सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 122, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 122
  • १०८ -
    तदहं द्रष्टुमिच्छामि रामं त्रैलोक्यसुन्दरम् ।
    त्वत्सार्थेन गमिष्यामि प्रमोदवनमुत्तमम् ॥ २१ ॥
    लक्ष्मीरूवाच
    अहं वैकुण्ठगा नित्यं विष्णोर्वक्षसि संस्थिता ।
    तथापि कामये रामं लीलानन्दरसात्मम् ॥ २२ ॥
    तस्मात्त्वत्सार्थगा भूत्वा यास्यामि प्रमुदाटवीम् ।
    कृपया मां निरीक्षस्व श्रीरामप्रेमसिद्धये ॥ २३ ॥
    रतिरुवाच
    अहं ते दासिका काचित्पादाब्जपरिचारिका ।
    न मां त्वं त्यक्तुमर्हसि रामप्रेमाभिलाषुकाम् ॥ २४ ॥
    शच्युवाच
    यथा रतिस्तथैवाहं दासी ते प्रेमरूपिणी ।
    न मां वैरोचते लोको यत्रैन्दूयदभूतयः ॥ २५ ॥
    नय मां निजसार्थेन प्रमोदवनभूमिकाम् ।
    अगम्यामितरैर्लोकैः श्रीरामरतिवर्जितैः ॥ २६ ॥
    अनसूयोवाच
    भर्ता मे भगवान् साक्षाच्चित्रकूटे यदाश्रमः ।
    श्रीरामप्रेमसंयुक्तस्तस्याहं परमा प्रिया ॥
    त्वत्सन्निधौ स्थातुमर्हा न मां त्वं त्यक्तुमर्हसि ॥ २७ ॥
    दित्यादिती ऊचतुः
    आवां प्रजापतेर्भार्ये देवासुरमातरौ ।
    तव सङ्गेन वै मातर्भविष्यावो हरौ रते ॥ २८ ॥
    तस्मादावां नेष्यसि त्वं कृपया श्रीकृपावती ।
    प्रमोदवनमत्यर्थं रामलीलामनोहरम् ॥ २९ ॥
    देवहू तिरुवाच
    अहं कपिलदेवस्य जननी कर्दमस्य च ।
    प्रजापतेः प्रिया भार्या रामप्रेमाभिलाषुका ॥ ३० ॥
    तदर्थं त्वामहं प्राप्ता यास्यामि प्रमुदाटवीम् ।
    हस्तावलम्बं वितर त्वं परप्रेमरूपिणी ॥ ३१ ॥
    मेधाद्या दशपीठस्थाः शक्तयः सरयूं प्रति ।
    ऊचिरे वचनं सर्वाः सानुरागाः पृथक् पृथक् ॥ ३२ ॥