बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 474, कुल 728 में से
संदर्भ में पढ़ें४३२ बृहत्संहिता
वासिनां तस्यां दिशि ये जना निवसन्ति तेषां पीडां कुर्वन्ति। अथवा आशा दिशस्तासां
यान्ति तद्देशयानां ग्रहदेशनिवासिनाम्। खले कृषिरतानाम्। खलमूलूखा यत्र धान्यं स्थाप्यते
तदुपघाते कृषिरतानां कृषिजीविनां पीडा भवति। चैत्यतरुः प्रधानवृक्षः। तत्र पतितोल्का
सत्कृतानां पूजितानां पीडां करोति।
पुरस्य द्वारि पतिता पुरक्षयं पुरविनाशं करोति। अथेन्द्रकीले द्वारार्गले पतिता तदा
जनानां क्षयोऽभिहित उक्तः। जननाशो भवति। ब्रह्मायतने पितामहो यत्र देवस्तत्र पतिता
विप्रान् ब्राह्मणान् विनिहन्याद् घातयेत्। गोष्ठे गोस्थाने यत्र गावो निवसन्ति तत्र पतिता
गोमिनो गावो येषां सन्ति तान् विनिहन्यान्नाशयेदिति।।२०-२२।।
अथान्यद्विशेषमाह—
क्ष्वेडास्फोटितवादितगीतोत्कृष्टस्वना भवन्ति यदा।
उल्कानिपातसमये भयाय राष्ट्रस्य सनृपस्य ॥२३॥
यदि उल्कापात के समय में क्ष्वेडा (वीरों का गर्जन = 'क्ष्वेडा तु सिंहनादः
स्या'दित्यमरः), आस्फोटित (छाती पर एक भुजा रखकर दूसरे हाथ से ताडन का
शब्द), वाद्य और गान का उद्घोषित शब्द हो तो राजा और राष्ट्र दोनों को भय के लिये
होता है।।२३।।
क्ष्वेडा क्ष्वेडितम्। आस्फोटितं करास्फोटः। वक्षःस्थस्य बाहोर्द्वितीयेन हस्तेन ताडनं
करास्फोटः। वादितं वाद्यशब्दः। गीतं प्रसिद्धम्। एषामुत्कृष्टा उद्घोषिताः स्वनाः शब्दा
यदा भवन्ति, कदा? उल्कानिपातसमये, उल्कानिपातकाले, तदा राष्ट्रस्य सनृपस्य नृपति-
सहितस्य भयाय भवन्ति।।२३।।
अन्यदप्याह—
यस्याश्चिरं तिष्ठति खेऽनुषङ्गो दण्डाकृतिः सा नृपतेर्भयाय।
या चोह्यते तन्तुधृतेव खस्था या वा महेन्द्रध्वजतुल्यररूपा ॥२४॥
जिस उल्का की आसक्ति आकाश में अधिक देर तक रहे, जो दण्डाकार दिखाई दे,
जो आकाश में डोरी से बँधी हुई की तरह स्थिर रहे, जो इन्द्रधनुष की तरह दिखाई दे वह
सब राजभय के लिये होती है।।२४।।
यस्या उल्कायाः खे नभसि। चिरं चिरकालम्। अनुषङ्ग आसक्तिस्तिष्ठति। तथा
दण्डाकृतिर्दण्डाकारा च या दृश्यते सा नृपते राज्ञो भयाय भवति। या चोल्का खस्था
आकाशस्थिता तन्तुधृतेव, तन्तुना ध्रियमाणेनेवोह्यते धार्यते सापि नृपतेर्भयाय भवति।
या च महेन्द्रध्वजस्येन्द्रचिह्नस्य तुल्यरूपा तदाकारा सापि नृपतेर्भयाय भवति।।२४।।
अन्यदप्याह—
श्रेष्ठिनः प्रतीपगा तिर्यगा नृपाङ्गनानाम्।
हन्त्यधोमुखी नृपान् ब्राह्मणानथोर्ध्वगा ॥२५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA