भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
भोजनकुतूहले
डङ्गरी शीतला रुच्या दाहपित्तास्रदोषजित् ।
शोषहत्तर्पणी गौर्या जाड्यहा मूत्ररोधनुत् ॥
तथा—
बालं डङ्गरिकाफलं सुमधुरं शीतं च पित्तापहं
तृष्णादाहनिबर्हणं च रुचिकृत् सन्तर्पणं पुष्टिदम् ।
वीर्योन्मेषकरं लघु प्रबलदं भ्रान्तिभ्रमिध्वंसनं
पक्वं चेत्कुरुते तदेव मधुरं तद्दाहरक्तं गुरु ॥
देवडांगरें ।
हृद्यं दाहश्रमविशमनं मूत्रवृद्धिं च दत्ते
पित्तोन्मादापहरणकरं षड्भुजं वीर्यकारि ।
तिक्तं बाल्ये तदनु मधुरं किञ्चिदम्लं च पाके
निष्पक्वं चेत्तदमृतसमं तर्पणं पुष्टिदायि ॥
षड्भुजाकर्कटी, मालवे प्रसिद्धा ।
कर्कटी मधुरा शीता तिक्ता च कफपित्तजित् ।
रक्तदोषकरा पथ्या मूत्ररोषार्तिनाशिनी ॥
किञ्च—
मूत्रावरोधशमनं बहुमूत्रकारि
कृच्छ्राश्मरीप्रमथनं विनिहन्ति पित्तम् ।
वान्तिघ्नमक्षबहुदाहनिवारि रुच्यं
श्लेष्मापहं लघु च कर्कटिकाफलं स्यात् ॥
१. Bh. adds:— काळा भोंपळा इति भाषायाम्
२. T2 adds the explanation तदनु तारुण्ये । किञ्चिदम्लं स्वल्प-
तिक्तम् ।
३. J1 पक्वा ।
४. Bh. मधुकर्कटी P1 P2 T1 T2 omit this word.
प्रथमपरिच्छेदः ।
त्रपुसस्य फलं रुच्यं मधुरं शिशिरं गुरु ।
भ्रमपित्तविदाहार्तिवान्तिहृद् बहुमूत्रदम् ॥
तौसीकाकडी, कोंकणे प्रसिद्ध ।
एर्वारुकं पित्तहरं सुशीतलं मूत्रामयघ्नं मधुरं रुचिप्रदम् ।
सन्तोषमूर्च्छापहरं च तृप्तिदं वातप्रकोपाय घनं सुसेवितम् ।
मलांचें वाळुक ।
वाळुकी मधुरा शीताश्माना हृद्या श्रमापहा ।
शारदचिर्भिट ।
बाल्ये तिक्ता चिर्भिटी किञ्चिदम्ला
गौड्योपेता दीपनी सा च पाके ।
शुक्लातिक्ता श्लेष्मवातारुचिघ्नी
जाड्यघ्नी सा रोचनी दीपनी च ॥
भेलसेद ।
मृगाक्षी कटुका तिक्ता पाकेऽम्ला वातनाशिनी ।
पित्तकृत्पीनसहरा दीपनी रुचिकृत्परा ॥
सेन्दणी ।
चीनकर्कटिका रुच्या शिशिरा पित्तनाशिनी ।
मधुरा तृप्तिदा हृद्या दाहशोफापहारिणी ॥
पटोलसदृश वाळुक ।
डिण्डिशोरुचिकृद्भेदी पित्तश्लेष्मापहः स्मृतः ।
सुशीतो वातलो रूक्षो मूत्रलश्वाश्मरीहरः ॥
दिंडसें³ ।
१. T२. Bh. add the expanation: शुक्ला अतिपक्वा । अतिक्ता
निःशेषगततिक्तरसा, अतिमधुरेत्यर्थः ।
२. P१ P २. पित्तहृत् ।
३. P1. दिंडसे P2. डिन्डसे , J1. दिण्डसे ।
८० भोजनकुतूहले
कुम्भतुम्बी समधुरा शिशिरा पित्तनाशिनी ।
गुरुस्सन्तर्पणी रुच्या वीर्यपुष्टिबलप्रदा ॥
गोरखतुंबी ।
तुम्बी समधुरा स्निग्धा पित्तघ्नी गर्भपोषकृत् ।
वृष्या वातप्रदा चैव बलपुष्टिविवर्धिनी ॥
दूधभोंपळा ।
भूतम्बी कटुकोष्णा च सन्निपातापहारिणी ।
दन्तार्गळं दन्तशोथं धनुर्वातं च नाशयेत् ॥
भोंबतूंबी ।
कलिङ्गो मधुरश्शीतो दाहपित्तश्रमापहः ।
वृष्यस्सन्तर्पणो बल्यो वीर्यपुष्टिविवर्धनः ॥
कलिङ्गडे ।
खर्बुजं मूत्रलं बल्यं कोष्ठशुद्धिकरं गुरु ।
स्निग्धं स्वादुतरं शीतं वृष्यं पित्तानिलापहम् ॥
तेषु यच्चाम्लमधुरं सक्षारं च रसाद्भवेत् ।
रक्तपित्तकरं तत्तु मूत्रकृच्छ्रकरं परम् ॥
खर्बूज् ।
हस्तिकोशातकी स्निग्धा मधुराष्मानवातकृत् ।
वृष्या क्रिमिहरा चैव व्रणसंरोपणी परा ॥
तथा —
कोशातकी राजपदाप्रपूर्वा मदालये पित्तगदे च युक्ता ।
श्रमे क्लमे मेहभगन्दरे च व्रणेषु पित्तेष्वपि नित्यपथ्या
पारसादोडका ।
१. T2. adds पत्रा भोपला । Bh. पत्रा भोंपळा पर्वतीया ।
३. Bh. adds कटु भोंपळा ।
प्रथमपरिच्छेदः । ८१
शिराकोशातकी पित्तशमनी क्षुत्तृषापहा ।
मेहे हिता सदा पथ्या पित्तच्छर्द्दिविनाशिनी ॥
शिरादोडका ।
फलानि माषवद्विद्यात् काकाण्डालात्मगुप्तयोः ।
कुहिरीद्वय ।
पटोली स्वादुपित्तघ्नी रुचिकृज्ज्वरनाशिनी ।
बलपुष्टिकरा पथ्या ज्ञेया दीपनपाचनी ॥
पटोली ।
तथा —
पटोलपत्रं पित्तघ्नं नाळं तस्य कफापहम् ।
फलं त्रिदोषशमनं मूलं च स्याद्विरेचनम् ॥
¹चतुरङ्गपरवरें ।
²चिचिण्डो वातपित्तघ्नो बल्यः पथ्यो रुचिप्रदः ।
शोषिणोऽतिहितः किञ्चिद्गुणैर्न्यूनः पटोलतः ॥
पटवलेम् ।
असिशिम्बी तु मधुरा कषाया श्लेष्मपित्तजित् ।
व्रणदोषापहन्त्री च शीतला रुचिदायिनी ॥
³खङ्गशिंबी ।
निष्पावौ द्वौ हरिच्छुभ्रौ कषायमधुरौ रसे ।
कण्ठशुद्धिकरौ मेध्यौ दीपनौ ⁴रुचिकारकौ ॥
सङ्ग्राहि समवीर्य स्यादीपच्छ्रेष्ठं द्वितीयकम् ।
दोन्हीघेवडे ।
१. All mss. other than J1. read only पखरें ।
२. T2. चिञ्चिटो.
३. P1. P2. T1. J1. खडशिंबी.
४. T2. रुचिदायकौ •
भोजनकुतूहल
अलसान्द्रफलं स्वादु कषायं कफवातजित् ।
विष्टम्भ्यरुच्यं रूक्ष्यं च वह्निमान्द्यकरं गुरु ॥
च्यवलीच्या सेंगा ।
रूक्षातिपित्तकृद् गुर्वी वातला गौरवांकुची ।
तिक्ता नोदरिणां पथ्या ग्रहण्यर्शोविकारिणाम् ॥
वाकुची, गोवारी ।
शीतं शिग्रुफलं वृष्यं पिच्छलं श्लेष्मलं गुरु ।
दीपनं वातपित्तघ्नं वर्ण्यं दुर्नाममेहजित् ॥
शिग्रुफलं श्वेतम् ।
शिग्रु रक्तं कटु स्निग्धं स्वादु तीक्ष्णं हिमं गुरु ।
चक्षुष्यं स्तन्यकृद् वृष्यं बृंहणं बस्तिशोधनम् ॥
मेदोगुल्मोदरश्वासवैस्वर्यकृमिशोफजित् ॥
रक्तशिग्रु ।
वातादिदोषनुद्बल्यं मूलं तस्योष्णमग्निकृत् ।
शिग्रुमूलम् ।
शिग्रुपुष्पं गुरु हिमं पित्तश्लेष्मकृमिप्रणुत् ।
चक्षुष्यं शुक्रलं रुच्यं बृंहणं दीपनं सरम् ॥
इति शिग्रुः ।
आगस्त्यं तरुणं रुच्यं बालं पित्तकफक्रिमीन् ।
हन्ति चक्षुर्व्रणे शस्तं मध्यमं कुसुमं लघु ॥
अगस्त्यफलपुष्पगुणाः ।
१. T₂. वातकृत् .
२. J₁. omits this verse.
३. P₁. Bh. अग्निजित् .
४. J₁. omits this line.
प्रथमपरिच्छेदः । ९१
पनसस्य फलं बालं कषायं मधुरं गुरु ।
मेदःश्लेष्मकरं बल्यं तृड्दाहानिलपित्तजित् ॥
लवणादियुतं रुच्यं मध्यपक्वं तथा गुरु ।
फणस अपक्व ।
पनसं मधुरं सुपिच्छलं गुरु हृद्यं बलवीर्यवृद्धिदम् ।
श्रमदाहविशोषनाशनं रुचिहृद् ग्राहि च दुर्जरं परम् ॥
पक्वपनस ।
ईषत्कषायमधुरं तद्बीजं वातलं गुरु ।
