सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

४१६ बृहत्संहिता
भवन्त्यनिलजास्ते च लक्षणानि निबोध मे।
तारोल्कापातदिग्दाहैरादीप्तं लक्ष्यते नभः॥
मरुत्सहायः सप्तार्चिः सप्ताहान्तश्चरत्यपि।
सप्तमेऽहनि विज्ञेयः कम्पश्चानलसम्भवः।। इति।
अथ फलान्याह—आग्नेये भूकम्पे अम्बुदानां मेघानां नाशः क्षयः। सलिलाशयानां
जलधराणां वापीकूपतडागानां संक्षयः संशोषः। नृपतीनां राज्ञां परस्परं वैरं द्वेषः। दद्रू
त्वग्विकारः। विचर्चिका रोगविशेषः पादजस्त्वग्विकारः। ज्वरः। विसर्पिका अङ्गविकारः।
पाण्डुरोग उदरामयः। एते सम्भवन्ति।
दीप्तौजस इति। दीप्तमोजो येषां ते दीप्तौजसस्तेजस्विनः। प्रचण्डाः क्रोधिनः।
एते पीड्यन्ते पीडां प्राप्नुवन्ति। तथाश्मका जनाः। अङ्गाः। बाह्लीकाः। तङ्गणाः। कलिङ्गाः।
वङ्गाः। द्रविणाः। शबरः। एते अनेकविधा बहुप्रकाराः। सर्व एव पीड्यन्ते। अत्रापि
पराशरः—
'अग्नीन्द्राग्न्यजयमपितृगुरुभगदैवतेष्वनलोऽभिकम्पयन् वर्षसरित्सरःस्रोतसामपः क्षपयन्
सुखानि रोगारोचकपिटकपाण्डुरुग्ज्वरकिटिभदद्रुदाहकृद्विशेषाद्वातपादकाग्निवित्पुलिन्द-
यवनबाह्लीकवङ्गोष्ट्रसन्त्यश्मकेक्ष्वाकुकुलूततुखारशिबिकत्रिगर्तवैदेहद्रविडसुराष्ट्रमध्यदेश-
दाशार्णांश्च हिनस्ति' इति।।१२-१५।।
अथेन्द्रस्य मण्डलस्य लक्षणं पूर्वलिङ्गानि फलान्याह—
अभिजिच्छ्रवणधनिष्ठाप्राजापत्यैन्द्रवैश्वमैत्राणि ।
सुरपतिमण्डलमेतद्भवन्ति चाप्यस्य रूपाणि ॥१६॥
चलिताचलवर्ष्माणो गम्भीरविराविणस्तडिद्वन्तः।
गवलालिकुलाहिनिभा विसृजन्ति पयः पयोवाहाः ॥१७॥
ऐन्द्रं स्तुतकुलजातिख्यातावनिपालगणपविध्वंसि ।
अतिसारगलग्रहवदनरोगकृच्छर्दिकोपाय ॥१८॥
काशियुगन्धरपौरवकिरातकीराभिसारहलमद्राः ।
अर्बुदसुराष्ट्रमालवपीडाकरमिष्टवृष्टिकरम् ॥१९॥
अभिजित्, श्रवण, धनिष्ठा, रोहिणी, ज्येष्ठा, उत्तराषाढा, अनुराधा--ये सात नक्षत्र
इन्द्रमण्डल के हैं। यदि इनमें से किसी भी नक्षत्र में भूकम्प हो तो उसके सात दिन पूर्व
आगे कथित लक्षण होते हैं। जैसे कि पर्वत के समान शरीर वाले, गम्भीर शब्द करने
वाले, बिजली वाले, महिषशृङ्ग, भ्रमरकुल और सर्पों के समान कान्ति वाले मेघ वर्षा
करते हैं। ऐन्द्र कम्प में प्रधान कुल में उत्पन्न मनुष्य, यशस्वी, राजा और सङ्घियों में
प्रधान का नाश करता है तथा अतिसार, कण्ठरोग, मुखरोग और कफ के रोग होते हैं।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

काशी, युगन्धर, पौरव, किरात, कीर, अभिसार, हल, मद्र, अर्बुद, सुराष्ट्र और मालवदेशवासी
मनुष्यों को पीड़ित करता है एवं प्रयोजन के अनुसार वृष्टि करता है।।१६-१९।।
अभिभिच्छ्रवणं धनिष्ठा। प्राजापत्यं रोहिणी। ऐन्द्रं ज्येष्ठा। वैश्वमुत्तराषाढा। मैत्रमनु-
राधा। एतानि सप्त नक्षत्राणि सुरपतेरिन्द्रस्य मण्डलमेतत्। अस्यापि सप्ताहात् पूर्वं स्व-
रूपाणि भवन्ति।
पयोवाहा मेघाः पयः पानीयं विसृजन्त्युत्सृजन्ति। कीदृशाः? चलिताचलवर्म्माणः,
चलितानामचलानां पर्वतानामिव वर्ष्म शरीरं येषां ते तथाविधाः। तथा गम्भीरविरा-
विणः, गम्भीरो मधुरो विशेषेण रावः शब्दो येषाम्। तडिद्वन्तः, तडितो विद्युत्तस्ता विद्यन्ते
येषु। गवलं महिषशृङ्गम्। अलिकुलं भ्रमरकुलम्। अहयः सर्पास्तन्निभास्तत्सदृशाः।
तथा च गर्गः—
निशार्द्धे तु यदा पूर्वे उल्कानिर्घातभूचलाः।
मैत्रेन्द्वैश्वश्रवणाभिजिद्रोहिणिवासवैः ।।
स्यादिन्द्रसम्भवः कम्पो लक्षणानि च मे शृणु।
वर्षन्ति बहवो मेघा वराहमहिषोपमाः।।
धुन्वन्तो मधुरान् रावान् विद्युद्भासितभूतलाः।
सप्तमेऽहनि सम्प्राप्ते कम्पः स्यादिन्द्रसम्भवः।। इति।
फलान्याह—ऐन्द्रमित्यादि । ऐन्द्रं कम्पम्। स्तुतकुलजातयः। स्तुते स्तुतिसंयुक्ते
प्रधानकुले जातिर्जन्म येषां ते। तथा ख्याताः कीर्तियुक्ताः। अवनिपाला राजानः। गणपाः
समूहपतयः। एषां विध्वंसि नाशकम्। अतिसारोऽतीसारः। गलग्रहः कण्ठरोगः। वदनरोगो
मुखगदः। एतान् करोति। तथा छर्दिकोपाय भवति। छर्दिप्रकोपं करोति।
काशयो जनाः। युगन्धराः। पौरवाः। किराताः। कीराः। अभिसाराः। हलाः। मद्राः।
अर्बुदाः। सुराष्ट्राः। मालवाः। एषां पीडाकरम्। तथा इष्टवृष्टिकिरम्। इष्टामभिमतां वृष्टिं
करोति। अत्रापि पराशरः—
'ऐन्द्रवैश्वदेववैष्णवप्राजापत्यसौम्यादित्यमैत्रेषु सुरपतिरवनिमतिचालयन् प्रवृद्धाम्भोद-
यज्ञधर्मत्रिपानोत्सवो जात्यप्रथितकुलाधिपतिसुवास्तुनीचकाश्मीराभिसारप्राच्यशककिरा-
तपौरवाच्युतवास्वर्णविमालवपह्नवदण्डककाशिकार्षककैलासमल्ललहवहालानुपतापयति'
इति।।१६-१९।।
अथ वारुणस्य लक्षणं पूर्वलिङ्गानि फलमाह—
पौष्णाप्याद्र्रार्श्लेषामूलाहिर्बुध्न्यवरुणदेवानि ।
मण्डलमेतद्वारुणमस्यापि भवन्ति रूपाणि ॥२०॥
नीलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणो बहुलाः ।
तडिदुद्भासितदेहा धाराङ्कुरवर्षिणो जलदाः ॥२१॥
बृ० भ० प्र०-२७
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA

४१८ बृहत्संहिता
वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगतवैरम्।
गोनर्दचेदिकुकुरान् किरातवैदेहकान् हन्ति ॥२२॥
रेवती, पूर्वाषाढ़ा, आर्द्रा, आश्लेषा, मूल, उत्तरभाद्रपदा, शतभिषा—ये सात नक्षत्र
वरुणमण्डल के हैं। यदि इनमें से किसी भी नक्षत्र में भूकम्प हो तो इसके सात दिन पूर्व
आगे कथित लक्षण होते हैं। जैसे कि वारुण कम्प में समुद्र और नदी के तट पर रहने
वालों का नाश, अतिवृष्टि, परस्पर द्वेषरहित मनुष्य तथा गोनर्द, चेदी, कुकुर, किरात और
वैदेह देश में रहने वाले मनुष्यों का नाश करता है।।२०-२२।।
पौष्णं रेवती। आप्यं पूर्वाषाढा। आर्द्रा। आश्लेषा। मूलम्। अहिर्बुध्न्यमुत्तरभद्रपदा।
वरुणदेवं शतभिषक्। एतानि सप्त नक्षत्राणि। वारुणं मण्डलमस्र्यापि सप्ताहात् पूर्वं
रूपाणि चिह्नानि भवन्ति।
जलदा मेघा धाराङ्कुरवर्षिणः। धारा जलपात एवाङ्कुरो येषां तैर्वर्षन्ति। कीदृशाः?
