः क्षेमसुभिक्षशिवाय भवन्ति। तथा त एव ग्रहा दक्षिणमार्गगता मृगाज-
दहनाख्यासु वीथिषु स्थिताः। द्युतिहीनाः कान्तिरहिताः। क्षुद्भयतस्करमृत्युकराः, क्षुद्भयं
दुर्भिक्षम्, तस्करांश्चौरान्, मृत्युं मरणं च कुर्वन्ति। अर्थादेव मध्यवीथिषु गता मध्यफलाः।
तथा च गर्गः—
वर्णवन्तः स्वमार्गस्था नागवीथीविचारिणः।
यदि ताराग्रहाः सन्ति सर्वलोकहितावहाः॥
वैश्वानरपथप्राप्ता एकनक्षत्रचारिणः।
पञ्च ताराग्रहाश्चेत् स्युर्विन्द्याल्लोकस्य संक्षयम्॥ इति॥४॥
अन्यदप्याह—
कोष्ठागारगते भृगुपुत्रे पुष्यस्थे च गिराम्र्प्रभविष्णौ।
निर्वैराः क्षितिपाः सुखभाजः संहृष्टाश्च जना गतरोंगाः ॥५॥
यदि कोष्ठागार (मघा नक्षत्र) में शुक्र और पुष्य नक्षत्र में बृहस्पति स्थित हो तो
राजा लोग पारस्परिक द्वेषरहित और सुखी होते हैं तथा प्रजागण प्रसन्न और रोगरहित होते
हैं॥५॥
कोष्ठागारं मघा तत्र गते तत्रस्थे भृगुपुत्रे शुक्रे गिराम्र्प्रभविष्णौ वाचां स्वामिनि
बृहस्पतौ पुष्यस्थे च क्षितिपा राजानो निर्वैरा विगतद्वेषाः सुखभाजश्च भवन्ति। तथा जना
लोकाः संहृष्टाः प्रमुदिता गतरोंगाः स्वस्थदेहाश्च भवन्ति। तथा च गर्गः—
कोष्ठागारगते शुक्रे पुष्यस्थे च बृहस्पतौ।
विन्द्यात्तदा सुखं लोके शान्तशस्त्रमनामयम्॥ इति ॥५॥
अन्यदप्याह—
पीडयन्ति यदि कृत्तिकां मघां रोहिणीं श्रवणमैन्द्रमेव वा।
प्रोज्झ्य सूर्यमपरे ग्रहास्तदा पश्चिमा दिगनयेन पीड्यते ॥६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

मयूरचित्रकाध्यायः ५४९
यदि सूर्य को छोड़ कर अन्य ( चन्द्रादि ) ग्रह कृत्तिका, मघा, रोहिणी, श्रवणा या
ज्येष्ठा नक्षत्र को पीड़ित ( दक्षिण मार्ग में गमन या योगतारा के भेदन से पीड़ित ) करते
हों तो अन्याय से पश्चिम दिशा पीड़ित होती है।।६।।
सूर्यमादित्यं प्रोज्झ्य वर्जयित्वा अपरे सर्वे चन्द्रादयो ग्रहा यदा कृत्तिका, मघा,
रोहिणी, श्रवणम्, ऐन्द्रं ज्येष्ठा, एतानि नक्षत्राणि पीडयन्ति दक्षिणमार्गगमनेन योगतारका-
च्छादनेन भेदनेन वा। तदा पश्चिमा दिक् अपराशा अनयेनानीत्या पीड्यते। तथा च
गर्गेणोच्यते—
वैष्णवं पित्रमाग्नेयं ज्येष्ठामपि च रोहिणीम्।
पीडयन्ति यदैतानि राहुषष्ठानुचारिणः।।
दुर्भिक्षं जायते लोके सस्यमत्र न रोहति।
शुष्यन्ति सरितः सर्वाः पर्जन्यश्च न वर्षति।। इति।।६।।
अन्यदप्याह—
प्राच्यां चेद् ध्वजवदवस्थिता दिनान्ते
प्राच्यानां भवति हि विग्रहो नृपाणाम्।
मध्ये चेद् भवति हि मध्यदेशपीडा
रूक्षैस्तैर्न तु रुचिमन्मयूखवद्भिः ॥७॥
यदि सन्ध्या समय में चन्द्र आदि ग्रह ध्वज की तरह पूर्व दिशा में दिखाई दें तो पूर्व
दिशा में स्थित राजाओं में परस्पर विग्रह होता है तथा आकाश-मध्य में स्थित हों तो
मध्य देश में पीडा होती है। पर इन चन्द्र आदि ग्रहों के रूखे रहने पर ही यह फल प्राप्त
होता है। यदि निर्मल सुन्दर किरण वाले हों तो नहीं अर्थात् पूर्व दिशा या मध्य देश को
पीड़ित नहीं करते हैं।।७।।
एत एव चन्द्रादयो ग्रहा दिनान्ते अस्तमयकाले प्राच्यां पूर्वस्यां दिशि ध्वजवत्प-
ताकासंस्थानेनावस्थिता यदि भवन्ति, तदा प्राच्यानां प्राग्देशवर्तिनां नृपाणां राज्ञां विग्रहो
भवति परस्परं द्वेषः। अथ यदि मध्ये नभोमध्ये ध्वजवदवस्थिता भवन्ति, तदा मध्यदेशपीडा
भवति। किं सर्वदा? न, इत्याह—रूक्षैस्तैः। तैर्ग्रहै रूक्षैः कलुषैः स्वल्पविम्बैर्यदुक्तं तदेव
भवति प्राच्यानां नृपाणां विग्रहस्तथा मध्यदेशपीडा, न तु रुचिमन्मयूखवद्भिः, रुचिमद्भि-
र्दीप्तिमद्भिर्मयूखवद्भिः स्फुटरश्मिवद्भिश्च न भवति।।७।।
अन्यदप्याह—
दक्षिणां ककुभमाश्रितस्तु तैर्दक्षिणापथपयोमुचां क्षयः।
हीनरूक्षतनुभिश्च विग्रहः स्थूलदेहकिरणान्वितैः शुभम् ॥८॥
यदि चन्द्र आदि ग्रह दक्षिण दिशा में स्थित हों तो दक्षिण दिशा में मेघों का नाश
करते हैं। यदि ये ग्रह अल्प विम्ब वाले और रूक्ष हों तो विग्रह तथा स्थूल बिम्ब वाले
किरणयुक्त हों तो शुभ होता है।।८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA