सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ
  • ८२ -
    अयं भेदः समुद्दिष्टो रूपद्वयविभावने ।
    प्रमोदविपने चैषा नित्यमेव हि क्रीडति ।
    श्रीराजिन्यां गोपवध्वां गोपाच्छ्रीनन्दनाभिधात् ॥ ३५ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणोये
    सीताजन्मोत्सवे एकोनत्रिंशोऽध्यायः ॥ २६ ॥
    त्रिंशोऽध्यायः
    जनक उवाच
    प्रमोदवनवैकुण्ठं यदुद्दिष्टं त्वया प्रभो ।
    तन्मे वद विशेषेण कीदृग्रूपं परं पदम् ॥ १ ॥
    श्रीशुक उवाच
    कथयामि तव प्राज्ञ निमिवंशविभूषण ।
    प्रमोदवनरूपं यद् रामवैकुण्ठमुच्यते ॥ २ ॥
    अतीत्य कालमायादीनक्षरानन्दमध्यगम् ।
    प्रेमानन्दमयं धाम नित्यस्थानं मनोहरम् ॥ ३ ॥
    चिदानन्दौ शवलितौ तदाकारसमर्पकौ ।
    अतः साकारमुद्दिष्टं रामवैकुण्ठमद्भुतम् ॥ ४ ॥
    सर्वर्तुसंफुल्ललसत्कुसुमामोदकाननम् ।
    आमोदमत्तभ्रमरराजीगुञ्जितमञ्जुलम् ॥ ५ ॥
    कल्पद्रुमसमानेकद्रुमवाटीमनोहरम् ।
    रत्नमाणिक्यसोपानवापिकाकूलशोभितम् ॥ ६ ॥
    मायादिदोषासम्बन्धि महाशीतलमारुतम् ।
    रसालमञ्जरीवृन्दपरागभरमेदुरम् ॥ ७ ॥
    नवपल्लवशोभाढ्यविटपारूढकोकिलम् ।
    हरिन्मणिमयाकाररामणीयकपत्रकम् ॥ ८ ॥
    मकरन्दामृतस्राविप्रसूनभरसंकुलैः ।
    सपल्लवोत्तुङ्गशाखावलम्बिबहुवल्लिभिः ॥ ९ ॥
    पीयूषपाकमधुरैः फलैरानम्रमूर्तिभिः ।
    वृक्षैर्बहुविधैश्छन्नं बहुकुञ्जमनोहरम् ॥ १० ॥
  • ८३ -
    माधुरीवल्लरीछन्नतुङ्गभूरुहशोभितम् ।
    लतामन्दिरविश्रान्तनिकूजच्छुकसारिकम् ॥ ११ ॥
    नृत्यन्मयूरनिवहं तापिच्छतरुशोभितम् ।
    लवंगलतिकाच्छन्नकुञ्जव्यापिमहीरुहम् ॥ १२ ॥
    कचित्कनकपत्राढ्यैः कचिन्नीलदलान्वितैः ।
    कचित्कचिच्च सिन्दूररागरञ्जितपत्रकैः ॥ १३ ॥
    कचिन्नीलदलैः कापि यावकोद्भासिपत्रकैः ।
    कचिद्विचित्रपत्रैश्च भूरुहैः परिशोभितम् ॥ १४ ॥
    वसन्तचित्रकारेण चित्रशालीकृतं यथा ।
    अनेकरत्नकुलाभिः सरसोभिर्विराजितम् ॥ १५ ॥
    फुल्लत्कमलिनीवृन्दजुष्टानेकसरोजलम् ।
    कमलोत्पलसंसर्गिसौरभाञ्चितमारुतम् ॥ १६ ॥
    अनेकवनसंशोभिरामकेलीरसास्पदम् ।
    प्रमोदमानलोकाढ्यं प्रमोदवनमुत्तमम् ॥ १७ ॥
    उज्जागरं प्रभाभोरेः सूर्येन्दुकोटिभासुरम् ।
    यत्र सौगन्धिको नाम पर्वतः सुमहोन्नतः ॥ १८ ॥
    सुगन्धजलसस्रावनिर्झरान्वितकन्दरः ।
    सुगन्धभूरुहवृतः सुगन्धलतिकाञ्चितः ॥ १९ ॥
    सुगन्धधातुप्रसवः सुगन्धरजसाञ्चितः ।
    सुगन्धपाषाणतलनिषादिविहगव्रजः ॥ २० ॥
    यत्र चोद्भाति सततं नाम्ना रत्नगिरिर्गिरिः ।
    मणिमाणक्यरत्नौघमयूखगणसंवृतः ॥ २१ ॥
    शिखरैर्गगनस्पृग्भिर्व्याप्नुवन् सकला दिशः ।
    अधित्यकावनतरुनिषादिपिकनादितः ॥ २२ ॥
    श्रीरामकेलीभवनकन्दरशतशोभितः ।
    उपत्यकाशिलावेदिनिषण्णहरिणीकुलः ॥ २३ ॥
    सदावर्तितरोमन्थमत्तशंवरशोभितः ।
    भाभिर
  • ८४ -
    विचित्रितजला नित्य सुगन्धिततरंगवाट् ।
    राजहंसकुलच्छन्ना कलहंसकलकणा ॥ २७ ॥
    मत्तकारणडवकुलचक्रवाकचयान्विता ।
    शीतलाम्भःसुधासारा शीतलानिलसंगिनी ॥ २८ ॥
    पाविनी सर्वलोकानां गङ्गातोऽप्यधिका गुणैः ।
    वसिष्ठमुनिसंसेव्या वासिष्ठीति श्रुता भुवि ॥ २९ ॥
    रामगङ्गा चमत्कारिनीरा प्रेमस्वरूपिणी ।
    तमसाकलिता नित्यं द्विर्वहा द्विप्रवाहिका ॥ ३० ॥
    पावयन्ती नाममात्रात्सहस्रयोजनोपरि ।
    तरंगसंसर्गिमरुत्पूतजानपदावलिः ॥ ३१ ॥
    यत्र चोत्सवदं नित्यं विशालं कामिकावनम् ।
    संदीपनं नाम वनं यस्यान्तः सुमनोहरम् ॥ ३२ ॥
    सर्वर्तुद्रुमशोभाढ्यं नानाघोषमनोहरम् ।
    मन्थानशब्दमधुरप्रभूताभीरपल्लिकम् ॥ ३३ ॥
    यत्र गावो दीर्घशृङ्गाश्चन्द्रवर्णा मनोहराः ।
    ऊधोभारनताः साक्षात्कामधेनव उद्धुराः ॥ ३४ ॥
    यासां खुररजोभारैर्भूषिता व्रजमेदिनी ।
    क्रीडनार्हा रमेशस्य सुखिताभीरवासभूः ॥ ३५ ॥
    यत्र श्रीसुखितग्रामः सदा लक्ष्मीनिवासभूः ।
    श्रीनन्दनमहागोपप्रासादवरसुन्दरः ॥ ३६ ॥
    श्रीराजिन्या च तत्पत्न्या साक्षादभिनवश्रिया ।
    मात्रा श्रीसहजेशान्या शोभमानो दिवानिशम् ॥ ३७ ॥
    कूर्द्दद्वत्सतरव्रातः कूर्द्दद्वत्सतरीयुतः ।
    नन्दीश्वरसमानेकमहावृषभशोभितः ॥ ३८ ॥
    यत्र क्रीडापरो रामो लक्ष्मणेन सदा हरिः ।
    सच्चिदानन्दरूपोऽसौ परब्रह्मरसाकृतिः ॥ ३९ ॥
    विश्वामित्रनिदेशेन चारयन् गा वने वने ।
    आभीरकन्यकाचक्रचन्द्रचारुचकोरदृक् ॥ ४० ॥
    नित्यलीलारसानन्दी नित्यरासरसोत्कटः ।
    शारदैश्चैव वासन्तैर्विहारैर्विहरन् सदा ॥ ४१ ॥
    महाश्रीसहजानन्दारतिकेलीपरायणः ।
    कोटिकल्पावसानेऽपि अविश्रान्तमहारतिः ॥ ४२ ॥
  • ८५ -
    सहजानन्दिनी यत्र क्रीडति स्ववनेऽनिशम् ।
    युक्ता नर्मसखीवृन्दै श्रीनन्दन सुनन्दिनी ॥ ४३ ॥
    माङ्गल्याभाग्यविभवौ यत्र दिव्यकिशोरकौ ।
    तावेव नित्यं रेमाते रमणैः प्राकृतैरिव ॥ ३४ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    सीताजन्मोत्सवे त्रिंशोऽध्यायः ॥ ३० ॥
    ❖
    एकत्रिंशोऽध्यायः
    जनक उवाच
    अथाख्याहि मम ब्रह्मन् सरय्वाः सम्भवं शुभम् ।
    कथमेषा समुत्पन्ना केनचेति वद प्रभो ॥ १ ॥
    कथं विलोचनजला नामास्याः प्रवदन्ति च ।
    किं स्वरूपेयमुद्दिष्टा सरयूः सरितां वरा ॥ २ ॥
    श्रीशुक उवाच
    पुरा भूम्नः पुरुषस्याग्रतोऽभूल्लोकालोकात्परतऽ संस्थितस्य ।
    जिज्ञासूनां ब्रह्मविदां मुनीनां तत्त्वार्थस्यागोचरत्वात्प्रवादः ॥ ३ ॥
    कर्मेति केऽपि जगदुःखलु कालमन्ये ।
    केऽपि स्वभावमपि कोऽपि तथैव दैवम् ।
    केऽप्यक्षरं प्रकृतिपूरुषभेदभिन्नं केऽप्यूचुरद्भुतचरित्रकरी तदिच्छाम् ॥ ४ ॥
    केचिन्नायणं पूर्णमूचुः सत्त्वैकविग्रहम् ।
    परे शिवं शंकराख्यं केचिदन्ये स्वयंभुवम् ॥ ५ ॥
    अपरे तद्रूपमय सर्वोपादानरूपिणम् ।
    महापुरुषमभ्यूचुर्वेदतात्पर्यगोचरम् ॥ ६ ॥
    आचख्युः केऽपि वेदार्थं संक्षेपव्यासयोगतः ।
    इत्थं तेषां प्रवादेषु जायमानेषु संसदि ॥ ७ ॥
    सनत्कुमारो भगवानाजगाम महामुनिः ।
    बालवेषधरो योगी सर्ववेदार्थसारवित् ।
    तमूचुर्मुनयः सर्वे संदिहानाः परस्परम् ॥ ८ ॥
  • ८६ -
    ऋषय ऊचु
    ब्रह्मणो मानसाः पुत्रास्तेषां त्वं प्रवरो मतः ।
    तपसा विद्यया चैव शीलेन च मनीषया ॥ ९॥
    ज्ञानेन कर्मणा चैव भक्त्या च श्रद्धया तथा।
    बालोऽपि बहुकल्पज्ञस्त्वमनूचानपुङ्गवः ॥ १० ॥
    आम्नायसकलोपेतः करामलकवत्स्फुटः ।
    तत्र त्वया किं निर्णीतं समासव्यासयोगतः ॥ ११ ॥
    वदैकं दैवतं लोके यत्र वेदः प्रवर्तकः ।
    नृणां मुनीनां देवानां वरेण्यानां विशेषतः ॥ १२ ॥
    किमेकं सेवनीयं च जप्यं स्मर्त्तव्यमेव च ।
    सिद्धान्तितं यद्भवता तन्नो ब्रूहि सुनिश्चितम् ॥ १३ ॥
    इति तेषां मुनीन्द्राणां श्रुत्वा सुविमलं वचः ।
    सनत्कुमारो भगवान् प्रत्युवाच मुदान्वितः ॥ १४ ॥
    श्रीसनत्कुमार उवाच
    साधु पृष्टं महाभागा मुनयो लोकमङ्गलाः ।
    यतो वितत आम्नाये ज्ञातुमेतन्न शक्यते ॥ १५ ॥
    यदेकं परमं सारं तद्भो वक्ष्ये यथामति ।
    रामेति द्व्यक्षरो मन्त्रः सर्वकल्याणदायकः ॥ १६ ॥
    वेदानां सारभूतोऽसौ स्वात्मचैतन्यदीपकः ।
    उद्गीथः सर्ववेदानां सर्वोपनिषदां निधिः ॥ १७ ॥
    दहनः सर्वपापानां पावकार्चिर्यथैधसाम् ।
    पावनः सर्वतीर्थानां भावनः शुभकर्मणाम् ॥ १८ ॥
    दूषणो दुरदृष्टानां भूषणो जनचेतसाम् ।
    जननः श्रुतिसौख्यानां मोक्षाणां च प्रदायकः ॥ १९ ॥
    वरेण्य सर्वधर्माणां रामनामानुकीर्तनम् ।
    कोट्यश्वमेधफलदं सद्यः प्रत्ययदायकम् ॥ २० ॥
    आसुरैः पाप्मभिः कामक्रोधाद्यैरुपतापिते ।
    सतां चित्ते रामनाम सर्वशान्त्यै सुधोपमम् ॥ २१ ॥
    एतत्सारं विनिर्दिष्टं वैदिकीनां गिरा मयि ।
    स्वाद्यं हृद्यं च रस्यं च गेयं पेयं च साधुभिः ।
    मायामोहमदादीनां शमनं समनन्तरम् ॥ २२ ॥
  • ८७ -
    श्रीरामनाम्ना सदृशं न तीर्थं श्रीरामनाम्ना सदृशं न पुण्यम् ।
    श्रीरामनाम्ना सदृशं न कर्म श्रीरामनाम्ना सदृशं तपो न ॥ २३ ॥
    श्रीरामनाम्ना सदृशो न योगः श्रीरामनाम्ना सदृशो न भोगः ।
    श्रीरामनाम्ना सदृशो न मोदः श्रीरामनाम्ना सदृशो न मोक्षः ॥ २४ ॥
    श्रीरामनाम्ना सदृशी न भक्तिः श्रीरामनाम्ना सदृशी न शक्तिः ।
    श्रीरामनाम्ना सदृशी न सेवा श्रीरामनाम्ना सदृशी न चार्चा । २५ ॥
    इदमेकं हि सर्वस्वं भक्तानां योगिनां सताम् ।
    कर्मिणां ज्ञानिनां चैव तथोपास्तिमतां नृणाम् ॥ २६ ॥
    यज्ञे दाने तथा तीर्थे स्वाध्याये च तपःसु च ।
    रामनाम गृणन् सर्वं साङ्गं कुर्याद्विचक्षणः ॥ २७ ॥
    सकलाङ्गैः साधितमप्यनल्पद्रव्यदक्षिणम् ।
    अरामनामकं कर्म व्यङ्गमेव न संशयः ॥ २८ ॥
    निरङ्गमल्पहृतकमत्यल्पद्रव्यदक्षिणम् ।
    रामनामयुतं कर्म साङ्गमेव न संशयः ॥ २९ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    सीताजन्मोत्सवे एकत्रिशोऽध्यायः ॥ ३१ ॥
    ✤
    द्वात्रिंशोऽध्यायः
    ऋषय ऊचु
    रामस्य यत्परं तत्त्वं वेदेभ्यः सारमुद्धृतम् ।
    तन्नो ब्रूहिमहायोगिन् यच्छ्रुतं विश्वमङ्गलम् ॥ १ ॥
    किं रूपं किं च तद्धाम क चाविर्भाव ईरितः ।
    एतन्नः श्रद्दधानानां ब्रूहि ब्रह्मन्नशेषतः ॥ २ ॥
    श्रीसनत्कुमार उवाच
    श्रूयतां तत्परं तत्त्वं रामस्य परमात्मनः ।
    यत्सारं सर्ववेदानां शास्त्राणां च विशेषतः ॥ ३ ॥
    चिदानन्दमयं रूपं महः प्रावृड्घनच्छवि ।
    वामाङ्गे सहजानन्दाविद्युल्लेखासमन्वितम् ॥ ४ ॥
  • ८८ -

सौनासीरमणिप्रख्यं प्रकाशं तिमिरोपमम् ।
फुल्लारविन्दपत्राक्षं करुणामृतवर्षिणम् ॥ ५ ॥
पीताम्बरप्रभासप्ततपनीयसुनिर्मलम् ।
गण्डमण्डलसंक्रान्तस्फुरन्मकरकुण्डलम् ॥ ६ ॥
श्रीवत्साङ्कधरोरस्कं महाकौस्तुभभूषितम् ।
रत्नाङ्गदलसद्बाहुस्वर्णकङ्कणभूषितम् ॥ ७ ॥
विशालवनमालाद्यं रत्नग्रैवेयकान्वितम् ।
चूडामणिशिरोभासि नासामौक्तिकभूषितम् ॥ ८ ॥
स्वर्णसूत्रसमालम्बिकिङ्किणीमध्यभूषितम् ।
गम्भीरनाभिललितं त्रिवलीपिहितोदरम् ॥ ९ ॥
रोमराजीसमुद्भासि नीलरत्नच्छविच्छटम् ।
निर्णिक्तमुकुराकारकपोललकसंकुलम् ॥ १० ॥
कदम्बकिंजल्कनिभं कौशेयपरिवीतिमत् ।
षट्कपद्मासनं देवं तत्त्वमुद्राधर हृदि ॥ ११ ॥

॥ ५ ॥
Wait: "फलप्रसूनपत्रर्द्धिरमणीयकमन्दिरम्"
Letters: फ-ल-प्र-सू-न-प-त्र-र्द्धि-र-म-णी-य-क-म-न्दि-र-म्.
"पत्रर्द्धि" = पत्र + ऋद्धि -> पत्रर्द्धि. Exactly!

Line :
चतुर्विंशतिसंख्याकमुख्यदिव्यवनान्वितम् ।
(Notice the single danda at the end: ।)

Line :
यत्र रत्नाद्रिरुद्भाति रत्नसानुमनोहरः ॥ ६ ॥

Line :
अनेकनिर्झरस्त्राविसुगन्धिजलपूरितः ।
Wait, "निर्झरस्त्रावि..." or "निर्झरस्रावि..."?
In print: निर्झरस्त्रावि (with स्त्रा).

Line :
अनेकरत्नरुचिरो नानाधातुगणश्रयः ॥ ७ ॥
Wait, look at "नानाधातुगणश्रयः":
Is it गणश्रयः or गुणाश्रयः or गणाश्रयः?
Wait, let's look at the print:
ना-ना-धा-तु-ग-ण-श्र-यः
Wait, look at the letter between 'तु' and 'ण': it is 'ग'.
Is there an 'उ' mat

  • ९० -

कुरङ्गनयनाः सर्वाः सर्वकेलिकलाविदः ।
लास्यताण्डवनृत्यादिसंगीतकविशारदाः ॥ १६ ॥
श्रीरामचन्द्रवदनचन्द्रचारुचकोरिकाः ।
तासां मण्डलमध्यस्थो माङ्गल्यानेत्रनन्दनः ॥ १७ ॥
श्रीरामचन्द्रमाः श्रीमद्राजदशरथात्मजः ।
नटवेशधरो मुग्धः श्रीरामो रासमण्डले ॥ १८ ॥
विहरत्यनिशं साक्षात्परब्रह्मरसाकृतिः ।
कन्दर्पकोटिदपघ्नः सहजानन्दिनीसखः ॥ १९ ॥
चरणाम्भोजदिव्याङ्कः कुर्वन् भूमिं सुपावनीम् ।
किशोराकृतिरानन्दी नित्यलीलाविशारदः ॥ २० ॥
यस्यांशमात्रविभवः श्रीमन्नारायणः स्वयम् ।
यस्यांशांशाः प्रजायन्ते अवतारा ह्यनेकधा ॥ २१ ॥
भूमापि पुरुषो यस्य सहस्रवदनः स्वराट् ।
अंश एव प्रकथितो विष्णुर्ब्रह्माण्डविग्रहः ॥ २२ ॥
उत्पद्यन्ते विलीयन्ते ब्रह्मणां कोटयः किल ।
न तु रामविहारस्य तिरोभावो भवेत् क्वचित् ॥ २३ ॥
इदं श्रीरामवैकुण्ठं नित्यं धाम प्रकीर्तितम् ।
सहजानन्दिनीलोको व्यापकश्चित्सुखाकृतिः ॥ २४ ॥
रक्षकाः परितस्तस्य कोटयश्चक्रधारिणः ।
चतुर्मुखाः कोटयश्च कोटयश्चैव शंकराः ॥ २५ ॥
पञ्चाननाः शूलकरा विभान्ति परितः स्थिताः ।
सरसीव महापद्मं लोकोऽयंधरणीतले ॥ २६ ॥
न तु भूमितलस्थार्थैः संस्पर्शोप्यस्य विद्यते ।
कालमायोद्भवैर्दोषैः संस्पर्शो नास्य विद्यते ॥ २७ ॥
तद् रामस्य परं स्थानं धिया पश्यन्ति सूरयः ।
अतिसूक्ष्मार्थदर्शिन्या भक्तियोगविशुद्धया ॥ २८ ॥
चिदानन्दस्य रामस्य चिदानन्दमयं वपुः ।
चिदानन्दमयी लीला चिदानन्दमयोऽखिलः ॥ २९ ॥
लीलापरिकरो ज्ञेयश्चिदानन्दमयं पदम् ।
एवं यो वेद तद्धाम प्रमोदवननामकम् ॥ ३० ॥
स विमुच्येत मनुजो रामभक्तिपरायणः ।
स्मरँल्लोकममुं तत्स्थं भावयेद् रामदैवतम् ।
जीवन्मुक्तः स विज्ञेयो दधत्प्रेममयं वपुः ॥ ३१ ॥

च देशेषु नित्याविर्भूतता प्रभोः ।Wait, look atएष्वन्येषु: ए-ष्व-न्ये-षु च दे-शे-षु(8)नि-त्या-विर्-भू-त-ता प्र-भोः` (8)

Now check line 15:
किष्किन्धायां रामगिरौ तथा हनुमदालये ॥ ४ ॥
Wait, look at the first word:
कष्किन्धायां or किष्किन्धायां?
Look at the first letter:
Wait! Is there an ि matra on क?
Look at line 15:
कष्किन्धायां! Wait! Look at क:
Is there a vertical line before क?
NO! It's क!
Wait, look really closely at line 15:
क ष्कि न्धा यां !
Wait, does it have an ि matra? Look at the space before क:
There is NO ि matra! It literally says कष्किन्धायां!
Wait, let's look above क: there is no curve!
It is a typo in the original print: कष्किन्धायां!
Wait, let's look at कष्किन्धायां:
Wait

  • ९२ -
    तत्र रामः सदा भाति श्रीमज्जनकजान्वितः ।
    सहजानन्दिनी यत्र गीयते विविधैर्गुणैः ॥ ११ ॥
    तत्र रामः सदा तिष्ठेन्नात्र कार्या विचारण ।
    रामेति द्वयक्षरो मन्त्रो यत्र संकीर्त्यते बुधैः ॥ १२ ॥
    तत्राविर्भूय श्रीरामः सर्वदुःखं विनाशयेत् ।
    सीतया सहितं यत्र रामनाम प्रकीर्त्यते ॥ १३ ॥
    न तत्र कलिदोषाणां प्रवृत्तिः स्यात्कथंचन ।
    साङ्गाः सरहस्याश्च पठिता वेदराशयः ॥ १४ ॥
    कृताश्च सकला यज्ञा येन रामेति कीर्तितम् ।
    कृतानि कोटिपुण्यानि व्रतानि च तपांसि च ॥ १५ ॥
    सुस्नातानि च तीर्थानि येन रामेति कीर्तितम् ।
    अज्ञानतिमिरोद्भेदं कोटिसूर्येन्दुभासुरम् ॥ १६ ॥
    ज्ञानामृतपयोवाहं रामनाम सदा जपेत् ।
    कलिदोषापहं नित्यं गङ्गास्नानातिपावन

– ९३ –
पञ्चत्रिंशोऽध्यायः
श्रीशुक उवाच
इत्थं सनत्कुमारस्य मुखादाकर्ण्य सर्वशः ।
श्रीमतो राघवेंद्रस्य महिमानं महाद्भुतम् ॥ १ ॥
नाम धाम स्वरूपं च लोकोत्तरमुदीरितम् ।
तस्य भूम्नः पुरुषस्य विष्णोर्ब्रह्माण्डवष्मर्णः ॥ २ ॥
संजातः सुमहान् प्रेमा उत्तरंग इवाम्बुधिः ।
महाभावः सुसम्पन्नः सीतारामैकगोचरः ॥ ३ ॥
ततः सुस्रुवतुस्तस्य नयने प्रेमजं जलम् ।
ब्रह्मणश्चैव रुद्रस्य ब्रह्मर्षीणां तथैव च ॥ ४ ॥
देवर्षीणां च सर्वेषां तत्रस्थानां सभासदाम् ।
ब्रह्मणो मानसानां च सनकादिमहात्मनाम् ॥ ५ ॥
सहजानन्दिनीरामगुणलीलाऽनुवादतः ।
परमेणोत्तमप्रेम्णा दृशौ तेषां पृथक् पृथक् ॥ ६ ॥
विरहार्त्या सुस्रुवतुः साक्षात्प्रेममयं जलम् ।
तावत्तेषां वपुरभूत्प्रेमसंस्तब्धमुच्चकैः ॥ ७ ॥
स्वेदोदकैः समापूर्णं रोमाञ्चप्रकरावृतम् ।
स्वरभङ्गश्च सर्वेषामभूद्गद्गदकण्ठतः ॥ ८ ॥
वेपथुश्च प्रादुरभूत्तत्क्षणाद्विह्वलात्मनाम् ।
विवर्णता च सजाता विरहार्तिमतां सताम् ॥ ९ ॥
क्षणं ते मुग्धवच्चासन् विलीनेन्द्रियवृत्तयः ।
रामप्रेमाविष्टचित्ता बभूवुर्मत्तमत्तवत् ॥ १० ॥
तेषां संरूदतां प्रेम्णा पुरुषस्य सदःसदाम् ।
अश्रुजैर्वारिभिरभूत् सुविशालतमं सरः ॥ ११ ॥
तस्मादाविरभूद्देषा सरयूविश्वपावनी ।
पीयूषवर्णसलिला शरज्ज्योत्स्नेव भास्वती ॥ १२ ॥
योगीन्द्रमानसमुदे प्रेमानन्दमयोदका ।
धर्मार्थकाममोक्षाणां दायिनी सुखदायिनी ॥ १३ ॥
ब्रह्माद्रवस्वरूपा च द्रवद्रव्यमयी परा ।
वारुणी देवता दिव्या सर्वतीर्थमहानिधिः ॥ १४ ॥
तस्माज्जलसमूहात्तु समुद्भूता वराङ्गना ।
सुधासुवर्णवसना चन्द्रकोटिसुशीतला ॥ १५ ॥

  • ९४ -
    चन्द्रास्या पङ्कजमुखी नीलनीरजलोचना ।
    चम्पकाङ्गी तडित्कान्तिः सर्वावयवसुन्दरी ॥ १६ ॥
    स्वर्णदोलासमारूढा स्मयमानमुखाम्बुजा ।
    गङ्गया चैव कालिन्द्या पार्श्वद्वयविराजिता ॥ १७ ॥
    सरस्वत्या धृतच्छत्रा स्वर्णदण्डावलम्बया ।
    गायत्र्या चैव सावित्र्या चामरद्वयवीजिता ॥ १८ ॥
    प्रेमानन्दमयी साक्षाद् रामलीलाविशारदा ।
    तां जातमात्रां प्रययुर्लोपामुद्रादयस्तदा ॥ १९ ॥
    अरुन्धती च गार्गी च मैत्रेयी चैव योगिनी ।
    पार्वती च महालक्ष्मी रतिश्चैव तथा शची ॥ २० ॥
    अनसूया भगवती दितिश्चैवादितिस्तथा ।
    देवहूतिश्च मेधा च प्रभा विद्या च धीमती ॥ २१ ॥
    प्रीतिः कीर्तिश्च कान्तिश्च तुष्टिःपुष्टिस्तथैव च ।
    दिव्यैः स्तवैः स्तुवन्त्यस्ताः परितोऽस्याश्चकासिरे ॥ २२ ॥
    । श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये सीताजन्मो-
    त्सवे सरयूतपत्तिर्नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
    षट्त्रिंशोऽध्यायः
    शुक उवाच
    साव्रवीज्जातमात्रैव भूमानं पुरुषं ततः ।
    रामप्रेमोद्गमोद्भूतरोमाञ्चव्यासविग्रहम् ॥ १ ॥
    [सर]युरुवाच
    किं नु कुर्यामहे भूमन् किं च मे नाम निश्चितम् ।
    भवत्पार्श्वेऽथवान्यत्र कुत्र मेऽवास्थितिर्भवेत् ॥ २ ॥
    [पुरुष] उवाच
    रामप्रेमोद्भवानन्दात्सुस्रुवेनेत्राणि नः पृथक् ।
    तुदत्थवाष्पवारिभ्यः सम्भूता त्वं तरङ्गिणी ॥ ३ ॥
    सरयूरिति ते नाम तस्मान्निश्चितमेव मे ।
    नयनोत्थैर्जलैर्जाता तस्मान्नेत्रजलेति च ॥ ४ ॥

त्पश्चात्त्वं विश्वपाविनी ॥ ७ ॥"
शिखरात्पश्चात्त्वं - exact!

Let's check L7:
"द्विर्वहेति च ते नाम लोके ख्यातं भविष्यति ।"
Exact!

Let's review everything once more to ensure perfection.
Everything matches the layout and characters cleanly.वसिष्ठश्च भवत्तीरे तपसा सिद्धिमेष्यति ।
वासिष्ठीति भुवि ख्यातं तव नाम भविष्यति ॥ ५ ॥
साकेतनगरे गत्वा रामस्य सुखवर्द्धिनी ।
रामगङ्गेति ते नाम भुवि ख्यातं भविष्यति ॥ ६ ॥
पूर्वं तु तमसा जाता ऐरावतरदाहतात् ।
महाशैलस्य शिखरात्पश्चात्त्वं विश्वपाविनी ॥ ७ ॥
द्विर्वहेति च ते नाम लोके ख्यातं भविष्यति ।
प्रेमानन्दात्समुद्भूतां तस्मात्प्रेमजलेति च ॥ ८ ॥
अथ तेऽहं प्रवक्ष्यामि नामसाहस्रकं शुभम् ।
यस्य श्रवणमात्रेण प्रेमानन्दः प्रवर्द्धते ॥ ९ ॥
सरयूः प्रेमसरयूः प्रेमानन्दसरोजला ।
प्रेमपूर्णा प्रेममयी प्रे

– ९६ –
सुवर्णतटिनी चैव सुवर्णस्रवणोदका ।
विधिनेत्रजला वैधी विधिप्रेमा विधिप्रिया ॥ २१ ॥
उत्तरंगा च तरला तारकापतिनिर्मला ।
तमसा तामसहरा तमोहर्त्री तमोवहा ॥ २२ ॥
तीक्ष्णा तीक्ष्णगतिस्तुङ्गा तुङ्गवीचिविनोदिनी ।
तुङ्गतीरा तुङ्गभवा तुङ्गतीरप्रसारिणी ॥ २३ ॥
तुङ्गतोया तुङ्गवहा तुङ्गगा तुङ्गगामिनी ।
तडित्प्रभा तडिद्रूपा तडिद्वीचिस्तडिज्जला ॥ २४ ॥
तप्तोदका तप्ततनुस्तापहा तापसाश्रया ।
तपःसिद्धिकरी तापी तपनातापहारिणी ॥ २५ ॥
तापसंतापहरिणी तपनोत्था तपोमयी ।
तापिनी तपनाकारा तपर्तुः सुखकारिणी ॥ २६ ॥
तरंगिणी तरलिनी तरणी तारिणी तरिः ।
स्थेमा स्थिरगतिः स्थात्रीस्थावरोत्था स्थिरोदका ॥ २७ ॥
स्थैर्यकर्त्री स्थिराकारा स्थिरा स्थावरदेवता ।
पूता पूतगतिः पूनलोकपावनकारिणी ॥ २८ ॥
पाविनी पवनाकारा पवमानगुणप्रदा ।
शीतला शीतसलिला शीतलाकृतिवाहिनी ॥ २९ ॥
मन्दा मन्दगतिर्मन्दा मन्दलस्वरपूरणी ।
मन्दाकिनी मदाघूर्णी मन्दमन्दगमोदका ॥ ३० ॥
मीनाढ्या मीनसुखदा मीनकेलिविधायिनी ।
महोर्भिमालिनी मान्या माननीयमहागुणा ॥ ३१ ॥
मरुत्सेव्या मरुल्लोला मरुत्तनृपसेविता ।
इक्ष्वाकुसेविततटा ईक्षाकृतमहोत्सवा ॥ ३२ ॥
ईक्षणीया इक्षुमती इक्षुखण्डरसोदका ।
कर्पूरनीरा कर्पूरा कर्पूरधवलोदका ॥ ३३ ॥
नागकन्या नगारूढा नगराजविभेदिनी ।
पातालगङ्गा पूताङ्गी पूजनीया परापरा ॥ ३४ ॥
पारावारैकनिलया पारावारविहारिणी ।
पारंगता परप्रेमा परप्रीतिविवर्द्धिनी ॥ ३५ ॥
फलूजलाफल्गुजला फाल्गुनस्य वरप्रदा ।
फेनावृता फेनसिता फेनोद्गमनकारिणी ॥ ३६ ॥
फलकारा फलकरी फलिनी फलपूजिता ।
फणीन्द्रफणसंसेव्या फणिकङ्कणभूषिता ॥ ३७ ॥