नीलोत्पलालिभिन्नाञ्जनत्विषः, नीलोत्पलं कुवलयम्, अलिर्भ्रमरः, भिन्नाञ्जनमिति नीलवर्णं
कज्जलम्, एषां सदृशी त्विट् कान्तिर्येषाम्। मधुरराविणः, मधुरो रावः शब्दो येषाम्।
बहुलाः प्रभूतास्तडिदुद्भासितदेहाः। तडिद्भिर्विद्युद्भिरुद्भासिताः प्रकटीकृता देहाः शरीराणि
येषाम्। तथा च गर्गः—
निशायां पश्चिमे भागे निर्घातोल्कामहीचलाः।
पौष्णाप्याद्र्रोरगा मूलाहिर्बुध्न्यं वरुणं तथा।।
कम्पो वारुण एभिः स्याच्छृणु तस्यैव लक्षणम्।
वर्षन्ति जलदास्तत्र नीलाञ्जनचयोपमाः।।
विद्युद्भासितदेहाश्च मधुरस्वरभूषिताः।
सप्तमेऽहनि सम्प्राप्ते कम्पः स्याद्वारुणस्ततः।। इति।
फलान्याह—वारुणं कम्पमर्णवसरिदाश्रितघ्नम्। अर्णवः समुद्रः। सरितो नद्यः। तत्र
ये आश्रितास्तान् हन्ति। अतिवृष्टिदम्, प्रभूतां वृष्टिं ददाति। विगतवैरं नष्टद्वेषम्। गोनर्दा
जनाः। चेदयः। कुकुराः। एतान् किरातान् वैदेहांश्च हन्ति नाशयति। अत्रापि पराशरः—
'वारुणाहिर्बुध्न्यपुषारुद्रभुजगनैर्ऋत्यदैवतेषु कम्पोऽबुपतिकृतः प्रततजलधरः। धराभि-
न्त्रेकेदारपुरनगरप्रबद्धतरुणततजलताक्षुपशष्पसस्यातीसारहिक्काक्षिरोगकृदपि च विशेषतः
किरातकाश्मीरापरान्तककौकुरेयशौर्यरकचेदिवत्ससैन्धवोदकयात्रिकोदधिनदनदीसंश्रितांश्च
देशानुपहन्ति' इति॥२०-२२॥
अधुना फलकालनियमार्थमाह—
षड्भिर्मासैः कम्पो द्वाभ्यां पाकं च याति निर्घातः।
अन्यानप्युत्पातान् जगुरन्ये मण्डलैरैतैः ॥२३॥
भूकम्प का फल छः महीने में और निर्घात का फल दो महीने में घटित होता है। गर्ग
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

भूकम्पलक्षणाध्यायः ४१९
आदि मुनियों का मत है कि अन्य ( निर्घात, उल्कापात आदि ) उत्पातों का फल मण्डल
के साथ ही होता है।।२३।।
षड्भिर्मासैः कम्पः पाकं याति फलं ददातीत्यर्थः। निर्घातो द्वाभ्यां मासाभ्यां पाकं
याति। अन्ये मुनयो गर्गादयोऽन्यानप्युत्पातान् ग्रहणनिर्घातोल्कापातादीनेतैरेव भूकम्पोक्तै-
र्मण्डलैर्जगुरक्तवन्तः। तथा च गर्गः—
निर्घातोल्कामहीकम्पाः स्निग्धगम्भीरनिःस्वनाः।
मेघाः स्तनितशब्दाश्च सूर्येन्दुग्रहणे तथा।।
परिवेषेन्द्रचापं च गन्धर्वनगरं तथा।
मण्डलैरेव बोद्धव्याः शुभाशुभफलप्रदाः।।
तथा च समाससंहितायामाचार्येणैवोक्तम्—
आर्यम्णपूर्वं भचतुष्टयं च शशाङ्कमादित्यमथाश्विनी च।
वायव्यमेतत्पवनोऽत्र चण्डो मासद्वयेनाशुभदः प्रजानाम्।।
अजैकपादं बहुला भरण्यो भाग्यं विशाखा गुरुभं मघा च।
क्षुदग्निशस्त्रामयकोपकारि पक्षैस्त्रिभिर्मण्डलमग्निसंज्ञम्।।
प्राजापत्यं वैष्णवं मैत्रमैन्द्रं विश्वेशं स्याद्वासवं चाभिजिश्च।
ऐन्द्रं ह्येतन्मण्डलं सप्तरात्रात् कुर्यात्तोयं हृष्टलोकं प्रशान्तम्।।
आहिर्बुध्न्यं वारुणं मूलमाप्यं पौष्णं सार्पं मन्मथारीश्वरं च।
सद्यः पाकं वारुणं नाम शस्तं तोयप्रायं हृष्टलोकं प्रशान्तम्।।
उल्काहरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पककुप्प्रदाहाः।
वातोऽतिचण्डो ग्रहणं रवीन्द्वोर्नक्षत्रतारागणवैकृतानि।।
व्यभ्रे वृष्टिर्वैकृतं चातिवृष्टिर्धूमोऽनग्निविस्फुलिङ्गार्चिषां वा।
वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकं दृश्यते वा।।
सन्ध्याविकारः परिवेषखण्डा नद्यः प्रतीपा दिवि तूर्यनादः।
अन्यच्च यत्स्यात् प्रकृतेः प्रतीपं तन्मण्डलैरेव फलं निगद्यम्।। इति।।२३।।
उल्काद्युत्पातानां फलनियमः—
( उल्का हरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पककुप्प्रदाहाः ।
वातोऽपिचण्डो ग्रहणं रवीन्द्वोर्नक्षत्रतारागणवैकृतानि ।।
व्यभ्रे वृष्टिर्वैकृतं वातवृष्टिर्धूमोऽनाग्निविस्फुलिङ्गार्चिषो वा ।
वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकंदृश्यते वा ।।
सन्ध्याविकारः परिवेषखण्डा नद्यः प्रतीपा दिवि तूर्यनादः ।
अन्यच्च यत्स्यात्प्रकृतेः प्रतीपं तन्मण्डलैरेव फलं निगाद्यम् ।।
उल्का, गन्धर्वपुर, धूलि, निर्घात, भूकम्प, दिग्दाह, भयङ्कर वायु, सूर्य-चन्द्र का
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

८२० बृहत्संहिता
ग्रहण, विकारयुक्त नक्षत्र और तारागण, बिना बादल की वर्षा, विकार युत वायु के
साथ वृष्टि, अग्नि की चिनगारीदार लपट, वन में रहने वाले पशुओं का गाँव में आना,
रात्रि में इन्द्रधनुष दिखाई देना, सन्ध्या में विकार, परिवेशखण्ड, नदियों की गति में
वैपरीत्य, आकाश में तुरही का बजना, और भी प्रकृति के विरुद्ध लक्षण होना, इन
सबों का फल उसके मण्डल से ही कहना चाहिये।)
अथ वेलामण्डलवशेन कम्पानां निष्फलत्वमाह—
हन्त्यैन्द्रो वायव्यं वायुश्चाप्यैन्द्रमेवमन्योऽन्यम्।
वारुणहौतभुजावपि वेलानक्षत्रजाः कम्पाः॥२४॥
इन्द्र के मण्डल में उत्पन्न कम्प वायव्य कम्प का, वायव्य मण्डल में उत्पन्न कम्प
इन्द्रकम्प का, वारुण मण्डल में उत्पन्न कम्प अग्निकम्प का, अग्निमण्डल में उत्पन्न कम्प
वारुण कम्प का, वेलाजात कम्प नक्षत्र कम्प का और नक्षत्रजात कम्प वेलाजात कम्प का
नाश करता है। यदि वायव्य मण्डलान्तर्गत वायव्य वेला में कम्प हो तो अपने फल को
पुष्ट करता है। इसी प्रकार मण्डल का अन्य भी फल जानना चाहिये; अन्यथा नहीं॥२४॥
ऐन्द्रः कम्पो वायव्यं हन्ति। ऐन्द्रमण्डलोत्पन्नो भूकम्पो वायुवेलाजं कम्पं नाशयति।
एवं वायुश्चाप्यैन्द्रं हन्ति। एवमनेनैव प्रकारेण। अन्योऽन्यं परस्परं वारुणहौतभुजावपि।
वारुणमण्डलमग्निजं हन्ति। अग्निर्वारुणजं हन्ति। वेलाजाता नक्षत्रजाताश्च कम्पाः परस्परं
नाशयन्तीत्यर्थः। तस्मान्न फलदाः। वेलामण्डलयोर्भेदा अभेदे त्वतिफलदाः। यथा वायव्ये
मण्डले वायव्यां च वेलायां यः कम्पः स स्वफलं पुष्टं ददात्येवमन्येऽपि बोद्धव्या इति।
अथ वेलामण्डलवशेन कम्पोक्तस्य विशेषमाह—
प्रथितनरेश्वरमरणव्यसनान्याग्नेयवायुमण्डलयोः ।
क्षुद्भयमरकावृष्टिभिरुपताप्यन्ते जनाश्चापि ॥२५॥
यदि आग्नेय मण्डल और वायव्य वेला में या वायव्य मण्डल और आग्नेय वेला में
भूकम्प हो तो विख्यात राजाओं को मरण या मरणतुल्य कष्ट होता है तथा मनुष्यगण
दुर्भिक्ष, मृत्यु और अवृष्टि से पीड़ित होते हैं॥२५॥
आग्नेयवायुमण्डलयोराग्नेये मण्डले वायव्यां च वेलायाम्। अथवा वायव्यमण्डले
आग्नेय्यां वेलायां भूकम्पस्तस्मिन् प्रथितनरेश्वरमरणव्यसनानि भवन्ति। प्रथिताः प्रख्याता
ये नरेश्वरा राजानस्तेषां मरणं व्यसनानि भवन्ति। मृत्युदुःखं च भवतीत्यर्थः। तथा जना
लोकाः क्षुद्भयमरकावृष्टिभिरुपताप्यन्ते, क्षुद्भयं दुर्भिक्षम्, मरको मरणम्, अवृष्टिरवर्षणम्,
एतैरुपताप्यन्ते॥२५॥
पुनरप्याह—
वारुणपौरन्दरयोः सुभिक्षशिववृष्टिहार्द्यो लोके।
गावोऽतिभूरिपयसो निवृत्तवैराश्च भूपालाः॥२६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

भूकम्पलक्षणाध्यायः ४२१
यदि वारुण मण्डल और ऐन्द्र वेला में या ऐन्द्र वेला और वारुण मण्डल में भूकम्प
हो तो लोगों में सुभिक्ष, कुशल, वृष्टि और चित्त में शान्ति होती है तथा गौ अधिक दूध देती
है और राजा लोग परस्पर द्वेषरहित होते हैं।।२६।।
वारुणो वरुणकृतः। पौरन्दर ऐन्द्रः। वारुणपौरन्दरयोर्वेलामण्डलयोः सुभिक्षम्।
शिवं श्रेयः। वृष्टिर्वर्षणम्। हार्दिर्चित्ततुष्टिः। एते लोके भवन्ति। तथा गावः। अतिभूरिपयसो
बहुक्षीराः। तथा भूपाला राजानो निवृत्तवैरा नष्टद्वेषा भवन्ति। तथा च काश्यपः—
ऐन्द्रश्चानिलजं हन्ति वायव्यश्चापि शक्रजम्।
आप्यो होतभुजं हन्ति चाग्निवारुणसम्भवम्।।
वाव्यग्निमिश्रितो यश्च वेलामण्डलसम्भवः।
दुर्भिक्षव्याधिरोगैस्तु पीड्यन्ते तत्र जन्तवः।।
माहेन्द्रवारुणे यत्र वेलामण्डलसम्भवः।
सुभिक्षक्षेमधर्माणां तत्र वृष्टिः प्रतिष्ठिता।।
एवमुक्तपरिशेषाणां विशेषफलं नास्ति पाराशरे तन्त्रे विशेषतरं पठ्यते। तथा च—
योऽन्यस्मिन्नक्षत्रे भागे चान्यत्र भूचलो भवति।
स भवेद् व्यामिश्रफलस्तन्मे गदतो निबोध त्वम्।।
कुरुशाल्वमत्स्यनैषधपुण्ड्रांश्चकलिङ्गविन्ध्यपादस्थान्।
वाव्याग्नेयः कम्पः सानलजीवान् भजति मैत्र्याम्।।
प्राच्यशकचीनपह्लवयौधेयकपर्दियक्षवद्गोमान् ।
शरदण्डमगधवन्धकविनाशनः शक्रवायव्यः।।
आवन्तिकाः पुलिन्दा विदेहकाश्मीरदरदवासान्ताः।
बाह्याश्रिताश्च वायव्यवारुणे प्राप्नुयुः पीडाम्।।
ऐक्ष्वाकवाऽश्मरथ्यान् पदच्चराभीरचीनमरुकुत्सान्।
ऐन्द्राग्नेयः कम्पो हिनस्ति राज्ञश्च समुदीर्णान्।।
सरितः सरः समुद्राश्रितांश्च गोनर्दमङ्गनाराज्यम्।
क्षत्रियगणांश्च हन्यात् कम्पो वरुणाग्निदैवत्यः।।
काश्याभिसारकाच्युतकच्छद्रीपार्यदेशजाः पुरुषाः।
गणपूजिताः कुलाग्र्या नृपाश्च वरुणेन्द्रवध्याः स्युः।। इति।।२६।।
अधुना कम्पव्यतिरिक्तानामन्येषामुत्पातानां येषां न कुत्रचित् कालनियमः कृतस्तेषां
कालनियमार्थमाह—
पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्दैवराट् च सप्ताहात्।
सद्यः फलति च वरुणो येषु न कालोऽद्भुतेषूक्तः ॥२७॥
अङ्गस्फुरण आदि उपद्रवों में जिसका फलकाल नहीं कहा गया है, वह यदि वायव्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४२२ बृहत्संहिता
मण्डल में हो तो दो मास में, आग्नेय मण्डल में हो तो तीन पक्ष ( डेढ़ मास ) में, इन्द्र
मण्डल में हो तो सात दिन में और वारुण मण्डल में हो तो उसी दिन फल देता है ॥ २७ ॥
येष्वद्भुतेषूत्पातेषु देहस्पन्दनपिटकप्रायेषु कालः समयो नोक्तो न कथितस्ते यद्यनिले
वायव्ये मण्डले भवन्ति तदा चतुर्भिः पक्षैर्मासद्वयेन फलन्ति। एवमाग्नेयैस्त्रिभिः पक्षैः।
देवराडिन्द्रः सप्ताहात् सप्तभिर्दिनैः। वरुणः सद्यस्तस्मिन्नेवाहनि फलति ॥ २७ ॥
अथ येन मण्डलेन यावन्ति योजनानि चलन्ति तत्प्रदर्शनार्थमाह—
चलयति पवनः शतद्वयं शतमनलो दशयोजनान्वितम्।
सलिलपतिरशीतिसंयुक्तं कुलिशधरोऽभ्यधिकं च षष्टितः ॥ २८ ॥
यदि वायुमण्डल में भूकम्प हो तो दो सौ योजन तक, अग्निमण्डल में हो तो दश
योजन तक, वारुण मण्डल में हो तो एक सौ अस्सी योजन तक और ऐन्द्र मण्डल में
भूकम्प हो तो साठ से अधिक योजन तक पृथ्‍वी को कम्पित करता है ॥ २८ ॥
पवनो वायुर्योजनानां शतद्वयं चलयति। एतदुक्तं भवति—वायव्ये मण्डले यो
भूकम्पो भवति स योजनानां शतद्वयं कम्पयति। एवमनलोऽग्निर्दशयोजनान्वितं दशाधिकं
योजनशतं चलयति। सलिलपतिर्वरुणोऽशीतिसंयुक्तं योजनशतं चलयति। कुलिशं वज्रं
तद्धारयतीति कुलिशधर इन्द्रः षष्टितोऽधिकं योजनशतं चलयति। तथा च काश्यपः—
वायव्ये मण्डले नित्यं योजनानां शतद्वयम्।
दशाधिकमथाग्नेय ऐन्द्रे षष्ठ्याधिकं शतम् ॥
शतं चाशीतिसंयुक्तं वारुणे मण्डले चलेत् ॥ इति ॥ २८ ॥
अथ भूकम्पे वृत्ते पुनर्यदि भूकम्प आसन्नो भवति तस्य फलप्रदर्शनार्थमाह—
त्रिचतुर्थसप्तमदिने मासे पक्षे तथा त्रिपक्षे च।
यदि भवति भूमिकम्पः प्रधाननृपनाशनो भवति ॥ २९ ॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां भूकम्प-
लक्षणाध्याय द्वात्रिंशः ॥ ३२ ॥
यदि भूकम्प होने के बाद तीसरे, चौथे, सातवें, पन्द्रहवें या पैंतालीसवें दिन में फिर
भूकम्प हो तो प्रधान राजा का नाश करता है ॥ २९ ॥
इति 'विमला'हिन्दीटीकायां भूमिकम्पलक्षणाध्यायो द्वात्रिंशः ॥ ३२ ॥
भूकम्पे वृत्ते पुनर्यदि तृतीये दिवसे चतुर्थे वा सप्तमे दिने मासे त्रिंशद्दिने पक्षे पञ्च-
दशाहे। त्रिपक्षे दिनपञ्चचत्वारिंशता भूकम्पो भवति तदा प्रधाननृपाणां प्रतिष्ठितानां राज्ञां
नाशनः क्षयावहो भवति। तथा च गर्गः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

भूकम्पलक्षणाध्यायः ४२३
अर्द्धमासे चतुर्थेऽह्नि तृतीये वाथ सप्तमे।
कस्मात् पुनर्यदा कम्पे मासे सार्द्धे यदापि वा।।
उत्पद्यते जने यत्र तत्र विन्द्यान्महद्भयम्।। इति।
तथा च पराशरः—
'स्निग्धस्वनाः प्रदक्षिणानुयायिनोऽम्बुधरा धाराभिषिक्ताः पर्वसु च सर्व एव प्रश-
स्यन्ते। तीक्ष्णाम्बुवहोऽवनिपतिविग्रहोच्छ्रयाय। त्रिचतुःसप्तरात्रे पक्षमासत्रिपक्षान्तरे प्रतता-
नुकम्पनः प्रवरनरपतिविनाशाय। अपि च शमयन्त्यासप्ताहात् कम्पादिकृतं निमित्तमाश्वे-
वातिवर्षोपवासव्रतदीक्षाजप्यहवनानि' इति।।२९।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ भूकम्पलक्षणं
नाम द्वात्रिंशोऽध्यायः ।।३२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथोल्कालक्षणाध्यायः
अथोल्कालक्षणं व्याख्यायते। तत्रादावेव स्वरूपप्रर्शनार्थमाह—
दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः।
धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा भिन्नाः॥१॥
स्वर्ग में शुभ फल भोग कर गिरते हुये प्राणियों का स्वरूप उल्का है। धिष्ण्या,
उल्का, अशनि, बिजली, तारा—ये पाँच उल्का के भेद हैं।
विशेष—गर्ग आदि आचार्यों का मत है कि लोकपाल लोगों की परीक्षा करके
शुभाशुभ फल-ज्ञान के लिये जिन अस्त्रों को छोड़ते हैं, उसी का नाम उल्का है॥१॥
दिवि स्वर्गे। भुक्तशुभफलानाम्, शुभानि फलानि भुक्तानि यैः स्वर्गस्थैस्तेषां पततां
यानि रूपाणि दृश्यन्ते तान्युल्का इत्युच्यन्ते। गर्गादिभिः पुनरन्यथा कथितम्। यथा लोक-
पाला लोकानां शुभाशुभफलसूचनायास्त्राणि ज्वलितान्युत्सृजन्ति तान्येवोल्काः। तथा च
गर्गः—
स्वास्त्राणि संसृजन्त्येते शुभाशुभनिवेदिनः।
लोकपाला महात्मानो लोकानां ज्वलितानि तु॥
आचार्येण स्वल्पसंहितायामेवोक्तम्—
अस्त्राणि लोकपाला लोकाभावाय सन्त्यजन्त्युल्काः।
केषाञ्चित् पुण्यकृतां तत्रोल्काविच्युतिः स्वर्गात्॥ इति।
ताश्चोल्काः पञ्चधा। पञ्चभिः प्रकारैर्भिन्ना भेदिताः। तद्यथा—धिष्ण्या, उल्का, अशनिः,
विद्युत्, तारा इति॥१॥
अथ फलकालनियमार्थमाह—
उल्का पक्षेण फलं तद्वद्धिष्ण्याशनिस्त्रिभिः पक्षैः।
विद्युदहोभिः षड्भिः तद्वत्तारा विपाचयति ॥२॥
उल्का १५ दिन में, धिष्ण्या १५ दिन में, अशनि तीन पक्ष ( पैंतालीस दिन ) में,
बिजली छः दिन में और तारा भी छः दिन में फल देती है॥२॥
उल्का पक्षेण पञ्चदशभिर्दिनैः शुभाशुभफलं विपाचयति सम्पादयतीत्यर्थः। तद्वद्धिष्ण्या
तेनैव प्रकारेण पक्षेण फलं विपाचयति। अथाशनिस्त्रिभिः पक्षैर्दिनपञ्चचत्वारिंशता। विद्युदहोभिः
षड्भिर्दिनैः। तारा तद्वदेव षड्भिर्दिनैर्विपाचयति। तथा च समाससंहितायाम्—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उल्कालक्षणाध्यायः ४२५
उल्काथ पञ्चरूपा धिष्ण्योल्का विद्युतोऽशनिस्तारा।
धिष्ण्योल्के पक्षफले तत्त्रिगुणश्चाशनिः षडहिकेऽन्ये।।
फलपादकरी तारा धिष्ण्यार्द्धं पुष्कलं शेषाः।। इति।।२।।
अथ फलनियमार्थमाह—
तारा फलपादकरी फलार्द्धदात्री प्रकीर्तिता धिष्ण्या ।
तिस्रः सम्पूर्णफला विद्युदथोल्काशनिश्चेति ॥३॥
तारा फल का चतुर्थांश, धिष्ण्या फल का आधा तथा विद्युत्, उल्का, अशनि—ये
तीनों सम्पूर्ण फल को देती हैं।।३।।
तारा फलपादकरी, फलस्य पादं चतुर्भागं करोतीत्यर्थः। धिष्ण्या फलार्द्धं ददाति।
तिस्रो विद्युत्। उल्का। अशनिः। एतास्तिस्रः सम्पूर्णफलाः सम्पूर्णं यथा पठितं फलं
प्रयच्छन्ति।।३।।
अथाशन्याः कीदृग्लक्षणमित्येतदाह—
अशनिः स्वनेन महता नृगजाश्वमृगाश्मवेश्मतरुपशुषु ।
निपतति विदारयन्ती धरातलं चक्रसंस्थाना ॥४॥
अशनि अधिक शब्द करती हुई, पृथ्वी को विदारण करती हुई और चक्र की तरह
भ्रमण करती हुई मनुष्य, हाथी, घोड़ा, मृग, पत्थर, घर, वृक्ष या पशुओं पर गिरती है।।४।।
अशनिर्महता स्वनेन शब्देन युक्ता निपतति। नृगजेति। ना मनुष्यः। गजो हस्ती।
अश्वस्तुरगः। मृग आरण्यप्राणी। अश्मा पाषाणः। वेश्म गृहम्। तरुर्वृक्षः। पशुर्गवादिः।
एतेषूपरि निपतति। तथा धरातलं भूतलम्। चक्रसंस्थाना चक्रवद्भ्रमन्ती विदारयन्ती च
निपतति। तथा च समाससंहितायाम्—
अशनिः प्राणिषु निपतति दारयति धरातलं बृहच्छब्दाः।। इति।।४।।
अथ विद्युल्लक्षणमाह—
विद्युत् सत्त्वत्रासं जनयन्ती तटतटस्वना सहसा ।
कुटिलविशाला निपतति जीवेन्धनराशिषु ज्वलिता ॥५॥
विद्युत् प्राणियों में भय उत्पन्न करती हुई, तट-तट ( तर-तर ) शब्द करती हुई,
कुटिल और विस्तृत शरीर वाली, प्राणियों या काष्ठ राशियों पर प्रज्वलित होकर बहुत
जल्दी गिरती है।।५।।
विद्युत् सत्त्वानां प्राणिनां त्रासं भयं जनयन्ती उत्पादयन्ती। तटतटस्वना तटतटेति
शब्दं क्रियमाणा। अव्यक्तशब्देति यावत्। तथा कुटिलविशाला कुटिला वक्रा विशाला
विस्तीर्णा। जीवेन्धनराशिषु, जीवेषु प्राणिषु, इन्धनराशिषु काष्ठनिचयेषु। ज्वलिता सज्वाला
सहसा झटित्येव निपतति। तथा च—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४२६ बृहत्संहिता
विद्युत्तटतटशब्दा ज्वालामालाकुला पतति।। इति।।५।।
अथ धिष्ण्यालक्षणमाह—
धिष्ण्या कृशाल्पपुच्छा धनूंषि दश दृश्यतेऽन्तराभ्यधिकम्।
ज्वलिताङ्गारनिकाशा द्वौ हस्तौ सा प्रमाणेन ॥६॥
धिष्ण्या पतली और छोटी पूँछ वाली, प्रज्वलित अग्नि के समान, दो हाथ लम्बी
तथा दश धनुष प्रमाण प्रदेश के बीच में अधिक दिखाई देती है॥६॥
धिष्ण्या कृशा दुर्बला अल्पपुच्छा स्वल्पलाङ्गूला। ज्वलिताङ्गारनिकाशा प्रज्वलिता-
ङ्गारसदृशी। सा च द्वौ हस्तौ प्रमाणेन दीर्घा। यत उत्पन्ना तत आरभ्य दश धनूंषि। अन्तरे
मध्येऽभ्यधिकं दृश्यते। चत्वारिंशद्धस्ता स्फुटतरा दृश्यते इत्यर्थः। तथा च—
धिष्ण्या सिता द्विहस्ता धनूंषि दश याति कृशदेहा।। इति।।६।।
अथ तारालक्षणमाह—
तारा हस्तं दीर्घा शुक्ला ताम्राब्जतन्तुरूपा वा।
तिर्यगधश्चोर्ध्वं वा याति वियत्युह्यमानेव ॥७॥
तारा एक हाथ लम्बी, श्वेत, ताम्र या कमलसूत्र के समान ( अति सूक्ष्म ) आकाश
में आकृष्ट होती हुई, तिरछी, नीचे और ऊपर की तरफ जाती है।।७।।
तारा हस्तं हस्तप्रमाणं दीर्घा। शुक्ला श्वेतवर्णा। ताम्रा वा लोहितवर्णा। अब्जतन्तु-
रूपा पद्मसूत्रसदृशी। अतिसूक्ष्मेत्यर्थः। सा च वियत्याकाशे उह्यमानेवाकृष्यमाणेव तिर्य-
गधश्चोर्ध्वं वा याति गच्छति। तथा च—
तारा तु हस्तमात्रा यात्यूर्ध्वमधः स्थिता सिता ताम्रा।। इति।।७।।
अथोल्कालक्षणमाह—
उल्का शिरसि विशाला निपतन्ती वर्धते प्रतनुपुच्छा।
दीर्घा च भवति पुरुषं भेदा बहवो भवन्त्यस्याः ॥८॥
उल्का विशाल शिर वाली, पुरुष के प्रमाण तुल्य ( साढ़े तीन हाथ ) लम्बी और
गिरती हुई बढ़ती है। इसके अनेक प्रकार के भेद हैं।।८।।
उल्का शिरसि मूर्धनि विशाला विस्तीर्णा निपतन्ती वर्धते। यथा यथा निपतति तथा
तथा वृद्धिं याति। प्रतनुपुच्छा सूक्ष्मलाङ्गूला। दीर्घा चाऽऽयामिनी पुरुषप्रमाणा भवति। हस्त-
त्रयं सार्द्धमित्यर्थः। अस्या उल्काया बहवो भेदा भवन्ति। प्रभूता भेदा इत्यर्थः। तथा च—
उल्काग्रतो विशाला बहुप्रकारा पुरुषमात्रा।। इति।।८।।
अथ के ते भेदा इत्याह—
प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलाङ्गलमृगाभाः ।
गोधाहिधूमरूपाः पापा या चोभयशिरस्का ॥९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उल्कालक्षणाध्यायः ४२७
यह प्रेत, शस्त्र, गदहा, ऊँट, नाक, बन्दर, दंष्ट्री (सूअर आदि), हल, मृग, गोह, साँप,
धूम के समान या दो शिर वाली होती है। ये सब पाप फल देने वाली होती हैं।।९।।
प्रेतः शवः। प्रहरणं खड्गादि। खरो गर्दभः। करभ उष्ट्रः। नक्रो जलप्राणी। कपि-
र्वानरः। दंष्ट्रिणो वराहादयः। लाङ्गलं हलम्। मृग आरण्यप्राणी। एषां सदृश्यः। तथा
गोधा प्राणिविशेषः। अहिः सर्पः। धूमः प्रसिद्धः। एषां सदृशरूपाः। एताः सर्वाः पापाः।
अनिष्टफला इत्यर्थः। या चोभयशिरस्का द्विशीर्षा सापि पापैव।।९।।
पुनरप्याह—
ध्वजझषगिरिकरिकमलेन्दुतुरंगसन्तप्तरजतहंसाभाः।
श्रीवृक्षवज्रशङ्खस्वस्तिकरूपाः शिवसुभिक्षाः ।।१०।।
ध्वज, मत्स्य, हाथी, पर्वत, कमल, चन्द्रमा, घोड़ा, तपी हुई चाँदी, हंस, श्रीवृक्ष
(नारियल), वज्र (हीरा या शस्त्र), शंख या स्वस्तिक (राजगृह की तरह) रूप
वाली उल्का दिखाई दे तो लोगों का कुशल और सुभिक्ष करती है।।१०।।
एवंविधाः सर्वाः शिवसुभिक्षाः, शिवं श्रेयः सुभिक्षं च कुर्वन्ति। कीदृश्यः ? ध्वजः
पताकाकृतिर्बहुपटविरचितः। झषो मीनः। गिरिः पर्वतः। करी हस्ती। कमलं पद्मम्।
इन्दुश्चन्द्रः। तुरगोऽश्वः। सन्तप्तरजतं गलितरौप्यम्। हंसः पक्षी। एतदाभाः एषां सदृश्यः।
तथा श्रीवृक्षः प्रसिद्धः। वज्रं हीरकं वज्रमायुधं वा। शङ्खः प्रसिद्धः। स्वस्तिकः संस्थानविशेषः।
एवंविधाश्चापि शिवसुभिक्षाः। तथा च काश्यपः—
नरेभतुरगवाश्मवृक्षेषु च पतेत् सदा।
ज्वलन्ती चक्रवद् दृश्या त्वशनी रावसंयुता।।
विद्युत्त्रासकरी भीमा शब्दयन्ती तटत्तटा।
बृहच्छीर्षाऽतिसूक्ष्मा च जीवेषु च पतेत्सदा।।
धनूंषि दश या दृश्या सा च धिष्ण्या प्रकीर्तिता।
ज्वलिताङ्गारसदृशी द्वौ हस्तौ सा प्रमाणतः।।
पञ्चताम्राकृतिश्चैव हस्तमात्रायता गता।
तिर्यगूर्ध्वमधो याति दह्यमानेव तारका।।
उल्का मूर्धनि विस्तीर्णा पतन्ती वर्धते तु सा।
तनुपुच्छा नृमात्रा तु बहुभेदसमावृता।।
आयुधप्रेतसदृशी जम्बुकोष्ट्रखराकृतिः।
धूम्रवर्णा तु पापाख्या विशीर्णा या तु मध्यमा।।
ध्वजपद्मेभहंसाभा पर्वताश्वसमप्रभा।
श्रीवृक्षशङ्खसदृशी या चोल्का सा शिवप्रदा।। इति।।१०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४२८ बृहत्संहिता

अन्यदपि लक्षणमाह—
अम्बरमध्याद् बह्वयो निपतन्त्यो राजराष्ट्रनाशाय।
बम्भ्रमती गगनोपरि विभ्रममाख्याति लोकस्य ॥११॥
आकाश मध्य में बहुत तरह की होकर गिरती हुई उल्का राजा और राष्ट्र के नाश के
लिये होती है तथा जो उल्का आकाश में बार-बार भ्रमण करती है, वह लोगों की विपत्ति
को व्यक्त करती है॥११॥
अम्बरमध्यान्नभोऽन्तः। बह्व्यः प्रभूता अपि निपतन्त्यः सम्पत्तमाना राज्ञो नृपस्य
राष्ट्रस्य जनपदस्य च नाशाय भवन्ति। तथा च गगनोपरि आकाशे योल्का बम्भ्रमती अत्यर्थं
भ्रमति सा लोकस्य जनपदस्य विभ्रमं सम्भ्रममाकुलतामाख्याति कथयति॥११॥
अन्यदप्याह—
संस्पृशती चन्द्रार्कौ तद्विसृता वा सभूकम्पा च।
परचक्रागमनृपभयदुर्भिक्षावृष्टिभयजननी ॥१२॥
जो उल्का सूर्य या चन्द्र को स्पर्श करती है अथवा सूर्य या चन्द्र से निकल कर
भूकम्प करती हुई गिरती है, वह दूसरे राजा का आगमन, राजभय, दुर्भिक्ष और अवृष्टि
करती है।
योल्का चन्द्रार्कौ शशिसूर्यौ संस्पृशती। तौ संस्पृशति। तद्विसृता वा ताभ्यां चन्द्रा-
र्काभ्यां विसृता निर्गता। सभूकम्पा च भूकम्पसहिता। तस्याः पतमानाया भूकम्पमुत्पद्यते।
सा तथाभूता परचक्रागमं परचक्रस्यागमनम्। नृपभयं राजभयम्। दुर्भिक्षभयम्। अवृष्टिभयं
च जनयत्युत्पादयति॥१२॥
अन्यदप्याह—
पौरेतरघ्नमुल्कापसव्यकरणं दिवाकरहिमांश्वोः ।
उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः ॥१३॥
यदि उल्का सूर्य और चन्द्रमा के प्रदक्षिण क्रम से गमन करे तो क्रम से पुर में रहने
वाले और बाहर रहने वाले का नाश करती है। जैसे—सूर्य के प्रदक्षिण क्रम से गमन करे
तो पुरवासियों का और चन्द्र के प्रदक्षिण क्रम से गमन करे तो बाहर रहने वालों का नाश
करती है। जो उल्का सूर्यकिरण से निकल कर गमन करने वालों के आगे गिरती है, वह
शुभ फल देने वाली होती है॥१३॥
दिवाकरहिमांश्वोरर्कचन्द्रयोः। उल्कापसव्यकरणम्। तयोरेवापसव्येन प्रदक्षिणेन गमनं
करोति। तत्पौरेतरघ्नम्, दिवाकरस्यापसव्यकरणं पौरघ्नं पौरान्नागरान् हन्ति। हिमांशोरुल्का-
पसव्यकरणमितरघ्नम्, इतरे यायिनस्तान् हन्ति। या च दिवाकरविनिःसृता दिवाकरात्
सूर्यान्निर्गता सा यातुर्जिगमिषोः पुरतोऽग्रतः पतिता शुभदा शुभं ददाति॥१३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उल्कालक्षणाध्यायः ४२९
अन्यदप्याह—
शुक्ला रक्ता पीता कृष्णा चोल्का द्विजादिवर्णघ्नी।
क्रमशश्चैतान् हन्युर्मूर्धोरःपार्श्वपुच्छस्थाः ॥१४॥
सफेद, लाल, पीली और काली उल्का क्रम से ब्राह्मण आदि वर्णों का नाश करने
वाली होती है। जैसे—सफेद उल्का ब्राह्मणों का, लाल क्षत्रियों का, पीली वैश्यों का और
काली शूद्रों का नाश करती है तथा जो शिर से ठहरती है वह ब्राह्मणों का, जो बगल से
ठहरती है वह वैश्यों का एवं जो पूँछ से ठहरती है, वह शूद्रों का नाश करती है॥१४॥
शुक्लाद्या उल्का। क्रमशः परिपाट्या द्विजादिवर्णघ्नी द्विजाद्यान् ब्राह्मणाद्यान् वर्णांश्चतुरो
हन्ति घातयति। तद्यथा—शुक्ला ब्राह्मणान् हन्ति। रक्ता क्षत्रियान्। पीता वैश्यान्। कृष्णा
शूद्रान् इति। तथा मूर्धोरःपार्श्वपुच्छस्था उल्का एतानेव हन्युः। मूर्ध्ना तिष्ठतीति मूर्धस्था।
शिरसा या पतति सा ब्राह्मणान् हन्ति। एवमुरसा तिष्ठतीति उरःस्था वक्षस्था या पतति
सा क्षत्रियान्। पार्श्वाभ्यां तिष्ठतीति पार्श्वस्था सा वैश्यान्। पुच्छेन तिष्ठतीति पुच्छस्था सा
शूद्रान् हन्ति॥१४॥
अन्यदप्याह—
उत्तरदिगादिपतिता विप्रादीनामनिष्टदा रूक्षा।
ऋज्वी स्निग्धाखण्डा नीचोपगता च तद्वृद्ध्यै ॥१५॥
उत्तर आदि दिशाओं में पतित उल्का क्रम से ब्राह्मण आदि वर्णों को अशुभ फल देती
है। जैसे— उत्तर दिशा में गिरे तो ब्राह्मणों को, पूर्व में गिरे तो क्षत्रियों को, दक्षिण में गिरे
तो वैश्यों को और पश्चिम में गिरे तो शूद्रों को अशुभ फल देती है। यदि वह उल्का सीधी,
चिकनी, अखण्ड और आकाश के नीचे भाग में जाने वाली हो तो ब्राह्मण आदि वर्णों की
वृद्धि करती है॥१५॥
उत्तरदिगादिपतिता रूक्षा विप्रादीनां ब्राह्मणादीनां वर्णानामनिष्टदा अशुभदा। उत्तरस्यां
पतति सा ब्राह्मणानाम्। पूर्वस्यां क्षत्रियाणाम्। दक्षिणस्यां वैश्यानाम्। पश्चिमायां शूद्राणामिति।
तथा ऋज्वी या स्पष्टा स्निग्धा निर्मला अखण्डाऽशकला नीचोपगता नभसोऽधोगामिनी।
सा तद्वृद्ध्यै, तेषामेव ब्राह्मणादीनामुत्तरदिगादिपतिता वृद्ध्यै वृद्धये भवति॥१५॥
अन्यदप्याह—
श्वावारुणनीलासृग्दहनासितभस्मसन्निभा रूक्षा।
सन्ध्यादिनजा वक्रा दलिता च परागमभयाय ॥१६॥
श्याव (वानर के समान = 'श्यावः स्यात् कपिश' इत्यमरः), रक्त, नील, रुधिर
के समान, अग्नि के समान काली, भस्म की तरह, रूक्ष, सन्ध्याकाल में उत्पन्न, दिन में
उत्पन्न वक्र या खण्डित उल्का पुरवासियों को शत्रु के आगमन से भय कराती है।

CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४३० बृहत्संहिता
श्यावा श्याववर्णा। अरुणा रक्ता। नीला नीलवर्णा। असृग्रुधिरं तद्वर्णा। दहनसन्निभा
अग्निवर्णा। असितसन्निभा कृष्णा। भस्मसन्निभा भस्मवर्णा। रूक्षा अनिर्मला। सन्ध्यादिनजा
सन्ध्याया दिने च जाता। वक्रा कुटिला। दलिता खण्डिता। एवंविधा परागमभयाय भवति।
पराणां शत्रूणामागमाद्यद् भयं तत् करोति॥१६॥
अन्यदप्याह—
नक्षत्रग्रहघातैस्तद्भक्तीनां क्षयाय निर्दिष्टा।
उदये घ्नती रवीन्दू पौरेतरमृत्यवेऽस्ते वा॥१७॥
यदि उल्का नक्षत्र या ग्रह का उपघात करे तो नक्षत्र व्यूह में उक्त उस नक्षत्र या ग्रह
के भक्तियों का नाश करती है। यदि सूर्य या चन्द्र को उदय या अस्त समय में हनन करे
तो क्रम से पुरवासियों और बाहर रहने वालों का नाश करती है। जैसे—सूर्य हत हो तो
पुरवासियों का और चन्द्र हत हो तो बाहर रहने वालों का नाश करती है॥१७॥
नक्षत्रोपघातैर्ग्रहोपघातैश्च तद्भक्तीनां नक्षत्राणां नक्षत्रव्यूहे ग्रहाणां च या भक्त्य उक्तास्तासां
क्षयाय विनाशाय निर्दिष्टा कथिता उक्ता। तथा च काश्यपः—
नक्षत्राणि ग्रहाश्चैव यद्युल्काध्वस्तधूमिताः।
तद्देशनाथनाशाय लोकानां सम्भ्रमाय च॥
तथा च समाससंहितायाम्—
उदगादिषु विप्रादीन् सितलोहितकृष्णवर्णांश्च।
घ्नन्ति ग्रहर्क्षघातैस्तद्भक्तीनां च नाशाय॥
रवीन्दू सूर्य्याचन्द्रमसौ उदये उदयसमये अस्ते अस्तसमये वा घ्नती पौरेतराणां मृत्यवे
भवति। पौरा नागराः। इतरे यायिनः। आदित्ये हते पौराणां चन्द्रे च यायिनामिति॥१७॥
अथ नक्षत्रोपतापेन फलमाह—
भाग्यादित्यधनिष्ठामूलेषूल्काहतेषु युवतीनाम्।
विप्रक्षत्रियपीडा पुष्यानिलविष्णुदेवेषु ॥१८॥
ध्रुवसौम्येषु नृपाणामुग्रेषु सदारुणेषु चौराणाम्।
क्षिप्रेषु कलाविदुषां पीडा साधारणे च हते ॥१९॥
पूर्वफल्गुनी, पुनर्वसु, धनिष्ठा या मूल नक्षत्र की योगतारा यदि उल्का से हत हो तो
युवती स्त्रियों को पीड़ा होती है। पुष्य, स्वाती या श्रवण नक्षत्र की योगतारा यदि उल्का
से हत हो तो ब्राह्मण और क्षत्रियों को पीड़ा होती है।
उत्तरफल्गुनी, उत्तराषाढा, उत्तरभाद्रपदा, रोहिणी, मृगशिर, चित्रा, अनुराधा या रेवती
नक्षत्र की योगतारा यदि उल्का से हत हो तो राजाओं को पीड़ा होती है। पूर्वफल्गुनी,
पूर्वाषाढा, पूर्वभाद्रपदा, भरणी, मघा, आर्द्रा, श्लेषा, ज्येष्ठा और मूल नक्षत्र की योगतारा
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उल्कालक्षणाध्यायः ४३१
यदि उल्का से हत हो तो चोरों को पीड़ा होती है तथा अश्विनी, हस्त, अभिजित्, कृत्तिका
या विशाखा नक्षत्र की योगतारा यदि उल्का से हत हो तो कलाओं को जानने वालों को
पीड़ा होती है।।१८-१९।।
भाग्यं पूर्वफल्गुनी। आदित्यं पुनर्वसुः। धनिष्ठा। मूलम्। एतेषु नक्षत्रेषूल्काहतेषूल्कया
ताडितेषु। एतेषां योगतारा यद्युल्काहता भवति तदा युवतीनां स्त्रीणां पीडा भवति। तथा
पुष्यः। अनिलः स्वातिः। विष्णुदेवः श्रवणम्। एतेषूल्काहतेषु विप्राणां क्षत्रियाणां च पीडा
भवति।
रोहिण्युत्तराक्ष्यं ध्रुवाणि। मृगशिरश्चित्रानुराधा रेवतीति सौम्यानि मृदूनित्यर्थः। एतेषूल्काहतेषु
नृपाणां राज्ञां पीडा भवति। पूर्वत्रयं भरणी मघा च उग्राणि। आर्द्राश्लेषा-ज्येष्ठामूलानि
दारुणानि। एतेषूल्काहतेषु चौराणां तस्कराणां पीडा भवति। अश्विनी तिष्यं हस्तोऽभिजिदिति
क्षिप्राणि कृत्तिका विशाखा साधारणं तेषूल्काहतेषु कलाविदुषां कला-विषये गीतनृत्यचित्रवाद्ये
ये पण्डितास्तेषां पीडा भवति।।१८-१९।।
अन्यदप्याह—
कुर्वन्त्येताः पतिता देवप्रतिमासु राजराष्ट्रभयम्।
शक्रोपरि नृपतीनां गृहेषु तत्स्वामिनां पीडाम् ॥२०॥
आशाग्रहोपघाते तद्देश्यानां खले कृषिरतानाम्।
चैत्यतरौ सम्पतिता सत्कृतपीडां करोत्युल्का ॥२१॥
द्वारि पुरस्य पुरक्षयमथेन्द्रकीले जनक्षयोऽभिहितः।
ब्रह्मायतने विप्रान् विनिहन्याद् गोमिनो गोष्ठे ॥२२॥
उल्का यदि देवता की मूर्ति पर गिरे तो राजा और राष्ट्र को भय, इन्द्र के ऊपर गिरे
तो राजाओं को भय और घर पर गिरे तो गृहपति को पीड़ित करता है। दिक्पति ग्रह यदि
उल्का से हत हों तो उस दिशा में रहने वाले मनुष्यों को, खलिहान में गिरे तो किसानों को
और छोटे मन्दिर के पास स्थित वृक्ष पर उल्का गिरे तो पूज्य व्यक्तियों को पीड़ित करता
है। पुरद्वार पर यदि उल्का गिरे तो पुर का, द्वार के किवाड़ पर गिरे तो पुरवासियों का,
ब्रह्मा के मन्दिर पर गिरे तो ब्राह्मणों का और गोष्ठ ( गायों के स्थान = गोठ ) पर गिरे तो
गायों का पालन करने वालों का नाश करती है॥२०-२२॥
कुर्वन्त्येता इति। एता उल्का देवप्रतिमासु सुरार्चासु पतिता राजभयं नृपभयं राष्ट्रभयं
जनपदभयं च कुर्वन्ति। शक्र इन्द्रस्तस्योपरि पतिता नृपतीनां राज्ञां भयं कुर्वन्ति। गृहेषु
वेश्मसु पतितास्तत्स्वामिनां गृहपतीनां पीडां कुर्वन्ति।
आशा दिशः। ग्रहाः सूर्यादयः। आशाग्रहा दिक्पतयो ग्रहाः। ते च—'प्रागाद्या
रविशुक्ललोहिततमः सौरेन्दुवित्सूरयः' इत्युक्तास्तेषामुपघाते उल्कापीडने तद्देश्यानां तद्दिग्नि-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४३२ बृहत्संहिता
वासिनां तस्यां दिशि ये जना निवसन्ति तेषां पीडां कुर्वन्ति। अथवा आशा दिशस्तासां
यान्ति तद्देशयानां ग्रहदेशनिवासिनाम्। खले कृषिरतानाम्। खलमूलूखा यत्र धान्यं स्थाप्यते
तदुपघाते कृषिरतानां कृषिजीविनां पीडा भवति। चैत्यतरुः प्रधानवृक्षः। तत्र पतितोल्का
सत्कृतानां पूजितानां पीडां करोति।
पुरस्य द्वारि पतिता पुरक्षयं पुरविनाशं करोति। अथेन्द्रकीले द्वारार्गले पतिता तदा
जनानां क्षयोऽभिहित उक्तः। जननाशो भवति। ब्रह्मायतने पितामहो यत्र देवस्तत्र पतिता
विप्रान् ब्राह्मणान् विनिहन्याद् घातयेत्। गोष्ठे गोस्थाने यत्र गावो निवसन्ति तत्र पतिता
गोमिनो गावो येषां सन्ति तान् विनिहन्यान्नाशयेदिति।।२०-२२।।
अथान्यद्विशेषमाह—
क्ष्वेडास्फोटितवादितगीतोत्कृष्टस्वना भवन्ति यदा।
उल्कानिपातसमये भयाय राष्ट्रस्य सनृपस्य ॥२३॥
यदि उल्कापात के समय में क्ष्वेडा (वीरों का गर्जन = 'क्ष्वेडा तु सिंहनादः
स्या'दित्यमरः), आस्फोटित (छाती पर एक भुजा रखकर दूसरे हाथ से ताडन का
शब्द), वाद्य और गान का उद्घोषित शब्द हो तो राजा और राष्ट्र दोनों को भय के लिये
होता है।।२३।।
क्ष्वेडा क्ष्वेडितम्। आस्फोटितं करास्फोटः। वक्षःस्थस्य बाहोर्द्वितीयेन हस्तेन ताडनं
करास्फोटः। वादितं वाद्यशब्दः। गीतं प्रसिद्धम्। एषामुत्कृष्टा उद्घोषिताः स्वनाः शब्दा
यदा भवन्ति, कदा? उल्कानिपातसमये, उल्कानिपातकाले, तदा राष्ट्रस्य सनृपस्य नृपति-
सहितस्य भयाय भवन्ति।।२३।।
अन्यदप्याह—
यस्याश्चिरं तिष्ठति खेऽनुषङ्गो दण्डाकृतिः सा नृपतेर्भयाय।
या चोह्यते तन्तुधृतेव खस्था या वा महेन्द्रध्वजतुल्यररूपा ॥२४॥
जिस उल्का की आसक्ति आकाश में अधिक देर तक रहे, जो दण्डाकार दिखाई दे,
जो आकाश में डोरी से बँधी हुई की तरह स्थिर रहे, जो इन्द्रधनुष की तरह दिखाई दे वह
सब राजभय के लिये होती है।।२४।।
यस्या उल्कायाः खे नभसि। चिरं चिरकालम्। अनुषङ्ग आसक्तिस्तिष्ठति। तथा
दण्डाकृतिर्दण्डाकारा च या दृश्यते सा नृपते राज्ञो भयाय भवति। या चोल्का खस्था
आकाशस्थिता तन्तुधृतेव, तन्तुना ध्रियमाणेनेवोह्यते धार्यते सापि नृपतेर्भयाय भवति।
या च महेन्द्रध्वजस्येन्द्रचिह्नस्य तुल्यरूपा तदाकारा सापि नृपतेर्भयाय भवति।।२४।।
अन्यदप्याह—
श्रेष्ठिनः प्रतीपगा तिर्यगा नृपाङ्गनानाम्।
हन्त्यधोमुखी नृपान् ब्राह्मणानथोर्ध्वगा ॥२५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उल्कालक्षणाध्यायः ४३३
बर्हिपुच्छरूपिणी लोकसंक्षयावहा।
सर्पवत् प्रसर्पती योषितामनिष्टदा॥२६॥
हन्ति मण्डला पुरं छत्रवत् पुरोहितम्।
वंशगुल्मवत् स्थिता राष्ट्रदोषकारिणी॥२७॥
व्यालसूकरोपमा विस्फुलिङ्गमालिनी।
खण्डशोऽथवा गता सस्वना च पापदा॥२८॥
विपरीत ( जहाँ से आयी हो वहाँ ही लौट ) जाने वाली उल्का सेठों का, तिरछी
चलने वाली रानियों का, नीचे मुख वाली राजाओं का और ऊपर जाने वाली उल्का
ब्राह्मणों का नाश करती है। जो उल्का मोरपूँछ की तरह हो, वह लोगों का नाश करती है
और जो सर्प की तरह चलती है, वह स्त्रियों को अशुभ फल देने वाली होती है।
मण्डलाकृति वाली उल्का नगर का और छत्राकृति वाली पुरोहित का नाश करती है तथा
वंशगुल्माकारा ( बाँस की बीड़ के समान वाली ) उल्का राष्ट्रभय करती है। सर्प या
सूअर की तरह चिनगारियों की माला पहनी हुई ( चिनगारियों से व्याप्त शरीर वाली ),
खण्ड-खण्ड और शब्दसहित उल्का पाप फल देने वाली होती है॥२५-२८॥
या प्रतीपगा यत आगता तत्रैव गता सा श्रेष्ठिनो हन्ति। तिर्यगा तिर्यक्कृत्वा या
गता सा नृपाङ्गनां नृपस्त्रियं हन्ति। अधोमुखी अवाग्वदना नृपान् राज्ञो हन्ति। अथानन्तर-
मूर्ध्वगा ऊर्ध्वगामिनी ब्राह्मणान् द्विजान् हन्ति।
या चोल्का बर्हिपुच्छरूपिणी मयूरपुच्छाकारा सा लोकसंक्षयावहा, लोकानां जनानां
संक्षयं विनाशमावहति करोति। या च सर्पवत् प्रसर्पती उरगवद् गच्छन्ती सा योषितां
स्त्रीणामनिष्टदा अशुभप्रदा।
या च पतिता मण्डलाकारा भवति सा पुरं नगरं हन्ति नाशयति। या च छत्रवच्छत्राकारा
दृश्यते सा पुरोहितमाचार्यं हन्ति। या च वंशगुल्मवत् स्थिता वंशगुल्माकारा सा राष्ट्रस्य
दोषकारिणी भवति।
व्यालः सर्पः। सूकरो वराहः। तदुपमा तत्सदृशी। तथा विस्फुलिङ्गानामग्निकणानां
माला विद्यते यस्याः। अग्निकणैर्व्याप्तेत्यर्थः। अथवा खण्डशो गता बहुविधं विशीर्णा
सस्वना सशब्दा या च सा पापदा अशुभफलदा भवति॥२५-२८॥
अन्यदप्याह—
सुरपतिचापप्रतिमा राज्यं नभसि विलीना जलदान् हन्ति।
पवनविलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वा॥२९॥
इन्द्रधनुष की तरह तथा आकाश में उत्पन्न होकर शीघ्र विलीन होने वाली उल्का
मेघों का नाश करती है तथा वायु के प्रतिकूल टेढ़ी होकर चलने वाली और उत्पन्न होकर
नीचे की तरफ नहीं चलने वाली शुभ नहीं होती है॥२९॥
बृ० सं० प्र०-२८
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

४३४ बृहत्संहिता
या चोल्का सुरपतिचापप्रतिमा इन्द्रधनुःसदृशी सा राज्यं निहन्ति नाशयति। या च
नभस्याकाशे विलीना उत्पन्ना सती तत्रैवादर्शनं गता सा जलदान् मेघान् हन्ति। या च
पवनविलोमा सम्मुखवाता कुटिलं याता वक्रं कृत्वा गता सा शस्ता न भवति। विनि-
वृत्ता वा उत्पन्ना सत्यधो न गता सा न शस्तेति न प्रशस्ता भवति॥२९॥
अत्रापि विशेषमाह—
अभिभवति यतः पुरं बलं वा भवति भयं तत एव पार्थिवस्य।
निपतति च यया दिशा प्रदीप्ता जयति रिपूनचिरात्तया प्रयातः ॥३०॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायामुल्का-
लक्षणाध्यायस्त्रयस्त्रिंशः ॥३३॥
जिस ओर से आकर उल्का पुर या सेना के ऊपर गिरती है, उसी दिशा से राजा को
भय होता है और जिस दिशा को प्रकाशित करती हुई गिरती है, उस दिशा में गमन करने
वाला राजा शीघ्र ही शत्रुओं का नाश करता है॥३०॥
इति 'विमला'हिन्दीटीकायामुल्कालक्षणाध्यायस्त्रयस्त्रिंशः ॥३३॥
यतो यस्यां दिशि पुरं बलं वा अभिभवति तत एव तस्यामेव दिशि पार्थिवस्य राज्ञो
भयं भीतिर्भवति। यया च दिशा प्रदीप्ता समुज्ज्वलिता निपतति तया प्रयातो गतो राजा
अचिराच्छीघ्रमेव रिपूनरीन् जयति। तथा च काश्यपः—
पार्थिवे प्रस्थिते दीप्ता पतत्युल्का महास्वना।
तां दिशं सिद्ध्यते सिद्धिं विजयं लभते चिरात्॥
अत्र च तात्कालिकलग्नग्रहसंयोगाच्छकुनिरुतश्रवणाच्च फलमूह्यम्। तथा च समास-
संहितायाम्—
क्रूरग्रहर्क्षलग्नक्षणतिथिकरणप्रभाञ्जनैर्दीप्तैः।
दीप्ताण्डजमृगविरुतैर्निर्घातक्षितिविमर्दैश्च ॥ इति॥३०॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृत्तावुल्का-
लक्षणं नाम त्रयस्त्रिंशोऽध्यायः ॥३३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ परिवेषलक्षणाध्यायः
अथ परिवेषलक्षणं व्याख्यायते। तत्रादावेव स्वरूपप्रदर्शनार्थमाह—
सम्मूर्च्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः ।
नानावर्णाकृतयस्तन्वभ्रे व्योम्नि परिवेषाः ॥१॥
वायु के द्वारा मण्डलीभूत सूर्य और चन्द्र के किरणस्वरूप, मेघ वाले आकाश में
प्रतिविम्बित होकर जो अनेक वर्ण के दिखाई देते हैं, उसी का नाम परिवेष है॥१॥
रवीन्द्रोरर्कचन्द्रयोः किरणा रश्मयः पवनेन वायुना मण्डलीभूता वृत्ताकाराः कृतास्ते
च तन्वभ्रे स्वल्पमेघे व्योम्नि आकाशे सम्मूर्च्छिताः प्रतिफलिता नानावर्णाकृतयो दृश्यन्ते।
नानाप्रकारो विचित्रो वर्ण आकृतिः संस्थानं येषां ते परिवेषा इत्युच्यन्ते ॥१॥
अथ तेषा संज्ञान्तराण्याह—
ते रक्तनीलपाण्डुरकापोताभ्राभशबलहरितशुक्लाः ।
इन्द्रयमवरुणनिर्ऋतिश्वसनेशपितामहाम्बुकृताः ॥२॥
वे परिवेष इन्द्र, यम, वरुण, निर्ऋति, वायु, शिव, ब्रह्मा और अग्निकृत क्रम से रक्त,
नील, थोड़ा-सा श्वेत, कबूतर के रङ्ग, मेघ वर्ण, शबल ( कृष्ण-श्वेत ), हरे और श्वेत वर्ण
के होते हैं। जैसे—इन्द्रकृत रक्त, यमकृत नील, वरुणकृत थोड़ा श्वेत, निर्ऋतिकृत कबूतर
के रङ्ग, वायुकृत मेघ वर्ण, शिवकृत शबल, ब्रह्माकृत हरा और अग्निकृत श्वेत वर्ण का
होता है॥२॥
ते परिवेषा रक्तादिवर्णा यथासंख्यमिन्द्रादिकृता भवन्ति। तद्यथा—रक्तवर्णः परिवेष
इन्द्रकृतः। नीलवर्णो यमकृतः। पाण्डुर ईषच्छुक्लो वरुणकृतः। कापोतः कपोतवर्णो
निर्ऋतिकृतः। अभ्राभो मेघाभः कृष्णवर्णः श्वसनकृतो वायुनोत्पादित इत्यर्थः। शबलः
कृष्णश्वेतशारवर्ण ईशकृतः शम्भुकृतः। हरितो नीलपीतः पितामहकृतो ब्रह्मकृतः। शुक्लः
श्वेतवर्णोऽम्बुकृतः सोऽपि वरुणकृत एव॥२॥
अन्यदप्याह—
धनदः करोति मेचकमन्योन्यगुणाश्रयेण चाप्यन्ये ।
प्रविलीयते मुहुर्मुहुरल्पफलः सोऽपि वायुकृतः ॥३॥
कुबेर मेचक ( मयूरकण्ठसदृश नील ) वर्ण का परिवेष करता है। अन्य ( इन्द्र
आदि ) मिले हुए रङ्ग के परिवेष करते हैं। जो परिवेष बार-बार उत्पन्न होकर नष्ट हो
जाय, वह वायुकृत थोड़ा फल देने वाला होता है॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA