सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 129, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 129
  • ११५ -
    तडित्पिशंगप्रोद्भासिकपर्द्दकविभीषण !
    शूलभ्रमणवित्रासिन् भैरवाय नमोऽस्तु ते ॥ ३८ ॥
    खड्गशूलधरायोर्ध्वं वरदाभयपाणये ।
    चतुर्भुजाय भीमाय भैरवाय नमोऽस्तु ते ॥ ३९ ॥
    उल्कासहस्रविस्रस्तजगतत्रयभयालवे ।
    ज्वालामालाकरालाय भैरवाय नमोऽस्तु ते ॥ ४० ॥
    दीप्ताय दीप्तनेत्राय विद्युद्द्योतिदीप्तये ।
    प्रदीप्तवह्निज्वालाय जटिलाय नमोऽस्तु ते ॥ ४१ ॥
    व्यालमालापरीताय धूलिधूसरवर्मणे ।
    गिरीन्द्रशिखरोच्चाय महोग्राय नमोऽस्तु ते ॥ ४२ ॥
    पादप्रहारविध्वस्तसप्तपातालभूमये ।
    किरीटोल्लिखिताभ्राय विशालाय नमोऽस्तु ते ॥ ४३ ॥
    दिगम्बराय वीराय श्मशानामिषभोजिने ।
    शोणितारक्ततुण्डाय प्रचण्डाय नमोऽस्तु ते ॥ ४४ ॥
    चण्डाय चण्डवीर्याय चण्डविक्रमकारिणे ।
    भूतान्तकरणोग्राय त्र्यम्बकाय नमोऽस्तु ते ॥ ४५ ॥
    वेतालौघपरीताय डाकिनीतृप्तिहेतवे ।
    चण्डिकागुणयुक्ताय भीषणाय नमोऽस्तु ते ॥ ४६ ॥
    अत्युद्भटजटाटोपक्षोभिताम्बुदमण्डल ।
    विकराल महाकाल चन्द्रभाल नमोऽस्तु ते ॥ ४७ ॥
    एतत्तव जगत्सर्वं कृपादृष्ट्याभिवीक्ष्यताम् ।
    न त्वस्य ध्वसनं युक्तं विनैवावसरं प्रभो ॥ ४८ ॥
    अन्य एव स कालोऽस्ति यत्र संहरसे जगत् ।
    सृष्टिकालोऽयमधुना कृपा विस्तारय प्रभो ॥ ४९ ॥
    विष्णोराज्ञा भगवतो महापुरुषसंज्ञिनः ।
    काले काले यतोऽस्माभिः क्रियते विश्वमीदृशम् ॥ ५० ॥
    तस्य नाभिस्थलोद्भूतपद्मभू र्भगवान् विधिः ।
    अरीरचज्जगत्सर्वं नियुज्यास्यांश्चतुर्दश ॥ ५१ ॥
    तस्मै त्वं कृपयास्मासु मा द्रुह क्रोधभैरव ।
    त्वया विध्वंस्यमानं तन्नङ्क्ष्यते नष्टमेव च ॥ ५२ ॥
    करोषि ताण्डवं यर्हि भुजौ सम्भ्रामयन् मुहुः ।
    पातालं पादन्यासेन स्वर्गो मूर्ध्ना च भज्यते ॥ ५३ ॥