तत्फलस्य विकारघ्नं रुच्यं त्वग्दोषनाशनम् ॥
तथा --
मज्जा पनसजो वृष्यो वातपित्तकफावहः ।
पनसबीज ।
विशेषात्पनसं वर्ज्यं गुल्मिभिर्मन्दवह्निभिः ।
१. Bh. adds after फणसः --
मदनपालनिघण्टौ --
पनसं शीतलं पक्वं स्निग्धं पित्तानिलापहम् ।
बल्यं शुक्रप्रदं हन्ति रक्तपित्तक्षतक्षयान् ॥
आमं तदेव विष्टम्भि वातलं तुवरं गुरु ।
पनसोद्भूतबीजानि वृष्याणि मधुराणि च ॥
गुरूणि बहुवर्चांसि सृष्टमूत्राणि तानि च ।
मधुरास्तस्य पित्तघ्नाः वृष्याः श्लेष्मानिलापहाः ॥
२. P1. सुपिच्छलत्, T2. सुपिच्छलम् ·
३. P1; P2. रुचिकृत् ।
८४ भोजनकुतूहले
अथ पनसावर्तः ।
पनसस्यातिपक्वस्य मज्जा कटविभावितः ।
घर्मशुष्कमिमं प्राहुः पनसावर्तमित्यथ ॥
तद्गुणाः फलवत्किञ्चिल्लघुता गुणयोगतः ॥
फनस पोळी ।
लकुचः क्षुद्रपनसो लकुजो डहुरित्यपि ।
आमं लकुचमुष्णं च गुरु विष्टम्भकृत्तथा ॥
मधुरं च तथाम्लं च दोषत्रितयरक्तकृत् ।
शुक्राग्निनाशकं चापि नेत्रयोरहितं स्मृतम् ॥
सुपक्वं तत्तु मधुरमम्लं चानिलपित्तकृत् ।
कफवृद्धिकरं रुच्यं वृष्यं विष्टम्भकं च तत् ॥
बडहर ।
तुण्डी तु मधुरा पित्तश्वासकासकफापहा ।
असृग्ज्वरहरा रम्या कासजिद् गृहबिम्बिका ।
गोडतोण्डली ।
तिक्ता स्वादुहिमा बिम्बी वातपित्तास्रशोफजित् ।
छर्दिनी कामलापाण्डुश्वासशोफज्वरापहा ॥
कडुतोंडली ।
कारवल्ली सुतीक्ष्णोष्णा दीपनी कफवातजित् ।
अरोचकहरा चैव रक्तदोषकरी च सा ॥
कारवेल्लं सरं हृद्यं दीपनं कफपित्तजित् ।
तिक्तं रुच्यं ज्वरश्वासकासगुल्महरं लघु ॥
१ J1. ० नास्ति अथ पनसावर्तः ...... फनस पोळी ।
२ P1 ण्डी मधुरा P2 तुण्डी तन्मधुरा ।
३ P1 P2 ... गोडतोण्डली ।
प्रथमपरिच्छेदः । ८५
तथा —
महावल्ली.बद्धविक्का खाठ्ठी गुर्व्यग्निपित्तजित् ।
श्वेतवल्ली विषहरा प्रसूतिक्रेशनाशिनी ॥
तथा —
तीक्ष्णोष्णं दोषजङ्गल्यं कारवेल्लं विषापहम् ।
प्रसेकश्वासकासार्शःकृमिक्कुष्ठज्वराञ्जयेत् ॥
कारली ।
कर्कोटकी कटूष्णा च तिक्ता विषविनाशिनी ।
वातघ्ना पित्तहृच्चैव दीपनी रुचिकारिणी ॥
करतोली ।
कडुहुञ्ची कटूष्णा च तिक्ता च रुचिकारिणी ।
दीपनी योनिदोषघ्नी गर्भस्रावविषापहा ॥
कडुहुञ्ची ।
स्वादुपाकरसं शीतं पिच्छलं वातपित्तजित् ।
श्लेष्मलं सृष्टविण्मूत्रमनक्ष्यं गुरु बृंहणम् ॥
स्थौल्यं वृष्यं क्रिमिकरं महन्महत्तिकाफलम् ॥
थोरवांगे ।
──────────────────────────
१. J₁. कारवली ।
२. J₁. Revisor adds in the margin on this subject :—
सर्व्ररोगहरं पथ्यममृतं बृंहणं लघु ।
कर्कोटकीफलं रुच्यं मधुरं तन्त्रिदोषनुत् ॥
ब्रह्मा निर्मथ्य देवानाममृतं दत्तवान् पुरा ।
मर्त्यानामिह कर्कोटीफलं दत्त्वाऽभवत्सुखी ॥
न्तरे —
हृद्यं रोचनमग्निदीपनकरं कर्कोटकीनां फलं
चक्षुष्यं व्रणिनां हितं क्षयवतां गुल्मातुराणामपि ।
कासश्वासहरं प्रमेहदमनं शोषत्रयध्वंसनं
किञ्चित्तिक्तरसं ज्वरप्रमुदितं रोगेषु चात्तैं हितम् ॥ .
भोजनकुतूहले
'कोमलं नीलवृन्ताकं मधुरं बृंहणं गुरु ।
पित्तघ्नं प्रीणनं जाड्यं विष्टम्भि कफवातकृत् ॥
नीलवृन्ताकं ।
त्रिदोषशमनं पथ्यं सुस्वादु कटु दीपनम् ।
सर्वव्याधिहरं हृद्यमुष्णं वार्तारिकाफलम् ॥
डोरलीवांगी ।
रुच्यं स्वयं ज्वरश्वासकासार्शस्सर्वरोगजित् ।
हृद्यं कटु रसे पाके क्षुद्रं वार्त्ताकिकाफलम् ॥
सूक्ष्मवांगी ।
चित्रफला कण्टकिनी महती कट्फला तथा ।
मिश्रवर्णफला नीलफळा रक्तफळा तथा ॥
शाकश्रेष्ठा रक्तफळा नृपप्रियफला तथा ।
वार्त्ताकी कटुका रुच्या मधुरा पित्तनाशिनी ।
बलपुष्टिकरी हृद्या गुरुर्वातेषु निन्दिता ॥
सर्ववांगी ।
बालं पथ्यं त्रिदोषघ्नं मध्यमं पित्तवर्धनम् ।
पक्वं श्लेष्मकरं विद्यात् समस्तं बृहतीफलम् ॥
डोरली ।
विज्ञेया श्वेतबृहती वातश्लेष्मविनाशिनी ।
श्वेतडोरली ।
कण्टकारी कटूष्णा च दीपनी श्वासकासनुत् ।
प्रतिश्यायार्त्तिदोषघ्नी कफवातज्वरार्त्तिनुत् ॥
रिङ्गणी ।
१. J₁. omits डोरलीवांगी and the next verse, possibly due
to the scribe.
J₁. वृत्तफला ।
प्रथमपरिच्छेदः ।
लवणमरिचचूर्णैनावृतं रामठाढ्यं
दहनवदनपक्वं कञ्चुकान्तं नितान्तम् ।
हरति पवनसङ्गं श्लेष्महन्तृ प्रसिद्धं
जठरभरणयोग्यं चारुभोज्यं भरित्रम् ॥
अन्यत्र —
वृन्ताकं पित्तलं किञ्चिदङ्गारपरिपाचितम् ।
कफभेदानिलामघ्नमत्यर्थं लघु दीपनम् ।
तदेव हि गुरु स्निग्धं सतैलं लवणान्वितम् ॥
भरीत ।
अपरं श्वेतवृन्ताकं कुक्कुटाण्डसमं भवेत् ।
तदर्शस्सु विशेषेण हितं हीनं च पूर्वतः ॥
श्वेतवृन्ताक ।
भेण्डा त्वम्लरसा सोष्णा ग्राहिका रुचिकारिका ।
भेण्डी ।
अथ कदली ।
तत्र —
बालं फलं मधुरमल्पतया कषायं
पित्तापहं शिशिररुच्यमथापि नालम् ।
पुष्पं तदप्यनुगुणं क्रिमिहारि कन्दं
पर्णं च शूलशमनं कदलीभवं स्यात् ॥
किञ्च —
रम्भापक्वफलं कषायमधुरं बल्यं च शीतं तथा
पित्तास्रप्रविमर्दनं गुरुतरं पथ्यं न मन्दानले ।
१. T1; J1. कफमेदानिला, Bh. कफमेदोऽनिला ।
२. J1. पित्तं चास्रविमर्दनम् ।
२२ भोजनकुतूहल
सद्यः शुक्रविवृद्धिदं कृमिहरं तृष्णापहं कान्तिदं
दीप्ताग्नौ सुखदं कफामयहरं सन्तर्पणं जर्जरम् ॥
महारम्भाफलं शीतं तुष्टिपुष्टिकं गुरु ।
रक्तपित्तहरं वृष्यं तीव्राग्नीनां प्रशस्यते ॥
महाकदळी ।
स्यात्काष्ठकदली रुच्या रक्तपित्तहरा हिमा ।
गुरुर्मन्दाग्निजननी दुर्जरा मधुरा परा ॥
कटकेळी ।
सुवर्णमोचा मधुरा हिमा च बाल्याऽशने दीपनकारिणी च ।
तृषापहा दाहविमोचनी च कफापहा वृष्यकरी गुरुश्च ॥
तथा —
क्षुद्रं रम्भाफलं शीतं स्वादुपाकरसं गुरु ।
पित्तप्रदरदाहघ्नं वृष्यं नात्यर्थदीपनम् ॥
सोनकेळी ।
गिरिकदली हिममधुरा बलवीर्यविवृद्धिदायिनी रुचिरा ।
हृत्पित्तदाहशोषप्रशमनकरी दुर्जरा च गुरुः ॥
बॅनकढळी ।
कृष्णं रम्भाफलं रुच्यं कषायमधुरं तथा ।
मेहं पित्तं तृषां हन्ति बृंहणं वातलं लघु ॥
कौळकेळि ।
१. J1. कफामयकरम् ।
२. All Mss. other than J1 omit this name.
३. J1. रुच्या ।
४. All Mss. other than J1. omit this name.
५. All Mss. other than J1. omit this name.
प्रथमपरिच्छेदः
सुगन्धा कृष्णरम्भा च शैलरम्भा यथोत्तरम् ।
निन्दिताः फलमासं तु कषायं मधुरं गुरु ॥.
रम्भाफलत्वक्कटुका तिक्ता पित्तहरा लघुः ।
इति कदलीगुणाः ।
करमर्दस्सस्तिक्ताम्लो बालो दीपनदाहकः ।
पक्वस्त्रिदोषशमनो रुचिरो विषनाशनः ॥
करवंदें ।
कषायमधुरो रूक्षस्तिन्दुकश्श्लेष्मकारकः ।
संग्राही दुर्जरो जिह्वाजाड्यकारी जडो गुरुः ॥
टेंभरूं ।
अश्वत्थवृक्षस्य फलानि पथ्या-
न्यतीव हृद्यानि सुशीतलानि ।
निहन्ति पित्तं सह शोणितेन
दाहं तृषां छर्दिररोचकं च ॥
पिंपरे ।
औदुम्बरं फलमतीव सुशीतलं च
सद्यो निवारयति शोणितपित्तमुग्रम् ।
पथ्यं विषे विषमपित्तशिरोविकारे
नासाप्रवृत्तरुधिरे च विशेषतस्तु ॥
तथा —
औदुम्बरं कषायं स्यात् पक्वं तु मधुरं हिमम् ।
क्रिमिहृत् पित्तरक्तघ्नं मूर्च्छादाहतृषापहम् ॥
उंबरें ।
१. Bh. adds after this;
रम्भासारश्शीतलो नातितिक्तो
तृड्दाहघ्नो मूत्रकृच्छ्रातिसारम् ।
मेहान् हन्ति स्फोटकं वातपित्तं
रक्तस्रावं सोमरोगं निहन्ति ॥ इति कदलीसारगुणाः
1081
९० भोजनकुतूहले
॰मुष्ककः कटुकोऽम्लश्च रोचनः पाचनः परः ।
॰प्लीहगुल्मोदरार्तिघ्नो द्विधा तुल्यगुणान्वितः ॥
मोंखें
श्लेष्मान्तकः कटुस्तिक्तो मधुरः कषायः
स्वादुश्च पाचनकरः कृमिशूलहारी ।
आमाशयदोषमलरोधबहुव्रणार्ति-
विस्फोटशान्तिकरणः कफहारणश्च ॥
तथा —
केयस्सतिक्तो रूक्षोष्णो मधुरस्तुवरः कटुः ।
विषवीसर्पविस्फोटव्रणपित्तकफापहः ॥
फलं तु मधुरं तिक्तं शीतलं वातलं लघु ।
कषायं कटुकं पाके अभिष्यन्दिकफापहम् ॥
तत् पक्वं मधुरं स्निग्धं केवलं शीतलं गुरु ।
विष्टम्भि बृंहणं रुच्यं वातपित्तकफापहम् ॥
गोंकरें सेळवंटी
भूर्कचुदारो मधुरः क्रिमिदोषनिवारणः ।
वातप्रकोपनः किञ्चिच्छीतलः स्पर्शमारकः ॥
गोधणी
अथ नारिकेलः ।
नारिकेळो गुरुस्स्निग्धः शीतः पित्तविनाशनः ।
अर्धपक्वस्तृषाशोषशमनो दुर्जरः परम् ॥
नारेळ ।
१. P1. P2. T2. add the explanation द्विधा-- पक्वोऽपक्वश्च ।
२. J1. कफकारणश्च ।
३. P1, P2. भूर्कचूरोऽतिमधुरो ।
प्रथमपरिच्छेदः । २१
मधुरं मधुनालिकेरमुक्तं शिशिरं दाहतृषार्तिपित्तहारि ।
बलपुष्टिकरां च कान्तिमुख्यां कुरुते वीर्यविवर्धनं च रुच्यम् ॥
किञ्च —
माध्वीकं नारिकेलैकं चातिमधुरं दुर्जरं जन्तुकारि
स्निग्धं वातातिसारप्रशमनमथ शंसनं वह्निदीप्तेः ।
आमश्लेष्मप्रकोपं जनयति कुरुते चारु कान्तिं बलं च
स्थैर्यं देहस्य धत्ते बहुशुक्लविवर्धनं पित्तनाशि ॥
मोह कोङ्गणे प्रसिद्धः ।
कबूरं नारिकेलस्य स्निग्धं गुरु च दुर्जरम् ।
दाहविष्टम्भदं रुच्यं च वीर्यबलवर्धनम् ॥
खोंबरें
[इति नारिकेलः ।]
पूगं गुरु हिमं रूक्षं कषायं कफपित्तहृत् ।
मोहनं दीपनं रुच्यमास्यवैरस्यनाशनम् ॥
आर्द्रं तद् गुरुभिष्यन्दि दृष्टिहृद् दृष्टिदोषहरं स्मृतम् ।
स्विन्नं दोषत्रयच्छेदि कषायं तदुद्धृतम् ॥
पूगफल ।
सिन्दोळं कफवातपित्तशमनं रक्तातिसारापहं
पामारक्तकदरामशमनं तीव्राशरोभेदनम् ।
हृद्रोगेषु हितं सदा बलकरं कामाग्निसन्दीपनं
कासदीर्घविरेचने ज्वरगदे शस्तं च सिन्दीफलम् ॥
सिन्दोळी ।
ईषत्कषायमधुरा वातपित्तनिबर्हिणी ।
बल्या वृष्या च हृद्या च विशेषादुत्तती गुरुः ॥
उत्तती ।
१. J1. कफपित्तकृत् ।
९२ भोजनकुतूहले
खर्जूरो रक्तपित्तं शमयति मधुरः स्वादुपाकेऽतिशीत-
स्तृष्णाशोषापहन्ता विषममदरुजाश्वासहिध्मापनोदी ।
स्निग्धो वृष्यो बलासं जनयति सुतरां सेविताश्चाग्निहन्ता
रुच्यो हृद्यो नितान्तं श्रमजनितरुजं हन्ति सन्तर्पणेन ॥
खर्जूर ।
दाहघ्नो मधुरोऽसृपित्तशमनस्तृष्णातिशोफापहः
स्निग्धः श्वासकफभ्रमोदयहरः सन्तर्पणः पुष्टिदः
वह्नेर्मान्द्यकरो गुरुर्विषहरो हृद्यश्च दत्ते बलं
स्निग्धो वीर्यविवर्धनश्च कथितः पिण्डाख्यखर्जूरकः ॥
पेंण्डखर्जूर ।
दाडिमं मधुरमम्लकषायं कासवातकफपित्तविनाशि ।
ग्राहि दीपनकरं च लघूष्णं शीतलं श्रमहरं रुचिदायि ॥
दाडिमं द्विविधमीरितमार्यैरम्लमेकमपरं मधुरं च ।
तत्र वातकफकारि किलाम्लं तापहारि मधुरं लघु पथ्यम् ॥
दाडिम ।
द्राक्षातिमधुराम्ला च शीतपित्तादिदाहजित् ।
मूत्ररोधहरा रुच्या वृष्या सन्तर्पणी परा ॥
द्राक्षे ।
गोस्तनी मधुरा शीता हृद्या च मदहारिणी ।
दाहमूर्च्छाज्वरश्वासतृष्णाहृल्लासनाशिनी ॥
गोस्तनी ।
१. J1. has this verse as follows
दाहघ्नी मधुरास्रपित्तशमनी तृष्णातिशोफापहा
स्निग्धाश्वासकफभ्रमोदयहरा सन्तर्पणी पुष्टिदा ।
वह्नेर्मान्द्यकरी गुरुर्विषहरा हृद्या च दत्ते बलं
स्निग्धा वीर्यविवर्धिनी च कथिता पिण्डाख्यखर्जूरीका ॥
पिण्डखर्जूरी ।
२. J1. शीतपित्तादिदाहजित् P1, P2. शीतपित्तातिदाहजित् ।
३. J1. omits this verse.
-like mark?
Look at footnote 6 at the bottom:
६. J1. omits this verse; P1, P2. आमं तु कैतकं रुच्यं Bh; आमं तु कौतकं रुच्यं ।
So the mark in line 15 is indeed footnote ६!
Line 16:
भ्रमप्ररोचकं हृद्यं श्रमक्लमनिबर्हणम् ॥
Wait, is the first word भ्रमप्ररोचकं or अन्नप्ररोचकं?
Look closely at line 16, first word:
अन्नप्ररोचकं!
Look at the first character: it is अ, followed by न्न: अन्नप्ररोचकं!
Compare अ in अपि च (line 9) and आमं (line 15).
It has the left shape of अ, and a conjunct न्न!
अन्नप्ररोचकं makes 100% sense ("appetizing", increasing relish for food - अन्नप्ररोचकं हृद्यं)!
भ्रमप्ररोचकं would mean "causing delusion", which is nonsense alongside हृद्यं श्रमक्लमनिबर्हणम्!
So it is definitely: अन्नप्ररोचकं हृद्यं श्रमक्लमनिबर्हणम् ॥!
Line 17:
`पक्वं तु पित्तह
५४ भोजनकुतूहले
अमृतफलं लघु वृष्यं सुस्वादु त्रीन् हरेद्दोषान् ।
देशेषु मुद्रलानां बहुलं तल्लभ्यते लोकैः ॥
अमृतफल ।
· अथ बदराणि ।
बदरं मधुरं कषायमम्लं परिपक्वं मधुरमल्पमुष्णमेव ।
कफकृत् पवनातिसाररक्तश्रमदोषार्तिविनाशनं च रुच्यम् ॥
इति साधारण्येन ।
राजबदरस्सुमधुरः शिशिरो दाहार्तिपित्तवातहरः ।
वृष्यश्च वीर्यवृद्धिं कुरुते शोषश्रमानपहर्ति ॥
राजबोरें ।
भूबदरी मधुराम्ला कषाया विकारहारिणी पथ्या ।
दीपनपाचनकर्त्री क्षतजपित्तास्रहारिणी रुच्या ॥
भूबदरी ।
लघुबदरं मधुराम्लं पक्वं कफवातनाशनं रुच्यम् ।
स्निग्धं च जन्तुकारकमपीषद्विदाहिदाहशोषघ्नम् ॥
क्षुद्रबदरम् ।
पत्रं तु बादरं लेपे ज्वरदाहविनाशनम् ।
त्वचा विस्फोटशमनी बीजं नेत्रास्रदापहम् ॥
बदरपत्रादिगुणाः ।
बीजपूरफलमम्लकदूष्णं श्वासकासशमनं पवनघ्नम् ।
कण्ठशोधनकरं लघु हृद्यं दीपनं च रुचिकृत्पचनं च ॥
बालं पित्तमरुत्कफप्रदफलं मध्यं च तादृग्विधं
पक्वं वर्णकरं च हृद्यमथ तत् पुष्णाति पुष्टिं बलम् ।
· १. J1. अथ बदरगुणाः ।
२. T2. श्रमान् हरति ।
प्रथमपरिच्छेदः । ९५
शूलाजीर्णविकल्पमानलवथश्वासान्नि मन्दान्ग्निजत्
कासारोचकशोकशान्तिविहितं स्यान्मातुलुङ्गं सदा ॥ •
त्वक् तिक्ता दुर्जरा स्वादु कृमिकफपवनध्वंसिनी स्निग्धमुष्णां
मूलं पित्त (प्रकोप) शमनमखिलारोचकघ्नं च गौह्ययम् ।
वातार्ति कण्ठदाहं जठरगदहरं केसरं दीपनमम्लं
बीजं तिक्तं कफार्श:क्षयधुशमकं बीजपूरस्य पथ्यम् ॥
माहोळुङ्ग ।
अम्लः कटूष्णो वनबीजपूरो रुचिप्रदो वातविनाशनश्च ।
स्यादा मदोषकृमिनिवारकारी कफामहः श्वासनिषूदनश्च ॥
बनमाहोळुङ्ग ।
मधुकर्कटी तु मधुरा विशेषा दाहनाशिनी ।
त्रिदोषशमनी हृद्या वन्द्या च गुरुदुर्ज्जरा ॥
मधुकाकडी ।
नारङ्गं मधुरं चाम्लं गुरुष्णं चैव रोचनम् ।
नारङ्ग ।
वौताभं कृमिशूलघ्नं बल्यं भ्रमहरं परम् ।
बाताम, उत्तरे प्रसिद्धम् ।
निम्बूफलं प्रथितमम्लरसं कटूष्णं
गुल्मामवातहरणं निखिलाग्निकारि ।
चक्षुष्यमेतदथ कासहताग्निताकण्ठ-
विच्छर्दिहारि परिपक्वमतोव कृत्स्नम् ॥
जम्बीरस्य फलं रसेऽम्लमधुरं वातापहं पित्तहृत्
पथ्यं पाचनरोचनं कफहरं वह्नेर्विदग्धप्रदम्
१. J₁• श्वासाग्निमन्दा ।
२. J₁• शोकशान्तिद ।
३. T₁• gives a note: इन्तांति शेष: in the margin.
४. J₁• बातामक्रिमि ...... परम् ॥ नारिङ्ग
भोजनकुतूहले
पक्वं चेन्मधुरं कफार्तिशमनं पित्तास्रदोषापन्नुद्
' वर्ण्यं वीर्यविवर्धनं च रुचिकृत् पुष्टिप्रदं तर्पणम् ॥
जम्बीर ।
मधुरो मधुजम्बीरः शिशिरः कफपित्तनुत् ।
शोषघ्नस्तर्पणो वृष्यः श्रमघ्नः पुष्टिकारकः ॥
साखरनिम्बूं ।
अम्लवेतफलं चोष्णं तीक्ष्णं स्निग्धं च दीपनम् ।
बद्धमूलानपि व्याधीन् भिन्द्याद्वज्रं गिरीनिव ।
संशूलानाहविष्टम्भान् जयेद्धातकफामयान् ॥
अम्लवेतसमम्लं च तीक्ष्णोष्णं भेदनं लघु ।
दीपनं पाचनं हृद्यं कफपित्तास्रदूषणम् ॥
रूक्षं विण्मद्यदोषघ्नं हृद्रोगाध्मानशूलजित् ।
हिध्मानाहानिलश्वासकासशूलवमिप्रणुत् ॥
द्रवीभवत्यजामांसं मलबद्धं सितं भवेत् ।
चणकाम्लोपमं स्वादु साम्लं स्यादग्निदीपनम् ॥
अम्लबेतस ।
साराम्लमामवातघ्नं कफपित्तकरं गुरु ।
साराम्ल ।
चौरं स्वादु कषायाम्लं रूक्षं गुर्वास्यशोधनम् ।
विशदं रोचनं हृद्यं शीतलं ग्राहि वातलम् ॥
छर्द्यसृक्कफपित्तघ्नं विष्टम्भाध्मानबन्धनुत् ।
चोरनिम्बू ।
कपित्थो मधुराम्लश्च कषायस्तिक्तशीतलः ।
वृष्यः पित्तानिलं हन्ति संग्राहि व्रणनाशनः ॥
१. P1, P2. वातलं गुरु । T2. ग्राहि वातकम्
:
दाहपित्तवमीमेहशोषघ्नं च रसायनम् ॥
Wait, footnote 1 says: "१. P1. P2. प्रमीमेह ।"
So line 7 has: दाहपित्तवमीमेहशोषघ्नं च रसायनम् ॥
आवला ।
काष्ठधात्रीफलं स्वादु कषायकटुकं तथा ।
शीतपित्तास्रदोषघ्नं पूर्वोक्तैरधिकं गुणैः ॥
काष्ठावला ।
प्राचीनामलकं रुच्यमुष्णं गुरु मलापहम् ।
वातघ्नं पित्तकफहृत् पक्कं तुवरशीलुवत् ॥
(Wait, "पित्तकफहृत्" - notice the 'हृत्': it is ह with ri-kar and त्: हृत्)
पाणीआवला ।
लवलीफलमम्लार्शःकफपित्तहरं गुरु ।
(Wait, "लवलीफलमम्लार्शःकफपित्तहरं गुरु ।" - look closely:
लवलीफलमम्लार्शःकफपित्तहरं गुरु ।
ल-व-ली-फ-ल-म-म्ला-र्शः-क-फ-पि-त्त-ह-रं गु-