भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
- १०२ -
यस्या यशःप्रदा यम्या यज्ञा यज्ञविवर्द्धिनी ।
रमा रामा रता रम्या रमणी रमणीयभूः ॥ ११८ ॥
रामणीयकराशिश्च राशीशरुचिदायिनी ।
रामप्रिया रामरता रामरामा रमारुचिः ॥ ११९ ॥
रुच्या रुचिप्रदा रोचिप्रदा रोचितविग्रहा ।
रूपिणी रूपनिरता रूपकार्थसुखावहा ॥ १२० ॥
रञ्जिनी रजनीरूपा रजताचलसुन्दरी ।
रजोगुणवती रक्षा रक्षोघ्नी राजसी रतिः ॥ १२१ ॥
लावण्यकुल्लवणहा लक्ष्मीर्लक्ष्यानुबन्धिनी ।
लक्ष्मणस्य प्रीतिकरी लक्ष्मणा लक्ष्मणाश्रया ॥ १२२ ॥
ललामा लोचनभवा लोला लोलोर्मिमालिका ।
लीलावती लाभकारी लोभनीयगुणावहा ॥ १२३ ॥
लज्जावती लोकवती लोकालोकपरस्थिता ।
लोकनीया लोकहिता लोकेशवरदायिनी ॥ १२४ ॥
लालित्यकारिणी लीला लोपामुद्रासुखप्रदा ।
वनजा वनरम्या च वानीरवनगामिनी ॥ १२५ ॥
वानरेश्वरसुप्रीता वाग्वती विन्ध्यवासिनी ।
वाराणसीपुण्यकरी वारिगा वारिवाहिनी ॥ १२६ ॥
वारिवाहगणश्यामा वारेन्द्रसुखप्रदा ।
वातरंहा वातगतिर्त्सामाराज्यसुखप्रदा ॥ १२७ ॥
वलिता वनिता वाणी वाणील्लभवल्लभा ।
वाहिनी वह्नौद्धत्या वदावदविवादभूः ॥ १२८ ॥
शमिनी शामिनी श्यामा श्यामायाम प्रबोधिनी ।
शमीकमुनिसंसेव्या शमीवृक्षोद्भवा शमा ॥ १२९ ॥
शनैश्चरा शनिहरा शनिग्रहभयापहा ।
शमनार्तिहरा शम्पा शतह्रदहविलासिनी ॥ १३० ॥
शेषाशेषगतिः शोष्या शेषपुत्री शशिप्रभा ।
इमशानचारिणी शून्या शून्याकाशनिवासिनी ॥ १३१ ॥
शरार्तिहा शरीरार्तिहारिणी शरभेश्वरी ।
शल्यापहा शलभहा शलदानवनाशिनी ॥ १३२ ॥
षण्मुखी षण्मुखहिता षडक्षीणा षडङ्गभूः ।
षष्ठीनाथसंसेव्या षष्ठीपूजनकारिणी ॥ १३३ ॥
- १०३ -
षड्वगंगायिनी षट्का षड् वषट्कप्रपूजिता ।
सिता सीता सुता सूता सतां पूज्या सतां गतिः ॥ १३४ ॥
सदाहास्यक्रिया सत्या सती सत्यार्थदायिनी ।
सरणिः सरयूः सीरा सलिलौघप्रवाहिनी ॥ १३५ ॥
सद्धर्मचारिणी सूर्मिः सूपास्या सूपपादिता ।
सुलभा सुखदा सुग्रा संग्रामभयहारिणी ॥ १३६ ॥
सूत्तरा सुतरा सोमा सोमनाथप्रपूजिता ।
सामिधेनी समित्प्रीता समिधा च समेधिनी ॥ १३७ ॥
समा समाना समगा सम्मत्ता सुमता सुभा ।
सुमार्च्या सुषुमाधारा सरोजावलिपूजिता ॥ १३८ ॥
हरिप्रिया हिमवहा हिमानी हिमतोयगा ।
हरिदृष्टकसंकीर्त्या हरिदश्वप्रपूजिता ॥ १३९ ॥
हंभारवैकसुप्रीता हिन्दोलाकेलिकारिणी ।
हिंसादोषप्रशमिनी हिंस्रमुक्तिप्रदायिनी ॥ १४० ॥
हारिणी हरसंस्तुत्या हकाराक्षरसंस्तुता ।
हत्याहरा हठरिपुर्हरचापप्रभञ्जिनी ॥ १४१ ॥
क्षेम्या क्षेमकरी क्षेमा क्षुधाक्षोभविनाशिनी ।
क्षुण्णा क्षोदा क्षीरनिधिः क्षीरसागरवासिनी ॥ १४२ ॥
क्षीवा क्षुतिक्षुरप्रख्या क्षिप्रा क्षिप्रार्थकारिणी ।
क्षोणिः क्षोणिहिता क्षामा क्षपाकरनिभोदका ॥ १४३ ॥
क्षारा क्षाराम्बुनिधिगा क्षपासंचारकारिणी ।
अमला अम्लसलिला अदःशब्दार्थरूपिणी ॥ १४४ ॥
अकाराक्षररूपा च ह्याकाराक्षररूपिणी ।
आर्द्राम्बरा आमजला आषाढी आश्विनात्मिका ॥ १४५ ॥
आग्रहायणरूपा च आतुरत्वविनाशिनी ।
आसुरी आसुरिसुता आशुतुष्टा इलेश्वरी ॥ १४६ ॥
इन्द्रिया इन्द्रसम्पूज्या इषुसंहारकारिणी ।
इत्वरी इनसंसेव्या इरा इनवरेन्दिरा ॥ १४७ ॥
ईश्वरी ईतिहन्त्री च ईरिणी ईस्वरूपिणी ।
उदकौघप्रवहिणी उत्तङ्कमुनिपूजिता ॥ १४८ ॥
उत्तराद्रिसुता उन्ना उत्तीर्णा उत्तरप्रदा ।
उत्तप्तकाञ्चननिभा ऊहिनी ऊहकारिणी ॥ १४९ ॥
- १०४ -
ऊषरा ऊषरक्षेत्रा ऊतिरूपो ऋभूस्तुता ।
ऋतप्रवर्तिनी ऋक्षा ऋक्षेन्द्रकुलपूजिता ॥ १५० ॥
ॠकाराक्षररूपा च ॠकारी ॠस्वरूपिणी ।
लृतका लृतकाचार्या लृकाराक्षरवासिनी ॥ १५१ ॥
एषा एषितवेदार्था एवमेवार्थरूपदा ।
एवकारार्थगम्या च एतच्छब्दार्थरूपिणी ॥ १५२ ॥
एता ऐता ऐकृतिश्च ऐन्द्री ऐंकाररूपिणी ।
ओता ओकाररूपा च औषधीशप्रपूजिता ॥ १५३ ॥
औन्नत्यकारिणी अंबा अंबिका अंकवर्जिता ।
अंतकप्रेयसी अंक्या अंतका अंतवर्जिता ॥ १५४ ॥
अःकारमुदिता चैव सर्वर्णस्वरूपिणी ।
सर्वशास्त्रार्थरूपा च सर्वकल्याणकारिणी ॥ १५५ ॥
इदं श्रीसरयूदेव्या नामसाहस्रमुत्तमम् ।
मया निगदितं श्रुत्वा सर्वपापैर्विमुच्यते ॥ १५६ ॥
बहूनि तव नामानि अनन्तान्येव सर्वशः ।
त्व गङ्गा यमुना चैव गोदा चैव सरस्वती ॥ १५७ ॥
नर्मदा चैव कावेरी भीमा कृष्णा च पार्वती ।
सिन्धुः सिन्धुसुता चैव सर्वदेवस्वरूपिणी ॥ १५८ ॥
यस्त्वां स्मरति वै नित्यं मनुजो रामसेवकः ।
सर्वविघ्नहरा तस्य भविष्यसि न संशयः ॥ १५९ ॥
प्रातरुत्थाय च नरो योऽवगाहेत वै त्वयि ।
तस्य सर्वाघहन्त्री त्वं रामभक्तिं प्रवर्तयेः ॥ १६० ॥
दर्शनात्स्पर्शनाच्चैव स्मरणात्नामकीर्तनात् ।
रामप्रेमप्रदा नित्यं त्वं सर्वशुभकारिणी ॥ १६१ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे सीताजन्मोत्सवे
प्रमोदवनवर्णने सरयूनामसहस्रकं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥
– १०५ –
सप्तत्रिंशोऽध्यायः
पुरुष उवाच
ये मज्जनं करिष्यन्ति तव प्रेममये जले ।
तेषां रामपदाम्भोजे भवित्री रतिरुत्तमा ॥ १ ॥
गच्छ त्वं रामनगरीमयोध्याख्यां शुभान्विताम् ।
पावयन्ती शुभान् देशान् निजवारिसमीरणी ॥ २ ॥
गङ्गया सह भूपस्त्वं लवणोद गमिष्यसि ।
ब्रह्माण्डाधारवासिन्या बिरजायाः शुभं जलम् ॥ ३ ॥
एकीकृत्य निजैस्तोयैर्गमिष्यसि महीतलम् ।
उपरिस्थमहाव्योमब्रह्माण्डद्वारमार्गतः ॥ ४ ॥
ब्रह्मलोकं समागत्य ब्रह्माणं स्नपयिष्यसि ।
तपोलोके सतीर्मातृस्तापसान् सिद्धपुङ्गवान् ॥ ५ ॥
१पावयित्वा पितॄन् सर्वान् जनलोकमुपैष्यसि ।
जनलोके पावयित्वा तत्रस्थान् देवतागणान् ॥ ६ ॥
महर्लोके ध्रुवस्थाने पूजितौत्तानपादिना ।
सप्तर्षिमण्डले भूयो वन्दिता तैर्मुनीश्वरैः ॥ ७ ॥
अरुन्धत्या स्तुता चैव स्तुत्वाचत्वमरुन्धतीम् ।
परस्परं सुखंभूपस्तत्र नित्यं करिष्यथः ॥ ८ ॥
ततः स्वर्लोकमागत्य देवैर्देवीभिरीडिता ।
पूजिता देवराजेन भुवर्लोकमुपैष्यसि ॥ ९ ॥
तत्र दिव्यैर्देवगणैः सिद्धविद्याधरोरगैः ।
पूजिता संस्तुता चैव भूर्लोकं प्लावयिष्यसि ॥ १० ॥
दिव्ये हिमालयवने विचरन्ती समंततः ।
आश्रमान् मुनिवर्याणां विशेषात्प्लावयिष्यसि ॥ ११ ॥
दिव्यवर्षसहस्रं तु विशिष्टेन तपस्विना ।
आराधिता ततो देवि मर्त्यलोकमुपैष्यसि ॥ १२ ॥
अयोध्यानगरे रम्ये तव वासो भविष्यति ।
नित्य संनिहिता तत्र कामान् सम्पूरयिष्यसि ॥ १३ ॥
इद ते कार्यमुच्छिष्ट स्थानं चैव शुभान्वितम् ।
आविर्भावस्तव सदा शुभाय धरणीतले ॥ १४ ॥
नृणां श्रीरामभक्तानां विशुद्धमनसां सताम् ।
अन्येषां चापि लोकानां पावनी त्वं सदा मता ॥ १५ ॥
१. इतः परं यावत् नास्ति—बड़ौ० ( तत्रलिखितं ६०-६१ मूल पुस्तकेनास्तीति )
॥ (37)
Divider:
✤ (or asterisk/floral ornament)
Chapter heading:
अष्टात्रिंशोऽध्यायः
अष्टात्रिंशोऽध्यायः (aṣṭātriṁśo'dhyāyaḥ)
Speaker:
श्रीशुक उवाच
Verses:
इत्यादिष्टा सरयू पुरुषेण भूम्ना तत्रस्थैर्महा योगिभिश्च भूयो।
Wait, is it "तत्रस्थैर्महा योगिभिश्च" (with a space) or "तत्रस्थैर्महायोगिभिश्च"?
In line 13: "तत्रस्थैर्महा योगिभिश्च" has a small gap between महा and योगिभिश्च, top bar is broken. Let's transcribe faithfully.
