भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 103, कुल 358 में से
संदर्भ में पढ़ें९२ भोजनकुतूहले
खर्जूरो रक्तपित्तं शमयति मधुरः स्वादुपाकेऽतिशीत-
स्तृष्णाशोषापहन्ता विषममदरुजाश्वासहिध्मापनोदी ।
स्निग्धो वृष्यो बलासं जनयति सुतरां सेविताश्चाग्निहन्ता
रुच्यो हृद्यो नितान्तं श्रमजनितरुजं हन्ति सन्तर्पणेन ॥
खर्जूर ।
दाहघ्नो मधुरोऽसृपित्तशमनस्तृष्णातिशोफापहः
स्निग्धः श्वासकफभ्रमोदयहरः सन्तर्पणः पुष्टिदः
वह्नेर्मान्द्यकरो गुरुर्विषहरो हृद्यश्च दत्ते बलं
स्निग्धो वीर्यविवर्धनश्च कथितः पिण्डाख्यखर्जूरकः ॥
पेंण्डखर्जूर ।
दाडिमं मधुरमम्लकषायं कासवातकफपित्तविनाशि ।
ग्राहि दीपनकरं च लघूष्णं शीतलं श्रमहरं रुचिदायि ॥
दाडिमं द्विविधमीरितमार्यैरम्लमेकमपरं मधुरं च ।
तत्र वातकफकारि किलाम्लं तापहारि मधुरं लघु पथ्यम् ॥
दाडिम ।
द्राक्षातिमधुराम्ला च शीतपित्तादिदाहजित् ।
मूत्ररोधहरा रुच्या वृष्या सन्तर्पणी परा ॥
द्राक्षे ।
गोस्तनी मधुरा शीता हृद्या च मदहारिणी ।
दाहमूर्च्छाज्वरश्वासतृष्णाहृल्लासनाशिनी ॥
गोस्तनी ।
१. J1. has this verse as follows
दाहघ्नी मधुरास्रपित्तशमनी तृष्णातिशोफापहा
स्निग्धाश्वासकफभ्रमोदयहरा सन्तर्पणी पुष्टिदा ।
वह्नेर्मान्द्यकरी गुरुर्विषहरा हृद्या च दत्ते बलं
स्निग्धा वीर्यविवर्धिनी च कथिता पिण्डाख्यखर्जूरीका ॥
पिण्डखर्जूरी ।
२. J1. शीतपित्तादिदाहजित् P1, P2. शीतपित्तातिदाहजित् ।
३. J1. omits this verse.