सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

अथ निर्घातलक्षणाध्यायः
अथ निर्घातलक्षणं व्याख्यायते। तत्रादावेव तदुत्पत्तिप्रदर्शनार्थमाह—
पवनः पवनाभिहतो गगनादवनौ यदा समापतति।
भवति तदा निर्घातः स च पापो दीप्तविहगरुतः ॥१॥
जब पवन से टकरा कर पवन आकाश से पृथिवी पर गिरता है, उस समय उसके गिरने
से जो शब्द होता है, उसका नाम 'निर्घात' है। यदि वह सूर्याभिमुख स्थित पक्षियों के शब्द
से युत हो तो दुष्ट फल देने वाला होता है॥१॥
पवनो वायुः पवनेन परेण वायुनाऽभिहतः स मारुतो गगनादाकाशादवनौ भूमौ यदा
समापतति तदा तस्याभिहतस्य पतमानस्य यः शब्दः स निर्घातो भवतीत्युच्यते। तथा च
गर्गः—
यदान्तरिक्षे बलवान् मारुतो मारुताहतः।
पतत्यधः स निर्घातो भवेदनिलसम्भवः॥
स च पापो दीप्तविहगरुतः। स च निर्घातः शब्दो दीप्तैः सूर्याभिमुखैर्दीप्तस्वरैश्च
विहगैः पक्षिभी रुतः कृतः शब्दः पापो भवति। दुष्टफलद इत्यर्थः॥१॥
अथ वेलावशेन फलमाह—
अर्कोदयेऽधिकरणिकनृपधनियोधाङ्गनावणिग्वेश्याः ।
आप्रहरांशेऽजाविकमुपहन्याच्छूद्रपौरांश्च ॥२॥
आमध्याह्नाद्राजोपसेविनो ब्राह्मणांश्च पीडयति।
वैश्यजलदांस्तृतीये चौरान् प्रहरे चतुर्थे तु॥३॥
अस्तं याते नीचान् प्रथमे यामे निहन्ति सस्यानि।
रात्रौ द्वितीययामे पिशाचसङ्घान् निपीडयति॥४॥
तुरगकरिणस्तृतीये विनिहन्याद्यायिनश्चतुर्थे च।
भैरवजर्जरशब्दो याति यतस्तां दिशं हन्ति॥५॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां निर्घात-
लक्षणाध्याय एकोनचत्वारिंशः॥३९॥
यदि सूर्योदय काल में निर्घात हो तो अधिकरणिक, राजा, धनी, शूर, स्त्री, व्यापारी
और वेश्याओं का नाश करता है। यदि दिन के प्रथम प्रहर में निर्घात हो तो छाग, आविक
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

निर्घातलक्षणाध्यायः ४५७
( भेड़ पालने वाले ), शूद्र और पुरवासियों का नाश करता है। द्वितीय प्रहर में राजा, सेवक
और ब्राह्मणों को पीड़ा होती है। तृतीय प्रहर में व्यापारी और मेघ का नाश करता है।
चतुर्थ प्रहर में चोरों को पीड़ित करता है। रात्रि के प्रथम प्रहर में धान्यों का नाश करता
है। द्वितीय प्रहर में पिशाचसमूहों को पीड़ित करता है। तृतीय प्रहर में हाथी और घोड़ों
का नाश करता है। यदि रात्रि के चतुर्थ प्रहर में निर्घात हो तो गमन करने वालों का नाश
करता है तथा जिस दिशा में भग्न भाण्ड की तरह भयङ्कर शब्द जाता है, उस दिशा का भी
नाश करता है॥२-५॥
इति 'विमला' हिन्दीटीकायां निर्घातलक्षणाध्याय एकोनचत्वारिंशः ॥३९॥
अर्कोदये सूर्योदयकाले यदि निर्घात उत्पद्यते तदा अधिकरणिकाः। अधिकरणेन युक्तो-
ऽधिकरणिकः। नृपो राजा। धनिन ईश्वराः। योधा युद्धकुशलाः। अङ्गनाः स्त्रियः। वणिजः
क्रयविक्रयजीविनः। वेश्या बन्धक्यः। एतान् सर्वानिवोपहन्यान्नाशयेत्। दिनारम्भाद् घटिकाद्वयं
यावत् सूर्योदयः।
आप्रहरांश इति। सूर्योदयादारभ्य प्रहरं यावदाप्रहरांशम्। दिनचतुर्थभागे तस्मिन्
प्रथमे दिनचतुर्थागे। अजाश्छागाः। आविका अविप्रकाराः। शूद्राः शूद्रजातयः। पौराश्च
पौरा जनाः। एतानुपहन्यात्।
आमध्याह्नादिति। प्रहरादूर्ध्वं मध्याह्नं यावत्। राजोपसेविना नृपाराधनतत्परान्। ब्राह्म-
णान् विप्रांश्च पीडयति उपतापयति। तृतीये प्रहरे वैश्या वैश्यजातीयास्तान्। जलदान्
मेघांश्च पीडयति। चतुर्थे प्रहरे चौरांस्तस्करान् पीडयति।
अस्तं यातेऽर्के यदि निर्घात उत्पद्यते तदा नीचानधर्मकर्मकरान्निहन्ति। रात्रेः प्रथमे
यामे प्रहरे सस्यानि निहन्ति नाशयति। रात्रेर्द्वितीयेयामे पिशाचसंघान्। पिशाचा देवयोनयः,
तत्समूहान् निपीडयति।
रात्रेस्तृतीयप्रहरे तुरगानश्वान्। करिणो हस्तिनो विनिहन्यात्। चतुर्थे यामे यायिनो
जिगमिषून् विनिहन्यात्। यतो यस्यां दिशि भैरवो विकृतो जर्जरो भिन्नभाण्डसमुद्भूतसदृशः
शब्दः स्वरो याति गच्छति तां दिशमाशां हन्ति नाशयति। तथा च समाससंहितायाम्—
निर्घातोऽहोरात्रेण हन्ति नृपपौरभृत्यराष्ट्रजनान्।
तस्करविप्रांश्चार्कोदयाद्दिशां पतति यस्याम्॥
तथा च गर्गः—
यदा सूर्योदये प्राप्ते निर्घातः श्रूयते भुवि।
क्षत्रिया योधमुख्याश्च पीड्यन्तेऽत्र न संशयः॥
प्रहरांशे तथा वैश्यान् हन्याद् गोजीविनस्तथा।
परिवृत्ते हरौ वैश्या अपराह्णे तु दस्यवः॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

४५८ बृहत्संहिता
नीचचौरांश्च हन्यात् स अस्तमेति दिवाकरे।
प्रथमे प्रहरे सस्यान्यर्द्धरात्रे तु राक्षसान्।।
रात्रित्रिभागे वैश्यांश्च प्रत्यूषे चाहितो भवेत्।
यां दिशं चाभिहन्येत निर्घातो भैरवः स्वनः।।
तद्देश्यान् हन्ति देशांश्च सर्वदिग्भक्तयस्तथा।। इति।।२-५।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ निर्घातलक्षणं
नामैकोनचत्वारिंशोऽध्यायः॥३९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ सस्यजातकाध्यायः
अथ सस्यजातकं व्याख्यायते। तत्रादावेवागमप्रदर्शनार्थमाह—
वृश्चिकवृषप्रवेशे भानोर्ये बादरायणेनोक्ताः।
ग्रीष्मशरत्सस्यानां सदसद्योगाः कृतास्त इमे ॥१॥
वृश्चिक और वृष राशि में सूर्य का प्रवेश होने के समय ग्रीष्म और शरद् ऋतु में
उत्पन्न होने वाले धान्यों के लिये जिन शुभाशुभ फलों को बादरायण मुनि ने कहा है, वे
इस प्रकार हैं॥१॥
भानोरादित्यस्य वृश्चिकप्रवेशे ग्रीष्मसस्यानां यवादीनां वृषप्रवेशे शरत्सस्यानां धान्यादीनां
बादरायणेनाचार्येण सदसद्योगाः शुभाशुभा ये योगा उक्ताः कथितास्त इमे सर्वे मयाऽत्र
कृता इति। एतदुक्तं भवति—यत्र दिने रखेर्वृश्चिकसंक्रमणं भवति तत्र वृश्चिकमेव लग्नं
परिकल्प्य वक्ष्यमाणविधिना ग्रीष्मसस्यानां जन्म विचारणीयम्। एवं वृषसंक्रमवेलायां वृष-
मेव लग्नं परिकल्प्य शरत्सस्यानां जन्म विचारणीयमिति॥१॥
तदत्र योगप्रदर्शनार्थमाह—
भानोरलिप्रवेशे केन्द्रैस्तस्माच्छुभग्रहाक्रान्तैः।
बलवद्भिः सौम्यैर्वा निरीक्षिते ग्रैष्मिकविवृद्धिः ॥२॥
सूर्य के वृश्चिक में प्रवेश होने के समय उससे ( सूर्य से ) केन्द्र स्थान ( वृश्चिक,
कुम्भ, वृष और सिंह ) में शुभग्रह हों या जहाँ-कहीं पर ( केन्द्र से इतर स्थान ) स्थित
बली शुभग्रहों से वृश्चिकगत सूर्य देखा जाता हो तो ग्रीष्म ऋतु में होने वाले धान्यों की
वृद्धि होती है॥२॥
भानोरादित्यस्यालिप्रवेशे वृश्चिकप्रवेशसमयेऽयं विचारः। केन्द्रैस्तस्माच्छुभग्रहाक्रान्तैर्यो
यत्रावधित्वेन निर्दिश्यते तस्माद्यानि केन्द्राणि लग्नचतुर्थसप्तमदशमानि तैः शुभग्रहाक्रान्तैः।
शुभग्रहा बुधगुरुसिताः। अत्रावधित्वेन वृश्चिकप्रवेशावस्थितिः सवितुर्निर्दिष्टा। तस्मादादित्यात्
केन्द्रैः शुभग्रहाक्रान्तैः सौम्यग्रहयुक्तैः। एतदुक्तं भवति—यदा सूर्यस्य वृश्चिकप्रवेशे केन्द्र-
स्थानानि शुभग्रहाक्रान्तानि भवन्ति तदा ग्रैष्मिकसस्यविवृद्धिर्भवति, विशेषेण वृद्धिर्विवृद्धिः।
सुवृद्धिरीत्यर्थः। बलवद्भिः सौम्यैर्वा निरीक्षिते। अथवा भानोः केन्द्रस्थानानि शुभग्रहाक्रान्तानि
भवन्ति, बलवद्भिः सौम्यैः केन्द्रवर्जमन्यत्रावस्थितैर्भानौ निरीक्षिते दृष्टे ग्रैष्मिकविवृद्धिर्भवति।
अत्र केन्द्रनिर्देशादनन्तरमेव दर्शनशब्दो निर्दिष्टः। तत्केन्द्रगतैरपि ग्रहैर्दृश्यत एव कस्मादा-
चार्येण दर्शननिर्देशेनैव केवलेन निर्देशः क्रियते। यदादित्यकेन्द्रावस्थितस्य ग्रहस्य कथं
प्रदर्शनं घटत इत्युपगम्यापि ब्रूमः। यद्येवं तदा त्वेवं निर्देष्टुं युक्तम्। यथा बलवद्भिः सौम्यैर्दृष्टे
भानौ युक्त इति, यस्मादाचार्यसुष्ठुसमासोक्तिप्रियः परिहारः। बलवद्भिः सौम्यैर्निरीक्षित
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४६० बृहत्संहिता
इत्यस्माद्विकल्पादिदमवगम्यते यदा सौम्यैर्बलिभिरबलिभिर्वा केन्द्रस्थानानि युक्तानि भवन्ति
तदा ग्रैष्मिकसस्यविवृद्धिर्भवति। यदा तु पुनस्त्रिकोणरिपुलाभागाः सौम्या बलिनः पश्यन्ति
तदा ग्रैष्मिकस्य विवृद्धिर्भवति। मध्यबलैर्याप्यता। बलहीनैर्मनागपि सस्यानां वृद्धिर्भवति।
तथा च बादरायणः—
वृश्चिकसंस्थे सूर्ये सौम्यैर्बलिभिर्निरीक्षिते वृद्धिम्।
तैरेव केन्द्रगैर्वा ग्रीष्मजधान्यस्य निर्दिशेन्महतीम्॥ इति॥२॥
अथ योगान्तरमाह—
अष्टमराशिगतेऽर्के गुरुशशिनोः कुम्भसिंहसंस्थितयोः।
सिंहघटसंस्थयोर्वा निष्पत्तिर्ग्रीष्मसस्यस्य ॥३॥
सूर्य के आठवीं राशि (वृश्चिक) में गत होने के समय कुम्भ राशि में गुरु और सिंह
राशि में चन्द्रमा या सिंह राशि में गुरु और कुम्भ राशि में चन्द्रमा स्थित हो तो ग्रीष्म ऋतु
में होने वाले धान्यों की निष्पत्ति (वृद्धि) होती है॥३॥
अर्के रवावष्टमराशिगते वृश्चिकस्थे इत्यर्थः। गुरुशशिनोर्जीवचन्द्रयोर्यथाक्रमं कुम्भ-
सिंहसंस्थयोः। कुम्भे गुरुः शशी सिंहे। अथवा सिंहघटसंस्थयोः। गुरुः सिंहे शशी घटे।
तथापि ग्रीष्मसस्यस्य निष्पत्तिर्वक्तव्येति॥३॥
अथ योगान्तरमाह—
अर्कात् सिते द्वितीये बुधेऽथवा युगपदेव वा स्थितयोः।
व्ययगतयोरपि तद्वन्निष्पत्तिरतीव गुरुदृष्ट्या ॥४॥
यदि सूर्य से द्वितीय या द्वादश में शुक्र या बुध या दोनों एक साथ स्थित हों तो ग्रीष्म
ऋतु में होने वाले धान्यों की निष्पत्ति होती है। यदि पूर्वोक्त योगों में बृहस्पति की दृष्टि हो
तो ग्रीष्म ऋतु में होने वाले धान्यों की उत्तम निष्पत्ति होती है॥४॥
अर्काद्रवेरलिस्थितात् सिते शुक्रे द्वितीये द्वितीयस्थानस्थे बुधेऽथवा द्वितीये। अथवा
तयोर्बुधसितयोर्द्वयोरेव युगपद् द्वितीयस्थयोः। व्ययगतयोरपि। तद्वत्तेनैव प्रकारेण व्ययगत-
योरादित्याद् द्वादशस्थाने स्थितयोः शुक्रे द्वादशगे बुधे वा द्वयोर्वा द्वादशस्थानस्थितयोः
सस्यानां निष्पत्तिर्भवति। अतीव गुरुदृष्ट्या। बृहस्पतिर्यदाऽऽदित्यं पश्यति तदा अतीव
सस्यानां निष्पत्तिर्भवति। तथा च बादरायणः—
सूर्याद् बुधे द्वितीये शुक्रे वा युगपदेव तयोः।
रिष्फगयोर्प्येवं निष्पत्तिर्गुरुदृशाऽतीव॥ इति॥४॥
अन्यद्योगान्तरमाह—
शुभमध्येऽलिनि सूर्याद् गुरुशशिनोः सप्तमे परा सम्पत्।
अल्यादिस्थे सवितरि गुरौ द्वितीयेऽर्द्धनिष्पत्तिः ॥५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

सस्यजातकाध्यायः ४६१
दो शुभ ग्रहों के मध्य में स्थित होकर सूर्य वृश्चिक राशि में स्थित हो और सूर्य से
सप्तम में गुरु और चन्द्रमा हो तो धान्यों की उत्तम निष्पत्ति होती है तथा वृश्चिक के आदि
में सूर्य और उससे द्वितीय में गुरु हो तो धान्यों की आधी निष्पत्ति होती है।।५।।
अलिनि वृश्चिके शुभमध्यस्थिते वृश्चिकात् सूर्ययुक्ताद् बुधशुक्रयोरेको द्वितीयस्थाने
भवति, अन्यो द्वादशे। वा शुभमध्यगतो भवति। तथाभूतात् सूर्यादादित्याद् गुरुशशिनो-
र्बृहस्पतिचन्द्रयोः सप्तमस्थाने स्थितयोः परा प्रकृष्टा सम्पत् सस्यानां भवति। अल्यादिस्थ
इति। अलिनि आदौ तिष्ठति अल्यादिस्थस्तस्मिन् सवितर्यादित्ये अल्यादिस्थे वृश्चिक-
प्रारम्भव्यवस्थिते गुरौ जीवे द्वितीयेऽर्द्धनिष्पत्तिः सस्यानां भवति। अर्द्धं निष्पद्यत इत्यर्थः।
अन्यद्योगान्तरमाह—
लाभहिबुकार्थयुक्तैः सूर्यादलिगात् सितेन्दुशशिपुत्रैः।
सस्यस्य परा सम्पत् कर्मणि जीवे गवां चाग्र्या ॥६॥
यदि वृश्चिक राशि में स्थित सूर्य से एकादश में शुक्र, चतुर्थ में चन्द्र और द्वितीय में
बुध स्थित हो तो धान्यों की उत्तम निष्पत्ति होती है। यदि पूर्वोक्त योग में दशम स्थित गुरु
हो तो गायों में उत्तम सम्पत्ति ( दूध की अधिकता ) होती है।।६।।
सूर्यादादित्यादलिगाद् वृश्चिकस्थात् सितेन्दुशशिपुत्रैः शुक्रचन्द्रबुधैर्यथासङ्ख्यं लाभ-
हिबुकार्थयुक्तैः। एकादशचतुर्थद्वितीयस्थैः। तत्रैतज्जातम्। एकादशगे शुक्रे चतुर्थे चन्द्रे
द्वितीये बुधे सस्यस्य परा प्रकृष्टा सम्पद् भवति। अस्मन्नेव योगे कर्मणि दशमस्थाने स्थिते
जीवे गुरौ न केवलं सस्यस्य परा सम्पद् भवति, यावद् गवां चाग्र्य श्रेष्ठा सम्पद् भवति।
क्षीरबाहुल्यमित्यर्थः ।।६।।
अन्यद्योगान्तरमाह—
कुम्भे गुरुर्गवि शशी सूर्योऽलिमुखे कुजार्कजौ मकरे।
निष्पत्तिरस्ति महती पश्चात् परचक्रभयरोगम् ॥७॥
यदि कुम्भ में गुरु, वृष में चन्द्रमा, वृश्चिक के आदि में सूर्य तथा मकर में मङ्गल
और शनि स्थित हो तो धान्यों की अधिक निष्पत्ति होती है; किन्तु बाद में परचक्र का
आगमन और रोग का भय होता है।।७।।
रविवृश्चिकप्रवेशे कुम्भे गुरुर्जीवः स्थितो भवति। गवि वृषे शशी चन्द्रः। सूर्योऽर्कः।
अलिमुखे वृश्चिकप्रारम्भे। कुजार्कजौ भौमसौरौ मकरे। एवंविधे योगे सस्यानां महती
निष्पत्तिरस्ति विद्यते, किन्तु पश्चादनन्तरं परचक्रकृतं भयं रोगं च भवति।।७।।
अन्यद्योगान्तरमाह—
मध्ये पापग्रहयोः सूर्यः सस्यं विनाशयत्यलिगः।
पापः सप्तमराशौ जातं जातं विनाशयति ॥८॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

४६२ बृहत्संहिता
यदि वृश्चिक राशि में स्थित होकर सूर्य दो पापग्रहों के मध्य में स्थित हो तो धान्यों
का नाश करता है तथा सप्तम राशि ( वृष ) में पापग्रह बैठा हो तो धान्यों की उत्पत्ति का
भी नाश करता है।।८।।
सूर्यो रविरलिगो वृश्चिकस्थः। पापग्रहयोः शनैश्चराङ्गारकयोर्मध्ये स्थितः। एको द्वितीये
द्वितीयो द्वादशे यद्यर्काद् भवतीत्यर्थः। तदा सस्यं विनाशयति। तथा वृश्चिकात् सप्तमराशौ
स्थितः पापः सौरभौम्योरन्यतरस्तदा जातं सस्यं जातुमुत्पन्नमपि विनाशयति। तथा च
बादरायणः—
क्रूरान्तस्थः सूर्यो वृश्चिकसंस्थो विनाशयति सस्यम्।
जातं जातं पापः सप्तमसंस्थो विनाशयति।। इति।।८।।
अन्यद्योगान्तरमाह—
अर्थस्थाने क्रूरः सौम्यैरनिरीक्षितः प्रथमजातम्।
सस्यं निहन्ति पश्चादुप्तं निष्पादयेद् व्यक्तम् ।।९।।
यदि वृश्चिक राशि में स्थित सूर्य से द्वितीय स्थान में पापग्रह स्थित होकर शुभग्रह से
नहीं देखा जाता हो तो पहली बोई हुई खेती का नाश करता है, किन्तु बाद की बोई हुई खेती
अच्छी तरह उपजती है।।९।।
वृश्चिकार्दथस्थाने द्वितीये क्रूरः पापग्रहो भौमसौरयोरन्यतरः स्थितः। स च सौम्यैरनिरीक्षितो
बुधजीवशुक्राणामन्यतमेनानिरिक्षितो न दृष्टः। प्रथमजातं पूर्वोत्पन्नं सस्यं निहन्ति नाशयति।
तथा पश्चात् कनीयसमुप्तं तद्व्यक्तं समस्तं निष्पादयेत्। सम्भवतीत्यर्थः।।९।।
जामित्रकेन्द्रसंस्थौ क्रूरौ सूर्यस्य वृश्चिकस्थस्य।
सस्यविपत्तिं कुरुतः सौम्यैर्दृष्टौ न सर्वत्र ।।१०।।
वृश्चिक स्थित सूर्य से सप्तम ( वृष ) में एक और सप्तमभिन्न केन्द्र ( कुम्भ या
सिंह ) में दूसरा पापग्रह ( मङ्गल-शनि में से एक ) हो तो धान्यों का नाश करता है। यदि
वे दोनों पापग्रह ( मङ्गल, शनि ) शुभग्रहों ( बुध, गुरु, शुक्र ) से देखे जाते हों तो सर्वत्र
नहीं; किन्तु कहीं-कहीं पर धान्यों का नाश करते हैं।।१०।।
सूर्यस्यादित्यस्य वृश्चिकसंस्थस्य क्रूरौ पापग्रहौ भौमसौरौ जामित्रकेन्द्रसंस्थौ। एको
जामित्रे सप्तमस्थाने द्वितीयोऽन्यस्मिन् केन्द्रे लग्नचतुर्थदशमानामन्यतमे स्थितः। तथाविधौ
भौमसौरौ सस्यस्य विपत्तिं विनाशं कुरुतो विदधतः। तथा तावेव क्रूरौ तत्रस्थौ सौम्यैः
शुभग्रहैर्दृष्टावालोकितौ न सर्वत्र सर्वस्मिन् देशे सस्यविपत्तिं कुरुतः। क्वचिदित्यर्थः।
नन्वत्र केन्द्रग्रहणेन सप्तमस्थानं गृहीतं भवति। तत्किमर्थं जामित्रग्रहणमिति? उच्यते—
जामित्रग्रहणेनैतत्प्रतिपादयति। यथैकोऽवश्यमेव जामित्रे। अन्यो यस्मिंस्तस्मिन् केन्द्रे
भवतीति तदा योग एषः। तथा च बादरायणः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

सस्यजातकाध्यायः ४६३
सूर्यात् सप्तमसंस्थः पापोऽयः केन्द्रगश्च हानिकरौ।
सौम्यग्रहसन्दृष्टौ न तथा सर्वत्र निर्दिष्टौ।। इति।।१०।।
अन्यद्योगान्तरमाह—
वृश्चिकसंस्थादर्कात् सप्तमषष्ठोपगौ यदा क्रूरौ।
भवति तदा निष्पत्तिः सस्यानामर्घपरिहानिः ॥११॥
वृश्चिक-स्थित सूर्य से सप्तम और षष्ठ स्थान में दो पापग्रह मङ्गल और शनि बैठे हों
तो धान्यों की निष्पत्ति होती है; किन्तु धान्यों का मौल्य महँगा पड़ता है।।११।।
अर्कादादित्याद्वृश्चिकसंस्थात् क्रूरौ पापौ भौमसौरौ यदा सप्तमषष्ठोपगौ। एकः सप्तमे
परः षष्ठे भवति, तदा सस्यानां निष्पत्तिर्भवति। किन्त्वर्घस्य परिहानिः स्वल्पता। बहु-
मूल्येनाल्पं लभत इत्यर्थः।।११।।
अथ शारदसस्यानामतिदेशार्थमाह—
विधिनानेनैव रविर्वृषप्रवेशे शरत्समुत्थानाम्।
विज्ञेयः सस्यानां नाशाय शिवाय वा तज्ज्ञैः ॥१२॥
पूर्व-स्थिति की तरह वृष राशिगत सूर्य के समय शारदीय धान्यों का नाश या निष्पत्ति
पण्डितों को जानना चाहिये।।१२।।
अनेनैव निर्दिष्टेन विधिना वृश्चिकप्रवेशोक्तेन रविरादित्यो वृषप्रवेशे वृषसंक्रमणकाले
शरत्समुत्थानां शरत्समुद्भूतानां सस्यानां नाशायाभावाय शिवाय निष्पत्तये वा तज्ज्ञैः
पण्डितैः सस्यजातकज्ञैर्विज्ञेयो ज्ञातव्यः। तथा च बादरायणः—
य एव योगोऽभिहितो वृश्चिकस्थे दिवाकरे।
वृषेऽपि ते शारदानां चिन्तनीया यथार्थतः।। इति।।१२।।
अधुना रविचारवशेन ग्रैष्मिकसस्यस्य सामर्घ्यं महर्घतां चाह—
त्रिषु मेषादिषु सूर्यः सौम्ययुतो वीक्षितोऽपि वा विचरन्।
ग्रैष्मिकधान्यं कुरुते समर्घमभयोपयोगयं च ॥१३॥
मेष आदि तीन राशियों (मेष, वृष, मिथुन) में गमन करता हुआ सूर्य यदि शुभग्रह
से युत या दृष्ट हो तो ग्रीष्म में होने वाले धान्य सस्ते होते हैं तथा लोक-परलोक दोनों के
लिये उपयुक्त होते हैं; जैसे कि बहुत सस्ते धान्य होने के कारण बन्धुवर्गों के साथ खूब
उपभोग करने से लोक और दानादि धर्मकार्य करने से परलोक—दोनों बन जाते हैं। कहीं-
कहीं पर ‘अभयोपयोगयम्’ ऐसा पाठ मिलता है; जिसका अर्थ यह है कि ये अभीतिकारक
होते हैं अर्थात् ऐसे समय में निर्भय मनुष्य रहते हैं।।१३।।
सूर्य आदित्यः। त्रिषु मेषादिषु मेषवृषमिथुनेषु सौम्यैः शुभग्रहैर्बुधगुरुशुक्रैर्युतः संयुक्तो
वीक्षितोऽवलोकितो वा विचरंस्तिष्ठन् ग्रैष्मिकं ग्रीष्मसम्भवं धान्यं समर्घं स्वल्पमूल्यं कुरुते।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४६४ बृहत्संहिता
अभयोपयोगयं च महार्घताऽभयोपयोगयम्। अथवा उभयोपयोग्यमिह लोके परलोके चोपयुज्यते।
इस लोके बन्धुवर्गस्य। धर्मार्थं परलोक इति।।१३।।
अथैवं शारदसस्यस्याप्याह—
कार्मुकमृगघटसंस्थः शारदसस्यस्य तद्वदेव रविः।
संग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्योगात्।।१४।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां सस्य-
जातकाध्यायश्चत्वारिंशः ॥४०॥
इसी तरह धनु, मकर और कुम्भ में स्थित सूर्य यदि शुभग्रह से युत या दृष्ट हो तो
शारदीय धान्यों की समर्धता तथा उभयोपयोग्यता ( इहलोक और परलोक के लिये उपयुक्तता )
समझनी चाहिये। मेषादि या धनुरादि तीन राशियों में स्थित सूर्य यदि पापग्रह से दृष्ट या
युत हो तो विपरीत फल ( महर्घता और नोभयोपयोग ) समझना चाहिये। अतः संग्रह
( विक्रय ) काल में यही योग अच्छे होते हैं अर्थात् सूर्य के विपरीत योग में स्थित होने
पर विक्रय करना चाहिये ।।१४।।
इति 'विमला' हिन्दीटीकायां सस्यजातकाध्यायश्चत्वारिंशः ॥४०॥
रविरादित्यः। कार्मुकमृगघटसंस्थः। कार्मुकं धन्वी। मृगो मकरः। घटः कुम्भः।
एतेषु स्थितः शारदसस्यस्य तद्वदेव ज्ञेयः। यथा त्रिषु मेषादिषु सूर्यः सौम्ययुतो वीक्षितो
वा विचरन् ग्रैष्मिकधान्यं कुरुते। समर्धमभयोपयोगयं चैवं कार्मुकमृगघटसंस्थः सूर्यः
सौम्ययुक्तो वीक्षितोऽपि वा विचरन् शारदधान्यं कुरुते। समर्धमभयोपयोगयं चेति। संग्रह-
काले संग्रहणसमये क्रूरदृग्योगाद्विपर्ययो ज्ञेयः। क्रूरग्रहदृष्टत्वाद्योगात् संयोगाच्च विपर्ययो
विपरीतो विज्ञेयः। क्रूरावत्र भौमसौरौ। एतदुक्तं भवति—यदा मेषादिषु त्रिषु कार्मुकादिषु
त्रिषु वा सूर्यः पापयुक्तः पापवीक्षितोऽपि वा विचरति तदा विपर्ययो महार्घताभयोपयोगयत्वं
च भवति। एतत्संग्रहकाले विक्रयकाले विपरीत: शोभन:। विपरीतयोगस्थे सूर्ये विक्रयः
कार्य इति।।१४।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ सस्य-
जातकं नाम चत्वारिंशोऽध्यायः ॥४०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ द्रव्यनिश्चयाध्यायः
अथ द्रव्यनिश्चयाध्यायो व्याख्यायते। तत्रादावेवाऽऽगमप्रदर्शनार्थमाह—
ये येषां द्रव्याणामधिपतयो राशयः समुद्दिष्टाः।
मुनिभिः शुभाशुभार्थं तानागमतः प्रवक्ष्यामि ॥१॥
मुनियों ने शुभाशुभ फल जानने के लिये जिन द्रव्यों के जो अधिप राशि कहे हैं,
उनको आगम से लेकर मैं यहाँ कहता हूँ॥१॥
येषां द्रव्याणां ये राशयो मेषादयोऽधिपतयो मुनिभिः काश्यपादिभिः समुद्दिष्टाः कथिताः।
किमर्थं शुभाशुभार्थं समर्घमहार्घज्ञानार्थं तान् राशीनगमत आगमात् प्रवक्ष्यामि कथयिष्या-
मीति॥१॥
तत्र मेषस्य कानि द्रव्याण्येेतदाह—
वस्त्राविककुतुपानां मसूरगोधूमरालक्यवानाम्।
स्थलसम्भवौषधीनां कनकस्य च कीर्तितो मेषः ॥२॥
वस्त्र, भेड़ के रोम से निर्मित वस्त्र, कुतुप ( बकरी के रोम से निर्मित वस्त्र ), मसूर,
गेहूँ, रालक, जौ और स्थल ( जल से रहित भूमि ) में उत्पन्न औषधियों का स्वामी मेष
राशि है॥२॥
वस्त्राण्यम्बराणि। अवयः प्रसिद्धा एव। अवीनामिदमाविकं तत्सम्भूतमित्यर्थः। कुतुपं
छागलोमतन्तुकृतं वस्त्रम्। मसूरगोधूमाः प्रसिद्धाः। रालको वृक्षनिर्यासः। यवाः प्रसिद्धाः।
एतेषां सर्वेषाम्। तथा स्थलसम्भवौषधीनाम्, स्थले जलरहितायां भूमौ या ओषधयः
सम्भवन्ति तासाम्। तथा कनकस्य सुवर्णस्य च मेषराशिरधिपतिः कीर्तित उक्तः। तथा
च काश्यपः—
मेषे सुवर्णस्थलजा गोधूमाजाविकास्तथा।
ग्रहवर्णर्क्षसंयोगे शोभने सफलं भवेत्॥ इति॥२॥
अथ वृषमिथुनयोराह—
गवि वस्त्रकुसुमगोधूमशालयवमहिषसुरभितनयाः स्युः।
मिथुनेऽपि धान्यशारदवल्लीशालूककार्पासाः ॥३॥
वस्त्र, पुष्प, गेहूँ, शालिधान्य, जौ, भैंस और बैल का स्वामी वृष है। धान्य, शारदीय
लता, शालूक ( कुमुदकन्द ) और कपास का स्वामी मिथुन है॥३॥
वस्त्राण्यम्बराणि। कुसुमानि पुष्पाणि। गोधूमाः। शालयः षष्टिकादयः। यवाः। महिषाः।
बृ० सं० १६० Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४६६ बृहत्संहिता
सुरभितनया बलीवर्दाः। एते गवि वृषे स्युर्भवेयुः।
मिथुनेऽपीति। धान्यानि प्रसिद्धानि। शारदं शरत्समुत्पन्नं यत्किञ्चिद् द्राक्षावल्यादि।
शालूकं कुमुदकन्दम्। कार्पासाः प्रसिद्धाः। एते सर्व एव मिथुने। तथा च काश्यपः—
वृषे महिषगोवस्त्रशालयः पुष्पसम्भवाः।
मिथुने धान्यशालूकवल्ल्यः कार्पासशारदम्।। इति।।३।।
अथ कर्कटसिंहयोराह—
कर्कणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि।
सिंहे तुषधान्यरसाः सिंहादीनां त्वचः सगुडाः ॥४॥
कोदो, केला, दूब, सब फल, कन्द ( शकरकन्द आदि ), पत्र ( सुगन्धपत्र ) एवं
चोच ( नारियल ) का स्वामी कर्क है। भूसी वाले धान्य, रस ( मधुर आदि छः रस ),
सिंह आदि प्राणी, त्वचा और गुड़ का स्वामी सिंह है।।४।।
कोद्रवाः प्रसिद्धा। कदली रम्भा। दूर्वा शाद्वलम्। फलानि सर्वाणि जातीफलप्रभृतीनि।
कन्दं प्रसिद्धम्। मूले बीजं यस्य तत्कन्दम्। पत्रं सुगन्धपत्रम्। चोचं पालेवतं नालिकेरं
वा। एतानि सर्वाणि कर्कणि कर्कटे।
तुषधान्यानि प्रसिद्धानि। शालयः। रसा मधुराम्ललवणतिक्तकटुकषायाः षट्। सिंहा-
दीनां प्राणिनां सिंहद्वीपिमार्जारणां त्वचश्चर्माणि विचित्ररूपाणि। एते सगुडा गुडेन सहिताः
सिंहे। तथा च काश्यपः—
कर्कटे फलदूर्वाश्च कोद्रवः कदली तथा।
सिंहे धान्यं सर्वरसाः सिंहादीनां त्वचो गुडाः।। इति।।३।।
अथ कन्यातुलयोराह—
षष्ठेऽतसीकलायाः कुलत्थगोधूममुद्गनिष्पावाः।
सप्तमराशौ माषा यवगोधूमाः ससर्षपाश्चैव ॥५॥
अतसी ( अलसी = तिसी ), कलाय ( उड़द ), कुलथी, गेहूँ, मूँग और निष्पाव
( शालिधान्य या शिम्बि धान्य ) का स्वामी कन्या है। मसूर, जौ, गेहूँ और सरसों का
स्वामी तुला है।।५।।
अतसी प्रसिद्धा। कलायः सस्यम्। कुलत्थाः। गोधूमाः। मुद्गाः। एते प्रसिद्धाः।
अनूत्पन्नानि यानि पुनर्जायन्ते ते निष्पावाः। निष्पावाः शालय इति केचित्। शिम्बिधान्यमिति
च केचित्। एते षष्ठे कन्यायाम्। सप्तमराशाविति। माषाः। यवाः। गोधूमाः। एते किं
भूताः। ससर्षपाः सर्षपसहिताः। एते सप्तमराशौ तुलायाम्। तथा च काश्यपः—
कन्यायां मुद्गनीवारकुलत्थाः सकला यवाः।
तुले तु यवगोधूममाषाः सिद्धार्थकास्तथा।। इति।।५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

द्रव्यनिश्चयाध्यायः ४६७
अथ वृश्चिकधनुषोराह—
अष्टमराशाविक्षुः सैक्यं लोहान्यजाविकं चापि।
नवमे तु तुरगलवणाम्बरास्त्रतिलधान्यमूलानि ॥६॥
ईख ( गन्ना ), लता के फल, लोहा और छाग तथा भेड़-सम्बन्धी वस्तुओं का स्वामी
वृश्चिक है। घोड़ा, नमक, वस्त्र, तिल, धान्य और मूलोत्पन्न धान्यों का स्वामी धनु
है॥६॥
इक्षुः प्रसिद्धः। सैक्यं सेकोत्थं वल्लीफलादि। लोहमायसं कांस्यं वा। एतानि। तथा
अजश्छागः। अविः प्रसिद्धः। तज्जातमाविकम्। एतत्सर्वमष्टमराशौ वृश्चिके।
नवमे त्विति। तुरगा अश्वाः। लवणं सैन्धवम्। अम्बराणि वस्त्राणि। अस्त्राण्यायु-
धानि धनुःशरादीनि। तिलः। धान्यम्। मूलानि प्रसिद्धानि। एतानि नवमे धनुषि। तथा च
काश्यपः—
अलिनीक्षुरसं सैक्यमाजं लोहं सकांस्यकम्।
धान्यं धनुषि वस्त्राणि लवणं तुरगास्तथा॥ इति॥६॥
अथ मकरकुम्भयोराह—
मकरे तरुगुल्माद्यं सैक्येक्षुसुवर्णकृष्णलोहानि।
कुम्भे सलिलजफलकुसुमरत्नचित्राणि रूपाणि ॥७॥
वृक्ष, गुल्म ( सामयिक वृक्ष ), आदि ( लता-वल्ली ), सैक्य ( वल्ली फल
आदि ), ईख ( गन्ना ), सोना और लोहे का स्वामी मकर है। जल में उत्पन्न वस्तु, फल,
फूल, रस और चित्र वस्तु का स्वामी कुम्भ है॥७॥
तरवो वृक्षाः। गुल्माः प्रसिद्धाः। अकाण्डविटपा इत्यर्थः। आदिग्रहणाल्लतावल्ल्यः।
सैक्यं सेकोत्थम्। इक्षुः प्रसिद्धः। सुवर्णं काञ्चनम्। कृष्णलोहमायसम्। एतानि सर्वाणि
मकरे।
कुम्भ इति। सलिलजं यत्किञ्चिज्जलसम्भूतम्। फलानि प्रसिद्धानि। कुसुमानि।
रत्नानि चित्राणि नानाप्रकाराणि येषां रूपाणि। एतानि कुम्भे। तथा च काश्यपः—
मकरे सस्यसीसं च सुवर्णगुडधातुजम्।
कुम्भे कुसुमचित्राणि हंसाश्च जलजास्तथा॥ इति॥७॥
अथ मीन आह—
मीने कपालसम्भववरत्नान्यम्बूद्भवानि वज्राणि।
स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ॥८॥
कपाल-सम्भव-रत्न ( मुक्ताफल ), जल में उत्पन्न वस्तु, हीरा, नाना प्रकार के
तेल और मछली से उत्पन्न मुक्ता आदि का स्वामी मीन है॥८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४६८ बृहत्संहिता
कपालसम्भवानि रत्नानि मुक्ताफलानि। अम्बूद्भवानि शुक्तिसम्भवानि। वज्रं हीरकम्।
नैकरूपा बहुविधाः स्नेहास्तैलादयः। मत्स्यजातं मत्स्योद्भूतम्। मुक्तादिकमपि। एते सर्व
एव मीने व्याख्याता उक्ताः। तथा च काश्यपः—
पद्ममुक्ताफलादीनां द्रव्याणां मीन ईश्वरः।। इति।।८।।
अथैतेषां द्रव्याणां शुभाशुभज्ञानार्थमाह—
राशेश्चतुर्दशार्थायसप्तनवपञ्चमस्थितो जीवः।
द्व्येकादशदशपञ्चाष्टमेषु शशिजश्च वृद्धिकरः ॥९॥
षट्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु।
उपचयसंस्थाः क्रूराः शुभदाः शेषेषु हानिकराः ॥१०॥
जिस राशि से चतुर्थ, दशम, द्वितीय, एकादश, सप्तम, नवम या पञ्चम में बृहस्पति
तथा द्वितीय, एकादश, दशम, पञ्चम या अष्टम में बुध अवस्थित हो उस राशि के कथित
द्रव्यों की वृद्धि करता है। जिस राशि से षष्ठ या सप्तम में शुक्र हो, उस राशि के कथित
द्रव्यों की हानि और शेष स्थान (प्रथम, द्वितीय, तृतीय, चतुर्थ, पञ्चम, अष्टम, नवम,
दशम, एकादश या द्वादश) में स्थित हो तो उनकी वृद्धि करता है तथा जिस राशि से
पापग्रह (रवि, मङ्गल और शनैश्चर) उपचय (तृतीय, षष्ठ या एकादश) में स्थित हो,
उसके द्रव्यों की वृद्धि और शेष स्थान (प्रथम, द्वितीय, चतुर्थ, पञ्चम, सप्तम, अष्टम,
नवम, दशम या द्वादश) में स्थित हो तो हानि करता है॥९-१०॥
राशेश्चतुर्दशेति। यस्य कस्य चोद्देशः। चतुश्चतुर्थस्थानम्। दश दशमम्। अर्थस्थानं
द्वितीयम्। आयमेकादशम्। सप्तमनवमपञ्चमानि। एतेषां स्थानानामन्यतमस्थानस्थो जीवो
बृहस्पतिस्तत्रोक्तद्रव्याणां वृद्धिकरः। द्वितीयम्। एकादशम्। दशमम्। पञ्चमम्। अष्टमम्।
एतेषां स्थानानामन्यतमस्थाने स्थितः शशिजो बुधो वृद्धिकरः।
षट्सप्तमग इति। शुक्रो भार्गवः षट्सप्तमस्थानगतो हानिं क्षयं करोति। शेषे-
ष्वन्यतमस्थानेषु प्रथमद्वितीयतृतीयचतुर्थपञ्चमाष्टमनवमदशमैकादशद्वादशेषु स्थितो वृद्धिं
करोति। क्रूरा आदित्याङ्गारकशनैश्चरा उपचयसंस्थास्त्रिषडेकादशगताः शुभदा वृद्धिकराः।
शेषेष्वन्यस्थानेषु प्रथमद्वितीयचतुर्थपञ्चमसप्तमाष्टमनवमद्वादशेषु हानिकराः। तथा च
काश्यपः—
चतुःसप्तद्विपञ्चस्थो नवदिगुद्रगो गुरुः।।
यस्य राशेस्तदुक्तानां द्रव्याणां वृद्धिदः स्मृतः।
शुक्रः षट्सप्तमस्थो वा हानिकृद्वृद्धिदोऽन्यगः।।
द्व्येकादशदशार्थाष्टसंस्थितः शशिजः शुभः।
पापास्तूपचयस्थाश्च वृद्धिं कुर्वन्ति नान्यथा।। इति।।९-१०।।

द्रव्यनिश्चयाध्यायः ४६९
अत्रैव विशेषमाह—
राशेर्यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः ।
तत्रोक्तद्रव्याणां महर्घता दुर्लभत्वं च ॥४१॥
जिस राशि से पीडास्थान ( उपचयस्थान ) में स्थित होकर पापग्रह ( रवि, मङ्गल,
शनि ) बली ( मित्रगृह, स्वगृह, उच्च या स्वनवांश में स्थित या शुभग्रहों से दृष्ट ) हो तो
उस राशि के कथित द्रव्य अधिक मूल्य वाले और अलभ्य होते हैं।।४१।।
यस्य राशेः क्रूराः पापा रविभौमसौराः पीडास्थानेषूपचयस्थानेष्ववस्थितास्ते च बलिनो
वीर्यवन्तो मित्रस्वक्षेत्रोच्चस्वनवांशकेषु स्थिताः शुभेक्षिताश्च तत्रोक्तद्रव्याणां तस्य राशेर्यानि
प्रोक्तानि द्रव्याणि तेषां कथितद्रव्याणां महर्घता बहुमूल्यत्वं दुर्लभत्वं च दुष्प्रापत्वं भवति।
तथा च काश्यपः—
राशेरनिष्टस्थानेषु पापाश्च सबलाः स्थिताः।
तद्द्रव्याणां नाशकरा दुर्लभास्ते भवन्ति हि।। इति ।।४१।।
अन्यदप्याह—
इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशीनाम्।
तद्द्रव्याणां वृद्धिः सामर्थ्यं वल्लभत्वं च ॥४२॥
जिस राशि से इष्ट स्थान ( पूर्व कथित वृद्धि स्थान ) में बली होकर शुभग्रह ( बुध,
गुरु और शुक्र ) स्थित हों तो उस राशि के कथित द्रव्य अल्प मूल्य से मिलने वाले और
प्रिय होते हैं।।४२।।
येषां राशीनां सौम्याः शुभग्रहा बुधगुरुशुक्रा इष्टस्थानस्थाः। इष्टस्थानानि यथा जीवश्व-
तुरादिषु स्थितो बुधश्च द्व्यादिषु स्थितः शुक्रः षट्सप्तमरहितेषु। एतेषु स्थानेषु बलिनो ये
येषां राशीनां भवन्ति तद्द्रव्याणां तस्य राशेर्यानि द्रव्याणि तेषां सामर्थ्यं समर्घता वल्लभत्वं
च भवति। तथा च काश्यपः—
इष्टस्थाने स्थिताः सौम्या बलिनो येषु राशिषु।
भवन्ति तद्द्रवानां च द्रव्याणां शुभदाः स्मृताः।। इति।।४२।।
अन्यदप्याह—
गोचरपीडायामपि राशिर्बलिभिः शुभग्रहैर्दृष्टः ।
पीडां न करोति तथा क्रूरैरेवं विपर्यासः ॥४३॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां द्रव्य-
निश्चयाध्यायैकचत्वारिंशः ॥४१॥
गोचर-पीडा में स्थित राशि ( बृहस्पति आदि ग्रहों को उक्त चतुर्थ आदि शुभ स्थानों
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४७० बृहत्संहिता
से भिन्न स्थान में स्थित होने पर राशि गोचर पीड़ा में स्थित रहती है, ऐसी राशि ) यदि
बली शुभग्रह ( बुध, गुरु और शुक्र ) से देखी जाती हो तो पीड़ा नहीं करती है अर्थात् वे
द्रव्य सम मूल्य में रहते हैं। यदि पापग्रह ( रवि, मंगल और शनि ) से देखी जाती हो तो
उस राशि के कथित द्रव्य महर्घ और दुर्लभ होते हैं।।१३।।
इति 'विमला'हिन्दीटीकायां द्रव्यनिश्चयाध्याय एकचत्वारिंशः ॥४१॥
जीवादीनां चतुरादीनि स्थानानि यान्युक्तानि तद्व्यतिरिक्तेष्वन्येषु स्थानेषु यदा स्थिता
भवन्ति तदा गोचरपीडा तस्यां सत्यामपि राशिर्यदा शुभग्रहैर्बुधजीवशुक्रैर्बलिभिः सवीर्यैर्दृष्टो-
ऽवलोकितो भवति तदा पीडां न करोति। एतदुक्तं भवति—तद्द्रव्याणि नातिसमर्घाणि
भवन्ति। क्रूरैः पापग्रहैरादित्याङ्गारशनैश्चरैर्बलिभिर्गोचरपीडायां यदि राशिर्दृश्यते तदा विपर्यासो
विपरीतो भवति। तत्रोक्तद्रव्याणां महर्घता दुर्लभत्वं च भवति।।१३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ द्रव्यनिश्चयो
नामैकचत्वारिंशोऽध्यायः ॥४१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथार्घकाण्डाध्यायः
अथातोऽर्घकाण्डाध्यायो व्याख्यायते। तत्रादावेव प्रयोजनसम्पदर्शनार्थमाह—
अतिवृष्ट्युल्कादण्डान् परिवेषग्रहणपरिधिपूर्वांश्च।
दृष्ट्वाऽमावास्यायामुत्पातान् पौर्णमास्यां च ॥१॥
