भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
चतुर्थ खण्ड: पाणिग्रहण महोत्सव एवं पूर्वखण्ड उपसंहार
- ३१३ -
यथैव दुर्लभे पुत्रे वार्धके वयसि स्थिते ।
जाते कुर्यादुत्सवं च तथैवोत्सवमाचरेत् ॥ ५ ॥
मिष्टान्नभोजनान्युच्चैर्दद्यान्मत्प्रीतिहेतवे ।
वैष्णवेभ्यो ब्राह्मणेभ्यो मम भक्तेभ्य एव च ॥ ६ ॥
कुण्डले मुद्रिकावस्त्रे दद्यान्मत्प्रीतिहेतवे ।
महान्तमुत्सवं कुर्वन् मृदङ्गध्वनिपूर्वकम् ॥ ७ ॥
जातस्य मम संवृद्ध्यै विप्रेभ्यो भूरिदक्षिणाः ।
एवं वैशाखमासेऽपि नवम्यां शुक्लपक्षके ॥ ८ ॥
सहजायाः शुभं कुर्याज्जन्मोत्सवमुदारधीः ।
सुवासिनीभ्यः कन्याभ्यो दद्याद्भूषणमम्बरम् ॥ ९ ॥
अलंकृत्य स्नानलेपसौरभार्पणभूषणैः ।
भोजयेद्भूरि भक्त्यैव सहजाप्रीतिहेतवे ॥ १० ॥
प्रमोदविपिनग्रामे राजिनीनन्दनालये ।
उत्पन्ना सहजालक्ष्मीर्मम रासविनोदिनी ॥ ११ ॥
तस्मिन् दिने व्रतं कुर्यादुत्सवं च विशेषतः ।
माघशुक्ले च पञ्चम्यामवतीर्णा पुनः प्रिया ॥ १२ ॥
जनकस्य गृहे यज्ञवेद्यां मङ्गलशालिनी ।
तत्रापि चोत्सवं कुर्याद्भक्त्या मत्प्रीतिहेतवे ॥ १३ ॥
ततः प्रदोषसमये दोलयेद्दोलया प्रियाम् ।
मत्सार्धं सहजानन्दां गोपितां भुवनत्रये ।
रत्नभूषणवासांसि नर्तकेभ्यः प्रदापयेत् ॥ १४ ॥
एवं यो वार्षिकं दिव्यमुत्सवं कुरुते नरः ।
स याति मत्पदं दिव्यं यत्र याताः शुकादयः ॥ १५ ॥
अबन्ध्यं तद्दिनं कुर्यान्मत्कथाश्रवणादिभिः ।
वैष्णवान् पूजयेद्भक्त्या मम प्राणा हि ते मताः ॥ १६ ॥
ममापराधं जनितं क्षमेऽहं न वैष्णवानामपराधलेशम् ।
विनाचतद्वैष्णवसेवयाहं गृह्णामि सेवां न कदापि लोके ॥ १७ ॥
यत्र मद्द्वैष्णवा लोकाः कुपिता यान्ति कारणात् ।
तं देशं सहसा त्यक्त्वा व्रजामि खलु दुर्भगम् ॥ १८ ॥
अपि नाम महापापकारी मल्लक्षणाङ्कितः ।
न दूष्यो वैष्णवीलोकैः पक्षपातोममेदृशः ॥ १९ ॥
तवास्मीति वदेद्यो मां सकृदप्यसकृच्च वा ।
कृतान्तेनापि घोरेण स वै नेतुं न शक्यते ॥ २० ॥
- ३१४ -
तवास्मीत्यक्षरं लोके मामुद्दिश्य समीरितम् ।
मदीय एव स नरो नात्र कार्या विचारणा ॥ २१ ॥
किमर्थं बहुनामानि किमर्थं बहुमन्त्रकान् ।
किमर्थं बहुशास्त्राणि कण्ठशोषकराणि च ॥ २२ ॥
गृणन्ति च किमर्थं वै स्वाध्यायान् भूरिकष्टदान् ।
मामुद्दिश्य तवामीति सकृज्जल्पेद्दिने नरः ॥ २३ ॥
अयमेव महायागो ह्ययमेव महान् जपः ।
अयमेव महान् योगस्तवास्मीति यदुच्चरेत् ॥ २४ ॥
ममैव निहितं तिष्ठेन्नान्यस्य कस्यचिद्भवेत् ।
देवानां वा पितॄणां वा मनुष्याणामथापि वा ॥ २५ ॥
असंगः सर्वदातिष्ठेत्तथा वर्णाश्रमादिषु ।
अहमेव तस्य वर्णोऽप्यहमेवाश्रमस्तथा ॥ २६ ॥
अहमेव तथाऽऽधार ऐहिके पारलौकिके ।
मामेव सर्वविश्वासादाश्रयेद्भवसागरे ॥ २७ ॥
तमहं मोचयाम्यद्धा मयि भारसमर्पणम् ।
अहंकारोऽयमेव स्यादैहिकादिभरः स्वतः ॥ २८ ॥
मयि संन्यस्य तं भारं सुखी तिष्ठेत मत्परः ।
सर्व एव भरो विष्णौ (रामे) मयि ब्रह्माण्डरक्षके ।
तमात्मनि शठः पश्यन् बन्धनं याति मानवः ॥ २९ ॥
एवं भक्तिपथः प्रोक्तो मया तुभ्यं महामुने ।
उत्तमः सर्वधर्माणां शरीराणां यथा शिरः ॥ ३० ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
आत्रेयबोधितश्रीरामगीतायां सप्तदशोऽध्यायः ॥ १७ ॥
✤
अष्टादशोऽध्यायः
श्रीराम उवाच
अथ योगं प्रवक्ष्यामि शृणु ह्येकमना मुने ।
येन विज्ञातमात्रेण नरैः कैवल्यमश्नुते ॥ १ ॥
- ३१५ -
कर्मिणां कर्मयोगः स्याज्ज्ञानिनां ज्ञानमेव सः ।
भक्तिमान् भक्तियोगेन निरुध्याच्चित्तमात्मनः ॥ २ ॥
मूलाधारस्थितं ज्योतिः कुण्डल्यामाविर्भावयेत् ।
प्रणवाख्येन दण्डेन नादरूपेण चालयेत् ॥ ३ ॥
नादोद्भूतः प्राणवायुरपाने बलवत्तरः ।
पराधारनुदेदग्निं तच्छिखा कुण्डली स्पृशेत् ॥ ४ ॥
तया प्रचोदितं तीव्रं कुण्डल्याख्यं परं महः ।
व्याप्य सूक्ष्माणि मार्गाणि हृद्देशं गच्छति द्रुतम् ॥ ५ ॥
तत्र जीवात्मना सार्द्धं विद्युत्तेजःप्रभासुरम् ।
भ्रूपुटे सद्य आगत्य परं चैतन्यमाप्नुयात् ॥ ६ ॥
तदूर्ध्वं रोधिनी भित्त्वा सहस्रदलमश्नुते ।
ब्रह्मानन्दसमुद्रस्य वेला सा रोधिनी भवेत् ॥ ७ ॥
अन्यथा वृद्ध एवासौ सर्वतः प्लावयेज्जगत् ।
सर्वेऽपि च विमुक्ताः स्युः पशुपक्ष्यन्त्यजा अपि ॥ ८ ॥
तान् रुणद्धि ततो विद्या त्रिगुणा रोधिनी हि सा ।
तदूर्ध्वं ब्रह्मलोकोऽस्ति मत्प्रभात्माक्षरात्मकः ॥ ९ ॥
तं प्राप्य मुक्तिसाम्राज्यं सद्यः प्राप्नोति मानवः ।
न तत्र कालकलना न मायाकृतविस्मृतिः ॥ १० ॥
न जरा नापि दुःखाद्यास्त्रिगुणप्रसृतिस्तथा ।
योगी तस्य प्रविश्यान्तस्तुरीयामश्नुते कलाम् ॥ ११ ॥
निमेषोन्मेषरहितां साक्षाद्ब्रह्मस्वरूपिणीम् ।
तस्य हेतुर्बोधमयी दीक्षा सद्गुरुगोपिता ॥ १२ ॥
शक्तिसंचारतो लभ्या सद्य एव प्रजायते ।
परमेश्वरसंतोषाच्चिरमेव प्रजायते ॥ १३ ॥
तदर्थं भूरिकर्माणि योगाङ्गानि प्रसाधयेत् ।
पूर्वजन्माभ्यासवशाद् वैराग्ये स्थिरतां गते ॥ १४ ॥
अथ ज्ञानकलोदेति सापि योगो निगद्यते ।
द्विविधोऽपि च योगोऽयं स्वाश्रया मुक्तिरुच्यते ॥ १५ ॥
पराश्रया भवेन्मुक्तिर्भक्तियोगेन चात्रिज ।
परो नाम सदानन्दो राम एवाहमच्युतः ॥ १६ ॥
क्षराक्षरावतिक्रम्य भासमाने निजे पदे ।
तदाश्रया तु या मुक्तिदुर्लभा मत्कृपां विना ॥ १७ ॥
- ३१६ -
ऐक्यसायुज्यभेदेन सा द्विधा परिकीर्तिता ।
पूर्वतोऽप्यधिकानन्दा द्वितीया सातिदुर्लभा ॥ १८ ॥
मल्लोकनित्यलीलाख्यमद्भोगानन्दरूपिणी ।
सांख्येऽप्ययं समुद्दिष्टो योगो मद्योगकारकः ॥ १९ ॥
सर्वेषामपि योगानां भक्तियोगो विशिष्यते ।
अल्पायासो बहुफलो मत्स्वरूपप्रदस्तथा ॥ २० ॥
योगो योग इति ग्रन्थेष्वसंदेहान्निरूपितः ।
केचिदेव मुनिश्रेष्ठास्तं जानन्ति मदात्मकम् ।
नास्माद्व्युत्तिष्ठते योगी मद्भक्तो मयि संगतः ॥ २१ ॥
तस्मादेतं द्विजश्रेष्ठ नित्यमभ्यस्य चेतसा ।
चित्तेऽपि खण्डशो जातमखण्डं कुरु यत्नतः ॥ २२ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
आत्रेयबोधितश्रीरामगीतायामष्टादशोऽध्यायः ॥ १८ ॥
✤
एकोनविंशोऽध्यायः
श्रीराम उवाच
सत्त्वं रजस्तमश्चैव त्रिगुणाः परिकीर्तिताः ।
पुरुषः प्रकृतिश्चैव महांश्चाहंकृतिस्तथा ॥ १ ॥
शब्दस्पर्शौ रूपरसौ गन्धो मात्राश्च पञ्चकाः ।
खं वायुर्ज्योतिरापो भूः पञ्चभूतानि च क्रमात् ॥ २ ॥
ज्ञानेन्द्रियाणि पञ्चैव श्रोत्रत्वग्घ्राणदृग्रसाः ।
पञ्च कर्मेन्द्रियाण्येव वाग्दोर्मेढाङ्घ्रिपायवः ॥ ३ ॥
तथैव सर्वसंयोगिषड्ज्ञानकरणं मनः ।
आध्यात्मिकस्तु यो वर्गः सोऽसावेवाधिदैविकः ॥ ४ ॥
आधिभौतिकवर्गश्चैकत्रैवप्रतिष्ठितः ।
मदंशाधिष्ठिताः सर्वे भासन्तेऽमी प्रदीपवत् ॥ ५ ॥
माया गुणानां सम्भेदादेकैव बहुरूपिणी ।
कालस्तु भगवान् साक्षान्मद्रूपो नित्य एव सः ॥ ६ ॥
- ३१७ -
सूत्रं चैव महान् प्राणो बुद्धिश्चाहंस्वरूपिणी ।
परमात्मा च सर्वाद्यः प्रकृतिः पुरुषस्तथा ॥ ७ ॥
एक एव द्विधाजातस्तदेवाक्षरमुच्यते ।
मद्रूपं परमानन्दस्तिरोभूयात्र तिष्ठति ॥ ८ ॥
सत्त्वस्य व्यवधानेन मुख्यजीवः स ईरितः ।
सृष्टोच्छावशगोभूतः सोऽहमेव न संशयः ॥ ९ ॥
अयमेव च कूटस्थो ब्रह्माव्यक्तादिशब्दितः ।
अण्डानि कोटिशस्तस्य प्रतिष्ठन्ति विग्रहे ॥ १० ॥
अक्षरं ब्रह्म तद्धाम ममैव ज्ञानिनां गतिः ।
अहं प्रभुर्भक्तिगम्यो मम लोकोऽयमक्षरः ॥ ११ ॥
पादो मे सर्वभूतानि त्रिपाद् ब्रह्मेदमक्षरम् ।
ब्राह्मणश्च ममांशोऽस्य परस्य पुच्छमुच्यते ॥ १२ ॥
ज्ञानात्तस्योपासनया तन्मयो जायते नरः ।
भक्त्या ममोपासनया मन्मयो भवति ध्रुवम् ॥ १३ ॥
एतदेव ज्ञानमार्गे सेव्यमक्षरमुत्तमम् ।
अहं ततोऽधिको ज्ञेयः पूर्णानन्दैकविग्रहः ॥ १४ ॥
चिदानन्दौ तिरोभाव्य सत्त्वांशव्यक्तिमात्रतः ।
रूपान्तरं चाक्षरस्य कालः सकलसम्भवः ॥ १५ ॥
तत्र नित्या क्रियाशक्तिः प्राधान्येन प्रतिष्ठिता ।
सर्वोत्पत्त्यन्तकरणी चिच्छक्तिर्विकृतौ स्फुटम् ॥ १६ ॥
काले पुनर्यदैश्वर्यं तन्ममैव न संशयः ।
अत एवेश्वरः कालः सर्वस्यान्तर एव च ॥ १७ ॥
आसुरस्तमुपासीत कालरूपं मदात्मकम् ।
तत्रैव लीनतां गच्छेन्महातमसि भीषणे ॥ १८ ॥
ममाधिकारिणां मुख्यः काल एव न संशयः ।
यथाहं साम्यवैषम्यात्तथासौ फलदायकः ॥ १९ ॥
तद्भेदाः सूर्यगतय आधिभौतिकरूपकाः ।
एवमेव भवेत्कर्ममद्रूपं नियतं फले ॥ २० ॥
अग्रपश्चाद्भावभेदाद्द्विधैव प्रकटं च तत् ।
एवं स्वभावोऽपिभवेन्मत्तनुः सर्ववस्तुगः ॥ २१ ॥
आविर्भावतिरोभावैः परिणामस्तु तत्कृतः ।
अक्षरं वासुदेवश्च कालः संकर्षणो हि वै ॥ २२ ॥
कर्म प्रद्युम्न एवास्ति स्वभावश्चानिरुद्धकः ।
एवं चतुर्व्यूहतनुः प्रकटः सर्वो ममांशतः ॥ २३ ॥
अष्टाविंशतिरेव स्युस्तत्त्वानि मेकलक्षतः ।
तद्रूपं विधिना ज्ञेयं ममसायुज्यसिद्धये ॥ २४ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
आत्रेयबोधितश्रीरामगीतायामेकोनविंशोऽध्यायः ॥ १९ ॥
विंशोऽध्यायः
आत्रेय उवाच
कथं तत्त्वात्मकं राम त्वां ध्यायन् मुच्यते नरः ।
एतन्मे रघुशार्दूल कृपया कथय प्रभो ॥ १ ॥
श्रीराम उवाच
पद्भ्यामाजानुपर्यन्तं भूतधात्री प्रतिष्ठिता ।
चतुरस्रा पीतवर्णा स्ववीर्यंसहितापि च ॥ २ ॥
तत्र चित्तं शनैः स्थित्वा तन्मयं जायते ध्रुवम् ।
तन्मात्रां च ग्रसित्वा तदपां मण्डलमाविशेत् ॥ ३ ॥
जानुभ्यां नाभिपर्यन्तमपां मण्डलमुत्तमम् ।
शुक्लवर्णं स्ववीर्येण युक्तं वरुणदैवतम् ॥ ४ ॥
तत्र चित्त शनैः स्थित्वा तन्मयं जायये ध्रुवम् ।
तन्मात्रां च ग्रसित्वा तत्तेजोमण्डलमाविशेत् ॥ ५ ॥
नाभेर्हृदयपर्यन्तं तेजोमण्डलमुत्तमम् ।
रक्तवर्णं त्रिकोणं च वह्निदैवतवीर्यभाक् ॥ ६ ॥
तत्र चित्तं शनैः स्थित्वा तन्मय जायटे ध्रुवम् ।
तन्मात्रां च ग्रसित्वा तद् वायुमण्डलमाविशेद् ॥ ७ ॥
हृदयात्कण्ठपर्यन्तं वायुमण्डलमुत्तमम् ।
षट्कोणं च हरिद्वर्णं स्ववीर्यसहितं सदा ॥ ८ ॥
तत्र चित्त शनैः स्थित्वा तन्मयं जायते ध्रुवम् ।
तन्मात्रां च ग्रसित्वा तन्नभोमण्डलमाविशेत् ॥ ९ ॥
- ३१९ -
कण्ठाद्भूमध्यपर्यन्तं नभोमण्डलमुत्तमम् ।
शुद्धस्फटिकसंकाशं वर्तुलं वीर्यसंयुतम् ॥ १० ॥
तत्र चित्तं शनैः स्थित्वा तन्मयं जायते ध्रुवम् ।
तन्मात्रां च ग्रसित्वा तन्मनःस्थानं समाविशेत् ॥ ११ ॥
संकल्पं च विकल्पं च तद्वृत्ति निरसेद्ध्रुवम् ।
ततो बोद्धव्यरूपं तन्निश्चितं जायते मनः ॥ १२ ॥
बोद्धव्यं बुद्धिविज्ञानं जायते तच्चवै ध्रुवम् ।
विज्ञानं हीनविषयं चैतन्यं जायते ततः ॥ १३ ॥
मनो बुद्धिश्च विज्ञानं चित्तं चाहंकृतिस्तथा ।
भवेत् पञ्चात्मकमिदमन्तःकरणशब्दितम् ॥ १४ ॥
ततो भ्रूदेशतश्चोर्ध्वं सहस्रदलतोऽप्यधः ।
अहमस्मीति संवित्या शुद्धात्मानं च लक्षयेत् ॥ १५ ॥
अहंतायां निवृत्तायामस्मीतिद्योतते विभुः ।
अस्मितायां निवृत्तायां स्वरूपमवभासते ॥ १६ ॥
ज्ञातृज्ञेयाख्य सम्बन्धे ततः शान्तिमुपागते ।
गुणातीत पद गत्वा न ततो विनिवर्त्तते ॥ १७ ॥
यतो निवर्त्तते नैव यत्रोच्चैः सुखमश्नुते ।
यत्र चात्येति त्रिपथं गुणातीतपदं हि तत् ॥ १८ ॥
एषा ते तत्त्वसंदोहसंस्था प्रोक्ता मया मुने ।
रहस्यं योगिनामेतज्ज्ञानिनां च विशेषतः ॥ १९ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
आत्रेयबोधितश्रीरामगीतायां विंशोऽध्यायः ॥ २० ॥
🞶
एकविंशोऽध्यायः
श्रीराम उवाच
अथतेऽहं प्रवक्ष्यामि ज्ञानं सिद्धान्तशब्दितम् ।
मार्गस्त्रेधापिपूर्वोक्तः फलसिद्धयै भवेद्ध्रुवम् ॥ १ ॥
कर्मोपास्तिज्ञानरूपस्तेषु भक्तिर्विशिष्यते ।
कर्मज्ञाने पृथक् तेन काण्डद्वये निबोधिते ॥ २ ॥
- ३२० -
विशिष्ट रूपो वेदार्थो ह्यहमेव न संशयः ।
तत्साधनं भवेत्प्रेम तस्य साधनमीर्यते ॥ ३ ॥
तेषां वक्ता स्वयं देवोऽभ्यासपूर्वं निषेवितः ।
भक्तिशास्त्रेषु सर्वेषु तदेव प्रतिपाद्यते ॥ ४ ॥
तेषां वक्ता स्वयमंहं मत्कलाश्च विशेषतः ।
भगवांश्च हयग्रीवो मत्स्यः श्रीकपिलस्तथा ॥ ५ ॥
वेदव्यासस्तथाऽऽत्रेयो भगवानृषभस्तथा ।
नारायणो रमाशेशौ ब्रह्मा चैव सनातनः ॥ ६ ॥
सनत्कुमारो भगवान् नारदश्च सुदर्शनः ।
इत्याद्या भक्तिशास्त्रस्य ह्याचार्याश्च प्रवर्त्तकाः ॥ ७ !
ममांशा मन्मतविदो भक्तप्रीतिविवर्धनाः ।
एतेषां मतमाज्ञाय श्रवणादिपरो भवेत् ॥ ८ ॥
मोहशास्त्राणि सर्वाणि तदाचारांश्च वर्जयेत् ।
छलयोगस्तथा सांख्यं वामं शाक्तं तथैव च ॥ ९ ॥
सिद्धान्तः कौलमार्गंश्च कर्मसक्तश्च वैदिकः ।
इत्यादीन् वर्जयेन्मार्गान् लोकव्यामोहकारकान् ॥ १० ॥
मार्गोऽयं सर्वमार्गाणामुत्तमः परिकीर्तितः ।
यत्र पातभयं नास्ति प्रायश्चित्तं तथैव च ॥ ११ ॥
मोचकः सर्वथैवाहं सप्रमेयफलात्मकः ।
यत्र वर्णाश्रमाचाराः सर्वे नश्यन्ति कालतः ॥ १२ ॥
तत्र धर्मः कथं सिद्ध्येत्कथं वा भवमोचनम् ।
तस्मात्सर्वेषु धर्मेषु वैदिके तान्त्रिकेऽपि च ॥ १३ ॥
विश्वासं चादरं त्यक्त्वा मम भक्तिं समाश्रयेत् ।
भक्तौ वापि विशेषेणमत्प्रपत्तिपरो भवेत् ॥ १४ ॥
नास्मिन् विरुद्धकरणं प्रकृत्या न विरुद्ध्यते ।
अहं प्रमाण चैवात्र भवेन्मार्गः क चेदृशः ॥ १५ ॥
परन्तु मत्कृपाहीनः सर्वथा सुतरामपि ।
मार्गेऽस्मिन्नन्तरं¹तस्मान्मत्कृपाहेतुतत्परः ॥ १६ ॥
भवेद् विद्वान् घोररूपं भवं यो निस्तितीर्षति ।
मत्सेवातत्पर प्राज्ञ रम्भादिदोषवर्जितम् ॥ १७ ॥
भक्तिशास्त्रैकतत्वज्ञं भजेत्सद्गुरुमादरात् ।
तदभावे च मन्मूर्त्ति कृत्वा भावपरायणः ॥ १८ ॥
१ अन्तरम्—विघ्नबाहुल्यम्—टि० बड़ौ० ।
' with 'ू'?
Wait, look at 'द्' in 'कुर्याद्दिनमबन्ध्यकम्' (line 12): 'द्' + 'दि' = 'द्दि'.
Look at 'द्' in 'एतद्देहावसाने' (line 15): 'द्' + 'दे' = 'द्दे'.
Look at 'द्' in line 1:
It has 'म', then 'द्', and below it is 'रू'!
In Devanagari, 'द्' + 'रू' is written as 'द्रू' (like 'दृ' but with 'रू' curl) or 'द्द्रू'.
Here, it is द् with a loop: 'द्द्रू' or 'द्रू'. It looks like 'मद्रूपाभेदभावनातू' or 'मद्द्रूपाभेदभावनातू'.
Wait, look at the end of the line:
भावनात् ।
Is it 'त्' with a halant, or 'तू'?
Look at the bottom of 'त': there is a slant line down to the left, which is a virama/halant: 'त् ।'!
Wait, why did I think 'तू'? Because sometimes halant looks like 'ू'. But it's clearly a halant: 'भावनातू' vs 'भावनात्' -> it is 'भावनात् ।'.
Let's check line 4:
"तस्मात्प्रपूजयेन्मूर्त्ति
- ३२२ -
चरित्राणि च भूरिणि नित्यं संकीर्तयेन्नरः ।
जनानां च समक्षं वै शैवशास्त्रपरेष्वपि ॥ ३५ ॥
निर्भयः स्वेन भावेन गृणन्मामेव मत्परः ।
न कस्यापि स्पृहां कुर्यात् सर्वभूमिपतेरपि ॥ ३६ ॥
रामेति जनसर्वस्व मम नाम सदा वदेत् ।
स्वीयं करोमि चैकेन द्वितीयेन सदा ऋणी ॥ ३७ ॥
यावन्तो ब्रह्मणोवक्त्रान्निर्गता वेदराशयः ।
ते च सर्वेऽप्यधीताः स्युर्नाम्नि नारायणात्मके ॥ ३८ ॥
नारायणस्य यावन्ति पुराणेष्व्वागमेषु च ।
दिव्यनाम्नां सहस्राणि कीर्त्तयन् यत्फलं भवेत् ॥ ३९ ॥
ततः कोटिगुणं पुण्यं फलं दिव्यं मदात्मकम् ।
लभते सहसा ब्रह्मन् सकृद् रामेति कीर्तनात् ॥ ४० ॥
ममातिवल्लभतमं मम नाम मदात्मकम् ।
ततोऽपि वल्लभतमं सहजेति प्रियं वचः ॥ ४१ ॥
सहजानन्दिनी सीता सीता श्रीर्मोदिनी रमा ।
स्वयंलक्ष्मीर्जानकीति नामाष्टकमुदीरयेत् ॥ ४२ ॥
मन्नामतोऽप्यतिफलं नरः प्राप्नोति वै मुने ।
आविर्भावे चावतारे मयैव सह जन्मतः ॥ ४३ ॥
सहजानन्दिनीत्याख्यां गता सीता प्रिया मम ।
सीता नाम्ना ततो व्याप्ता मयि मद्धर्मरूपिणी ॥ ४४ ॥
यथा हलस्यपद्धतिस्ततः सीतेति कीर्तिता ।
सीता सुधारसमयीधारारूपरसात्मिका ॥ ४५ ॥
आनन्दयति विश्लेषात् सन्तसं भावरूपिणी ।
श्रीः समाश्रीयतेसैव श्रुतिभिः स्मृतिभिस्तथा ॥ ४६ ॥
आगमैर्निगमैर्देवैर्मया च ब्रह्मणापि च ।
सनातनेन धर्मेण छन्दोभिः प्रणवेन च ॥ ४७ ॥
तेन सा श्रीरिति प्रोक्ता सहजानन्दिनी प्रिया ।
आविर्भावे स्फुटं नित्यं तिरोभावेऽपि चास्फुटम् ॥ ४८ ॥
कैशोरादिषु रूपेषु नित्यं मोदयते हि माम् ।
ततः सा मोदिनी शक्तिः सहजैव प्रकीर्तिता ॥ ४९ ॥
आनन्दरूपिणी नित्यं रमते ब्रह्मणि स्थिता ।
तथा रमयते तं च सा रमा कीर्त्तिता बुधैः ॥ ५० ॥
लक्ष्यॊऽहं सर्वशाखानां स्वयं सा लक्ष्मणं मम ।
तेन चोक्ता स्वयं लक्ष्मीर्महालक्ष्मीश्च मे प्रिया ॥ ५१ ॥
जानाति सैव मे रूपमक्षरात्परतः स्थितम् ।
तेन सा जानकी नाम प्रोच्यते ब्रह्मकोविदैः ॥ ५२ ॥
इति नामाष्टकं दिव्यं निरुक्तं तुभ्यमत्रिज ।
य एतद्धारयेद् भक्त्या स मे श्रीरसिको मतः ॥ ५३ ॥
मन्नाम कीर्त्तयेन्नित्यमेतैर्नामभिरङ्कितम् ।
रामेति रामचन्द्रेति माङ्गल्यातनयेति च ॥ ५४ ॥
प्रमोदवनचन्द्रेति रामेति रमणेति च।
तथा कुञ्जविहारीति रत्नाद्रिरसिकेति च ॥ ५५ ॥
एतान्यपि च नामानि नित्यमष्टौ प्रकीर्तयेत् ।
किं तस्य बहुभिश्चान्यैः साधनैः फलदायकैः ॥ ५६ ॥
एतन्मुख्यतमं लोके साधनं नामकीर्तनम् ।
अवृत्तिदर्परहितो विश्वस्तो भक्तिसंयुतः ॥ ५७ ॥
आलस्यरहितो नित्यं नामकीर्तनमाचरेत् ।
धनुर्बाणाङ्कितो भूत्वा पूजां नित्यं समाचरेत् ॥ ५८ ॥
पद्माक्षतुलसीमालां ऊर्ध्वपुण्ड्रं सदा वहेत् ।
एतद्धि विप्रलिङ्गं यदुपवीतादिधारणम् ॥ ५९ ॥
एतद्वैष्णवलिङ्गं यदूर्ध्वपुण्ड्रादिधारणम् ।
एकादशोव्रतं चैव तथा जन्माष्टमीव्रतम् ॥ ६० ॥
श्रीगुरोरुत्सवं चैव रामस्य नवमीं च मे ।
जयन्तीं नरसिंहस्थ तथा श्रीवामनव्रतम् ॥ ६१ ॥
वर्जयेत्पूर्वसंयुक्तं मम संतोषसिद्धये ।
अन्येऽपि चोत्सवा नित्यं कर्त्तव्या मम तुष्टिदाः ।
एवं धर्मेर्गृहस्थानां प्रसीदामि द्रुतं मुने ॥ ६२ ॥
वर्णाश्रमानामन्येषां नैष्ठिकब्रह्मचारिणाम् ।
एष मुख्यतमो धर्मो नित्यं मत्प्रीतिकारकः ॥ ६३ ॥
सिद्धः सर्वेषु वेदेषु तन्त्रेषु च शुभाध्वसु ।
आचार्याणां सद्गुरूणामृषिवमृतसूक्तिषु ॥ ६४ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे •
आत्रेयबोधितश्रीरामगीतायामेकविंशोऽध्यायः ॥ २१ ॥
- ३२४ -
द्वाविंशोऽध्यायः
श्रीराम उवाच
यतिश्च श्रद्धया युक्त एवमुक्तं समाश्रयेत् ।
धर्माणां परमो धर्मो यस्ते पूर्वं निरूपितः ॥ १ ॥
तस्य तीर्थविशेषेषु भवेत् पर्यटनं वरम् ।
एकस्थानाश्रयादेव विक्षेपो मनसो भवेत् ॥ २ ॥
भजने प्रतिबन्धश्च जनानामाग्रहस्तथा ।
परपीडादिकं चापि तेन पर्यटनं शुभम् ॥ ३ ॥
यथा यज्ञास्तथा तीर्थान्युपक्लृप्तानि विष्णुना ।
तदन्नान्नाधिकं भैक्षं प्रतिगृह्णीत सद्यतिः ॥ ४ ॥
नामानि च चरित्राणि पठेन्नित्यं गतत्रपः ।
एकाकी निःस्पृहः सन्तो मोहाहंकारवर्जितः ॥ ५ ॥
कुर्यात्पर्यटनं नित्यं मत्परो वीतकल्मषः ।
देहपातनपर्यन्तमव्यग्रं पर्यटेत्सदा ॥ ६ ॥
उत्तमोत्तमधर्मोऽसौ पूर्वमुक्तम ईरितः ।
गृहं सर्वात्मना त्याज्यं संसृतिं निस्तितीर्षुभिः ॥ ७ ॥
न शक्यते चेत् संत्यक्तुं तन्मदर्थं निवेदयेत् ।
अहं हि घोरसंसारमोचको गृहमेधिनाम् ॥ ८ ॥
त्यजेत्सर्वात्मना चार्थं स चेत्त्यक्तुं न शक्यते ।
मदर्थं संप्रयुञ्जीत सर्वानर्थनिवारणात् ॥ ९ ॥
न्यासिनां कठिनो धर्मः प्रतिकूलस्तथा क्वचित् ।
अतश्च सर्वदा भाव्यं भक्तेन गृहमेधिना ॥ १० ॥
इन्द्रियाणि हरन्त्येनं घनौघमिव वायवः ।
अतश्च सर्वदा भाव्यं वैष्णवैर्गृहमेधिभिः ॥ ११ ॥
पत्नीपुत्रास्तथापत्यं बान्धवाः सुहृदस्तथा ।
यत्र सर्वेऽपि मद्भक्ता ईदृशं दुर्लभं गृहम् ॥ १२ ॥
गृहमेध्याश्रमेतत्र तिष्ठन् मद्भक्तितत्परः ।
कर्माण्यपि प्रकुर्वाणो ह्यञ्जसा तरते नरः ॥ १३ ॥
सात्त्विकादिप्रभेदेन तेषां कर्माणि च त्रिधा ।
सात्त्विकं कर्मकुर्वाणे यथाश्रुतफलोत्सुकः ॥ १४ ॥
- ३२५ -
साधयेत्स्वर्गलोकं वा विमानस्त्रीसुखात्मकम् ।
पुण्ये क्षीणे पुण्यशेषं समादाय धरातले ॥ १५ ॥
समीचीनेषु लोकेषु जायते स्वेन कर्मणा ।
राजसं कर्मकुर्वाणो मेर्वादिषु सुखं लभेत् ॥ १६ ॥
तामसं कर्म कुर्वाणः पातालेषु सुखी भवेत् ।
राजसं सात्त्विकं कुर्वन् दैत्यस्वर्गानवाप्नुयात् ॥ १७ ॥
राजसं कर्म कुर्वाणश्चन्द्रलोके महीयते ।
पुण्यशेषे ततो वृष्टिद्वारा भूत्वात्र रूपभाक् ॥ १८ ॥
रेतोरूपं समास्थाय रेतोजन्मसु जायते ।
तामसं कर्म कुर्वाणो गन्धर्वेषु प्रजायते ॥ १९ ॥
तामसं सात्त्विकं कुर्वन् गन्धर्वप्रवरोभवेत् ।
क्षीणे पुण्ये पुनर्भूत्वा वृष्टिद्वारा स जन्मभाक् ॥ २० ॥
तामसं कर्म कुर्वाणः सर्पादिषु सुखी भवेत् ।
एवं त्रयी धर्मपराः पुनरावृत्तिमाप्नुयुः ॥ २१ ॥
देवताश्चेदुपासीत आजन्म नियतव्रतः ।
तत्तत्सायुज्यमात्रं तु तस्य स्यात्परमं फलम् ॥ २२ ॥
एव कर्मगतिर्ब्रह्मन् ब्रह्मणोऽपि दुरत्यया ।
दुर्बोधा चैव सर्वेषां फले चाल्पत्वकारिणी ॥ २३ ॥
मदर्पितं पुनः तत् स्यान्मद्भक्त्यङ्गं न संशयः ।
ज्ञानस्य कर्मणश्चापि तथोपास्तेरवद्यताम् ॥ २४ ॥
भक्तिर्हरतिमन्निष्ठा सद्य एव न संशयः ।
तत्तत्सर्वं प्रकुर्वाणोऽप्याश्रयेन्मामनन्यधीः ॥ २५ ॥
केवलं कर्मनिष्ठानां प्रवाहपतनं भवेत् ।
तस्मादुद्धर्तुमात्मानं मत्प्रेमपरमो भवेत् ॥ २६ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे-
आत्रेयबोधितश्रीरामगीतायां द्वाविंशोऽध्यायः ॥ २२ ॥
- ३२६ -
त्रयोविंशोऽध्यायः
आत्रेय उवाच
त्वमेव परं ब्रह्म सदसत्परमव्ययम् ।
प्रकृतेः परमो दिव्यः पुरुषश्च ततः परम् ॥ १ ॥
अक्षरं ब्रह्म यत्पूर्णं तत्ते धाम परं पदम् ।
ततोऽपि परमः पूर्णस्त्वमेव पुरुषोत्तमः ॥ २ ॥
त्वत्तः परतरो नान्यः पूर्णानन्दैकविग्रहात् ।
रसात्मकं त्वत्स्वरूपं रस आनन्द ईरितः ॥ ३ ॥
परन्तु मानुषं रूपं राजलीलां च पालयन् ।
न ज्ञायते परं ब्रह्म पुरुषैः प्राकृतैरिह ॥ ४ ॥
केचिद्विषन्ति कलयन्ति परं सखाय-
मन्ये यितेति च विदन्ति परे सुतेति ।
कान्तेति केऽपि कलयन्त्यबला जनास्त्वा-
मित्थं भवे रमसि मानुषभावमेत्य ॥ ५ ॥
तस्य ते रूपमानन्दमात्रं सुन्दरविग्रहम् ।
नेति नेति पुराविद्भिर्गदितं ब्रह्मणः परम् ॥ ६ ॥
कथं ज्ञेयं रामचन्द्र दृष्टाद्धानुभवात्मकम् ।
न हि प्राकृतजीवैस्त्वं याथातथ्येन दृश्यसे ॥ ७ ॥
श्रीराम उवाच
अहं महद् ब्रह्मणि वीक्षणात्मकं बीजं निधायाद्यममोघरूपम् ।
गर्भं दधाम्यस्य प्रभवस्ततोऽभूच्चराचरस्याखिलभौतिकस्य ॥ ८ ॥
ममांशशक्त्या पुरुषः परोऽभून्नारायणः शङ्खगदादिपाणिः ।
सहस्रमूर्द्धा पुरुषस्ततोऽभूत्तन्नाभिपद्मे भगवान् विरंचिः ॥ ९ ॥
प्रादुरासीत्ततो मेधा वैदिकी ब्रह्मणो हृदि ।
स जगाद ततो वेदांश्चतुरः प्रणवादिकान् ॥ १० ॥
शब्दब्रह्ममयी सृष्टिः प्रादुरासीत्तदात्मिका ।
नामरूपप्रपञ्चोऽभूत्ततोऽतिविपुलः स्फुटः ॥ ११ ॥
अहं यज्ञः क्रतुरहमहं सूर्याग्निचन्द्रमाः ।
अहं विद्युदहं वर्षमहं वायुर्घनाशनः ॥ १२ ॥
अहं स्वाहा स्वधाकारश्चाहमेव दिवौकसः ।
अहमेव पिण्तॄणां च गणो धूमाज्यपायिनाम् ॥ १३ ॥
- ३२७ -
अहं विधिर्नामधेयान्यहं मन्त्रगणः पृथक् ।
अर्थवादश्चाहमेव प्रयोगोऽहं क्रियात्मकः ॥ १४ ॥
अहं विश्वमहं चैव विश्वेशो विश्वकारकः ।
अहं विश्वस्य संहर्ता कल्पोऽहं प्रतिसर्गकः ॥ १५ ॥
उपादानं निमित्तं वाप्यहमेव सदा मुने ।
अक्षरात्मा ह्युपादानं निमित्तं पुरुषोत्तमः ॥ १६ ॥
अक्षरेण ततां सृष्टिं क्रीडाम्यहमिच्छया ।
मम देहे ततं विश्वं प्रकृतिः पुरुषस्तथा ॥ १७ ॥
ब्रह्माद्याः पुरुषांशाश्चशब्दोऽर्थश्च विशेषतः ।
आदित्या वसवो रुद्रा विश्वेदेवाश्च देवताः ॥ १८ ॥
एवं मम शरीरान्तः पश्यन्तो दिव्यचक्षुषा ।
भीषणं मां प्रपश्यन्ति कलिकालं परात्परम् ॥ १९ ॥
भीषया चैव वर्तन्ते ममैवाज्ञा वशानुगाः ।
सामन्ता लोकसामन्तास्तथा कल्पायुषः सुराः ॥ २० ॥
केचित्तु कालरूपं मां पश्यन्ति पुरुषं परे ।
अमृतं मृत्युमेवापि बिभ्रच्छक्त्या स्वविग्रहे ॥ २१ ॥
अपरे लीलया पूर्णं रसानन्दैकविग्रहम् ।
पश्यन्ति रसकेलीनामाश्रयं पुरुषोत्तमम् ॥ २२ ॥
एवं यथायथं स्वेच्छावशगो लोकलोचनः ।
मद्भक्तांश्च विशेषेण रमयामि रमामि च ॥ २३ ॥
मय्यात्माशमतां याते प्रपञ्चस्य लयो भवेत् ।
अन्तरङ्गस्य शक्त्यैव तदा ब्रह्मन् रमाम्यहम् ॥ २४ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
आत्रेयबोधितश्रीरामगीतायां त्रयोविंशोऽध्यायः ॥ २३ ॥
✤
चतुर्विंशोऽध्यायः
आत्रेय उवाच
प्रयच्छमे परं चक्षुस्त्वत्स्वरूपैकदर्शकम् ।
दिव्यं ज्ञानमयं राम कृपया पुरुषोत्तम ॥ १ ॥
- ३२८ -
प्रपन्नं मां विजानीहि पादयोस्तव राघव ।
यथा त्वां परिपश्येयं तथा कुरु रमापते ॥ २ ॥
त्वत्तोऽन्यस्त्वत्स्वरूपस्य ज्ञापको नैव विद्यते ।
तेन त्वां शरणं यातो भीतो घोरभवार्णवात् ॥ ३ ॥
अयं हि कालो दुर्वेगो विना त्वच्छरणागतिम् ।
प्रणाशयत्यतो मां त्वं त्रायस्व निजकिंकरम् ॥ ४ ॥
पुरा वसिष्ठादिषु संगतेषु ब्रह्मर्षिवर्येषु विरंचिलोके ।
अन्योन्यवादे खलु जायमाने रामेति सारं परमश्रौषमुच्चैः ॥ ५ ॥
ततस्त्वमेवासि परावरेश्वरो विभुश्चिदानन्दमयैकविग्रहः ।
पश्यामि येन परमं स्वरूपं तदेव मे दिव्यचक्षुः प्रदेहि ॥ ६ ॥
ब्रह्मोवाच
इत्थं विज्ञापितो रामो भुशुण्ड परमर्षिणा ।
स्वरूपं दर्शयामास सर्वश्रुतिशिरोगतम् ॥ ७ ॥
श्रीराम उवाच
पश्य मे मुनिशार्दूल स्वरूपं दिव्यचक्षुषा ।
मया तुभ्यं प्रपन्नाय दत्तेन ज्ञानरूपिणा ॥ ८ ॥
पुरुषं च परं चैव पुरुषादपि पश्य माम् ।
सर्वाश्चर्यमयं ब्रह्मन् प्रपञ्चं यत्र द्रक्ष्यसि ॥ ९ ॥
ततोऽसौ रामचन्द्रस्य शरीरे सर्वमपश्यत् ।
भूतधात्रीं साब्धिवर्षद्वीपपर्वतकाननाम् ॥ १० ॥
वियच्च विस्तृतं लोकैर्ब्रह्मादिसुरसंश्रयैः ।
ज्योतिश्चक्रं वसून् वायून्नग्नीन् वरुणमेव च ॥ ११ ॥
स्वस्वलोकसमेतांश्च सर्वान् देवगणानपि ।
शेषं पातालभागांश्च दैत्यस्वर्गान् पृथग्विधान् ॥ १२ ॥
कालं दश दिशश्चैव प्रकृतिं पुरुष स्तथा ।
एवं विधांश्च पुरुषाः शरीरे यस्यकोटिशः ॥ १३ ॥
स तं पुरुषधौरेयं रामदेहे व्यपश्यत् ।
सहस्रशिरसं देवं तपन्तं विश्वतोमुखम् ॥ १४ ॥
किरीटिनं कुण्डलरत्नभासा सहस्रसूर्येन्दुगणं जयन्तम् ।
पीताम्बरं शङ्खचक्रे गदाब्जे दधानमीशं कमलासखायम् ॥ १५ ॥
or णी? ण with ee matra: णी)
च्य (cya)
व (va)
र्णं (rṇaṃ)
Wait, could it be "सुरौघैरणीच्यवर्णं"?
Wait, what is "अणीच्य"?
Could it be "सुरौघैरनीच्यवर्णं"? It's ण, अणीच्यवर्णं. Let's keep सुरौघैरणीच्यवर्णं.
Line 4:
तथेन्दुवर्णं महसा विभक्तं कूटं परं ब्रह्मविदेकरूपम् ॥ १७ ॥
Line 5:
कूटस्थमुग्रं विपुलं च कालं करालकायं विलसत्कोटिदंष्ट्रम् ।
Line 6:
प्रभूततेजो विशदाकृतिं विभुं विभासितं ज्वालमालापरीतम् ॥ १८ ॥
Line 7:
विरजां च नदीं पूर्णां ब्रह्माण्डगणकोटिभिः ।
Wait, does पूर्णा have an anusvara in line 7?
Look at line 7:
"विरजां च नदीं पूर्णा ब्रह्माण्डगणकोटिभिः ।"
There is no anusvara on पूर्णा, it is printed as पूर्णा.
Line 8:
अपश्यत्तस्य देवस्य दण्डेन खलु कालितैः ॥ १९ ॥
Line 9:
`कालग्रस्तानि तत्रैव भुव
- ३३० -
सहजां तत्सुतां रामां श्रीभूलीलादिरूपिणीम् ।
समस्तगुणसम्पन्नां राधिकां रासकेलिनीम् ॥ ३२ ॥
लीलापरिकरं सर्वं नित्यरूपे व्यवस्थितम् ।
एकं रामं च वै पूर्णं दृष्ट्वास्तौषीन्महामुनिः ॥ ३३ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
आत्रेयबोधितश्रीरामगीतायां चतुर्विंशोऽध्यायः ॥ २४ ॥
🞶
पञ्चविंशोऽध्यायः
आत्रेय उवाच
नूमो नमस्ते पुरुषात्मने विभो तस्यापि धौरेयमथो नमाम्यहम् ।
तस्याश्रयं चापि भवन्तमीश्वरं स्तवैः सुकल्पैर्वचनैश्चपौरुषैः ॥ १ ॥
धन्योऽस्म्यहं नाथ तवात्यनुग्रहाद्धन्या कृपा ते करुणार्णवस्य ।
यया स्वरूपं तव रामचन्द्र द्रष्टास्म्यहं ब्रह्मशिवादयदृश्यम् ॥ २ ॥
अहो विचित्रं भग
- ३३१ -
किं रावणाद्यसुरकोटिजयेन राम त्वद्वीर्यवृद्धिममरा परितो गृणन्ति ।
यस्याक्षरं परमधाम पदं चकास्ति यस्यांशभाज इतरे परपूरुषौघाः ॥ १० ॥
परात्परस्त्वमसि राम परोपरेशो साकेतराज्यपदभासितपूर्णलीलः ।
श्रीलोचनान्तसुखलालितवक्त्रपद्मलोलालकावलिविनिर्जितकोटिकामः ॥११॥
त्वत्कोमलाङ्घ्रिकमलप्रभवैः परागैः पूर्णैर्विलिप्ततनुरङ्गुलिशोणभाभिः ।
धन्यो जनो रसिकराजशिरोमणिःस यो वै सदैव तव रूपविलोककारी ॥१२॥
यस्येदृशस्य तव राम रसालशीला लीलाललामललनाः पशुवृत्तयोऽपि ।
नित्यं जयन्ति सर्वोपरि वर्तमाना नामैव ते भुवनभूषण मङ्गलाख्यम् ॥१३॥
रूपं पुनर्नयनदुर्लभमप्सराणां धन्या इमे बत जनास्तव भक्तमुख्याः ।
साकेतवासिमनुजाश्च मुहुर्गृणन्ति किं ते स्तुतिर्निगममानसराजहंस ॥१४॥
किं तेऽर्चनं विविधभोगरसोत्सवाढ्य यद्दर्शनेन करुणासुलभेन राम ।
स्वानन्द सिन्धुलहरीषु विशामितावद् राम प्रपन्नजनकामदपारिजात ॥१५॥
लीलारसं तवनिभाल्य विमोहितोऽस्मि नातः परं प्रिय कदापि पुनः सहिष्ये ।
श्रीमत्पदाम्बुजवियोगमसह्यदुःखं या कापि राम तव दिव्यसखी भवेयम् ॥१६॥
इच्छामि ते विरहजं भय मद्य मोक्तुं नो चेदतीव विरहानलतापतेसः ।
स्थास्यामि किं नु करुणारसवारिराशे............ ........॥ १७ ॥
इत्थं स्तुत्वा पुनः स्तुत्वा पादयोश्च पुनः पुनः ।
निपत्य च निपत्यासौ बाष्पधाराँभिषेचितः ॥ १८ ॥
पुनः पुनः समुत्थाय ववन्दे दैवतोत्तमम् ।
रूपसंहरणार्थाय प्रार्थयामास भीतवत् ॥ १९ ॥
आत्रेय उवाच
दृष्टं परं स्वरूपं ते श्रीराम करुणानिधे ।
अतः परं चक्षुषी मे दृष्टुमेतन्न शक्नुतः ॥ २० ॥
कोटिसूर्यप्रभाधारचाकचक्यप्रभासुरे ।
चरणाङ्गुष्ठनखरे मीलतोमम चक्षुषी ॥ २१ ॥
तस्मादिदं संहर नाथ पूर्ववत्तदेव मे दर्शय राम रूपम् ।
शान्तं स्वसाकेतपुरीगृहस्थं प्रमोदलीलारसरञ्जितं च ॥ २२ ॥
श्रीराम उवाच
मा भेरिदं करुणया मम दृष्टवांस्त्वं रूपं व्यतीतगुणसंसृतिकालमायम् ।
नातः परं तव मुने भविता प्रवाहो मन्नित्यधामनि पुनः सततं रमेथाः ॥२३॥
– ३३२ –
ब्रह्मोवाच
इत्युक्त्वा देवदेवेशो रामस्त्रैलोक्यसुन्दरः ।
तथैवासीत् प्रथमवत् स्वर्णसिंहासनस्थितः ॥ २४ ॥
य एतां रामचन्द्रेण गीतामात्रेयसंनिधौ ।
संहितां पठते मर्त्यस्तं देव कृपयेत् स्वयम् ॥ २५ ॥
दुर्वाससश्च संवादं रामस्य च प्रभोरिमम् ।
योऽधीयीत द्विजः प्राज्ञः स ज्ञानी भवति ध्रुवम् ॥ २६ ॥
भक्तिमान् भक्तिवृद्धिं च लभते नात्र संशयः ।
तथा कर्मफलं दिव्यं सद्योः प्राप्नोति मानुषः ॥ २७ ॥
धर्मार्थकाममोक्षार्थी पुरुषार्थांस्तथा लभेत् ।
विस्तुतोऽष्टादशाध्यायैः प्रबन्धोऽयं महामखः ॥ २८ ॥
पेठनीयं प्रयत्नेन श्रीरामभक्तिमिच्छता ।
परब्रह्मणि सर्वेशे सर्वोपास्यशिरोमणौ ॥ ३० ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तर