भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 101, कुल 358 में से
संदर्भ में पढ़ें९० भोजनकुतूहले
॰मुष्ककः कटुकोऽम्लश्च रोचनः पाचनः परः ।
॰प्लीहगुल्मोदरार्तिघ्नो द्विधा तुल्यगुणान्वितः ॥
मोंखें
श्लेष्मान्तकः कटुस्तिक्तो मधुरः कषायः
स्वादुश्च पाचनकरः कृमिशूलहारी ।
आमाशयदोषमलरोधबहुव्रणार्ति-
विस्फोटशान्तिकरणः कफहारणश्च ॥
तथा —
केयस्सतिक्तो रूक्षोष्णो मधुरस्तुवरः कटुः ।
विषवीसर्पविस्फोटव्रणपित्तकफापहः ॥
फलं तु मधुरं तिक्तं शीतलं वातलं लघु ।
कषायं कटुकं पाके अभिष्यन्दिकफापहम् ॥
तत् पक्वं मधुरं स्निग्धं केवलं शीतलं गुरु ।
विष्टम्भि बृंहणं रुच्यं वातपित्तकफापहम् ॥
गोंकरें सेळवंटी
भूर्कचुदारो मधुरः क्रिमिदोषनिवारणः ।
वातप्रकोपनः किञ्चिच्छीतलः स्पर्शमारकः ॥
गोधणी
अथ नारिकेलः ।
नारिकेळो गुरुस्स्निग्धः शीतः पित्तविनाशनः ।
अर्धपक्वस्तृषाशोषशमनो दुर्जरः परम् ॥
नारेळ ।
१. P1. P2. T2. add the explanation द्विधा-- पक्वोऽपक्वश्च ।
२. J1. कफकारणश्च ।
३. P1, P2. भूर्कचूरोऽतिमधुरो ।