  • ९७ -
    खराकारा खरतरा खरराक्षसहारिणी ।
    खगेन्द्रभजनीया च खगवंशविवर्द्धिनी ॥ ३८ ॥
    खगारूढाखगैः स्तुत्या खगजा च खगामिनी ।
    १खसाराध्या खसवृता खसवंशैकजीवना ॥ ३९ ॥
    खेलागतिः खलहरा खलतापरिहारिणी ।
    खदिनी खादिनी खेड्या खेदहा खेलकारिणी ॥ ४० ॥
    गणनीया गणैः पूज्या गाणपत्यमहाफला ।
    गणेशपूजिता गण्या गणदुःखनिवारिणी ॥ ४१ ॥
    गुणाढ्या गुणसम्पन्ना गुणगुंफितविग्रहा ।
    गुणनीया गुरुगुणा गुरुपूज्या गुरुद्रवा ॥ ४२ ॥
    गुर्वी गीष्पतिसंसेव्या गिराचार्या गिराश्रया ।
    गिरीन्द्रकन्दरावासा गिरीशसेवितोदका ॥ ४३ ॥
    कोटिचन्द्रमसज्ज्योतिः कोटिचन्द्रमहोज्ज्वला ।
    कटाहभेदनपरा कठोरजवगामिनी ॥ ४४ ॥
    कठशाखापाठरता काठकानां वरप्रदा ।
    काष्ठापरा काष्ठभेदा काष्ठाष्टकविनोदिनी ॥ ४५ ॥
    करवीरप्रसूनाढ्या करवालासितच्छविः ।
    कम्बुश्वेता कम्बुकण्ठा कम्बुभृत्प्राणवल्लभा ॥ ४६ ॥
    धर्माढ्या धर्मशमनी धर्मपाठविनोदिनी ।
    धर्मयोगसुसंतुष्टा घटाकारा घटोदका ॥ ४७ ॥
    घट्टिनी घट्टसुखदा घट्टपालवरप्रदा ।
    घटकोटिसुसम्पन्ना घटाटोपजलोर्मिभृत् ॥ ४८ ॥
    चाञ्चल्यदारिणीन्द्राणी चाण्डालगतिदायिनी ।
    चण्डातपकलेशहरा चण्डा चण्डिममण्डिता ॥ ४९ ॥
    चाम्पेयकुसुमप्रीता चपला चपलाकृतिः ।
    चम्पूग्रन्थविधानज्ञा चञ्चूपुटहृतोदका ॥ ५० ॥
    चंक्रमा चंक्रमकरी चमत्कारविवर्द्धिनी ।
    चर्मकारकुलोद्धारा चर्मा चर्मण्वती नदी ॥ ५१ ॥
    भूमेक्षणसमुद्भूता भूगता भूमिपापहा ।
    भूतलास्था भयहरा विभीषणसुखप्रदा ॥ ५२ ॥
    भूतप्रेतपिशाचघ्नी दुर्गतिक्षयकारिणी ।
    दुर्गमा दुर्गनिलया दुर्गाराधनकारिणी ॥ ५३ ॥
    १ खसाः = पार्वतीयाः - बड़ौ० ।
    १३
  • ९८ -
    दुराराध्या दुःखहरा दुर्गभूमिजयप्रदा ।
    वन्या वनप्रिया वाणी वीणारवविनोदिनी ॥ ५४ ॥
    वाराणसीवासरता वासवी वासवप्रिया ।
    वसुधा वसुधामा च वसुदात्री वसुप्रिया ॥ ५५ ॥
    वसुतेजा वसुपरा वसुवासविधायिनी ।
    वैश्वानरी विश्ववन्द्या विश्वपावनकारिणी ॥ ५६ ॥
    वैश्वानररुचिर्विश्वा विश्वदीप्तिविशाखिनी ।
    विश्वासना विश्वसना विश्ववश्यत्वकारिणी ॥ ५७ ॥
    विश्वावसुप्रियजला विश्वामित्रनिषेविता ।
    विश्वाराध्या विष्णुरूपा वषट्काराक्षरप्रिया ॥ ५८ ॥
    पानप्रिया पानकर्त्री पातकौघप्रहारिणी ।
    नानायुधा नवजला नवीनगतिभूषिता ॥ ५९ ॥
    उत्तरंगगतिस्तारा स्वस्तरूपप्रसार्चिता ।
    तुहिनाद्रिसमुद्भूता तुहिना तुहिनोदका ॥ ६० ॥
    कूलिनी कूलमिलिता कूलपातनतत्परा ।
    कालातिगामिनी काली कालिका कालरूपिणी ॥ ६१ ॥
    कीलालिनी कीलहरा कीलिताखिलपातका ।
    कमला कमलाकारा कमलार्चितविग्रहा ॥ ६२ ॥
    करालकमलावेशा कलिकोल्लासकारिणी ।
    करिणी कारिणी कीर्णा कीर्णरूपा कृपावती ॥ ६३ ॥
    कुलीना कुलवन्द्या च कलनादा कलावती ।
    खगेन्द्रगामिनि खल्या खलीना खलतापहा ॥ ६४ ॥
    स्वलद्गतिः खमार्गस्था खिलाखिलकथानका ।
    खेचरीमुद्रिकारूपा खवेगातिगामिनी ॥ ६५ ॥
    गङ्गाजला गीतगुणा गीता गुप्तार्थबोधिनी ।
    गीयमानगुणग्रामा गीर्वाणा च गरीयसी ॥ ६६ ॥
    गृहापहा ग्रहणकृद्गृह्या गृह्यार्थदायिनी ।
    गेहिनी गलिताघौघा गवेन्द्रगृहगामिनी ॥ ६७ ॥
    गोपीजनगणाराध्या श्रीरामगुणगायिनी ।
    गुणानुबन्धिनी गुण्या गुणग्रामनिषेविता ॥ ६८ ॥
    गुहमाता गुहान्तस्था गूढा गूढार्थबोधिनी ।
    घर्घरारवमुदिता घर्घराघटनाकृतिः ॥ ६९ ॥
  • ९९ -

घटीबन्धैकनिलया घटा घंटालविग्रहा ।
घनाघनस्वना घोरा घनसारसमाकृतिः ॥ ७० ॥
घोषा घोषवती घुष्या घोषेश्वरसुतप्रिया ।
घोरघनाशनकरी घर्मातिभयहारिणी ॥ ७१ ॥
घृणाकरी घृणिमती घृणिघ्राणेन्द्रियप्रिया ।
घ्राता घर्मांशुदुहिता घातिताघा घनाघना ॥ ७२ ॥
चान्द्री चन्द्रमती चन्द्रा चन्द्रिका चन्द्रिकाकृतिः ।
चन्द्रका चन्द्रकाकारा चन्दनालेपकारिणी ॥ ७३ ॥
चन्दनद्रवसंशीता चमत्कृतजगत्त्रया ।
चित्ता चित्तहरा चित्या चिन्तामणिसमाकृतिः ॥ ७४ ॥
चिन्ताहरा चिन्तनीया चराचरसुखप्रदा ।
चतुराश्रमसंसेव्या चतुराननसेविता ॥ ७५ ॥
चतुरा चतुराकारा चीर्णव्रतसुखप्रदा ।
चूर्णा चूर्णौषधसमा चपला चपलाकृतिः ॥ ७६ ॥
छलिनो छलहर्त्री च छलिताशेषमानवा ।
छद्मिनी छद्महरिणी छद्मसर्वविधायिनी ॥ ७७ ॥
छन्ना छन्नगतिश्छिन्ना छिदाकर्त्री छिदाकृतिः ।
छन्नाकारा छन्नजला छन्नपातकहारिणी ॥ ७८ ॥
जयघोषा जयाकारा जैत्रा जनमनोहरा ।
जन्मिनी जन्महरिणी जगत्त्रयविनोदिनी ॥ ७९ ॥
जगन्नाथप्रिया लक्ष्मीर्जम्बूद्वीपसुखप्रदा ।
जम्बालिनी जवगतिर्जपाकुसुमसुन्दरी ॥ ८० ॥
जम्बीररससंतुष्टा जाम्बूनदविभूषणा ।
जटाधरा च जटिला जम्भारिकरपूजिता ॥ ८१ ॥
जंगमा जितदैतेया जित्वरा जयवर्द्धिनी ।
जीवान्तरगतिर्जीव्या जीवाकर्षणतत्परा ॥ ८२ ॥
ज्यानिनादैकमुदिता जरानाशनतत्परा ।
जलाश्रया जलकरी जालिनी जालवर्तिनी ॥ ८३ ॥
जीमूतवर्षिणी जारा जारिणी जारवल्लभा ।
झञ्झारवा झणत्कारा झंझंरारवकारिणी ॥ ८४ ॥
झिल्लीनिनादमुदिता झल्लरीनादतोषिणी ।
झरी झर्झरिकारूपा झांकाररवकारिणी ॥ ८५ ॥

  • १०० -
    टांकारिणी टंकहस्ता टापिनी टापगामिनी ।
    टंटंनिनादमुदिता ठंठंशब्दप्रबोधिनी ॥ ८६ ॥
    ठकुरा ठक्कुराज्ञा च ठंठनिनदकारिणी ।
    डमरूवादनपरा डकाडांकारकारिणी ॥ ८७ ॥
    डाकिनी डामराचार्या१ डमडुमरवोत्कटा ।
    ढक्का ढकारवाढ्या च ढुंढाढुंढरवासिनी ॥ ८८ ॥
    ढुंढिपुरणदक्षा च ढुंढिराजप्रपूजिता ।
    तत्ता तता महाताता तेजिनी तेजसान्विता ॥ ८९ ॥
    तोयान्विता तोयकरी तटपातनकारिणी ।
    तरुणी तरुसंछन्ना तलशीतलनीरणी ॥ ९० ॥
    तुलसीसौरभाढ्या च तुलारहितरूपिणी ।
    तन्त्री तवममाकारा तपस्या तपसि स्थिता ॥ ९१ ॥
    थेईथेईशब्दरता थंथंशब्दसुखावहा ।
    दयावती दुःखहरा द्राविणी द्रवदेवता ॥ ९२ ॥
    दीनदारिद्र्यहरिणी दमिनी दमकारिणी ।
    दूरागता दूरगता दूरिताशेषपातका ॥ ९३ ॥
    दुर्वृत्तघ्नी दैत्यहरा दारिणी दावहारिणी ।
    देवदारुवनप्रीता दोषघ्नी दीप्तिकारिणी ॥ ९४ ॥
    दीपमाला द्वीपचारा दुरिता दुरितापहा ।
    धन्या धनवती धीरा धामती धेनुमण्डिता ॥ ९५ ॥
    धयिनी धारिणी धात्री धात्रीतरुफलाशिनी ।
    धाराधारा धराकारा धराधरविचारिणी ॥ ९६ ॥
    धाविनी धावनकरी धनेश्वरवरप्रदा ।
    धर्मप्रदा धर्मरता धार्मिका धार्मिकप्रिया ॥ ९७ ॥
    धर्मार्थकाममोक्षाख्या धमनी धमनीगतिः ।
    धत्तूरफलसम्प्रीता धृताध्यानपरा धृतिः ॥ ९८ ॥
    धारणा धीरंधराधीशा धीगम्या धारणावती ।
    नम्या नमोनमःप्रीता नर्मा नर्मगतिनर्वा ॥ ९९ ॥
    नीरजाक्षी नीरवहा निम्नगा निर्मलाकृतिः ।
    नारायणी नरप्रज्ञा नारी नरकहारिणी ॥ १०० ॥
    नवीना नवपद्माभा नाभीष्टगतिदापिनी ।
    नगोद्भवा नगारूढा नागलोकातिपाविनी ॥ १०१ ॥
    १. डामरस्तन्त्रविशेष टि०-बड़ौ० ।

– १०१ –
नन्दिनी नादिनी नादा निन्दानादविवर्जिता ।
नागरी नागरप्रीता नागराजप्रपूजिता ॥ १०२ ॥
नागकेसरमालाढ्या नागेन्द्रमदगन्धिनी ।
पूर्णिमा परमाकारा परापर विवेकिनी ॥ १०३ ॥
प्रभातिनी प्रभावन्धा ( न्ध्या ) प्रभासा पुरुषेष्टदा ।
पुरुषार्थप्रदा पूता पंक्तिपावनकारिणी ॥ १०४ ॥
फलाढ्या फलदात्री च फणीन्द्रवरदायिनी ।
फालिनी फलपुष्पाङ्गा फाल्गुनस्फीतकीर्तिदा ॥ १०५ ॥
बलिपूज्या बलिहिता बलदेवप्रपूजिता ।
बाला बालरविप्रख्या बालरामगुणप्रदा ॥ १०६ ॥
बलाकिनी बहुलगा बहुला बहुलाभदा ।
बाहुक्रीडामहोर्मिश्च बर्हीबाहुलमासगा ॥ १०७ ॥
भाविता भावुककरी भर्मदा भर्गपूजिता ।
भवहर्त्री भवप्रीता भवानी भुवनाह्वता ॥ १०८ ॥
भूतिकर्त्री भूतिहर्त्री भूतिनी भूतसेविता ।
भूधरा भूधरोद्भेदा भूतनाथार्चितोदका ॥ १०९ ॥
भूरितोया भूचरी च भूपतिप्रियकारिणी ।
मनोरमा महोत्साहा महनीया महात्मिका ॥ ११० ॥
माहात्म्यवर्द्धिनी मोहा मोदिनी मोहनाशिनी ।
मुग्धा मुग्धगतिर्मध्या मध्यलोकप्रियावहा ॥ १११ ॥
मधुरा मधुरालापा मधुरापतिवल्लभा ।
माधुर्यवारिधिर्माध्वी माध्वीककुसुमोत्कटा ॥ ११२ ॥
मधूकपुष्पमुदिता मदिरारसघूर्णिता ।
मादिनी मालतीमालामल्लीमाल्यप्रपूजिता ॥ ११३ ॥
मन्दारपुष्पपूज्या च मन्दा मन्दाकिनीप्रिया ।
मन्दराचलसंस्थाना मन्दिरान्तरमोदिनी ॥ ११४ ॥
यवसावलिसम्भिन्ना यमुनाजलकेलिनी ।
यमभीतिप्रशमिनी यमिनीयमिनां हिता ॥ ११५ ॥
योगमार्गप्रदा योग्या योगाचार्य प्रपूजिता ।
योक्त्री योगबलप्रीता योगिकार्थप्रकाशिनी ॥ ११६ ॥
यादवेन्द्रमनोरम्या यादोवरविभूषिता ।
यत्तत्पदार्थरूपा च यास्काचार्यहितप्रदा ॥ ११७ ॥