बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
अथ द्रव्यनिश्चयाध्यायः
अथ द्रव्यनिश्चयाध्यायो व्याख्यायते। तत्रादावेवाऽऽगमप्रदर्शनार्थमाह—
ये येषां द्रव्याणामधिपतयो राशयः समुद्दिष्टाः।
मुनिभिः शुभाशुभार्थं तानागमतः प्रवक्ष्यामि ॥१॥
मुनियों ने शुभाशुभ फल जानने के लिये जिन द्रव्यों के जो अधिप राशि कहे हैं,
उनको आगम से लेकर मैं यहाँ कहता हूँ॥१॥
येषां द्रव्याणां ये राशयो मेषादयोऽधिपतयो मुनिभिः काश्यपादिभिः समुद्दिष्टाः कथिताः।
किमर्थं शुभाशुभार्थं समर्घमहार्घज्ञानार्थं तान् राशीनगमत आगमात् प्रवक्ष्यामि कथयिष्या-
मीति॥१॥
तत्र मेषस्य कानि द्रव्याण्येेतदाह—
वस्त्राविककुतुपानां मसूरगोधूमरालक्यवानाम्।
स्थलसम्भवौषधीनां कनकस्य च कीर्तितो मेषः ॥२॥
वस्त्र, भेड़ के रोम से निर्मित वस्त्र, कुतुप ( बकरी के रोम से निर्मित वस्त्र ), मसूर,
गेहूँ, रालक, जौ और स्थल ( जल से रहित भूमि ) में उत्पन्न औषधियों का स्वामी मेष
राशि है॥२॥
वस्त्राण्यम्बराणि। अवयः प्रसिद्धा एव। अवीनामिदमाविकं तत्सम्भूतमित्यर्थः। कुतुपं
छागलोमतन्तुकृतं वस्त्रम्। मसूरगोधूमाः प्रसिद्धाः। रालको वृक्षनिर्यासः। यवाः प्रसिद्धाः।
एतेषां सर्वेषाम्। तथा स्थलसम्भवौषधीनाम्, स्थले जलरहितायां भूमौ या ओषधयः
सम्भवन्ति तासाम्। तथा कनकस्य सुवर्णस्य च मेषराशिरधिपतिः कीर्तित उक्तः। तथा
च काश्यपः—
मेषे सुवर्णस्थलजा गोधूमाजाविकास्तथा।
ग्रहवर्णर्क्षसंयोगे शोभने सफलं भवेत्॥ इति॥२॥
अथ वृषमिथुनयोराह—
गवि वस्त्रकुसुमगोधूमशालयवमहिषसुरभितनयाः स्युः।
मिथुनेऽपि धान्यशारदवल्लीशालूककार्पासाः ॥३॥
वस्त्र, पुष्प, गेहूँ, शालिधान्य, जौ, भैंस और बैल का स्वामी वृष है। धान्य, शारदीय
लता, शालूक ( कुमुदकन्द ) और कपास का स्वामी मिथुन है॥३॥
वस्त्राण्यम्बराणि। कुसुमानि पुष्पाणि। गोधूमाः। शालयः षष्टिकादयः। यवाः। महिषाः।
बृ० सं० १६० Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४६६ बृहत्संहिता
सुरभितनया बलीवर्दाः। एते गवि वृषे स्युर्भवेयुः।
मिथुनेऽपीति। धान्यानि प्रसिद्धानि। शारदं शरत्समुत्पन्नं यत्किञ्चिद् द्राक्षावल्यादि।
शालूकं कुमुदकन्दम्। कार्पासाः प्रसिद्धाः। एते सर्व एव मिथुने। तथा च काश्यपः—
वृषे महिषगोवस्त्रशालयः पुष्पसम्भवाः।
मिथुने धान्यशालूकवल्ल्यः कार्पासशारदम्।। इति।।३।।
अथ कर्कटसिंहयोराह—
कर्कणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि।
सिंहे तुषधान्यरसाः सिंहादीनां त्वचः सगुडाः ॥४॥
कोदो, केला, दूब, सब फल, कन्द ( शकरकन्द आदि ), पत्र ( सुगन्धपत्र ) एवं
चोच ( नारियल ) का स्वामी कर्क है। भूसी वाले धान्य, रस ( मधुर आदि छः रस ),
सिंह आदि प्राणी, त्वचा और गुड़ का स्वामी सिंह है।।४।।
कोद्रवाः प्रसिद्धा। कदली रम्भा। दूर्वा शाद्वलम्। फलानि सर्वाणि जातीफलप्रभृतीनि।
कन्दं प्रसिद्धम्। मूले बीजं यस्य तत्कन्दम्। पत्रं सुगन्धपत्रम्। चोचं पालेवतं नालिकेरं
वा। एतानि सर्वाणि कर्कणि कर्कटे।
तुषधान्यानि प्रसिद्धानि। शालयः। रसा मधुराम्ललवणतिक्तकटुकषायाः षट्। सिंहा-
दीनां प्राणिनां सिंहद्वीपिमार्जारणां त्वचश्चर्माणि विचित्ररूपाणि। एते सगुडा गुडेन सहिताः
सिंहे। तथा च काश्यपः—
कर्कटे फलदूर्वाश्च कोद्रवः कदली तथा।
सिंहे धान्यं सर्वरसाः सिंहादीनां त्वचो गुडाः।। इति।।३।।
अथ कन्यातुलयोराह—
षष्ठेऽतसीकलायाः कुलत्थगोधूममुद्गनिष्पावाः।
सप्तमराशौ माषा यवगोधूमाः ससर्षपाश्चैव ॥५॥
अतसी ( अलसी = तिसी ), कलाय ( उड़द ), कुलथी, गेहूँ, मूँग और निष्पाव
( शालिधान्य या शिम्बि धान्य ) का स्वामी कन्या है। मसूर, जौ, गेहूँ और सरसों का
स्वामी तुला है।।५।।
अतसी प्रसिद्धा। कलायः सस्यम्। कुलत्थाः। गोधूमाः। मुद्गाः। एते प्रसिद्धाः।
अनूत्पन्नानि यानि पुनर्जायन्ते ते निष्पावाः। निष्पावाः शालय इति केचित्। शिम्बिधान्यमिति
च केचित्। एते षष्ठे कन्यायाम्। सप्तमराशाविति। माषाः। यवाः। गोधूमाः। एते किं
भूताः। ससर्षपाः सर्षपसहिताः। एते सप्तमराशौ तुलायाम्। तथा च काश्यपः—
कन्यायां मुद्गनीवारकुलत्थाः सकला यवाः।
तुले तु यवगोधूममाषाः सिद्धार्थकास्तथा।। इति।।५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
द्रव्यनिश्चयाध्यायः ४६७
अथ वृश्चिकधनुषोराह—
अष्टमराशाविक्षुः सैक्यं लोहान्यजाविकं चापि।
नवमे तु तुरगलवणाम्बरास्त्रतिलधान्यमूलानि ॥६॥
ईख ( गन्ना ), लता के फल, लोहा और छाग तथा भेड़-सम्बन्धी वस्तुओं का स्वामी
वृश्चिक है। घोड़ा, नमक, वस्त्र, तिल, धान्य और मूलोत्पन्न धान्यों का स्वामी धनु
है॥६॥
इक्षुः प्रसिद्धः। सैक्यं सेकोत्थं वल्लीफलादि। लोहमायसं कांस्यं वा। एतानि। तथा
अजश्छागः। अविः प्रसिद्धः। तज्जातमाविकम्। एतत्सर्वमष्टमराशौ वृश्चिके।
नवमे त्विति। तुरगा अश्वाः। लवणं सैन्धवम्। अम्बराणि वस्त्राणि। अस्त्राण्यायु-
धानि धनुःशरादीनि। तिलः। धान्यम्। मूलानि प्रसिद्धानि। एतानि नवमे धनुषि। तथा च
काश्यपः—
अलिनीक्षुरसं सैक्यमाजं लोहं सकांस्यकम्।
धान्यं धनुषि वस्त्राणि लवणं तुरगास्तथा॥ इति॥६॥
अथ मकरकुम्भयोराह—
मकरे तरुगुल्माद्यं सैक्येक्षुसुवर्णकृष्णलोहानि।
कुम्भे सलिलजफलकुसुमरत्नचित्राणि रूपाणि ॥७॥
वृक्ष, गुल्म ( सामयिक वृक्ष ), आदि ( लता-वल्ली ), सैक्य ( वल्ली फल
आदि ), ईख ( गन्ना ), सोना और लोहे का स्वामी मकर है। जल में उत्पन्न वस्तु, फल,
फूल, रस और चित्र वस्तु का स्वामी कुम्भ है॥७॥
तरवो वृक्षाः। गुल्माः प्रसिद्धाः। अकाण्डविटपा इत्यर्थः। आदिग्रहणाल्लतावल्ल्यः।
सैक्यं सेकोत्थम्। इक्षुः प्रसिद्धः। सुवर्णं काञ्चनम्। कृष्णलोहमायसम्। एतानि सर्वाणि
मकरे।
कुम्भ इति। सलिलजं यत्किञ्चिज्जलसम्भूतम्। फलानि प्रसिद्धानि। कुसुमानि।
रत्नानि चित्राणि नानाप्रकाराणि येषां रूपाणि। एतानि कुम्भे। तथा च काश्यपः—
मकरे सस्यसीसं च सुवर्णगुडधातुजम्।
कुम्भे कुसुमचित्राणि हंसाश्च जलजास्तथा॥ इति॥७॥
अथ मीन आह—
मीने कपालसम्भववरत्नान्यम्बूद्भवानि वज्राणि।
स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ॥८॥
कपाल-सम्भव-रत्न ( मुक्ताफल ), जल में उत्पन्न वस्तु, हीरा, नाना प्रकार के
तेल और मछली से उत्पन्न मुक्ता आदि का स्वामी मीन है॥८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४६८ बृहत्संहिता
कपालसम्भवानि रत्नानि मुक्ताफलानि। अम्बूद्भवानि शुक्तिसम्भवानि। वज्रं हीरकम्।
नैकरूपा बहुविधाः स्नेहास्तैलादयः। मत्स्यजातं मत्स्योद्भूतम्। मुक्तादिकमपि। एते सर्व
एव मीने व्याख्याता उक्ताः। तथा च काश्यपः—
पद्ममुक्ताफलादीनां द्रव्याणां मीन ईश्वरः।। इति।।८।।
अथैतेषां द्रव्याणां शुभाशुभज्ञानार्थमाह—
राशेश्चतुर्दशार्थायसप्तनवपञ्चमस्थितो जीवः।
द्व्येकादशदशपञ्चाष्टमेषु शशिजश्च वृद्धिकरः ॥९॥
षट्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु।
उपचयसंस्थाः क्रूराः शुभदाः शेषेषु हानिकराः ॥१०॥
जिस राशि से चतुर्थ, दशम, द्वितीय, एकादश, सप्तम, नवम या पञ्चम में बृहस्पति
तथा द्वितीय, एकादश, दशम, पञ्चम या अष्टम में बुध अवस्थित हो उस राशि के कथित
द्रव्यों की वृद्धि करता है। जिस राशि से षष्ठ या सप्तम में शुक्र हो, उस राशि के कथित
द्रव्यों की हानि और शेष स्थान (प्रथम, द्वितीय, तृतीय, चतुर्थ, पञ्चम, अष्टम, नवम,
दशम, एकादश या द्वादश) में स्थित हो तो उनकी वृद्धि करता है तथा जिस राशि से
पापग्रह (रवि, मङ्गल और शनैश्चर) उपचय (तृतीय, षष्ठ या एकादश) में स्थित हो,
उसके द्रव्यों की वृद्धि और शेष स्थान (प्रथम, द्वितीय, चतुर्थ, पञ्चम, सप्तम, अष्टम,
नवम, दशम या द्वादश) में स्थित हो तो हानि करता है॥९-१०॥
राशेश्चतुर्दशेति। यस्य कस्य चोद्देशः। चतुश्चतुर्थस्थानम्। दश दशमम्। अर्थस्थानं
द्वितीयम्। आयमेकादशम्। सप्तमनवमपञ्चमानि। एतेषां स्थानानामन्यतमस्थानस्थो जीवो
बृहस्पतिस्तत्रोक्तद्रव्याणां वृद्धिकरः। द्वितीयम्। एकादशम्। दशमम्। पञ्चमम्। अष्टमम्।
एतेषां स्थानानामन्यतमस्थाने स्थितः शशिजो बुधो वृद्धिकरः।
षट्सप्तमग इति। शुक्रो भार्गवः षट्सप्तमस्थानगतो हानिं क्षयं करोति। शेषे-
ष्वन्यतमस्थानेषु प्रथमद्वितीयतृतीयचतुर्थपञ्चमाष्टमनवमदशमैकादशद्वादशेषु स्थितो वृद्धिं
करोति। क्रूरा आदित्याङ्गारकशनैश्चरा उपचयसंस्थास्त्रिषडेकादशगताः शुभदा वृद्धिकराः।
शेषेष्वन्यस्थानेषु प्रथमद्वितीयचतुर्थपञ्चमसप्तमाष्टमनवमद्वादशेषु हानिकराः। तथा च
काश्यपः—
चतुःसप्तद्विपञ्चस्थो नवदिगुद्रगो गुरुः।।
यस्य राशेस्तदुक्तानां द्रव्याणां वृद्धिदः स्मृतः।
शुक्रः षट्सप्तमस्थो वा हानिकृद्वृद्धिदोऽन्यगः।।
द्व्येकादशदशार्थाष्टसंस्थितः शशिजः शुभः।
पापास्तूपचयस्थाश्च वृद्धिं कुर्वन्ति नान्यथा।। इति।।९-१०।।
द्रव्यनिश्चयाध्यायः ४६९
अत्रैव विशेषमाह—
राशेर्यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः ।
तत्रोक्तद्रव्याणां महर्घता दुर्लभत्वं च ॥४१॥
जिस राशि से पीडास्थान ( उपचयस्थान ) में स्थित होकर पापग्रह ( रवि, मङ्गल,
शनि ) बली ( मित्रगृह, स्वगृह, उच्च या स्वनवांश में स्थित या शुभग्रहों से दृष्ट ) हो तो
उस राशि के कथित द्रव्य अधिक मूल्य वाले और अलभ्य होते हैं।।४१।।
यस्य राशेः क्रूराः पापा रविभौमसौराः पीडास्थानेषूपचयस्थानेष्ववस्थितास्ते च बलिनो
वीर्यवन्तो मित्रस्वक्षेत्रोच्चस्वनवांशकेषु स्थिताः शुभेक्षिताश्च तत्रोक्तद्रव्याणां तस्य राशेर्यानि
प्रोक्तानि द्रव्याणि तेषां कथितद्रव्याणां महर्घता बहुमूल्यत्वं दुर्लभत्वं च दुष्प्रापत्वं भवति।
तथा च काश्यपः—
राशेरनिष्टस्थानेषु पापाश्च सबलाः स्थिताः।
तद्द्रव्याणां नाशकरा दुर्लभास्ते भवन्ति हि।। इति ।।४१।।
अन्यदप्याह—
इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशीनाम्।
तद्द्रव्याणां वृद्धिः सामर्थ्यं वल्लभत्वं च ॥४२॥
जिस राशि से इष्ट स्थान ( पूर्व कथित वृद्धि स्थान ) में बली होकर शुभग्रह ( बुध,
गुरु और शुक्र ) स्थित हों तो उस राशि के कथित द्रव्य अल्प मूल्य से मिलने वाले और
प्रिय होते हैं।।४२।।
येषां राशीनां सौम्याः शुभग्रहा बुधगुरुशुक्रा इष्टस्थानस्थाः। इष्टस्थानानि यथा जीवश्व-
तुरादिषु स्थितो बुधश्च द्व्यादिषु स्थितः शुक्रः षट्सप्तमरहितेषु। एतेषु स्थानेषु बलिनो ये
येषां राशीनां भवन्ति तद्द्रव्याणां तस्य राशेर्यानि द्रव्याणि तेषां सामर्थ्यं समर्घता वल्लभत्वं
च भवति। तथा च काश्यपः—
इष्टस्थाने स्थिताः सौम्या बलिनो येषु राशिषु।
भवन्ति तद्द्रवानां च द्रव्याणां शुभदाः स्मृताः।। इति।।४२।।
अन्यदप्याह—
गोचरपीडायामपि राशिर्बलिभिः शुभग्रहैर्दृष्टः ।
पीडां न करोति तथा क्रूरैरेवं विपर्यासः ॥४३॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां द्रव्य-
निश्चयाध्यायैकचत्वारिंशः ॥४१॥
गोचर-पीडा में स्थित राशि ( बृहस्पति आदि ग्रहों को उक्त चतुर्थ आदि शुभ स्थानों
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४७० बृहत्संहिता
से भिन्न स्थान में स्थित होने पर राशि गोचर पीड़ा में स्थित रहती है, ऐसी राशि ) यदि
बली शुभग्रह ( बुध, गुरु और शुक्र ) से देखी जाती हो तो पीड़ा नहीं करती है अर्थात् वे
द्रव्य सम मूल्य में रहते हैं। यदि पापग्रह ( रवि, मंगल और शनि ) से देखी जाती हो तो
उस राशि के कथित द्रव्य महर्घ और दुर्लभ होते हैं।।१३।।
इति 'विमला'हिन्दीटीकायां द्रव्यनिश्चयाध्याय एकचत्वारिंशः ॥४१॥
जीवादीनां चतुरादीनि स्थानानि यान्युक्तानि तद्व्यतिरिक्तेष्वन्येषु स्थानेषु यदा स्थिता
भवन्ति तदा गोचरपीडा तस्यां सत्यामपि राशिर्यदा शुभग्रहैर्बुधजीवशुक्रैर्बलिभिः सवीर्यैर्दृष्टो-
ऽवलोकितो भवति तदा पीडां न करोति। एतदुक्तं भवति—तद्द्रव्याणि नातिसमर्घाणि
भवन्ति। क्रूरैः पापग्रहैरादित्याङ्गारशनैश्चरैर्बलिभिर्गोचरपीडायां यदि राशिर्दृश्यते तदा विपर्यासो
विपरीतो भवति। तत्रोक्तद्रव्याणां महर्घता दुर्लभत्वं च भवति।।१३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ द्रव्यनिश्चयो
नामैकचत्वारिंशोऽध्यायः ॥४१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथार्घकाण्डाध्यायः
अथातोऽर्घकाण्डाध्यायो व्याख्यायते। तत्रादावेव प्रयोजनसम्पदर्शनार्थमाह—
अतिवृष्ट्युल्कादण्डान् परिवेषग्रहणपरिधिपूर्वांश्च।
दृष्ट्वाऽमावास्यायामुत्पातान् पौर्णमास्यां च ॥१॥
ब्रूयादर्घविशेषान् प्रतिमासं राशिषु क्रमात् सूर्ये।
अन्यतिथावुत्पाता ये ते डमरार्तये राज्ञाम् ॥२॥
मेषादि राशियों में सूर्य के गमन करने पर प्रति मास की अमावास्या और पूर्णिमा में
अतिवृष्टि, उल्का, दण्ड, परिवेष, ग्रहण, परिधि आदि ( रजोनिहार, दिग्दाह और गन्धर्वनगर
रूप ) उत्पातों को देख कर द्रव्यों के विशेष मौल्य का विचार करना चाहिये। अन्य
( अमावास्या और पूर्णिमा से भिन्न ) तिथि में होने वाले उत्पात राजाओं को शस्त्र-कलह
से पीड़ित करते हैं॥१-२॥
अतिवृष्टिरतिवर्षणम्। उल्का। तस्या लक्षणमुक्तम्—'उल्का शिरसि विशाला' इति।
दण्डस्तस्य च लक्षणमुक्तम्—'रविकिरणजलदमरुताम्' इति। तथा परिवेषस्तस्य लक्षण-
मुक्तम्। ग्रहणमर्केन्द्रोः। परिधिः प्रतिसूर्यस्तस्य लक्षणमुक्तम्। तत्पूर्वांस्तदाद्यान्। आदिग्रहणाद्
रजोनीहारदिग्दाहगन्धर्वनगराणि ग्रहीतव्यानि। एतानुत्पातानमावास्यायां पौर्णमास्यां च।
दृष्ट्वाऽवलोक्यार्घविशेषान् सूर्ये आदित्ये राशिषु मेषादिषु प्रतिमासं क्रमात् परिपाट्या
तद् ब्रूयाद् वदेत्। अन्यस्मिंस्तिथावमावास्यां पौर्णमासीं च वर्जयित्वा ये उत्पाता अति-
वृष्ट्यादयो भवन्ति। ते राज्ञां नृपाणां डमरार्तये भवन्ति। डमरं शस्त्रकलहस्तेनार्तिः पीडा
भवति। तथा च काश्यपः—
उल्कातिवृष्टिर्ग्रहणे सूर्येन्द्वोः परिवेषणम्।
प्रतिसूर्यादयो येऽन्ये पक्षमासान्तसंक्षये॥
तिथौ निरीक्ष्य चोत्पातान् ब्रूयाल्लोके शुभाशुभम्।
सुभिक्षदुर्भिक्षकृतान् विशेषोऽत्र विचारतः॥
प्रतिमासं विधानज्ञो नान्यस्मिन् दिवसे वदेत्।
अन्यत्र ये भवन्त्येते ते सर्वे नृपदोषदाः॥ इति॥१-२॥
अथोत्पातेऽमावास्यायां पौर्णमास्यां च मेषवृषस्थे सूर्ये किं कुर्यादित्याह—
मेषोपगते सूर्ये ग्रीष्मजधान्यस्य संग्रहं कृत्वा।
वनमूलफलस्य वृषे चतुर्थमासे तयोर्लाभः ॥३॥
मेष राशि में स्थित सूर्य के समय में ग्रीष्म ऋतु में उत्पन्न होने वाले धान्यों का तथा
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४७२ बृहत्संहिता
वृष राशि में स्थित सूर्य के समय में उसमें होने वाले मूल और फलों का संग्रह करे, उन
( मेष और वृष ) से चतुर्थ मास में उसको विक्रय करने से लाभ होता है।।३।।
सूर्ये रवौ मेषोपगते मेषं प्राप्ते। अमावास्यायां पौर्णमास्यां चोत्पातानुक्तान् दृष्ट्वा ग्रीष्म-
जस्य ग्रीष्मोत्पन्नस्य धान्यस्य संग्रहं कृत्वा तथा वृषे वृषगतेऽर्के वनमूलफलस्य वन्यानां
मूलफलानां संग्रहं कृत्वा तयोर्मेषवृषयोश्चतुर्थे मासि विक्रयाल्लाभो भवति।।३।।
अथ मिथुनस्थ आह—
मिथुनस्थे सर्वरसान् धान्यानि च संग्रहं समुपनीय।
षष्ठे मासे विपुलं विक्रेता प्राप्नुयाल्लाभम् ॥४॥
मिथुन राशिगत सूर्य के समय में मधुर आदि सभी रसों का संग्रह करके उससे छठे
मास में विक्रय करने से बहुत लाभ होता है।।४।।
मिथुनस्थेऽर्के प्रागुक्तानुत्पातान् दृष्ट्वा। सर्वरसान् मधुरादीन्। धान्यानि च शालीन्।
संग्रहं समुपनीय। संग्रहमेषां कृत्वा विक्रेता षष्ठे मासे विपुलं विस्तीर्णं लाभं प्राप्नुयाल्लभेत।
अथ कर्कटस्थ आह—
कर्किण्यर्के मधुगन्धतैलघृतफाणितानि विनिधाय।
द्विगुणा द्वितीयमासे लब्धिर्हीनाधिके छेदः ॥५॥
कर्क राशिगत सूर्य के समय में मधु, सुगन्ध, द्रव्य, तेल, घी और शक्कर का संग्रह
करके दूसरे मास में विक्रय करने से दूना लाभ होता है। दो महीने से कम या अधिक में
विक्रय करने से नाश होता है।।५।।
अर्के आदित्ये कर्किणि कर्कटस्थे मधु माक्षिकम्। गन्धः सुगन्धद्रव्याणि। तैलम्।
घृतमाज्यम्। फाणितमिक्षुरसक्वाथः क्षुद्रगुडादि। एतानि विनिधाय संस्थाप्य द्वितीयमासे
विक्रयाद् द्विगुणा लब्धिर्भवति। हीने कालेऽधिके वा विक्रयाच्छेदो भवति।।५।।
अथ सिंहस्थ आह—
सिंहे सुवर्णमणिचर्मवर्मशस्त्राणि मौक्तिकं रजतम्।
पञ्चममासे लब्धिर्विक्रेतुरतोऽन्यथा छेदः ॥६॥
सिंह राशिगत सूर्य के समय में सोना, मणि, चमड़ा, शस्त्र, मोती और चाँदी का
संग्रह करके पाँचवें मास में विक्रय करने से लाभ होता है। न्यूनाधिक काल में विक्रय
करने से हानि होती है।।६।।
सिंहस्थेऽर्के सुवर्णम्। मणयः। चर्माणि। वर्म सन्नाहः। शस्त्राण्यायुधानि। मौक्तिकं
मुक्ताफलानि। रजतं रौप्यम्। एतानि विनिधाय विक्रेतुः पञ्चमे मासे विक्रयाल्लब्धिर्भवति।
अतोऽन्यथा ऊने कालेऽधिके वा छेदो भवति।।६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अर्घकाण्डाध्यायः ४७३
अथ कन्यागते रवावाह—
कन्यागते दिनकरे चामरखरकरभवाजिनां क्रेता।
षष्ठे मासे द्विगुणं लाभमवाप्नोति विक्रीणन् ॥७॥
कन्या राशिगत सूर्य के समय पूर्वोक्त उत्पातों को देख कर चामर, गदहा, ऊँट और
घोड़ों का संग्रह करके छठे मास में विक्रय करने से दूना लाभ होता है।।७।।
दिनकरे सूर्ये कन्यागते प्रागुक्तानुत्पातान् दृष्ट्वा चामरं बालव्यजनम्। खरो गर्दभः।
करभ उष्ट्रः। वाजी तरगः। एषां क्रेता षष्ठे मासे विक्रीणन् विक्रेता द्विगुणं लाभमाप्नोति
लभते ।।७।।
अथ तुलागत आह—
तौलिनि तान्तवभाण्डं मणिकम्बलकाचपीतकुसुमानि।
आदद्याद्धान्यानि च वर्षार्द्धाद् द्विगुणिता वृद्धिः ॥८॥
तुला राशिगत सूर्य के समय पूर्वोक्त उत्पातों को देखकर सूती तथा ऊनी वस्त्र, वर्तन,
मणि, कम्बल, काँच, पीले वस्त्र, पुष्प और धान्यों का संग्रह करके छठे मास में विक्रय