भूपो वन्दिता गङ्गया च कालिन्द्या चाप्यर्चिता दिव्यभावैः ॥ १ ॥
Space before and after ॥ १ ॥
तामुवाच ततो गङ्गा श्रीमद्विष्णुपदोद्गता।
तामुवाच (tāmuvāca)
ततो (tato)
गङ्गा (gaṅgā)
श्रीमद्विष्णुपदोद्गता (śrīmadviṣṇupadodgatā)।
प्रश्रयावनता भूत्वा विनयेन कृताञ्ज
- १०७ -
सरस्वत्युवाच
प्रेमानन्दमयी साक्षाद् रामलीलाविशारदा ।
प्रसीद मयि मातस्त्वं सरयूविश्वपाविनी ॥ ९ ॥
निज सार्थे स्थापयास्मान् यथा पश्येम तत्पदम् ।
रामलीलारसागरं प्रमोदवनमुत्तमम् ॥ १० ॥
कथं तद् दृश्यतां मातर्विना त्वत्करणाभरम् ।
तस्माद्यत्र स्थास्यसि त्वं तत्रस्थास्यामहे वयम् ॥ ११ ॥
गायत्र्युवाच
अहं वै छन्दसां माता वाञ्छामि तव संनिधिम् ।
प्रमोदविपिने रामलीलारससुखाप्तये ॥ १२ ॥
सावित्र्युवाच
यत्ते विज्ञापितं मातर्गायत्र्या सुरसेव्यया ।
तदेव मम विज्ञाप्यं श्रूयतां करुणावति ॥ १३ ॥
अरुन्धत्युवाच
असार जगदेवेदं सारं ब्रह्मपरं महः ।
तच्च रामस्वरूपं तत्प्रेममात्रेण लभ्यते ॥ १४ ॥
तत्प्रेम चित्सुखाकारं भवत्याः परमं वपुः ।
तस्मात्त्वत्सार्थगा नित्यं निवत्स्यामि महोदके ॥ १५ ॥
लोपामुद्रोवाच
अहं जानामि ते रूपं रामप्रेमैकविग्रहम् ।
तस्मात्त्वां न विहास्यामि साररूपां सनातनीम् ॥ १६ ॥
प्रमोदवनमभ्येत्य स्थास्यामि तव संनिधौ ।
द्रक्ष्यामि तां प्रभोर्लीलां श्रीरामस्य परात्मनः ॥ १७ ॥
गार्ग्युवाच
अहं भर्तुः प्रसादेन ब्रह्मानन्दमहोदधौ ।
निमग्ना त्वत्प्रसादेन प्रेमानन्द प्रकामये ॥ १८ ॥
मैत्रेय्युवाच
क्रुपयस्व परं मातर्यथाहमपि संततम् ।
श्रीरामप्रेमपाथोधेलंभे किमपि विप्रुषः ॥ १९ ॥
पार्वत्युवाच
अहं वंशीरवं श्रुत्वा रामस्य सुमनोहरम् ।
पत्युः शिवस्याङ्कस्थापि जहामि मनसो धृतिम् ॥ २० ॥
- १०८ -
तदहं द्रष्टुमिच्छामि रामं त्रैलोक्यसुन्दरम् ।
त्वत्सार्थेन गमिष्यामि प्रमोदवनमुत्तमम् ॥ २१ ॥
लक्ष्मीरूवाच
अहं वैकुण्ठगा नित्यं विष्णोर्वक्षसि संस्थिता ।
तथापि कामये रामं लीलानन्दरसात्मम् ॥ २२ ॥
तस्मात्त्वत्सार्थगा भूत्वा यास्यामि प्रमुदाटवीम् ।
कृपया मां निरीक्षस्व श्रीरामप्रेमसिद्धये ॥ २३ ॥
रतिरुवाच
अहं ते दासिका काचित्पादाब्जपरिचारिका ।
न मां त्वं त्यक्तुमर्हसि रामप्रेमाभिलाषुकाम् ॥ २४ ॥
शच्युवाच
यथा रतिस्तथैवाहं दासी ते प्रेमरूपिणी ।
न मां वैरोचते लोको यत्रैन्दूयदभूतयः ॥ २५ ॥
नय मां निजसार्थेन प्रमोदवनभूमिकाम् ।
अगम्यामितरैर्लोकैः श्रीरामरतिवर्जितैः ॥ २६ ॥
अनसूयोवाच
भर्ता मे भगवान् साक्षाच्चित्रकूटे यदाश्रमः ।
श्रीरामप्रेमसंयुक्तस्तस्याहं परमा प्रिया ॥
त्वत्सन्निधौ स्थातुमर्हा न मां त्वं त्यक्तुमर्हसि ॥ २७ ॥
दित्यादिती ऊचतुः
आवां प्रजापतेर्भार्ये देवासुरमातरौ ।
तव सङ्गेन वै मातर्भविष्यावो हरौ रते ॥ २८ ॥
तस्मादावां नेष्यसि त्वं कृपया श्रीकृपावती ।
प्रमोदवनमत्यर्थं रामलीलामनोहरम् ॥ २९ ॥
देवहू तिरुवाच
अहं कपिलदेवस्य जननी कर्दमस्य च ।
प्रजापतेः प्रिया भार्या रामप्रेमाभिलाषुका ॥ ३० ॥
तदर्थं त्वामहं प्राप्ता यास्यामि प्रमुदाटवीम् ।
हस्तावलम्बं वितर त्वं परप्रेमरूपिणी ॥ ३१ ॥
मेधाद्या दशपीठस्थाः शक्तयः सरयूं प्रति ।
ऊचिरे वचनं सर्वाः सानुरागाः पृथक् पृथक् ॥ ३२ ॥
- १०९ -
मेधाद्या ऊचुः
पावत्यो देवता दिव्या विष्णुरुद्रादिरूपिणीः ।
तासां वयं पीठशक्तिरूपेण खलु संस्थिताः ॥ ३३ ॥
अधुना त्वामभ्युपेताः श्रीरामप्रेमकामुकाः ।
दोलान्तसंस्थिता नित्यं याने पीठान्तसंस्थिताः ॥ ३४ ॥
नित्यं त्वां सेविष्यमो यत्र यत्र गमिष्यसि ।
प्रमोदवनमभ्येत्य स्थास्यामस्तव संनिधौ ॥ ३५ ॥
इति विज्ञाप्य सरयूं सकलास्ताः पृथक् पृथक् ।
द्रवरूपेण सम्भूय विविशुस्तन्महोदके ॥ ३६ ॥
गङ्गा च यमुना चैव तथा देवी सरस्वती ।
द्रवरूपं समास्थाय विविशुः सरयूजले ॥ ३७ ॥
अन्याश्च देवताः सर्वा लोपामुद्रादयस्तदा ।
द्रवीभूय सरय्वां ता विविशुः सुखितान्तराः ॥ ३८ ॥
ततः सा सरयूर्दूता महाकल्लोलनिःस्वनैः ।
[L16
- ११० -
तत्र तद्भाति परमं ब्रह्माक्षरमनुत्तमम् ।
पुरुषोत्तमस्य यद्दिव्यं कीर्तितं पदमुच्चकैः ॥ ३ ॥
स लोकस्तस्य विमलश्चिन्तामणिमयो मही ।
कल्पद्रुमा द्रुमाः सर्वे पूर्णपीयूषकं सरः ॥ ४ ॥
ज्ञानिनां तन्निराकारं निरीहं निर्गुणं तथा ।
तदेव भक्तैः साकारं दृश्यते सगुणं महत् ॥ ५ ॥
तत्र प्रवर्तयामास¹ रामभक्तिमनुत्तमाम् ।
सरय्वाः सलिलं पीत्वा तत्रत्यास्ते महर्षयः ॥ ६ ॥
श्रीरामभक्तिसम्पन्ना बभूवुर्हृष्टचेतसः ।
ततस्तां विरजा देवी प्रोवाच विगतस्मया ॥ ७ ॥
दर्शनेनैव हृष्टात्मा सद्यः प्रेमवती सती ।
विरजोवाच
इह ब्रह्मैव परमं गीयते श्रुतिकोटिभिः ।
ज्ञानगम्यं सदा ज्ञेयं रूक्षवद्भाति तत्सुखम् ॥ ८ ॥
अधुना तु परं प्रेम भवत्या प्रकटीकृतम् ।
श्रीरामचन्द्रविषयं ब्रह्मानन्दाच्छताधिकम् ॥ ९ ॥
सहस्रलक्षकोट्यंशैः स्फुरदभ्यधिकाधिकम् ।
त्वं गुरुः परमास्माकं श्रीरामप्रेमशिक्षणे ॥ १० ॥
सदास्माकं गृहेतिष्ठ ब्रह्माक्षरमहाह्रदे ।
अत्र स्थित्वा ज्ञानवतां मुनीनां ब्रह्मवर्चसाम् ॥ ११ ॥
प्रवर्तय परांभक्तिं रसास्वादैकहेतवे ।
नामी विदन्ति प्रेमाणं परब्रह्मरसोत्तरम् ॥ १२ ॥
व्यर्थमेषां ततो ज्ञानं गणितानन्दभागिनाम् ।
मानुषेभ्योऽधिकानन्दाः सम्राजः शतसंख्यया ॥ १३ ॥
सम्राड्भ्योयक्षगन्धर्वाः कर्मदेवास्ततोऽपि च ।
देवाश्च कर्मदेवेभ्यस्तेभ्य इन्द्रस्तथैव च ॥ १४ ॥
इन्द्राच्छताधिकानन्द आङ्गिरस उदारधीः ।
आङ्गिरसाधिको ब्रह्मा ब्रह्मणो ब्रह्म चाधिकम् ॥ १५ ॥
एषाऽऽनन्दस्य गणना श्रुत्या मीमांसितापुरा ।
तस्मादगणितानन्दं परं ब्रह्म प्रकीर्तितम् ॥ १६ ॥
अक्षरात्परतः स्थानं यत्र श्रीपुरुषोत्तमः ।
परं ब्रह्म तदेवोक्तं साकारं रसरूपधृक् ॥ १७ ॥
१. इतः पूर्वं खण्डितः पाठ.—बडौ. ।
- १११ -
परं ब्रह्म प्रेमगम्यं प्रेमा भक्तिरुदाहृता ।
सोऽत्र प्रवर्तितो मातस्त्वया प्रेमस्वरूपया ॥ १८ ॥
तस्मात्तवात्र संस्थानं सततं कामयेऽस्मि च ।
नो चेद्यत्र प्रयासि त्वं तत्र मां नय सार्थगाम् ॥ १९ ॥
सरयूरुवाच
अहं निदेशात्पुरुषस्य भूम्नस्तत्र प्रयास्यामि विभाति यत्र ।
पुरो परानन्दपदव्ययोध्या श्रीरामसीतारसकेलिपात्रम् ॥ २० ॥
तत्र प्रमोदवनमध्यगता सदाहं स्थास्यामि नित्यमुदयं दधती शुभोच्चैः ।
सत्या महावनविहारकरी सदैव वर्ते प्रमुद्वनभुवि प्रमुदं दधाना ॥ २१ ॥
विरजोवाच
नय मामपि तत्रैव प्रमोदवनमद्भुतम् ।
अयोध्यापुरपर्यन्तस्थानमानन्दमन्दिरम् ॥ २२ ॥
गायन्ती त्वद्गुणांस्तत्र स्थास्यामि तव सन्निधौ ।
श्रीरामकेलीसम्भूतपरमानन्दभाजनम् ॥ २३ ॥
श्रीशुक उवाच
तथेत्युक्त्वा सरयूस्तां स्वसार्थे सरिद्वरां विरजां जातसख्याम् ।
कृत्वा ततः साः प्रययौ मन्दमन्दं संशृण्वती स्तव स्वस्यपुण्यम् ॥ २४ ॥
मुनय
- ११२ -
त्वं रामगङ्गा भवमुक्तिहेतुः समस्तकल्याणपरं परात्मा।
शुभाय लोके प्रकटत्वमागाः श्रीरामभक्त्येकजुषां जनानाम् ॥ ३२ ॥
नमोऽम्ब रामगङ्गायै तुभ्यं कल्याणमूर्तये।
वासिष्ठ्यै प्रेमगङ्गायै पावयन्त्यै जगत्त्रयम् ॥ ३३ ॥
इति स्तुवन्तो मुनयः सरयूं विश्वपावनीम्।
मुक्ता अपि जना जाताः प्रेमभाजोरघूद्वहे ॥ ३४ ॥
ततः सा स्वर्गभूमिषु तत्रस्थैर्विहितस्तवा।
प्लावयन्ती शुभान् स्वर्गान् क्रमेणागाद्धिमालयम् ॥ ३५ ॥
हिमाद्रेः पूर्वशिखरे संस्थिता शुभ्ररूपिणी।
स्तूयमाना देवसंघैर्यक्षगन्धर्वपुङ्गवैः ॥ ३६ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे सीताजन्मोत्सवे
