सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 89, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 89

भोजनकुतूहले
डङ्गरी शीतला रुच्या दाहपित्तास्रदोषजित् ।
शोषहत्तर्पणी गौर्या जाड्यहा मूत्ररोधनुत् ॥
तथा—
बालं डङ्गरिकाफलं सुमधुरं शीतं च पित्तापहं
तृष्णादाहनिबर्हणं च रुचिकृत् सन्तर्पणं पुष्टिदम् ।
वीर्योन्मेषकरं लघु प्रबलदं भ्रान्तिभ्रमिध्वंसनं
पक्वं चेत्कुरुते तदेव मधुरं तद्दाहरक्तं गुरु ॥
देवडांगरें ।
हृद्यं दाहश्रमविशमनं मूत्रवृद्धिं च दत्ते
पित्तोन्मादापहरणकरं षड्भुजं वीर्यकारि ।
तिक्तं बाल्ये तदनु मधुरं किञ्चिदम्लं च पाके
निष्पक्वं चेत्तदमृतसमं तर्पणं पुष्टिदायि ॥
षड्भुजाकर्कटी, मालवे प्रसिद्धा ।
कर्कटी मधुरा शीता तिक्ता च कफपित्तजित् ।
रक्तदोषकरा पथ्या मूत्ररोषार्तिनाशिनी ॥
किञ्च—
मूत्रावरोधशमनं बहुमूत्रकारि
कृच्छ्राश्मरीप्रमथनं विनिहन्ति पित्तम् ।
वान्तिघ्नमक्षबहुदाहनिवारि रुच्यं
श्लेष्मापहं लघु च कर्कटिकाफलं स्यात् ॥
१. Bh. adds:— काळा भोंपळा इति भाषायाम्
२. T2 adds the explanation तदनु तारुण्ये । किञ्चिदम्लं स्वल्प-
तिक्तम् ।
३. J1 पक्वा ।
४. Bh. मधुकर्कटी P1 P2 T1 T2 omit this word.