बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 461, कुल 728 में से
संदर्भ में पढ़ेंभूकम्पलक्षणाध्यायः ४१९
आदि मुनियों का मत है कि अन्य ( निर्घात, उल्कापात आदि ) उत्पातों का फल मण्डल
के साथ ही होता है।।२३।।
षड्भिर्मासैः कम्पः पाकं याति फलं ददातीत्यर्थः। निर्घातो द्वाभ्यां मासाभ्यां पाकं
याति। अन्ये मुनयो गर्गादयोऽन्यानप्युत्पातान् ग्रहणनिर्घातोल्कापातादीनेतैरेव भूकम्पोक्तै-
र्मण्डलैर्जगुरक्तवन्तः। तथा च गर्गः—
निर्घातोल्कामहीकम्पाः स्निग्धगम्भीरनिःस्वनाः।
मेघाः स्तनितशब्दाश्च सूर्येन्दुग्रहणे तथा।।
परिवेषेन्द्रचापं च गन्धर्वनगरं तथा।
मण्डलैरेव बोद्धव्याः शुभाशुभफलप्रदाः।।
तथा च समाससंहितायामाचार्येणैवोक्तम्—
आर्यम्णपूर्वं भचतुष्टयं च शशाङ्कमादित्यमथाश्विनी च।
वायव्यमेतत्पवनोऽत्र चण्डो मासद्वयेनाशुभदः प्रजानाम्।।
अजैकपादं बहुला भरण्यो भाग्यं विशाखा गुरुभं मघा च।
क्षुदग्निशस्त्रामयकोपकारि पक्षैस्त्रिभिर्मण्डलमग्निसंज्ञम्।।
प्राजापत्यं वैष्णवं मैत्रमैन्द्रं विश्वेशं स्याद्वासवं चाभिजिश्च।
ऐन्द्रं ह्येतन्मण्डलं सप्तरात्रात् कुर्यात्तोयं हृष्टलोकं प्रशान्तम्।।
आहिर्बुध्न्यं वारुणं मूलमाप्यं पौष्णं सार्पं मन्मथारीश्वरं च।
सद्यः पाकं वारुणं नाम शस्तं तोयप्रायं हृष्टलोकं प्रशान्तम्।।
उल्काहरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पककुप्प्रदाहाः।
वातोऽतिचण्डो ग्रहणं रवीन्द्वोर्नक्षत्रतारागणवैकृतानि।।
व्यभ्रे वृष्टिर्वैकृतं चातिवृष्टिर्धूमोऽनग्निविस्फुलिङ्गार्चिषां वा।
वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकं दृश्यते वा।।
सन्ध्याविकारः परिवेषखण्डा नद्यः प्रतीपा दिवि तूर्यनादः।
अन्यच्च यत्स्यात् प्रकृतेः प्रतीपं तन्मण्डलैरेव फलं निगद्यम्।। इति।।२३।।
उल्काद्युत्पातानां फलनियमः—
( उल्का हरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पककुप्प्रदाहाः ।
वातोऽपिचण्डो ग्रहणं रवीन्द्वोर्नक्षत्रतारागणवैकृतानि ।।
व्यभ्रे वृष्टिर्वैकृतं वातवृष्टिर्धूमोऽनाग्निविस्फुलिङ्गार्चिषो वा ।
वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकंदृश्यते वा ।।
सन्ध्याविकारः परिवेषखण्डा नद्यः प्रतीपा दिवि तूर्यनादः ।
अन्यच्च यत्स्यात्प्रकृतेः प्रतीपं तन्मण्डलैरेव फलं निगाद्यम् ।।
उल्का, गन्धर्वपुर, धूलि, निर्घात, भूकम्प, दिग्दाह, भयङ्कर वायु, सूर्य-चन्द्र का
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA