सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 458, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 458

४१६ बृहत्संहिता
भवन्त्यनिलजास्ते च लक्षणानि निबोध मे।
तारोल्कापातदिग्दाहैरादीप्तं लक्ष्यते नभः॥
मरुत्सहायः सप्तार्चिः सप्ताहान्तश्चरत्यपि।
सप्तमेऽहनि विज्ञेयः कम्पश्चानलसम्भवः।। इति।
अथ फलान्याह—आग्नेये भूकम्पे अम्बुदानां मेघानां नाशः क्षयः। सलिलाशयानां
जलधराणां वापीकूपतडागानां संक्षयः संशोषः। नृपतीनां राज्ञां परस्परं वैरं द्वेषः। दद्रू
त्वग्विकारः। विचर्चिका रोगविशेषः पादजस्त्वग्विकारः। ज्वरः। विसर्पिका अङ्गविकारः।
पाण्डुरोग उदरामयः। एते सम्भवन्ति।
दीप्तौजस इति। दीप्तमोजो येषां ते दीप्तौजसस्तेजस्विनः। प्रचण्डाः क्रोधिनः।
एते पीड्यन्ते पीडां प्राप्नुवन्ति। तथाश्मका जनाः। अङ्गाः। बाह्लीकाः। तङ्गणाः। कलिङ्गाः।
वङ्गाः। द्रविणाः। शबरः। एते अनेकविधा बहुप्रकाराः। सर्व एव पीड्यन्ते। अत्रापि
पराशरः—
'अग्नीन्द्राग्न्यजयमपितृगुरुभगदैवतेष्वनलोऽभिकम्पयन् वर्षसरित्सरःस्रोतसामपः क्षपयन्
सुखानि रोगारोचकपिटकपाण्डुरुग्ज्वरकिटिभदद्रुदाहकृद्विशेषाद्वातपादकाग्निवित्पुलिन्द-
यवनबाह्लीकवङ्गोष्ट्रसन्त्यश्मकेक्ष्वाकुकुलूततुखारशिबिकत्रिगर्तवैदेहद्रविडसुराष्ट्रमध्यदेश-
दाशार्णांश्च हिनस्ति' इति।।१२-१५।।
अथेन्द्रस्य मण्डलस्य लक्षणं पूर्वलिङ्गानि फलान्याह—
अभिजिच्छ्रवणधनिष्ठाप्राजापत्यैन्द्रवैश्वमैत्राणि ।
सुरपतिमण्डलमेतद्भवन्ति चाप्यस्य रूपाणि ॥१६॥
चलिताचलवर्ष्माणो गम्भीरविराविणस्तडिद्वन्तः।
गवलालिकुलाहिनिभा विसृजन्ति पयः पयोवाहाः ॥१७॥
ऐन्द्रं स्तुतकुलजातिख्यातावनिपालगणपविध्वंसि ।
अतिसारगलग्रहवदनरोगकृच्छर्दिकोपाय ॥१८॥
काशियुगन्धरपौरवकिरातकीराभिसारहलमद्राः ।
अर्बुदसुराष्ट्रमालवपीडाकरमिष्टवृष्टिकरम् ॥१९॥
अभिजित्, श्रवण, धनिष्ठा, रोहिणी, ज्येष्ठा, उत्तराषाढा, अनुराधा--ये सात नक्षत्र
इन्द्रमण्डल के हैं। यदि इनमें से किसी भी नक्षत्र में भूकम्प हो तो उसके सात दिन पूर्व
आगे कथित लक्षण होते हैं। जैसे कि पर्वत के समान शरीर वाले, गम्भीर शब्द करने
वाले, बिजली वाले, महिषशृङ्ग, भ्रमरकुल और सर्पों के समान कान्ति वाले मेघ वर्षा
करते हैं। ऐन्द्र कम्प में प्रधान कुल में उत्पन्न मनुष्य, यशस्वी, राजा और सङ्घियों में
प्रधान का नाश करता है तथा अतिसार, कण्ठरोग, मुखरोग और कफ के रोग होते हैं।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA