बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 508, कुल 728 में से
संदर्भ में पढ़ें४६६ बृहत्संहिता
सुरभितनया बलीवर्दाः। एते गवि वृषे स्युर्भवेयुः।
मिथुनेऽपीति। धान्यानि प्रसिद्धानि। शारदं शरत्समुत्पन्नं यत्किञ्चिद् द्राक्षावल्यादि।
शालूकं कुमुदकन्दम्। कार्पासाः प्रसिद्धाः। एते सर्व एव मिथुने। तथा च काश्यपः—
वृषे महिषगोवस्त्रशालयः पुष्पसम्भवाः।
मिथुने धान्यशालूकवल्ल्यः कार्पासशारदम्।। इति।।३।।
अथ कर्कटसिंहयोराह—
कर्कणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि।
सिंहे तुषधान्यरसाः सिंहादीनां त्वचः सगुडाः ॥४॥
कोदो, केला, दूब, सब फल, कन्द ( शकरकन्द आदि ), पत्र ( सुगन्धपत्र ) एवं
चोच ( नारियल ) का स्वामी कर्क है। भूसी वाले धान्य, रस ( मधुर आदि छः रस ),
सिंह आदि प्राणी, त्वचा और गुड़ का स्वामी सिंह है।।४।।
कोद्रवाः प्रसिद्धा। कदली रम्भा। दूर्वा शाद्वलम्। फलानि सर्वाणि जातीफलप्रभृतीनि।
कन्दं प्रसिद्धम्। मूले बीजं यस्य तत्कन्दम्। पत्रं सुगन्धपत्रम्। चोचं पालेवतं नालिकेरं
वा। एतानि सर्वाणि कर्कणि कर्कटे।
तुषधान्यानि प्रसिद्धानि। शालयः। रसा मधुराम्ललवणतिक्तकटुकषायाः षट्। सिंहा-
दीनां प्राणिनां सिंहद्वीपिमार्जारणां त्वचश्चर्माणि विचित्ररूपाणि। एते सगुडा गुडेन सहिताः
सिंहे। तथा च काश्यपः—
कर्कटे फलदूर्वाश्च कोद्रवः कदली तथा।
सिंहे धान्यं सर्वरसाः सिंहादीनां त्वचो गुडाः।। इति।।३।।
अथ कन्यातुलयोराह—
षष्ठेऽतसीकलायाः कुलत्थगोधूममुद्गनिष्पावाः।
सप्तमराशौ माषा यवगोधूमाः ससर्षपाश्चैव ॥५॥
अतसी ( अलसी = तिसी ), कलाय ( उड़द ), कुलथी, गेहूँ, मूँग और निष्पाव
( शालिधान्य या शिम्बि धान्य ) का स्वामी कन्या है। मसूर, जौ, गेहूँ और सरसों का
स्वामी तुला है।।५।।
अतसी प्रसिद्धा। कलायः सस्यम्। कुलत्थाः। गोधूमाः। मुद्गाः। एते प्रसिद्धाः।
अनूत्पन्नानि यानि पुनर्जायन्ते ते निष्पावाः। निष्पावाः शालय इति केचित्। शिम्बिधान्यमिति
च केचित्। एते षष्ठे कन्यायाम्। सप्तमराशाविति। माषाः। यवाः। गोधूमाः। एते किं
भूताः। ससर्षपाः सर्षपसहिताः। एते सप्तमराशौ तुलायाम्। तथा च काश्यपः—
कन्यायां मुद्गनीवारकुलत्थाः सकला यवाः।
तुले तु यवगोधूममाषाः सिद्धार्थकास्तथा।। इति।।५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA