बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 463, कुल 728 में से
संदर्भ में पढ़ेंभूकम्पलक्षणाध्यायः ४२१
यदि वारुण मण्डल और ऐन्द्र वेला में या ऐन्द्र वेला और वारुण मण्डल में भूकम्प
हो तो लोगों में सुभिक्ष, कुशल, वृष्टि और चित्त में शान्ति होती है तथा गौ अधिक दूध देती
है और राजा लोग परस्पर द्वेषरहित होते हैं।।२६।।
वारुणो वरुणकृतः। पौरन्दर ऐन्द्रः। वारुणपौरन्दरयोर्वेलामण्डलयोः सुभिक्षम्।
शिवं श्रेयः। वृष्टिर्वर्षणम्। हार्दिर्चित्ततुष्टिः। एते लोके भवन्ति। तथा गावः। अतिभूरिपयसो
बहुक्षीराः। तथा भूपाला राजानो निवृत्तवैरा नष्टद्वेषा भवन्ति। तथा च काश्यपः—
ऐन्द्रश्चानिलजं हन्ति वायव्यश्चापि शक्रजम्।
आप्यो होतभुजं हन्ति चाग्निवारुणसम्भवम्।।
वाव्यग्निमिश्रितो यश्च वेलामण्डलसम्भवः।
दुर्भिक्षव्याधिरोगैस्तु पीड्यन्ते तत्र जन्तवः।।
माहेन्द्रवारुणे यत्र वेलामण्डलसम्भवः।
सुभिक्षक्षेमधर्माणां तत्र वृष्टिः प्रतिष्ठिता।।
एवमुक्तपरिशेषाणां विशेषफलं नास्ति पाराशरे तन्त्रे विशेषतरं पठ्यते। तथा च—
योऽन्यस्मिन्नक्षत्रे भागे चान्यत्र भूचलो भवति।
स भवेद् व्यामिश्रफलस्तन्मे गदतो निबोध त्वम्।।
कुरुशाल्वमत्स्यनैषधपुण्ड्रांश्चकलिङ्गविन्ध्यपादस्थान्।
वाव्याग्नेयः कम्पः सानलजीवान् भजति मैत्र्याम्।।
प्राच्यशकचीनपह्लवयौधेयकपर्दियक्षवद्गोमान् ।
शरदण्डमगधवन्धकविनाशनः शक्रवायव्यः।।
आवन्तिकाः पुलिन्दा विदेहकाश्मीरदरदवासान्ताः।
बाह्याश्रिताश्च वायव्यवारुणे प्राप्नुयुः पीडाम्।।
ऐक्ष्वाकवाऽश्मरथ्यान् पदच्चराभीरचीनमरुकुत्सान्।
ऐन्द्राग्नेयः कम्पो हिनस्ति राज्ञश्च समुदीर्णान्।।
सरितः सरः समुद्राश्रितांश्च गोनर्दमङ्गनाराज्यम्।
क्षत्रियगणांश्च हन्यात् कम्पो वरुणाग्निदैवत्यः।।
काश्याभिसारकाच्युतकच्छद्रीपार्यदेशजाः पुरुषाः।
गणपूजिताः कुलाग्र्या नृपाश्च वरुणेन्द्रवध्याः स्युः।। इति।।२६।।
अधुना कम्पव्यतिरिक्तानामन्येषामुत्पातानां येषां न कुत्रचित् कालनियमः कृतस्तेषां
कालनियमार्थमाह—
पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्दैवराट् च सप्ताहात्।
सद्यः फलति च वरुणो येषु न कालोऽद्भुतेषूक्तः ॥२७॥
अङ्गस्फुरण आदि उपद्रवों में जिसका फलकाल नहीं कहा गया है, वह यदि वायव्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA