सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 118, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 118
  • १०४ -
    ऊषरा ऊषरक्षेत्रा ऊतिरूपो ऋभूस्तुता ।
    ऋतप्रवर्तिनी ऋक्षा ऋक्षेन्द्रकुलपूजिता ॥ १५० ॥
    ॠकाराक्षररूपा च ॠकारी ॠस्वरूपिणी ।
    लृतका लृतकाचार्या लृकाराक्षरवासिनी ॥ १५१ ॥
    एषा एषितवेदार्था एवमेवार्थरूपदा ।
    एवकारार्थगम्या च एतच्छब्दार्थरूपिणी ॥ १५२ ॥
    एता ऐता ऐकृतिश्च ऐन्द्री ऐंकाररूपिणी ।
    ओता ओकाररूपा च औषधीशप्रपूजिता ॥ १५३ ॥
    औन्नत्यकारिणी अंबा अंबिका अंकवर्जिता ।
    अंतकप्रेयसी अंक्या अंतका अंतवर्जिता ॥ १५४ ॥
    अःकारमुदिता चैव सर्वर्णस्वरूपिणी ।
    सर्वशास्त्रार्थरूपा च सर्वकल्याणकारिणी ॥ १५५ ॥
    इदं श्रीसरयूदेव्या नामसाहस्रमुत्तमम् ।
    मया निगदितं श्रुत्वा सर्वपापैर्विमुच्यते ॥ १५६ ॥
    बहूनि तव नामानि अनन्तान्येव सर्वशः ।
    त्व गङ्गा यमुना चैव गोदा चैव सरस्वती ॥ १५७ ॥
    नर्मदा चैव कावेरी भीमा कृष्णा च पार्वती ।
    सिन्धुः सिन्धुसुता चैव सर्वदेवस्वरूपिणी ॥ १५८ ॥
    यस्त्वां स्मरति वै नित्यं मनुजो रामसेवकः ।
    सर्वविघ्नहरा तस्य भविष्यसि न संशयः ॥ १५९ ॥
    प्रातरुत्थाय च नरो योऽवगाहेत वै त्वयि ।
    तस्य सर्वाघहन्त्री त्वं रामभक्तिं प्रवर्तयेः ॥ १६० ॥
    दर्शनात्स्पर्शनाच्चैव स्मरणात्नामकीर्तनात् ।
    रामप्रेमप्रदा नित्यं त्वं सर्वशुभकारिणी ॥ १६१ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे सीताजन्मोत्सवे
    प्रमोदवनवर्णने सरयूनामसहस्रकं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