ब्रूयादर्घविशेषान् प्रतिमासं राशिषु क्रमात् सूर्ये।
अन्यतिथावुत्पाता ये ते डमरार्तये राज्ञाम् ॥२॥
मेषादि राशियों में सूर्य के गमन करने पर प्रति मास की अमावास्या और पूर्णिमा में
अतिवृष्टि, उल्का, दण्ड, परिवेष, ग्रहण, परिधि आदि ( रजोनिहार, दिग्दाह और गन्धर्वनगर
रूप ) उत्पातों को देख कर द्रव्यों के विशेष मौल्य का विचार करना चाहिये। अन्य
( अमावास्या और पूर्णिमा से भिन्न ) तिथि में होने वाले उत्पात राजाओं को शस्त्र-कलह
से पीड़ित करते हैं॥१-२॥
अतिवृष्टिरतिवर्षणम्। उल्का। तस्या लक्षणमुक्तम्—'उल्का शिरसि विशाला' इति।
दण्डस्तस्य च लक्षणमुक्तम्—'रविकिरणजलदमरुताम्' इति। तथा परिवेषस्तस्य लक्षण-
मुक्तम्। ग्रहणमर्केन्द्रोः। परिधिः प्रतिसूर्यस्तस्य लक्षणमुक्तम्। तत्पूर्वांस्तदाद्यान्। आदिग्रहणाद्
रजोनीहारदिग्दाहगन्धर्वनगराणि ग्रहीतव्यानि। एतानुत्पातानमावास्यायां पौर्णमास्यां च।
दृष्ट्वाऽवलोक्यार्घविशेषान् सूर्ये आदित्ये राशिषु मेषादिषु प्रतिमासं क्रमात् परिपाट्या
तद् ब्रूयाद् वदेत्। अन्यस्मिंस्तिथावमावास्यां पौर्णमासीं च वर्जयित्वा ये उत्पाता अति-
वृष्ट्यादयो भवन्ति। ते राज्ञां नृपाणां डमरार्तये भवन्ति। डमरं शस्त्रकलहस्तेनार्तिः पीडा
भवति। तथा च काश्यपः—
उल्कातिवृष्टिर्ग्रहणे सूर्येन्द्वोः परिवेषणम्।
प्रतिसूर्यादयो येऽन्ये पक्षमासान्तसंक्षये॥
तिथौ निरीक्ष्य चोत्पातान् ब्रूयाल्लोके शुभाशुभम्।
सुभिक्षदुर्भिक्षकृतान् विशेषोऽत्र विचारतः॥
प्रतिमासं विधानज्ञो नान्यस्मिन् दिवसे वदेत्।
अन्यत्र ये भवन्त्येते ते सर्वे नृपदोषदाः॥ इति॥१-२॥
अथोत्पातेऽमावास्यायां पौर्णमास्यां च मेषवृषस्थे सूर्ये किं कुर्यादित्याह—
मेषोपगते सूर्ये ग्रीष्मजधान्यस्य संग्रहं कृत्वा।
वनमूलफलस्य वृषे चतुर्थमासे तयोर्लाभः ॥३॥
मेष राशि में स्थित सूर्य के समय में ग्रीष्म ऋतु में उत्पन्न होने वाले धान्यों का तथा
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४७२ बृहत्संहिता
वृष राशि में स्थित सूर्य के समय में उसमें होने वाले मूल और फलों का संग्रह करे, उन
( मेष और वृष ) से चतुर्थ मास में उसको विक्रय करने से लाभ होता है।।३।।
सूर्ये रवौ मेषोपगते मेषं प्राप्ते। अमावास्यायां पौर्णमास्यां चोत्पातानुक्तान् दृष्ट्वा ग्रीष्म-
जस्य ग्रीष्मोत्पन्नस्य धान्यस्य संग्रहं कृत्वा तथा वृषे वृषगतेऽर्के वनमूलफलस्य वन्यानां
मूलफलानां संग्रहं कृत्वा तयोर्मेषवृषयोश्चतुर्थे मासि विक्रयाल्लाभो भवति।।३।।
अथ मिथुनस्थ आह—
मिथुनस्थे सर्वरसान् धान्यानि च संग्रहं समुपनीय।
षष्ठे मासे विपुलं विक्रेता प्राप्नुयाल्लाभम् ॥४॥
मिथुन राशिगत सूर्य के समय में मधुर आदि सभी रसों का संग्रह करके उससे छठे
मास में विक्रय करने से बहुत लाभ होता है।।४।।
मिथुनस्थेऽर्के प्रागुक्तानुत्पातान् दृष्ट्वा। सर्वरसान् मधुरादीन्। धान्यानि च शालीन्।
संग्रहं समुपनीय। संग्रहमेषां कृत्वा विक्रेता षष्ठे मासे विपुलं विस्तीर्णं लाभं प्राप्नुयाल्लभेत।
अथ कर्कटस्थ आह—
कर्किण्यर्के मधुगन्धतैलघृतफाणितानि विनिधाय।
द्विगुणा द्वितीयमासे लब्धिर्हीनाधिके छेदः ॥५॥
कर्क राशिगत सूर्य के समय में मधु, सुगन्ध, द्रव्य, तेल, घी और शक्कर का संग्रह
करके दूसरे मास में विक्रय करने से दूना लाभ होता है। दो महीने से कम या अधिक में
विक्रय करने से नाश होता है।।५।।
अर्के आदित्ये कर्किणि कर्कटस्थे मधु माक्षिकम्। गन्धः सुगन्धद्रव्याणि। तैलम्।
घृतमाज्यम्। फाणितमिक्षुरसक्वाथः क्षुद्रगुडादि। एतानि विनिधाय संस्थाप्य द्वितीयमासे
विक्रयाद् द्विगुणा लब्धिर्भवति। हीने कालेऽधिके वा विक्रयाच्छेदो भवति।।५।।
अथ सिंहस्थ आह—
सिंहे सुवर्णमणिचर्मवर्मशस्त्राणि मौक्तिकं रजतम्।
पञ्चममासे लब्धिर्विक्रेतुरतोऽन्यथा छेदः ॥६॥
सिंह राशिगत सूर्य के समय में सोना, मणि, चमड़ा, शस्त्र, मोती और चाँदी का
संग्रह करके पाँचवें मास में विक्रय करने से लाभ होता है। न्यूनाधिक काल में विक्रय
करने से हानि होती है।।६।।
सिंहस्थेऽर्के सुवर्णम्। मणयः। चर्माणि। वर्म सन्नाहः। शस्त्राण्यायुधानि। मौक्तिकं
मुक्ताफलानि। रजतं रौप्यम्। एतानि विनिधाय विक्रेतुः पञ्चमे मासे विक्रयाल्लब्धिर्भवति।
अतोऽन्यथा ऊने कालेऽधिके वा छेदो भवति।।६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अर्घकाण्डाध्यायः ४७३
अथ कन्यागते रवावाह—
कन्यागते दिनकरे चामरखरकरभवाजिनां क्रेता।
षष्ठे मासे द्विगुणं लाभमवाप्नोति विक्रीणन् ॥७॥
कन्या राशिगत सूर्य के समय पूर्वोक्त उत्पातों को देख कर चामर, गदहा, ऊँट और
घोड़ों का संग्रह करके छठे मास में विक्रय करने से दूना लाभ होता है।।७।।
दिनकरे सूर्ये कन्यागते प्रागुक्तानुत्पातान् दृष्ट्वा चामरं बालव्यजनम्। खरो गर्दभः।
करभ उष्ट्रः। वाजी तरगः। एषां क्रेता षष्ठे मासे विक्रीणन् विक्रेता द्विगुणं लाभमाप्नोति
लभते ।।७।।
अथ तुलागत आह—
तौलिनि तान्तवभाण्डं मणिकम्बलकाचपीतकुसुमानि।
आदद्याद्धान्यानि च वर्षार्द्धाद् द्विगुणिता वृद्धिः ॥८॥
तुला राशिगत सूर्य के समय पूर्वोक्त उत्पातों को देखकर सूती तथा ऊनी वस्त्र, वर्तन,
मणि, कम्बल, काँच, पीले वस्त्र, पुष्प और धान्यों का संग्रह करके छठे मास में विक्रय
करने से दूना लाभ होता है।।८।।
तौलिनि तुलागतेऽर्के तान्तवभाण्डं तन्तुकृतं यत्किञ्चित् कर्म कर्पटादि मणयः।
कम्बलम्। काचम्। पीतानि पीतवर्णानि कुसुमानि पुष्पाणि। एतान्यादद्याद्ग्राहयेत्। धान्यानि
च तथा। वर्षार्द्धात् षड्भिर्मासैर्द्विगुणिता वृद्धिर्द्विगुणत्वं व्रजन्ति। द्विगुणलाभो भवतीत्यर्थः।
अथ वृश्चिकस्थ आह—
वृश्चिकसंस्थे सवितरि फलकन्दकमूलविविधरत्नानि।
वर्षद्वयमुषितानि द्विगुणं लाभं प्रयच्छन्ति ॥९॥
वृश्चिक राशिगत सूर्य के समय पूर्वोक्त उत्पात होने पर फल, कन्द, मूल और अनेक
प्रकार के रत्नों का संग्रह करके दो वर्ष बाद विक्रय करने से दूना लाभ होता है।।९।।
सवितरि आदित्ये वृश्चिकसंस्थे। फलानि। कन्दको मूलविशेषः। मूलानि अन्यानि
द्रव्याणि। विविधानि नानाकाराणि रत्नानि। एतानि वर्षद्वयमुषितानि द्विगुणं लाभं प्रयच्छन्ति
ददति।।९।।
अथ धन्विस्थ आह—
चापगते गृह्णीयात् कुङ्कुमशङ्खप्रवालकाचानि।
मुक्ताफलानि च ततो वर्षार्द्धात् द्विगुणतां यान्ति ॥१०॥
धनु राशिगत सूर्य के समय में पूर्वोक्त उत्पात होने पर कुंकुम, शङ्ख, मूँगा, काँच और
मोतियों का संग्रह करके छः मास बाद विक्रय करने से दूना लाभ होता है।।१०।।
चापगते धन्विस्थेऽर्के गृह्णीयात्। कुङ्कुमं काश्मीरम्। शङ्खम्। प्रवालं विद्रुमम्। काचम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४७४ बृहत्संहिता
मुक्ताफलानि च। ततोऽनन्तरं क्रमात् परतः वर्षाद्धर्द्धात् षड्भिर्मासैर्द्विगुणतां यान्ति। द्विगुणं
लाभं ददति॥१०॥
अथ मकरकुम्भस्थेऽर्क आह—
मृगघटसंस्थे सवितरि गृह्णीयाल्लोहभाण्डधान्यानि।
स्थित्वा मासं दद्याल्लाभार्थी द्विगुणमाप्नोति ॥११॥
मकर या कुम्भ राशिगत सूर्य के समय पूर्वोक्त उत्पात होने पर लोहा, बर्तन और
धान्यों का संग्रह करके एक मास बाद बेचने से लाभार्थी व्यापारी दूना लाभ प्राप्त करता है।
मृगो मकरः। घटः कुम्भः। सवितर्यादित्ये मृगघटसंस्थे लोहभाण्डधान्यानि गृह्णीयात्
स्थापयेत्। लोहमयानि भाण्डानि धान्यानि च मासं स्थित्वा मासं संस्थाप्य ततो दद्याद्विक्रयं
कुर्यात्। लाभार्थी द्विगुणं लाभमाप्नोति लभते॥११॥
अथ मीनस्थेऽर्क आह—
सवितरि झषमुपयाते मूलफलं कन्दभाण्डरत्नानि।
संस्थाप्य वत्सराद्धं लाभकमिष्टं समाप्नोति ॥१२॥
मीन राशिगत सूर्य के समय पूर्वोक्त उत्पात होने पर मूल, फल, कन्द, बर्तन और
रत्नों का संग्रह करके छः मास बाद बेचने से मनमाना लाभ होता है॥१२॥
सवितरि आदित्ये झषं मीनमुपयाते प्राप्ते। मूलानि। फलानि। कन्दो मूलविशेषः।
भाण्डानि नानाकाराणि। रत्नानि मणयः। एतान् गृहीत्वा वत्सराद्धं मासषट्कं संस्थाप्येष्टं
यथाभिलषितं लाभं वृद्धिं समाप्नोति लभते॥१२॥
अत्रैव पुनरपि विशेषमाह—
राशौ राशौ यस्मिन् शिशिरमयूखः सहस्रकिरणो वा।
युक्तोऽधिमित्रदृष्टस्तत्रायं लाभको दिष्टः ॥१३॥
जिस-जिस राशि में स्थित चन्द्र या सूर्य अपने तात्कालिक अधिमित्र ग्रह से युत या
दृष्ट हों, उसी राशि में पूर्वोक्त लाभ होता है; अन्यत्र नहीं॥१३॥
यस्मिन् राशौ राशौ मेषादिके शिशिरमयूखश्चन्द्रः सहस्रकिरणो वा सूर्यः। अधिमित्रेण
तात्कालिकेन दृष्टो विलोकितो मित्रयुक्तश्च भवति। यतस्तत्कालं दशायबन्धुसहजस्वान्तेषु
स्थितो ग्रहो मित्रं भवति। तद्युक्तत्वात्तेन मित्रयुक्तोऽधिमित्रदृष्टः। तत्र तस्मिन् राशौ अयं
लाभको दिष्टोऽभिहितो नान्यत्र योगासम्भवात्। यतोऽमावास्यापौर्णमास्योरयं विचारः।
उत्पातदर्शनात्। अतः शिशिरमयूखसहस्रकिरणग्रहणं कृतम्। तथा च काश्यपः—
राशौ राशौ स्थितः सूर्यः शशी वा मित्रसंयुतः।
अधिमित्रेण सन्दृष्टो यथा लाभप्रदः स्मृतः॥ इति॥१३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अर्घकाण्डाध्यायः ४७५
अत्रैव विशेषमाह—
सवितृसहितः सम्पूर्णो वा शुभैर्युतवीक्षितः
शिशिरकिरणः सद्योऽर्घस्य प्रवृद्धिकरः स्मृतः।
अशुभसहितः सन्दृष्टो वा हिनस्त्यथवा रविः
प्रतिगृहगतान् भावान् बुद्ध्वा वदेत् सदसत्फलम् ॥१४॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायामर्घ-
काण्डाध्यायो द्विचत्वारिंशः ॥४२॥
जिस राशि में सूर्ययुत चन्द्र या पूर्णचन्द्र शुभग्रह ( बुध, बृहस्पति और शुक ) से
युत या दृष्ट हो, उस राशिसम्बन्धी द्रव्य में मौल्य की वृद्धि करता है तथा जिस राशि में
पापग्रह ( मङ्गल और शनि ) से युत या दृष्ट हो, उस राशिसम्बन्धी द्रव्यों का नाश करता
है। इसी प्रकार प्रत्येक राशिगत द्रव्यों को जानकर शुभाशुभ फल कहना चाहिये।।१४।।
इति 'विमला' हिन्दीटीकायामर्घकाण्डाध्यायो द्विचत्वारिंशः ॥४२॥
शिशिरकिरणश्चन्द्रः सवितृसहितः सूर्येण सहावस्थितोऽमावास्यायां शुभग्रहैर्बुध-
जीवशुक्रैर्युतः संयुतो वीक्षितो यत्र राशौ भवति तत्र सद्योऽर्घस्य सुवृद्धिकरः स्मृतः।
अथाशुभसहितः पापग्रहाभ्यां भौमसौराभ्यां युक्तः सन्दृष्टो रविर्वा चन्द्रो हिनस्ति
नाशयति। अर्घहानिं करोतीत्यर्थः। एवं प्रतिगृहगतान् प्रतिराशिव्यवस्थितान् भावान् द्रव्या-
ण्युक्तान् बुद्ध्वा ज्ञात्वा सदसच्छुभमशुभं वा फलं वदेद् ब्रूयादिति। तथा च काश्यपः—
अत्रार्कशशिनौ सौम्यैः संयुक्तौ वा निरीक्षितौ।
शुभग्रहस्थानगतौ सद्योऽर्घस्य विवृद्धिदौ।।
विपरीतस्थितावेतौ पापयुक्तौ निरीक्षितौ।
अर्घहानिकरौ प्रोक्तौ मिश्रितौ मध्यमौ स्मृतौ।। इति।।१४।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतावर्घकाण्डं
नाम द्विचत्वारिंशोऽध्यायः ॥४२॥