करने से दूना लाभ होता है।।८।।
तौलिनि तुलागतेऽर्के तान्तवभाण्डं तन्तुकृतं यत्किञ्चित् कर्म कर्पटादि मणयः।
कम्बलम्। काचम्। पीतानि पीतवर्णानि कुसुमानि पुष्पाणि। एतान्यादद्याद्ग्राहयेत्। धान्यानि
च तथा। वर्षार्द्धात् षड्भिर्मासैर्द्विगुणिता वृद्धिर्द्विगुणत्वं व्रजन्ति। द्विगुणलाभो भवतीत्यर्थः।
अथ वृश्चिकस्थ आह—
वृश्चिकसंस्थे सवितरि फलकन्दकमूलविविधरत्नानि।
वर्षद्वयमुषितानि द्विगुणं लाभं प्रयच्छन्ति ॥९॥
वृश्चिक राशिगत सूर्य के समय पूर्वोक्त उत्पात होने पर फल, कन्द, मूल और अनेक
प्रकार के रत्नों का संग्रह करके दो वर्ष बाद विक्रय करने से दूना लाभ होता है।।९।।
सवितरि आदित्ये वृश्चिकसंस्थे। फलानि। कन्दको मूलविशेषः। मूलानि अन्यानि
द्रव्याणि। विविधानि नानाकाराणि रत्नानि। एतानि वर्षद्वयमुषितानि द्विगुणं लाभं प्रयच्छन्ति
ददति।।९।।
अथ धन्विस्थ आह—
चापगते गृह्णीयात् कुङ्कुमशङ्खप्रवालकाचानि।
मुक्ताफलानि च ततो वर्षार्द्धात् द्विगुणतां यान्ति ॥१०॥
धनु राशिगत सूर्य के समय में पूर्वोक्त उत्पात होने पर कुंकुम, शङ्ख, मूँगा, काँच और
मोतियों का संग्रह करके छः मास बाद विक्रय करने से दूना लाभ होता है।।१०।।
चापगते धन्विस्थेऽर्के गृह्णीयात्। कुङ्कुमं काश्मीरम्। शङ्खम्। प्रवालं विद्रुमम्। काचम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४७४ बृहत्संहिता
मुक्ताफलानि च। ततोऽनन्तरं क्रमात् परतः वर्षाद्धर्द्धात् षड्भिर्मासैर्द्विगुणतां यान्ति। द्विगुणं
लाभं ददति॥१०॥
अथ मकरकुम्भस्थेऽर्क आह—
मृगघटसंस्थे सवितरि गृह्णीयाल्लोहभाण्डधान्यानि।
स्थित्वा मासं दद्याल्लाभार्थी द्विगुणमाप्नोति ॥११॥
मकर या कुम्भ राशिगत सूर्य के समय पूर्वोक्त उत्पात होने पर लोहा, बर्तन और
धान्यों का संग्रह करके एक मास बाद बेचने से लाभार्थी व्यापारी दूना लाभ प्राप्त करता है।
मृगो मकरः। घटः कुम्भः। सवितर्यादित्ये मृगघटसंस्थे लोहभाण्डधान्यानि गृह्णीयात्
स्थापयेत्। लोहमयानि भाण्डानि धान्यानि च मासं स्थित्वा मासं संस्थाप्य ततो दद्याद्विक्रयं
कुर्यात्। लाभार्थी द्विगुणं लाभमाप्नोति लभते॥११॥
अथ मीनस्थेऽर्क आह—
सवितरि झषमुपयाते मूलफलं कन्दभाण्डरत्नानि।
संस्थाप्य वत्सराद्धं लाभकमिष्टं समाप्नोति ॥१२॥
मीन राशिगत सूर्य के समय पूर्वोक्त उत्पात होने पर मूल, फल, कन्द, बर्तन और
रत्नों का संग्रह करके छः मास बाद बेचने से मनमाना लाभ होता है॥१२॥
सवितरि आदित्ये झषं मीनमुपयाते प्राप्ते। मूलानि। फलानि। कन्दो मूलविशेषः।
भाण्डानि नानाकाराणि। रत्नानि मणयः। एतान् गृहीत्वा वत्सराद्धं मासषट्कं संस्थाप्येष्टं
यथाभिलषितं लाभं वृद्धिं समाप्नोति लभते॥१२॥
अत्रैव पुनरपि विशेषमाह—
राशौ राशौ यस्मिन् शिशिरमयूखः सहस्रकिरणो वा।
युक्तोऽधिमित्रदृष्टस्तत्रायं लाभको दिष्टः ॥१३॥
जिस-जिस राशि में स्थित चन्द्र या सूर्य अपने तात्कालिक अधिमित्र ग्रह से युत या
दृष्ट हों, उसी राशि में पूर्वोक्त लाभ होता है; अन्यत्र नहीं॥१३॥
यस्मिन् राशौ राशौ मेषादिके शिशिरमयूखश्चन्द्रः सहस्रकिरणो वा सूर्यः। अधिमित्रेण
तात्कालिकेन दृष्टो विलोकितो मित्रयुक्तश्च भवति। यतस्तत्कालं दशायबन्धुसहजस्वान्तेषु
स्थितो ग्रहो मित्रं भवति। तद्युक्तत्वात्तेन मित्रयुक्तोऽधिमित्रदृष्टः। तत्र तस्मिन् राशौ अयं
लाभको दिष्टोऽभिहितो नान्यत्र योगासम्भवात्। यतोऽमावास्यापौर्णमास्योरयं विचारः।
उत्पातदर्शनात्। अतः शिशिरमयूखसहस्रकिरणग्रहणं कृतम्। तथा च काश्यपः—
राशौ राशौ स्थितः सूर्यः शशी वा मित्रसंयुतः।
अधिमित्रेण सन्दृष्टो यथा लाभप्रदः स्मृतः॥ इति॥१३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अर्घकाण्डाध्यायः ४७५
अत्रैव विशेषमाह—
सवितृसहितः सम्पूर्णो वा शुभैर्युतवीक्षितः
शिशिरकिरणः सद्योऽर्घस्य प्रवृद्धिकरः स्मृतः।
अशुभसहितः सन्दृष्टो वा हिनस्त्यथवा रविः
प्रतिगृहगतान् भावान् बुद्ध्वा वदेत् सदसत्फलम् ॥१४॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायामर्घ-
काण्डाध्यायो द्विचत्वारिंशः ॥४२॥
जिस राशि में सूर्ययुत चन्द्र या पूर्णचन्द्र शुभग्रह ( बुध, बृहस्पति और शुक ) से
युत या दृष्ट हो, उस राशिसम्बन्धी द्रव्य में मौल्य की वृद्धि करता है तथा जिस राशि में
पापग्रह ( मङ्गल और शनि ) से युत या दृष्ट हो, उस राशिसम्बन्धी द्रव्यों का नाश करता
है। इसी प्रकार प्रत्येक राशिगत द्रव्यों को जानकर शुभाशुभ फल कहना चाहिये।।१४।।
इति 'विमला' हिन्दीटीकायामर्घकाण्डाध्यायो द्विचत्वारिंशः ॥४२॥
शिशिरकिरणश्चन्द्रः सवितृसहितः सूर्येण सहावस्थितोऽमावास्यायां शुभग्रहैर्बुध-
जीवशुक्रैर्युतः संयुतो वीक्षितो यत्र राशौ भवति तत्र सद्योऽर्घस्य सुवृद्धिकरः स्मृतः।
अथाशुभसहितः पापग्रहाभ्यां भौमसौराभ्यां युक्तः सन्दृष्टो रविर्वा चन्द्रो हिनस्ति
नाशयति। अर्घहानिं करोतीत्यर्थः। एवं प्रतिगृहगतान् प्रतिराशिव्यवस्थितान् भावान् द्रव्या-
ण्युक्तान् बुद्ध्वा ज्ञात्वा सदसच्छुभमशुभं वा फलं वदेद् ब्रूयादिति। तथा च काश्यपः—
अत्रार्कशशिनौ सौम्यैः संयुक्तौ वा निरीक्षितौ।
शुभग्रहस्थानगतौ सद्योऽर्घस्य विवृद्धिदौ।।
विपरीतस्थितावेतौ पापयुक्तौ निरीक्षितौ।
अर्घहानिकरौ प्रोक्तौ मिश्रितौ मध्यमौ स्मृतौ।। इति।।१४।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतावर्घकाण्डं
नाम द्विचत्वारिंशोऽध्यायः ॥४२॥
अथेन्द्रध्वजसम्पदाध्यायः
अथेन्द्रध्वजसम्पद्व्याख्यायते। तत्रादावेव तदुत्पत्तिप्रदर्शनार्थमाह—
ब्रह्माणमूचुरमरा भगवन् शक्ताः स्म नासुरान् समरे ।
प्रतियोधयितुमतस्त्वां शरण्यशरणं समुपयाताः ॥१॥
सभी देवताओं ने ब्रह्माजी से कहा, हे भगवन्! राक्षसों के साथ युद्ध करने के लिये
हम समर्थ नहीं हैं, अतः आपकी शरण में आये हैं॥१॥
अमरा देवा ब्रह्माणमूचुः पितामहमुक्तवन्तः। किं तदित्याह—हे भगवन् पितामह!
वयमसुरान् दैत्यान् समरे संग्रामे प्रतियोधयितुं तैः सह युद्धं कर्तुं न शक्ताः स्मः। अतो-
ऽस्माद्धेतोः शरण्यं त्वां शरणं वयं समुपयाताः प्राप्ता इति॥१॥
ततोऽनन्तरं स तानाह—
देवानुवाच भगवान् क्षीरोदे केशवः स वः केतुम् ।
यं दास्यति तं दृष्ट्वा नाजौ स्थास्यन्ति वो दैत्याः ॥२॥
भगवान् ब्रह्माजी ने देवताओं से कहा—क्षीरसागर में भगवान् नारायण विराजमान
हैं। वे एक केतु ( ध्वज ) आपको देंगे, जिसको देखकर राक्षसगण युद्ध में नहीं ठहरेंगे।
भगवान् ब्रह्मा देवानुवाच प्रोक्तवान्। क्षीरोदे क्षीरसमुद्रे यः केशवो नारायणः स वो
युष्मभ्यं यं केतुं ध्वजं दास्यति तं दृष्ट्वा अवलोक्य वो युष्माकमाजौ संग्रामे दैत्या न
स्थास्यन्ति॥२॥
ततः किमित्याह श्लोकत्रयेण—
लब्ध्वराः क्षीरोदं गत्वा ते तुष्टुवुः सुराः सेन्द्राः ।
श्रीवत्साङ्कं कौस्तुभमणिकिरणोद्भासितोरस्कम् ॥३॥
श्रीपतिमचिन्त्यमसमं समं ततः सर्वदेहिनां सूक्ष्मम् ।
परमात्मानमनादिं विष्णुमविज्ञातपर्यन्तम् ॥४॥
तैः संस्तुतः स देवस्तुतोष नारायणो ददौ चैषाम् ।
ध्वजमसुरसुरवधूमुखकमलवनतुषारतीक्ष्णांशुम् ॥५॥
इस तरह वर प्राप्त कर इन्द्र के साथ देवताओं ने क्षीरसागर जाकर भगवान् नारायण
की इस प्रकार स्तुति की—श्रीवत्सचिह्न से युत, कौस्तुभ मणि की किरणों से प्रकाशित
वक्षःस्थल वाले, लक्ष्मीनाथ, अचिन्त्य, अनौपम्य, सभी प्राणियों में गत होने के कारण
सम, सभी प्राणियों के द्वारा बड़ी कठिनता से जानने योग्य होने के कारण सूक्ष्म, परमात्मा,
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
इन्द्रध्वजसम्पदध्यायः ४७७
अनादि ( उत्पत्ति-रहित ), विष्णु ( व्यापक ), अज्ञात निधन वाले—इस तरह इन्द्र के
साथ देवताओं से संस्तुत उस देव नारायण ने सन्तुष्ट होकर राक्षस और देवताओं के स्त्रियों
के मुखरूप कमल-वन में क्रम से चन्द्र और सूर्य के समान ( राक्षसों की स्त्रियों के
मुखकमल म्लान करने के कारण चन्द्र और देवताओं की स्त्रियों के मुखकमल को
प्रफुल्लित करने के कारण सूर्य की तरह ) ध्वज देवताओं को दिया॥३-५॥
ते सेन्द्रा इन्द्रसहिताः सुरा देवा लब्धो वरो यैस्ते लब्धवराः क्षीरोदं क्षीरसमुद्रं गत्वा
तं भगवन्तं केशवं तुष्टुवुः स्तुतवन्तः। श्रीवत्साङ्कं श्रीवत्समङ्कं चिह्नं यस्य तम्। कौस्तुभो
मणिविशेषस्तस्य किरणा रश्मयस्तैरुद्भासितमुरो वक्षो यस्य तम्।
तथाभूतं श्रीपतिं लक्ष्मीनाथम्। अचिन्त्यम्। चिन्तयितुं न शक्यम्। असमम्। असदृशम्।
अनौपम्यमित्यर्थः। समं सर्वगतत्वात्तुल्यम्। ततः समत्वात् सर्वदेहिनां सर्व-भूतानां सूक्ष्मं
दुर्विज्ञेयम्। परमात्मानम्। परमश्चासौ आत्मा परमात्मा तं तथाभूतम्। अनादिम्। न
आदिरुत्पत्तिर्विद्यते यस्य तम्। विष्णुम्। व्यापकम्। अविज्ञातपर्यन्तम्। न विज्ञातः पर्यन्तः
सर्गो यस्य तम्। अविज्ञातनिधनमित्यर्थः।
तैः सेन्द्रैर्देवैः संस्तुतः स देवो नारायणस्तुतोष। तुष्टश्चैषां देवानां ध्वजं ददौ। कीदृशं
ध्वजम्? असुरसुरवधूमुखकमलवनतुषारतीक्ष्णांशुम्, असुरा दैत्याः सुरा देवास्तेषां वध्वः
स्त्रियस्तासां मुखकमलानि वक्त्रपद्मानि तदेव मुखकमलानां वनं समूहस्तत्र तीक्ष्णांशुः
सूर्यः। विकासकत्वात्। त्रिभिर्विशेषकम्॥३-५॥
कीदृशं ध्वजं ददावित्याह—
तं विष्णुतेजोद्भवमष्टचक्रे रथे स्थितं भास्वति रत्नचित्रे।
देदीप्यमानं शरदिव सूर्यं ध्वजं समासाद्य मुमोद शक्रः॥६॥
विष्णु के तेज से उत्पन्न, आठ चक्रों से युत, प्रकाशित तथा मणियों से भूषित रथ पर
स्थित और शारदीय सूर्य की तरह प्रकाशमान ध्वज पाकर इन्द्र बहुत प्रसन्न हुये॥६॥
तं ध्वजं विष्णुतेजोभवम्। विष्णुतेजोद्भव उत्पत्तिर्यस्य तम्। अष्टचक्रे रथे स्थितम्।
अष्टभिश्चक्रैर्यो युक्तो रथः स्यन्दनं तत्र स्थितम्। कीदृशे भास्वति। तेजोयुते। रत्नचित्रे मणि-
भूषिते। कीदृशं ध्वजम्। देदीप्यमानं शरदिव सूर्यम्। शरदि शरत्काले सूर्यमादित्यमिव
देदीप्यमानं ज्वलन्तम्। एवंविधं तं ध्वजं शक्र इन्द्रः समासाद्य प्राप्य मुमोद जहषे॥६॥
ततस्तं प्राप्य किं कृतवानिन्द्र इत्याह—
स किङ्किणीजालपरिष्कृतेन स्रक्छत्रघण्टापिटकान्वितेन।
समुच्छ्रितेनामरराइध्वजेन निन्ये विनाशं समरेऽरिसैन्यम् ॥७॥
किङ्किणियों ( सूक्ष्म घण्टाओं ) के समूह से भूषित, माला, छत्र, घण्टा और पिटक
( ध्वजा में लगाने का एक प्रकार का भूषण ) से युत उन्नत ध्वज के द्वारा युद्ध में शत्रु की
सेना का नाश किया॥७॥
४७८ बृहत्संहिता
अमरराडिन्द्रस्तेन ध्वजेन समुच्छ्रितेनारिसैन्यं शत्रुसैन्यं समरे संग्रामे विनाशं क्षयं
निन्ये। कीदृशेन? किङ्किणीजालपरिष्कृतेन। किङ्किण्यः सूक्ष्मघण्टाः। तासां जालं समूहः।
तेन परिष्कृतेन युक्तेन। स्रक्छत्रघण्टापिटकान्वितेन, स्रक् माला। छत्रमातपत्रम्। घण्टा
प्रसिद्धा। पिटकानि विभूषणानि। तैरन्वितेन युक्तेन। तथा च गर्गः—
असुरास्तं ध्वजं दृष्ट्वा ध्वजतेजःसमाहताः।
विसंज्ञाः समरे भग्नाः पराभूता प्रदुद्रुवुः।।
तान् वज्रेण सहस्राक्षो मासे भाद्रपदेऽसुरान्।
घातयित्वा सज्येष्ठायामेकरात्रेण वाजिना।।
स जित्वा श्रवणे स्वर्गं प्रययौ सद्भिजः पथि।। इति।।७।।
ततस्तं ध्वजमिन्द्रो वसुं ददावित्याह—
उपरिचरस्यामरपो वसोर्ददौ चेदिपस्य वेणुमयीम्।
यष्टिं तां स नरेन्द्रो विधिवत् सम्पूजयामास ।।८।।
इन्द्र ने ऊपर गमन करने वाले (भूमि पर रहते हुये भी स्वर्ग जाने वाले) चेदि देश
के राजा वसु को एक बाँस का दण्ड दिया, जिसका विधिपूर्वक चेदिपति राजा ने पूजन
किया।।८।।
ततोऽमरप इन्द्र उपरिचरस्योर्ध्वगामिनो वसुनामचेदिपस्य वेणुमयीं यष्टिं ददौ।
चेदिनां जनपदानां राजा वसुपो भूमिष्ठः सन् उपरि चरति स्वर्गं याति। तथा स नरेन्द्रश्चे-
दिपो विधिवत्तां यष्टिं सम्पूजयामास पूजितवान्।।८।।
अथ शक्रप्रसादं ध्वजमाहात्म्यं श्लोकद्वयेनाह—
प्रीतो महेन मघवा प्राहैवं ये नृपाः करिष्यन्ति।
वसुवद्वसुमन्तस्ते भुवि सिद्धाज्ञा भविष्यन्ति ।।९।।
मुदिताः प्रजाश्च तेषां भयरोगविवर्जिताः प्रभूतान्नाः।
ध्वज एव चाभिधास्यति जगति निमित्तैः फलं सदसत् ।।१०।।
राजा वसु की पूजा से प्रसन्न होकर इन्द्र ने कहा—राजा वसु की तरह जो राजा उत्सव
करेगा, वह अनेक प्रकार के रत्नों से युत पृथ्वी पर आदेश करने वाला राजा होगा। उस
राजा के प्रजागण हर्षयुत, भय-रोग से रहित और बहुत अन्नों से युत होंगे तथा संसार में
कारणों के द्वारा ध्वज ही शुभाशुभ फल कहेगा।।९-१०।।
मघवा भगवानिन्द्रो महेन पूजया प्रीतः परितुष्टः प्राह उक्तवान्। एवमनेन प्रकारेण
वसुवद्वसुना तुल्यं ये नृपा राजानः करिष्यन्ति ते वसुमन्तः। वसूनि रत्नानि विद्यन्ते
येषाम्। तथा भुवि भूमौ सिद्धाज्ञा भविष्यन्ति। सिद्धा आज्ञा येषां ते विहितादेशाः कृत-
देशा इत्यर्थः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
इन्द्रध्वजसम्पदाध्यायः ४७९
मुदिता इति । तेषां नृपाणां प्रजा जना मुदिता भविष्यन्ति तथा भयरोगैर्विवर्जिता
रहिताः। प्रभूतान्नाः। प्रभूतं बह्वन्नं येषां ते। ततो ध्वज एव जगति लोके निमित्तैः कारणैः
सदसच्छुभाशुभं फलं दास्यति। एतदुक्तं भवति—य एवं भगवता दत्तं ध्वजं राजा पूजयि-
ष्यति। स एव ध्वजः पूज्यमानो लोके निमित्तैश्चिह्नैः शुभाशुभं दास्यतीत्यर्थः। युगल-
कम्।।९-१०।।
अथास्य विधानं वक्ष्यामीत्याह—
पूजा तस्य नरेन्द्रैर्बलवृद्धिजयार्थिभिर्यथा पूर्वम्।
शक्राज्ञया प्रयुक्ता तामागमतः प्रवक्ष्यामि ॥११॥
पूर्व काल में इन्द्र की आज्ञा से बल की वृद्धि और जय की इच्छा रखने वाले राजाओं
ने जिस तरह उस ध्वज का पूजन किया, शास्त्र से लेकर उसको मैं कहता हूँ।।११।।
तस्य ध्वजस्य नरेन्द्रै राजभिर्बलवृद्धिजयार्थिभिः। बलवृद्धिजयानां येऽर्थिनः प्रार्थना-
परास्तैर्यथा येन प्रकारेण पूर्वं पुरा शक्राज्ञया इन्द्राज्ञया प्रयुक्ता कृता तां पूजामागमत आग-
मात् प्रवक्ष्यामि। यथावदभिधास्यामीत्यर्थः।।११।।
अथ तदभिधानमेवाह—
तस्य विधानं शुभकरणदिवसनक्षत्रमङ्गलमुहूर्त्तैः।
प्रास्थानिकैर्वनमियाद् दैवज्ञः सूत्रधारश्च ॥१२॥
शुभ करण ( ९९ अध्याय के ४-५ श्लोक में उक्त ), शुभ दिन, शुभ नक्षत्र, शुभ
शकुन और शुभ मुहूर्त ( यात्रा में उक्त मुहूर्त ) में ज्योतिषी और बढ़ई को वन में गमन
करना चाहिये ।।१२।।
तस्येन्द्रध्वजस्य विधानं करणम्। शुभे शुभप्रदे करणे। करणानि बवादीनि। तस्मिन्
शुभे विष्टिपरिवर्जिते। आचार्योऽत्र लक्षणं कथयिष्यति। यथा—
बववालवकौलवतैतिलाख्यगरवणिजविष्टिसंज्ञानाम्।
पतयः स्युरिन्द्रकमलजमित्रार्यमभूश्रियः सयमाः।।
कृष्णचतुर्दश्यर्द्धाद् ध्रुवाणि शकुनिश्चतुष्पदं नागम्।
किंस्तुघ्नमिति च तेषां कलिवृषफणिमारुताः पतयः।।
एवंविधे शुभे करणे। दिवसशब्देन तिथिर्वा वार उच्यते—
नन्दा भद्रा रिक्ता पूर्णा च नामसदृशफलाः। इति।
शुभतिथौ। तथैव शुभे पूर्णचन्द्रबुधजीवशुक्राणामन्यतमयुक्तस्य दिने। शुभनक्षत्रे दारुणो-
ग्रवर्जिते लघूनि साधारणे च पापग्रहवर्जिते। लघुहस्ताश्विनपुष्य इत्यादि निरुपहते नक्षत्रे।
शुभे मङ्गले शकुने दध्यक्षतकुसुमादीनां दर्शने। शुभे मुहूर्ते। मुहूर्तानि यात्रायामुक्तानि।
तद्यथा—यात्रायां गरवणिजविष्टिपरिवर्जितानि करणानीति करणानां फलमुक्तम्। दिवसगुणा
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४८० बृहत्संहिता
वारगुणाः। उदरनयनरोगश्वपदारुण्यबाधा इत्युक्ताः। नक्षत्राणाम्। दिशि दिशि बहुलाद्या
इति। मङ्गलानि च सिद्धार्थकादर्शमयाऽञ्नानीति। मुहूर्ताः—
शिवभुजगमित्रपितृवसुजलविश्वविरञ्चिपङ्कजप्रभवाः।
इन्द्राग्नीन्द्रनिशाचरवरुणार्यमयो नयश्चाहि ।।
रुद्राजाहिर्बुध्न्याः पूषादस्खान्तकाग्निधातारः।
चन्द्रादितिगुरुहरिरवित्वाष्ट्राननिलाख्यका रात्रौ।।
अहः पञ्चदशांशो रात्रेश्चैवं मुहूर्त इति।
संज्ञा स च विज्ञेयश्छायायन्त्राम्बुभिर्युक्त्या।। इति।
एतैः प्रास्थानिकैः। प्रस्थाने गमने भवाः प्रास्थानिकास्तैर्देवज्ञः कालवित् सूत्रधारश्च
तक्षा वनमियाद् गच्छेत्।।१२।।
तत्र वने किं कुर्यादित्यशुभतरुच्छेदवर्जं श्लोकद्वयेनाऽऽह—
उद्यानदेवतालयपितृवनवल्मीकमार्गचितिजाताः ।
कुब्जोर्ध्वशुष्ककण्टकिवल्लीवन्दाकयुक्ताश्च ।।१३।।
बहुविहगालयकोटरपवनाननपीडिताश्च ये तरवः ।
ये च स्युः स्त्रीसंज्ञा न ते शुभाः शक्रकेत्वर्थे ।।१४।।
उद्यान (फुलवाड़ी), देवालय, श्मशान, वल्मीक (वमई = दिवड़ा भीड़), मार्ग
तथा यज्ञभूमि में उत्पन्न, कुबड़ा, खड़े ही सूख गये, काँटेदार, लताओं से युत, वन्दाकवृक्ष
से युत, बहुत पक्षियों के घोंसले वाले, वायु से टूटे हुये, आग से जले हुये और स्त्रीलिङ्ग
नाम वाले (कदली, वदली आदि) वृक्षों के अतिरिक्त शुभ वृक्ष इन्द्रध्वज के लिये काटे
गये।।१३-१४।।
एवंविधास्तरवो वृक्षाः शक्रकेत्वर्थे इन्द्रध्वजार्थे न शुभा न प्रशस्ताः। कीदृशाः?
उद्यानमुपवनम्। देवालयं सुरगृहम्। पितृवनं श्मशानम्। वल्मीकः प्रसिद्धो वल्मीककृतो
मृद्यूपः। मार्गः पन्थाः। चितिर्यज्ञभूमिः। एतेषु ये जाताः। तथा कुब्जा अस्पृष्टार्थाः। ऊर्ध्व-
शुष्काः। तथा कण्टकिनः कण्टकयुक्ता वदरीप्रभृतय इत्यर्थः। वल्लीभिर्युक्ता लतापरिवेष्टिताः।
वन्दाकयुक्ताश्च। वन्दाको वृक्षविशेषस्तेन युक्ताः।
तथा प्रभूतानां विहगानां पक्षिणामालयानि गृहाणि यत्र सन्ति। कोटरं छिद्रम्।
पवनेन वायुना ये पीड़िता भग्नाः। अनलेन पीड़िता दग्धाः। तथा च ये स्त्रीसंज्ञाः स्त्री-
नामानः स्युर्भवेयुः। यथा कदली बदरी द्रेकाण्येवमादि। एतत्प्रतिपादितं यंत्तद्वर्जितं शुभतरु-
छेदनं कार्यम्। तथा च गर्गः—
प्रोष्ठपादे प्रतिपदि ध्वजार्थं पूर्वतो वनम्।
गत्वा वृक्षं परीक्षेत वयःसारगुणान्वितम्।। इति।।१३-१४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
इन्द्रध्वजसम्पदध्यायः ४८१
अथैषां केतुः शोभन इत्याह—
श्रेष्ठोऽर्जुनोऽजकर्णः प्रियकधववोदुम्बराश्च पञ्चैते।
एतेषामेकतमं प्रशस्तमथवापरं वृक्षम्॥१५॥
अर्जुन ( काहू ), अजकर्ण, प्रियक, धव और गूलर—ये पाँच वृक्ष ध्वज के लिये
शुभ होते हैं। इनमें एक या अन्य वृक्ष वक्ष्यमाण शुभ लक्षणों से युत हैं।।१५।।
अर्जुनो वृक्षः श्रेष्ठः प्रशस्तः। अजकर्णः। प्रियकः। धवः। उदुम्बरः। एते पञ्च श्रेष्ठाः।
एतेषां मध्यादेकतममन्यतमम्। अथवाऽपरमन्यं वृक्षं प्रशस्तं शुभलक्षणमित्यर्थः ।। १५ ।।
तत्कीदृशमित्याह—
गौरासितक्षितिभवं सम्पूज्य यथाविधि द्विजः पूर्वम्।
विजने समेत्य रात्रौ स्पृष्ट्वा ब्रूयादिमं मन्त्रम् ॥१६॥
श्वेत या काली भूमि में उत्पन्न ( शुभ लक्षणयुत ) वृक्ष के पास जाकर ब्राह्मण जन-
रहित स्थान में रात्रि के समय विधिपूर्वक पूजन के बाद वृक्ष को स्पर्श करके वक्ष्यमाण
मन्त्र बोले।।१६।।
गौरायामसितायां च क्षितौ भूमौ भव उत्पत्तिर्यस्य तं तथाभूतं वृक्षं द्विजो ब्राह्मणः
पूर्वं प्रथमसमये रात्रौ निशि विजने जनरहिते समेत्य गत्वा यथाविधि सम्पूज्य समभ्यर्च्य
स्पृष्ट्वा च मन्त्रमिमं ब्रूयाद्वदेत्।।१६।।
तमेव मन्त्रं श्लोकद्वयेनाह—
यानीह वृक्षे भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः।
उपहारं गृहीत्वेमं क्रियतां वासपर्ययः ॥१७॥
पार्थिवस्त्वां वरयते स्वस्ति तेऽस्तु नगोत्तमम्।
ध्वजार्थं देवराजस्य पूजेयं प्रतिगृह्यताम् ॥१८॥
इस वृक्ष पर जितने जन्तु हैं, सबके लिये शुभ हो, आप सबों के लिये मैं नमस्कार
करता हूँ, इस बलि को ग्रहण करके आप सब दूसरी जगह वास करें। हे प्रधान वृक्ष !
आपके लिये शुभ हो, इन्द्रध्वज के लिये राजा आपको पाने की इच्छा कर रहा है। अतः
मेरी की हुई पूजा ग्रहण करें।।१७-१८।।
इहास्मिन् वृक्षे तरौ यानि भूतानि च सन्ति तेभ्यो भूतेभ्यः स्वस्ति श्रेयोऽस्तु। वो
युष्माकं नमस्कारो भवतु। इममपहारमिमं बलिं गृहीत्वा वासपर्ययः क्रियतामन्यत्र वासं
गृहं कल्पयत्विति।
ते तव नगोत्तम वृक्षप्रधान स्वस्त्यस्तु। पार्थिवो राजा देवराजस्येन्द्रस्य ध्वजार्थं
वरयते। तस्मादियं मत्प्रयुक्ता पूजा प्रतिगृह्यताम्।।१७-१८।।
बृ० सं० प्र०-३१
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४८२ बृहत्संहिता
ततः किं कुर्यादित्याह—
छिन्द्यात् प्रभातसमये वृक्षमुदक् प्राङ्मुखोऽपि वा भूत्वा ।
परशोर्जर्जरशब्दो नेष्टः स्निग्धो घनश्च हितः ॥१९॥
बाद में सूर्योदय के समय उत्तर या पूर्व-मुख होकर वृक्ष को काटे। परशु ( फरसा =
कुल्हार ) का जर्जर शब्द निकलना शुभ नहीं है, किन्तु मधुर और घने शब्द का निकलना
शुभ है ॥१९॥
ततः प्रभातसमये अरुणोदयकाले वृक्षं तरुं छिन्द्यात्। कीदृशो भूत्वा? उदक् प्राङ्-
मुखोऽपि वा भूत्वा, उत्तराभिमुखः पूर्वाभिमुखोऽपि वा स्थित्वा। परशोः कुठारस्य जर्जर-
शब्दो भिन्नशब्दो नेष्टो न शुभः। स्निग्धो मधुरः, घनः सन्ततश्च हितः प्रशस्तः ॥१९॥
अथ पतितस्य शुभाशुभज्ञानमाह—
नृपजयदमविध्वस्तं पतनमनाकुञ्चितं च पूर्वोदक् ।
अविलग्नं चान्यतरौ विपरीतमतस्त्यजेत्पतितम् ॥२०॥
अखण्डित या अवक्र होकर और पूर्व या उत्तर दिशा में वृक्ष का गिरना राजा की
विजय करने वाला होता है। इनसे भिन्न लक्षणयुत होकर ( खण्डित या वक्र होकर
आग्नेय, दक्षिण, नैर्ऋत्य, पश्चिम या वायव्य कोण में ) वृक्ष का गिरना अशुभ है ॥२०॥
वृक्षस्य पतनमविध्वस्तं ध्वंसरहितं नृपजयदम्। अभग्नस्य पतनमित्यर्थः। अनाकुञ्चितं
पतनं नृपजयदमेव। तथा पूर्वोदक् पूर्वस्यामुत्तरस्यां दिशि यदि पतितं तदापि नृपजयदम्।
तथाप्यन्यतरावन्यस्मिन् वृक्षे अविलग्नं पतनं नृपजयदम्। अतोऽस्माद्विपरीतं त्यजेत्
परिहरेदित्यर्थः। एतदुक्तं भवति—वृक्षं कुञ्चितं कुब्जं कृत्वा यत् पतितं तथाग्नेयीदक्षिण-
नैर्ऋत्यपश्चिमवायव्यासु पतितमन्यस्मिंस्तरौ च लग्नं तन्न शुभदमित्यर्थः ॥२०॥
ततः किं कुर्यादित्याह—
छित्त्वाग्रे चतुरङ्गुलमष्टौ मूले जले क्षिपेद्यष्टिम् ।
उद्धृत्य पुरद्वारं शकटेन नयेन्मनुष्यैर्वा ॥२१॥
इस वृक्ष के आगे से चार अङ्गुल और मूल से आठ अङ्गुल काटकर यष्टि ( मध्यभाग )
को जल में डाल देना चाहिये। बाद में जल से निकाल कर गाड़ी या मनुष्यों के द्वारा
पुरद्वार पर उसको लाना चाहिये ॥२१॥
ततस्तस्य वृक्षस्याग्रे चतुरङ्गुलं छित्त्वा तां यष्टिं जले उदकमध्ये क्षिपेत्। ततो
जलादुद्धृत्य शकटेन मनुष्यैर्नैरैर्वा पुरद्वारं नगरगोपुरं नयेत् ॥२१॥
अथ तस्य नीयमानस्य लक्षणमाह—
अरभङ्गे बलभेदो नेम्या नाशो बलस्य विज्ञेयः ।
अर्थक्षयोऽक्षभङ्गे तथानिभङ्गे च वर्द्धकिनः ॥२२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
लकड़ी लाने के समय गाड़ी का आरा टूट जाय तो सेनाओं में भेद, नेमि ( हाल )
टूट जाय तो सेनाओं का नाश, अक्ष ( धुरा ) टूट जाय तो धन का नाश और अणि
( कुलावा ) टूट जाय तो बढ़ई का नाश होता है।।२२।।
अरं चक्रस्य मध्यवर्ति काष्ठम्। तस्य भङ्गे बलस्य सैन्यस्य भेदो भवति। नेमिश्चक्र-
पर्यन्तम्। तस्या भङ्गे बलस्य नाशः क्षयो भवति। अक्षश्चक्रविवरवर्ति काष्ठम्। तस्य भङ्गे-
ऽर्थक्षयो द्रव्यविनाशः। अणिरक्षाग्रे कीलकः। तस्य भङ्गे वर्द्धकिनस्तक्षणः क्षयः।।२२।।
अथ कस्मिन् काले प्रवेशयेदित्याह श्लोकद्वयेन—
भाद्रपदशुक्लपक्षस्याष्टम्यां नागरैर्वृतो राजा।
दैवज्ञसचिवकञ्चुकिविप्रप्रमुखैः सुवेषधरैः ॥२३॥
अहताम्बरसंवीतां यष्टिं पौरन्दरीं पुरं पौरैः ।
स्रग्गन्धधूपयुक्तां प्रवेशयेच्छङ्खतूर्यरवैः ॥२४॥
भाद्र शुक्ल अष्टमी के दिन नगर में रहने वाले मनुष्य, ज्योतिषी, मन्त्री, कञ्चुकी और
सुन्दर वेषधारी प्रधान ब्राह्मणों के साथ होकर राजा पुरवासियों के द्वारा नवीन वस्त्र से ढकी
हुई, माला, गन्ध और धूपों से युत यष्टि को शङ्ख और तुरही के शब्दों के साथ पुर में प्रवेश
कराना चाहिये।।२३-२४।।
भाद्रपदशुक्लाष्टम्यां तिथौ राजा नृपो नागरैर्नगरवासिभिर्जनैर्वृतः परिवृतस्तथा दैवज्ञेन
सांवत्सरिकेण। सचिवैर्मन्त्रिभिः। कञ्चुकिभिर्महत्तरकैर्विप्रप्रमुखैर्ब्राह्मणप्रवरैः सुवेषधरैः।
पौरैः स पौरन्दरीमैन्द्रीं यष्टिं प्रवेशयेत् पुरं नगरम्। कीदृशीं यष्टिम्? अहताम्बरसंवीताम्,
अहतमक्षतमभिनवमम्बरं वस्त्रं तेन संवीतामावृताम्। तथा स्रग्गन्धधूपयुक्ताम्। स्रग्भिर्मालाभिः,
गन्धैः सुगन्धद्रव्यैः, धूपैश्च संयुक्ताम्। तथा शङ्खरवैः शङ्खशब्दैः, तूर्यरवैः सह प्रवेशयेदिति।
युगलकम्। तथा च गर्गः—
प्रोष्ठपादे सिताष्टम्यां ज्येष्ठायोगे स्वलङ्कृताम्।
यष्टिं पौरन्दरीं राजा नगरं सम्प्रवेशयेत्।। इति।।२३-२४।।
कीदृशं नगरमित्याह श्लोकद्वयेन—
रुचिरपताकातोरणवनमालालङ्कृतं प्रहृष्टजनम्।
सम्मार्जितार्चितपथं सुवेषगणिकाजनाकीर्णम् ॥२५॥
अभ्यर्चितापणगृहं प्रभूतपुण्याहवेदनिर्घोषम्।
नटनर्तकगेयज्ञैराकीर्णचतुष्पथं नगरम् ॥२६॥
मनोहर पताका, तोरण और वनमालाओं से भूषित, हर्षित मनुष्यों से युत, शोधित
और सजाये हुये मार्गों से युत, सुन्दर वेष वाली वेश्याओं से व्याप्त, सजी हुई दुकानों से
युत, अधिक पुण्याह और वेद के शब्दों से युत, नट, नाचने वाले और गान विद्या जानने
४८४ | बृहत्संहिता
वालों से व्याप्त चतुष्पथ ( चौराहे ) वाला नगर होना चाहिये ।। २५-२६ ।।
कीदृशं नगरम्? रुचिरपताकातोरणवनमालालङ्कृतम्, रुचिराभिः शोभनाभिः पताका-
भिर्वैजयन्तीभिः, रुचिरैश्च तोरणैः, तथा वनमालाभिः पत्रलताभिरलङ्कृतम्। प्रहृष्टा हर्षिता
जना लोका यत्र तत्। सम्मार्जितार्चितपथम्, सम्मार्जितः शोधितोऽर्चितः पूजितः पन्था
यत्र तत्। तथा सुवेषगणिकाजनाकीर्णम्, सुवेषेण शोभनवेषेण गणिकाजनेन वेश्या-
समूहेनाकीर्णं व्याप्तम्।
अभ्यर्चितापणगृहम्, अभ्यर्चितानि पूजितानि आपणगृहाणि पण्यविक्रयस्थानानि
यत्र। प्रभूतपुण्याहवेदनिर्घोषम्, प्रभूता बहवः पुण्याहानां वेदानां च निर्घोषाः शब्दा यत्र।
नटनर्तकगेयज्ञैराकीर्णचतुष्पथम्, नटैर्नर्तकैर्गेयज्ञैराकीर्णं संयुक्तं चतुष्पथं यत्र। चत्वारः
पन्थानो यस्य तच्चतुष्पथं नगरम्। युगलकम् ।। २५-२६ ।।
कीदृशीभिः पताकाभिः कार्यमित्याह—
तत्र पताकाः श्वेता भवन्ति विजयाय रोगदाः पीताः।
जयदाश्च चित्ररूपा रक्ताः शस्त्रप्रकोपाय ।। २७ ।।
उस नगर में श्वेत वर्ण की पताका विजय के लिये, पीत वर्ण की रोग देने वाली, अनेक
वर्ण की विजय कराने के लिये और रक्त वर्ण की पताका शस्त्रप्रकोप के लिये होती है।
तत्र तस्मिन्नगरे पताकाः श्वेताः शुक्लवर्णा विजयाय भवन्ति। पीताः पीतवर्णा रोगदा
भवन्ति। चित्ररूपा नानावर्णा जयदा एव। शत्रुविजयं कुर्वन्तीत्यर्थः। रक्ता रक्तवर्णाः पताकाः
शस्त्रप्रकोपाय भवन्ति ।। २७ ।।
तस्यां प्रवेशमानायां शुभाशुभमाह—
यष्टिं प्रवेशयन्तीं निपातयन्तो भयाय नागाद्याः।
बालानां तलशब्दे संग्रामः सत्त्वयुद्धे वा ।। २८ ।।
नगर में प्रवेश कराती हुई यष्टि को यदि हाथी, घोड़ा आदि कोई जीव गिरा दे तो भय
के लिये एवं उस समय बालक तालियाँ बजावें या गायों में परस्पर लड़ाई हो तो युद्ध के
लिये होती है ।। २८ ।।
प्रवेशयन्तीं यष्टिं नागाद्याः। नागा हस्तिनः। आदिग्रहणादश्वमहिषगवादयो गृह्यन्ते।
एते निपातयन्तो भयाय भवन्ति। तथा बालानां शिशूनाम्। तलशब्देन हस्ततलमुच्यते।
तेन करास्फोटेन संग्रामो भवति। सत्त्वानां गवां युद्धे संग्राम एव भवति ।। २८ ।।
ततः किं कुर्यादित्याह श्लोकद्वयेन—
सन्तक्ष्य पुनस्तक्षा विधिवद्यष्टिं प्ररोपयेद्यन्त्रे।
जागरमेकादश्यां नरेश्वरः कारयेच्चास्याम् ।। २९ ।।
सितवस्त्रोष्णीषधरः पुरोहितः शाक्रवैष्णवैर्मन्त्रैः।
जुहुयादग्निं सांवत्सरो निमित्तानि गृह्णीयात् ।। ३० ।।