सरयूसम्भवे एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
चत्वारिंशोऽध्यायः
श्रीशुक उवाच
ततो वसिष्ठो योगीन्द्रस्तपश्चक्रे पुरा महत्।
तपसा तेन संतुष्टा सरयूरागता महीम् ॥ १ ॥
जनक उवाच
कथं मुनिस्तपश्चक्रे वसिष्ठः सरयूकृते।
एतन्मे वद योगीन्द्र रामगङ्गा यथाऽऽगता ॥ २ ॥
श्रीशुक उवाच
शृणु राजन् प्रवक्ष्यामि सरयूत्पत्तिमुत्तमाम्।
अयोध्यायाश्च निर्माणं पूर्वं वेवस्वतान्मनोः ॥ ३ ॥
वक्ष्ये प्रसंगतः प्राप्तां वैवस्वतमनोः कथाम्।
पावनीं श्रवणादेव चित्तशुद्धिविधायिनीम् ॥ ४ ॥
वैवस्वतो मनुरभूद् भगवान् सर्वदर्शनः।
मनीषी चैव सर्वज्ञः प्रजाकर्मण्यतन्द्रितः ॥ ५ ॥
पारगः सर्ववेदानां सर्वदैवतपूजितः।
आज्ञया ब्रह्मणो नित्यं भुवमेतां शशास सः ॥ ६ ॥
- ११३ -
स इदं प्रथमं चक्रे ब्रह्मक्षत्रमनारतम् ।
ततश्चैव तु विट्शूद्रं स्वे स्वे कर्मणि संस्थितम् ॥ ७ ॥
वृत्तीश्च प्रथमं चक्रे लोकयात्राविधायिकाः ।
कालं कर्म स्वभावं च समाश्रित्य सनातनम् ॥ ८ ॥
भगवान् सर्वहेतुत्वात्स्वयं तद्वशगः स्थितः ।
दिव्येन चक्षुषा सर्वमपश्यद्भगवान् स्वयम् ॥ ९ ॥
भूतं भवच्च भव्यं च स्थावरं चैव जङ्गमम् ।
सरहस्यां साङ्गगणां सोत्तरां सपदक्रमाम् ॥ १० ॥
सशाखाभाविविस्तारं बीजरूपां व्यवस्थिताम् ।
त्रयीं सोऽधिजगे देवः सेतिहासपुराणकाम् ॥ ११ ॥
ससंहिता सतन्त्रां च सकाण्डाध्यायविस्तराम् ।
विवस्वतो भगवतश्चिकीर्षत इदं जगत् ॥ १२ ॥
सर्वं विज्ञातवान् विश्वं शब्दरूपेण संस्थितम् ।
शब्दो नामा परं ब्रह्म परमे व्योम्नि संस्थितम् ॥ १३ ॥
वेदो नारायणः साक्षात्स्वयंभूर्ब्रह्मकारणम् ।
तस्याज्ञया पितुश्चैव नियोगाच्छ्रीविवस्वतः ॥ १४ ॥
पृथक्तन्त्रां वेदमयीं वाचं विज्ञातवान् स्वयम् ।
सोऽग्लासीत्प्रथमं सर्गे प्रजाकर्मण्युपारतः ॥ १५ ॥
रुद्रस्यैवोपदेशेन प्रजासंहारकारिणः ।
जनक उवाच
भगवानीश्वरो रुद्रः कथं तमुपदिष्टवान् ।
येन ग्लानोऽभवद्देवः प्रजासर्गे मनुः स्वयम् ॥ १६ ॥
श्रीशुक उवाच
एतत्तेऽहं प्रवक्ष्यामि शृणु राजर्षिसत्तम ।
वैवस्वतो मनुः पूर्वं पित्रा युक्तः प्रजाकृतौ ॥ १७ ॥
अकरोदखिलं विश्वं संक्षेपेण पथोदितम् ।
चातुर्वर्ण्यं गुणांश्चैव कर्माणि च विभागशः ॥ १८ ॥
पृथक् पृथक् प्रवृत्तीश्च यज्ञं पर्जन्यकारणम् ।
संस्थाश्चापि पृथक् चक्रे यज्ञस्य ब्रह्मकर्मणः ॥ १९ ॥
पशूंश्चापि पृथक् चक्रे वायव्यानग्निदैवतान् ।
वारुणानिन्द्रदैवत्यां स्तथाग्नी वोमदैवतान् ॥ २० ॥
मैत्रावरुणदैवत्यान् सर्वदैवत्यकांस्तथा ।
प्राजापत्यांश्च बहुशो यैर्यज्ञः सम्प्रवर्तते ॥ २१ ॥
१५
= नेार्? In Unicode, न + े + ा + र् = नेार् or नेार्र्?
Wait, if you type न + ो + र् + ज, it renders as नोर्ज.
If you type न + े + ा + र् + ज, it renders as नेार्ज् or नेार्ज.
Wait, look at the image: is it really नेा?
Look at म then न:
The न has a top stroke to the left: that's an e-matra!
And then a vertical line ा.
So literally, it is नेा!
Wait, why not just write वैवस्वतमनेार्जनकेन or वैवस्वतमनेार्र्जनकेन?
Wait, let's look at how similar texts from this book (looks like Shiva Purana or similar, or Linga Purana / Markandeya Purana / Skanda Purana) are edited.
Wait! Let's search this text:
"देशं कालं तथा द्रव्यं मन्त्रं कर्तॄंश्च भेदशः । अङ्गानि चापि भूरीणि क्रियाश्चापि विधिक्षमाः"
"आवायं च तथोद्वायं तन्त्राणि च पृथक् पृथक् । जुह्वादीनि च पात्राणि तथाभूतमुत्तमम्
- ११५ -
तडित्पिशंगप्रोद्भासिकपर्द्दकविभीषण !
शूलभ्रमणवित्रासिन् भैरवाय नमोऽस्तु ते ॥ ३८ ॥
खड्गशूलधरायोर्ध्वं वरदाभयपाणये ।
चतुर्भुजाय भीमाय भैरवाय नमोऽस्तु ते ॥ ३९ ॥
उल्कासहस्रविस्रस्तजगतत्रयभयालवे ।
ज्वालामालाकरालाय भैरवाय नमोऽस्तु ते ॥ ४० ॥
दीप्ताय दीप्तनेत्राय विद्युद्द्योतिदीप्तये ।
प्रदीप्तवह्निज्वालाय जटिलाय नमोऽस्तु ते ॥ ४१ ॥
व्यालमालापरीताय धूलिधूसरवर्मणे ।
गिरीन्द्रशिखरोच्चाय महोग्राय नमोऽस्तु ते ॥ ४२ ॥
पादप्रहारविध्वस्तसप्तपातालभूमये ।
किरीटोल्लिखिताभ्राय विशालाय नमोऽस्तु ते ॥ ४३ ॥
दिगम्बराय वीराय श्मशानामिषभोजिने ।
शोणितारक्ततुण्डाय प्रचण्डाय नमोऽस्तु ते ॥ ४४ ॥
चण्डाय चण्डवीर्याय चण्डविक्रमकारिणे ।
भूतान्तकरणोग्राय त्र्यम्बकाय नमोऽस्तु ते ॥ ४५ ॥
वेतालौघपरीताय डाकिनीतृप्तिहेतवे ।
चण्डिकागुणयुक्ताय भीषणाय नमोऽस्तु ते ॥ ४६ ॥
अत्युद्भटजटाटोपक्षोभिताम्बुदमण्डल ।
विकराल महाकाल चन्द्रभाल नमोऽस्तु ते ॥ ४७ ॥
एतत्तव जगत्सर्वं कृपादृष्ट्याभिवीक्ष्यताम् ।
न त्वस्य ध्वसनं युक्तं विनैवावसरं प्रभो ॥ ४८ ॥
अन्य एव स कालोऽस्ति यत्र संहरसे जगत् ।
सृष्टिकालोऽयमधुना कृपा विस्तारय प्रभो ॥ ४९ ॥
विष्णोराज्ञा भगवतो महापुरुषसंज्ञिनः ।
काले काले यतोऽस्माभिः क्रियते विश्वमीदृशम् ॥ ५० ॥
तस्य नाभिस्थलोद्भूतपद्मभू र्भगवान् विधिः ।
अरीरचज्जगत्सर्वं नियुज्यास्यांश्चतुर्दश ॥ ५१ ॥
तस्मै त्वं कृपयास्मासु मा द्रुह क्रोधभैरव ।
त्वया विध्वंस्यमानं तन्नङ्क्ष्यते नष्टमेव च ॥ ५२ ॥
करोषि ताण्डवं यर्हि भुजौ सम्भ्रामयन् मुहुः ।
पातालं पादन्यासेन स्वर्गो मूर्ध्ना च भज्यते ॥ ५३ ॥
- ११६ -
इदं ते ताण्डवं भीमं विश्वसंहरणक्षमम् ।
संवर्तावसरे योग्यं न सर्गावसरे क्वचित् ॥ ५४ ॥
इत्थं विवस्वता भूयः संस्तुतः क्रोधभैरवः ।
प्रत्युवाच प्रसन्नात्मा बलिभिर्धूपदीपकैः ॥ ५५ ॥
क्रोधभैरव उवाच
स्तवेनानेन तेऽत्यर्थं प्रसन्नोऽस्मि ततोभृशम् ।
वरं वृणीष्वभद्रं ते विवस्वन् दैवतोत्तम ॥ ५६ ॥
विवस्वानुवाच
विश्वसंहरणाद्देव विरमस्वाधुना प्रभो ।
एष एव वरो देयः क्रोधं संहर भैरव ॥ ५७ ॥
स्तवेनानेन ये नित्यं स्तोष्यन्ति त्वां भवे जनाः ।
तेषां त्वं सुखदो भूया एष चापि वरोऽस्ति मे ॥ ५८ ॥
श्रीशुक उवाच
तथास्त्विति वरं दत्त्वा प्रणताय विवस्वते ।
प्रजगाम प्रशान्तात्मा कैलासाख्यं निजास्पदम् ॥ ५९ ॥
तमागतमभिप्रेत्य भगवान् रुद्र ईश्वरः ।
आज्ञाविघातदोषेण चुक्रोध हृदये भृशम् ॥ ६० ॥
श्रीमहादेव उवाच
कस्मान्न ध्वंसितं विश्वं मदाज्ञा विहता कुतः ।
अव्यवस्थितचित्ताय तुभ्यं कुप्यामि भैरव ॥ ६१ ॥
मत्तोऽसि क्षणतुष्टोऽसि विहितं न वचो मम ।
तस्मात्सर्वेषु देवेषु कुत्सितस्त्वं भविष्यसि ॥ ६२ ॥
सुरामांसप्रियो लोके भविष्यसि विशेषतः ।
पुरुषाणां बलीन् खादन् पुरुषादो भविष्यसि ॥ ६३ ॥
न खलु त्वां भजिष्यन्ति सात्त्विका अपि राजसाः ।
तामसाः क्रूरकर्माणः सततं त्वामुपासते ॥ ६४ ॥
ततो निर्गच्छ मत्पार्श्वात् सात्त्विकं पदमीदृशम् ।
गच्छ त्वं तामसांल्लोकान् यत्र मांससुराबलिः ॥ ६५ ॥
इत्थं निर्भर्त्सितस्तेन देवदेवेन भैरवः ।
जगाम रक्षसां लोकान् महातामसरूपिणः ॥ ६६ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे सीताजन्मोत्सवे
सरयूत्पत्तौ वैवस्वतोपाख्याने चत्वारिंशोऽध्यायः ॥ ४० ॥
- ११७ -
एकचत्वारिंशोऽध्यायः
श्रीशुक उवाच
शिवस्तु दुःसहं मत्वा प्रजासर्गमनारतम् ।
वैवस्वताय यनवे ज्ञानं वक्तुमुपागतः ॥ १ ॥
ब्रह्मचारी यथा भूत्वा धृताषाढो मृगाजिनी ।
धौतोज्ज्वलाम्बरधरः सुपूतः सुदृढव्रतः ॥ २ ॥
महार्हराज्यासनगं देवं वैवस्वतं मनुम् ।
अभ्यगच्छन्नभोदेशादवतीर्य लसद्द्युतिः ॥ ३ ॥
तं सूर्यप्रतिमं दृष्ट्वावतरन्तं नभस्तलात् ।
उत्तस्थौ स्वासनं हित्वा भक्त्या वैवस्वतो मनुः ॥ ४ ॥
सर्वदाभ्यागतः पार्श्वे ब्रह्मचर्यनिधिर्द्विजः ।
वैवस्वतो विस्मितोऽभूद्दृष्ट्वा तद्ब्रह्मवर्चसम् ॥
प्रत्युत्थाय ननामास्मै मूर्ध्ना नम्रेण धार्मिकः ॥ ५ ॥
स त प्रयुज्याशिषमद्भुतां मुनिर्विमुक्तिमार्गं सहसा व्रजेति भोः ।
निशम्य तस्याशिषमेष निर्वृतः संसारचक्रभ्रमणात्ह्लानचित्तः ॥ ६ ॥
पाद्यादिभिः प्रपूज्यैनं कृत्वा च बहुलादरम् ।
महार्हमासनं दत्त्वा शिरश्चरणयोर्न्यधात् ॥ ७ ॥
स तस्य शिर उत्सार्य महामुकुटमण्डितम् ।
प्रसन्नहृदयो भूत्वा प्रोवाच मनुजेश्वरम् ॥ ८ ॥
ब्राह्मण उवाच
धन्योऽसि धारणीपाल प्रजापालनतत्परः ।
विविधाश्च प्रजाः कृत्वा कृतकृत्योऽसि साम्प्रतम् ॥ ९ ॥
पारं प्राप्तोऽसि वेदानां समस्तानां महामते ।
साङ्गानां सरहस्यानां सोत्तराम्नायभूयसाम् ॥ १० ॥
अधीत्य साङ्गमाम्नायं पितुर्देवाद्दिवस्वतः ।
किमेतत्कृतवान् यत्त्वं भूयः समसृजः प्रजाः ॥ ११ ॥
न हि प्रवृत्तिरुदिता वेदेषु निखिलेष्वपि ।
निवृत्त्येकपरा वेदा ब्रह्मैकं ज्ञापयन्तिहि ॥ १२ ॥
समासतो व्यासतःच वेदैरेकोऽर्थ ईर्यते ।
बह्वर्थत्वे वाक्यभेदः सर्वाम्नाये प्रसज्यते ॥ १३ ॥
पूर्वकाण्डे यज्ञमात्रं परत्र ब्रह्म केवलम् ।
आम्नायेन च सर्वेण तस्य ज्ञानमुदीर्यते ॥ १४ ॥
- ११८ -
पूर्वकाण्डोदितो यज्ञश्चित्तशुद्ध्यर्थमिष्यते ।
कथं ज्ञानकलोदेति शुद्ध्यभावे तु चेतसः ॥ १५ ॥
विचार्यं भवतैवैतद्यतः स्वस्य स्वयं गुरुः ।
प्रवृत्तिर्वा निवृत्तिर्वा किमशोकं पदं दिशेत् ॥ १६ ॥
प्रवृत्तिः खलु भूताना बन्धनैकप्रसाधिनी ।
निवृत्त्या विरजोभूत्वा लभते शाश्वतं पदम् ॥ १७ ॥
वैराग्यं चैव विज्ञानं स्वात्मज्ञानैकसाधनम् ।
प्रवृत्तिस्तत्प्रातिकूल्ये निवृत्तिरनुकूलता ॥ १८ ॥
अशान्तिदमशान्तं च कामक्रोधमदावहम् ।
असाररूपं संसारमशुभं क उपासते ॥ १९ ॥
सदारं धनपुत्रादिलालसाशोकसम्भृतम् ।
परिणामैकविरसं कः संसारं प्रवर्तयेत् ॥ २० ॥
बहुभिर्भुज्यते भोग एकः खलु निबध्यते ।
ईदृशं गृहमुत्सृज्य स्वात्मानं किं न साधयेत् ॥ २१ ॥
दूरेण खलु तत्तत्त्व यल्लब्धं त्यक्तगृह्यकैः ।
गृहिणां गृहकृत्येन व्यग्राणां ग्राम्यवृत्तिभिः ॥ २२ ॥
भवेषु क्लिश्यमानानामपूर्णोदरचेतसाम् ।
दधतां महतीं चिन्तां ग्लानिः कस्मान्न जायते ॥ २३ ॥
ग्लायतामपि दुःखेन क्रोशतां भववेदनैः ।
न जायते निवृत्तिर्वै हन्तेयं मूर्खता नृणाम् ॥ २४ ॥
कालं न विश्वसेज्जातु भीषणं क्षणचापलम् ।
वर्द्धयित्वा हरेज्जन्तुं तत्क्षणादेव पश्यतः ॥ २५ ॥
हरितः पुष्पितः पूर्णः फलितो ज्वलितो वने ।
भस्मान्तं च गतो भूमौ मिलितोऽङ्कुरितः पुनः ॥ २६ ॥
अहो कालस्य लोलेयं बलिनोऽखिलभेदिनः ।
निजशक्तिं प्रविस्तार्य विश्वं विपरिणामयत् ॥ २७ ॥
क्रीडते संततं कालो गुणक्षोभं समाश्रितः ।
दिनमासर्तुवर्षादिप्रलयान्तो महोजितः ॥ २८ ॥
निगृह्णीयान्मनो नित्यं विषयेषु न चोत्सृजेत् ।
विमुक्तानिग्रहे चित्ते पुरुषः स्यात्कदर्थितः ॥ २९ ॥
प्रकृतेः परिणामित्वादनेकधा गुणोद्भवः ।
पुरुषः सुखदुःखानि भुङ्क्तेऽयं यत्समाश्रयः ॥ ३० ॥
गुणप्रवाहपतितो यत्र यत्रानुधावति ।
ततस्ततो निगृह्णीयाद्यदीच्छन्मुक्तिमात्मनः ॥ ३१ ॥
- ११९ -
अथाधुना ब्रह्मचर्यं श्वो गार्हस्थ्यं भविष्यति ।
ततो वानप्रस्थमथो ग्रहीष्ये दण्डमुत्तमम् ॥ ३२ ॥
एवं क्रमेण मुक्तोऽहं भविष्यामि ततः परम् ।
इत्थमाशावशो लोको लीयते कालवक्त्रगः ॥ ३३ ॥
श्वःसाधनीयमर्थं तु विद्वानद्यैव साधयेत् ।
कालेन बलिना तत्र दीर्घसूत्री विहन्यते ॥ ३४ ॥
यावदिन्द्रियसामर्थ्यं यावदूर्जस्वलं वपुः ।
तावत्कुर्यान्नरो धीमान् संसृतेरात्मसाधनम् ॥ ३५ ॥
देहं न विश्वसेज्जातु निगीर्णं कालशक्तितः ।
अचेतनं भौतिकं तत्केन चैतन्यमाप्यते ॥ ३६ ॥
परमात्मा चिदानन्दो यस्य जीवा वशे स्थिताः ।
स द्विधेय जगद्वृक्षमाविश्य क्रीडते पृथक् ॥ ३७ ॥
तत्संयोगाद्भूतमयं चेतनं वपुरुच्यते ।
तेन प्रसाधयेत् कार्यं शाश्वतं हितमात्मनः ॥ ३८ ॥
जगद्विनश्वरं सर्वं तत्स्थोऽयं चापि तादृशः ।
इति विज्ञाय न नरो विषयेषु प्रसज्जते ॥ ३९ ॥
विषयासंगयुक्तस्य रागस्तेषु प्रजायते ।
स्वरूपानन्दसंदोहस्तेन नित्यं तिरोहति ॥ ४० ॥
अयं ते दोष आख्यातः प्रजासर्गसमुद्भवः ।
तस्मादतो निवर्तस्व यदिच्छसि शुभं मनो ॥ ४१ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे सीताजन्मोत्सवे
सरयूत्पत्तौ वैवस्वतोपाख्याने दोषनिरूपणं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥
❊
द्विचत्वारिंशोऽध्यायः
जनक उवाच
इत्युक्तः शंकरेणासौ देवो वैवस्वतो मनुः ।
नियुक्तोऽपि प्रजासर्गे सद्य एव व्यरज्यत ॥ १ ॥
वैराग्यवशगं चित्तं कृत्वा वैवस्वतस्य वै ।
उवाच रुद्रो भगवान् स्मयन् मधुरया गिरा ॥ २ ॥
- १२० -
ब्राह्मण उवाच
भवादृशा हि बहवो राजन् प्राक् संस्कृतान्तराः ।
आत्मतत्त्वं प्रविज्ञाय ब्रह्मसाधर्म्यमागताः ॥ ३ ॥
तस्मादेव ते नृपते विशुद्धकुलयोनये ।
श्रद्धालवे च विदुषे प्रोक्तवानिदमस्म्यहम् ॥ ४ ॥
सारं वेदान्तवाक्यानामात्मतत्त्वैकदीपकम् ।
गुह्यं ज्ञानमिदं प्रोक्तं सावधानोऽवधारय ॥ ५ ॥
श्रवणं श्रवणं नैव श्रवणाभ्यां तु यच्छ्रुतम् ।
तदेव मननान्तं चेच्छ्रवणं परिकीर्तितम् ॥ ६ ॥
तस्मान्मदुक्तं मनसा नरेन्द्र निश्चित्य भूयो मननं कुरुष्व ।
ततो निदिध्यासनमेव कृत्वा कृतार्थमात्मानमवेहि राजन् ॥ ७ ॥
पूर्वं जगत् सुसंयम्य पश्चात्कर्मफलं त्यज ।
ततः कर्माणि संन्यस्य ब्रह्मतत्त्वं विभावय ॥ ८ ॥
अचिरान्मनस्येकाग्रे ब्रह्मतत्त्वं परिस्फुरेत् ।
प्रकाशिते परे तत्त्वे कृतकृत्यः प्रजायते ॥ ९ ॥
विमुक्तो जीवन्मुक्तश्च विनिर्धूतपुनर्भवः ।
तादृशस्त्वं भव नृप सिद्धानां नः शुभाशिषा ॥ १० ॥
अङ्गसैवागतग्लानिः प्रजासर्गं च संत्यज ।
अनुजानीहि मां भद्र यथेच्छं तपसे गिरिम् ॥ ११ ॥
हिमालयं महोत्तुङ्गं स्पृहणीयं तपस्विनाम् ।
इत्युक्त्वा प्रगते देवे महादेवे महेश्वरे ॥ १२ ॥
वैवस्वतो मनुर्भूतसंनिवृत्तः प्रजाकृतेः ।
यदभूत्तदभूतपूर्वं संनिवृत्तं ततो जगत् ॥ १३ ॥
अयाल्पमानं तेनाथ विरक्तेन महात्मना ।
दिने दिने क्षीयमाणं बभूव च ततो जगत् ॥ १४ ॥
प्रजासर्गादुपरतं मनुं दृष्ट्वा विशेषतः ।
विवस्वान् भगवानेत्य प्रोवाच मधुरं वचः ॥ १५ ॥
कस्माद्वत्स प्रजासर्गात्सम्प्रत्युपरतो भवान् ।
वयं हि परमेशस्य विष्णोर्मायापतेर्हरेः ॥ १६ ॥
निदेशकारिणः सर्वे तदुक्तं कुर्महे वयम् ।
स आदौ भगवानस्मान् प्रजासर्गे नियुक्तवान् ॥ १७ ॥
तस्य नाभिह्रदादासीद्ब्रह्मा वेदविदां वरः ।
स तस्य हृदये स्थित्वा परां प्राचोदयद्गिरम् ॥ १८ ॥
- १२१ -
सा जाता तत्क्षणादेव निगमागमरूपिणी ।
तस्यां खलु प्रजातापां शब्दमय्यां हि संसृतौ ॥ १९ ॥
तेभ्य एव च शब्देभ्यः सृष्टिर्जातार्थरूपिणी ।
अनुवर्तामहे सर्वे तामेव भगवत्कृतिम् ॥ २० ॥
यथा तदिच्छा समभूत्तथा सर्वं भविष्यति ।
भवान् कस्य निदेशेन प्रजासर्गादुपारतः ।
प्रतिकूलमिदं पुत्र देवदेवस्य शार्ङ्गिणः ॥ २१ ॥
वैवस्वत उवाच
आत्मनो बन्धुरात्मासौ गुरुश्चैव सखा सुहृत् ।
किं कृतं तेन पापेन येनात्मैवैष वञ्चितः ॥ २२ ॥
तस्याद्धि सर्वोपायेन जनः स्वात्मानमुद्धरेत् ।
कालं नैव प्रतीक्षेत यस्य वैराग्यमुत्कटम् ॥ २३ ॥
यावन्न जायते जन्तोर्वैराग्यं भवखेदतः ।
तावत्प्रसज्जता सर्गे न तु जातु विरक्तिमान् ॥ २४ ॥
कोऽर्थः प्रसाधितोऽनेन देहं प्राप्य कुबुद्धिना ।
सामर्थ्ये सति यद्देवो नेश्वरः समुपासितः ॥ २५ ॥
इति विज्ञाय सततं समुपासीत तं परम् ।
नो चेदात्मैव सततममुना वञ्चितः स्वयम् ॥ २६ ॥
यथा ममगुरुस्तात पृच्छयते चेत्त्वया विभा ।
तमहं ते प्रवक्ष्यामि न तस्मै द्रोग्धुमर्हसि ॥ २७ ॥
योऽसौ देवो हरिः साक्षात्त्रिलोकमहितो विभुः ।
स एव गुरुरूपेण सर्वत्र प्रकटः स्वयम् ॥ २८ ॥
यस्मै कृपयते देवो बुद्धिरूपस्तदाशये ।
प्रकटीभूय कुरुते तत्त्वार्थस्योपदेशनम् ॥ २९ ॥
कश्चित् खलु द्विजवरो मुनिराड् विजितेन्द्रियः ।
स मह्यमूचिवान् गुह्यमात्मयोगमुदारधीः ॥ ३० ॥
निःस्पृहो ब्राह्मणवरो वेदवेदाङ्गपारगः ।
भवदुःखेनखिद्यन्तं ज्ञात्वा मामुपदिष्टवान् ॥ ३१ ॥
उक्त्वा गुह्यतरं ज्ञानं द्विजां यातो हिमालयम् ।
यत्र नित्यं तपस्यन्ति मुनयः शुद्धबुद्धयः ॥ ३२ ॥
सोऽहं तत्रैव यास्यामि तपस्तप्तुं हिमालये ।
आत्मानमात्मयोगेन साधयिष्यामिभूयसा ॥ ३३ ॥
१६