भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 98, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः ।
लवणमरिचचूर्णैनावृतं रामठाढ्यं
दहनवदनपक्वं कञ्चुकान्तं नितान्तम् ।
हरति पवनसङ्गं श्लेष्महन्तृ प्रसिद्धं
जठरभरणयोग्यं चारुभोज्यं भरित्रम् ॥
अन्यत्र —
वृन्ताकं पित्तलं किञ्चिदङ्गारपरिपाचितम् ।
कफभेदानिलामघ्नमत्यर्थं लघु दीपनम् ।
तदेव हि गुरु स्निग्धं सतैलं लवणान्वितम् ॥
भरीत ।
अपरं श्वेतवृन्ताकं कुक्कुटाण्डसमं भवेत् ।
तदर्शस्सु विशेषेण हितं हीनं च पूर्वतः ॥
श्वेतवृन्ताक ।
भेण्डा त्वम्लरसा सोष्णा ग्राहिका रुचिकारिका ।
भेण्डी ।
अथ कदली ।
तत्र —
बालं फलं मधुरमल्पतया कषायं
पित्तापहं शिशिररुच्यमथापि नालम् ।
पुष्पं तदप्यनुगुणं क्रिमिहारि कन्दं
पर्णं च शूलशमनं कदलीभवं स्यात् ॥
किञ्च —
रम्भापक्वफलं कषायमधुरं बल्यं च शीतं तथा
पित्तास्रप्रविमर्दनं गुरुतरं पथ्यं न मन्दानले ।
१. T1; J1. कफमेदानिला, Bh. कफमेदोऽनिला ।
२. J1. पित्तं चास्रविमर्दनम् ।