बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 464, कुल 728 में से
संदर्भ में पढ़ें४२२ बृहत्संहिता
मण्डल में हो तो दो मास में, आग्नेय मण्डल में हो तो तीन पक्ष ( डेढ़ मास ) में, इन्द्र
मण्डल में हो तो सात दिन में और वारुण मण्डल में हो तो उसी दिन फल देता है ॥ २७ ॥
येष्वद्भुतेषूत्पातेषु देहस्पन्दनपिटकप्रायेषु कालः समयो नोक्तो न कथितस्ते यद्यनिले
वायव्ये मण्डले भवन्ति तदा चतुर्भिः पक्षैर्मासद्वयेन फलन्ति। एवमाग्नेयैस्त्रिभिः पक्षैः।
देवराडिन्द्रः सप्ताहात् सप्तभिर्दिनैः। वरुणः सद्यस्तस्मिन्नेवाहनि फलति ॥ २७ ॥
अथ येन मण्डलेन यावन्ति योजनानि चलन्ति तत्प्रदर्शनार्थमाह—
चलयति पवनः शतद्वयं शतमनलो दशयोजनान्वितम्।
सलिलपतिरशीतिसंयुक्तं कुलिशधरोऽभ्यधिकं च षष्टितः ॥ २८ ॥
यदि वायुमण्डल में भूकम्प हो तो दो सौ योजन तक, अग्निमण्डल में हो तो दश
योजन तक, वारुण मण्डल में हो तो एक सौ अस्सी योजन तक और ऐन्द्र मण्डल में
भूकम्प हो तो साठ से अधिक योजन तक पृथ्वी को कम्पित करता है ॥ २८ ॥
पवनो वायुर्योजनानां शतद्वयं चलयति। एतदुक्तं भवति—वायव्ये मण्डले यो
भूकम्पो भवति स योजनानां शतद्वयं कम्पयति। एवमनलोऽग्निर्दशयोजनान्वितं दशाधिकं
योजनशतं चलयति। सलिलपतिर्वरुणोऽशीतिसंयुक्तं योजनशतं चलयति। कुलिशं वज्रं
तद्धारयतीति कुलिशधर इन्द्रः षष्टितोऽधिकं योजनशतं चलयति। तथा च काश्यपः—
वायव्ये मण्डले नित्यं योजनानां शतद्वयम्।
दशाधिकमथाग्नेय ऐन्द्रे षष्ठ्याधिकं शतम् ॥
शतं चाशीतिसंयुक्तं वारुणे मण्डले चलेत् ॥ इति ॥ २८ ॥
अथ भूकम्पे वृत्ते पुनर्यदि भूकम्प आसन्नो भवति तस्य फलप्रदर्शनार्थमाह—
त्रिचतुर्थसप्तमदिने मासे पक्षे तथा त्रिपक्षे च।
यदि भवति भूमिकम्पः प्रधाननृपनाशनो भवति ॥ २९ ॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां भूकम्प-
लक्षणाध्याय द्वात्रिंशः ॥ ३२ ॥
यदि भूकम्प होने के बाद तीसरे, चौथे, सातवें, पन्द्रहवें या पैंतालीसवें दिन में फिर
भूकम्प हो तो प्रधान राजा का नाश करता है ॥ २९ ॥
इति 'विमला'हिन्दीटीकायां भूमिकम्पलक्षणाध्यायो द्वात्रिंशः ॥ ३२ ॥
भूकम्पे वृत्ते पुनर्यदि तृतीये दिवसे चतुर्थे वा सप्तमे दिने मासे त्रिंशद्दिने पक्षे पञ्च-
दशाहे। त्रिपक्षे दिनपञ्चचत्वारिंशता भूकम्पो भवति तदा प्रधाननृपाणां प्रतिष्ठितानां राज्ञां
नाशनः क्षयावहो भवति। तथा च गर्गः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA