बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 459, कुल 728 में से
संदर्भ में पढ़ेंकाशी, युगन्धर, पौरव, किरात, कीर, अभिसार, हल, मद्र, अर्बुद, सुराष्ट्र और मालवदेशवासी
मनुष्यों को पीड़ित करता है एवं प्रयोजन के अनुसार वृष्टि करता है।।१६-१९।।
अभिभिच्छ्रवणं धनिष्ठा। प्राजापत्यं रोहिणी। ऐन्द्रं ज्येष्ठा। वैश्वमुत्तराषाढा। मैत्रमनु-
राधा। एतानि सप्त नक्षत्राणि सुरपतेरिन्द्रस्य मण्डलमेतत्। अस्यापि सप्ताहात् पूर्वं स्व-
रूपाणि भवन्ति।
पयोवाहा मेघाः पयः पानीयं विसृजन्त्युत्सृजन्ति। कीदृशाः? चलिताचलवर्म्माणः,
चलितानामचलानां पर्वतानामिव वर्ष्म शरीरं येषां ते तथाविधाः। तथा गम्भीरविरा-
विणः, गम्भीरो मधुरो विशेषेण रावः शब्दो येषाम्। तडिद्वन्तः, तडितो विद्युत्तस्ता विद्यन्ते
येषु। गवलं महिषशृङ्गम्। अलिकुलं भ्रमरकुलम्। अहयः सर्पास्तन्निभास्तत्सदृशाः।
तथा च गर्गः—
निशार्द्धे तु यदा पूर्वे उल्कानिर्घातभूचलाः।
मैत्रेन्द्वैश्वश्रवणाभिजिद्रोहिणिवासवैः ।।
स्यादिन्द्रसम्भवः कम्पो लक्षणानि च मे शृणु।
वर्षन्ति बहवो मेघा वराहमहिषोपमाः।।
धुन्वन्तो मधुरान् रावान् विद्युद्भासितभूतलाः।
सप्तमेऽहनि सम्प्राप्ते कम्पः स्यादिन्द्रसम्भवः।। इति।
फलान्याह—ऐन्द्रमित्यादि । ऐन्द्रं कम्पम्। स्तुतकुलजातयः। स्तुते स्तुतिसंयुक्ते
प्रधानकुले जातिर्जन्म येषां ते। तथा ख्याताः कीर्तियुक्ताः। अवनिपाला राजानः। गणपाः
समूहपतयः। एषां विध्वंसि नाशकम्। अतिसारोऽतीसारः। गलग्रहः कण्ठरोगः। वदनरोगो
मुखगदः। एतान् करोति। तथा छर्दिकोपाय भवति। छर्दिप्रकोपं करोति।
काशयो जनाः। युगन्धराः। पौरवाः। किराताः। कीराः। अभिसाराः। हलाः। मद्राः।
अर्बुदाः। सुराष्ट्राः। मालवाः। एषां पीडाकरम्। तथा इष्टवृष्टिकिरम्। इष्टामभिमतां वृष्टिं
करोति। अत्रापि पराशरः—
'ऐन्द्रवैश्वदेववैष्णवप्राजापत्यसौम्यादित्यमैत्रेषु सुरपतिरवनिमतिचालयन् प्रवृद्धाम्भोद-
यज्ञधर्मत्रिपानोत्सवो जात्यप्रथितकुलाधिपतिसुवास्तुनीचकाश्मीराभिसारप्राच्यशककिरा-
तपौरवाच्युतवास्वर्णविमालवपह्नवदण्डककाशिकार्षककैलासमल्ललहवहालानुपतापयति'
इति।।१६-१९।।
अथ वारुणस्य लक्षणं पूर्वलिङ्गानि फलमाह—
पौष्णाप्याद्र्रार्श्लेषामूलाहिर्बुध्न्यवरुणदेवानि ।
मण्डलमेतद्वारुणमस्यापि भवन्ति रूपाणि ॥२०॥
नीलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणो बहुलाः ।
तडिदुद्भासितदेहा धाराङ्कुरवर्षिणो जलदाः ॥२१॥
बृ० भ० प्र०-२७
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA