भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 107, कुल 358 में से
संदर्भ में पढ़ेंभोजनकुतूहले
पक्वं चेन्मधुरं कफार्तिशमनं पित्तास्रदोषापन्नुद्
' वर्ण्यं वीर्यविवर्धनं च रुचिकृत् पुष्टिप्रदं तर्पणम् ॥
जम्बीर ।
मधुरो मधुजम्बीरः शिशिरः कफपित्तनुत् ।
शोषघ्नस्तर्पणो वृष्यः श्रमघ्नः पुष्टिकारकः ॥
साखरनिम्बूं ।
अम्लवेतफलं चोष्णं तीक्ष्णं स्निग्धं च दीपनम् ।
बद्धमूलानपि व्याधीन् भिन्द्याद्वज्रं गिरीनिव ।
संशूलानाहविष्टम्भान् जयेद्धातकफामयान् ॥
अम्लवेतसमम्लं च तीक्ष्णोष्णं भेदनं लघु ।
दीपनं पाचनं हृद्यं कफपित्तास्रदूषणम् ॥
रूक्षं विण्मद्यदोषघ्नं हृद्रोगाध्मानशूलजित् ।
हिध्मानाहानिलश्वासकासशूलवमिप्रणुत् ॥
द्रवीभवत्यजामांसं मलबद्धं सितं भवेत् ।
चणकाम्लोपमं स्वादु साम्लं स्यादग्निदीपनम् ॥
अम्लबेतस ।
साराम्लमामवातघ्नं कफपित्तकरं गुरु ।
साराम्ल ।
चौरं स्वादु कषायाम्लं रूक्षं गुर्वास्यशोधनम् ।
विशदं रोचनं हृद्यं शीतलं ग्राहि वातलम् ॥
छर्द्यसृक्कफपित्तघ्नं विष्टम्भाध्मानबन्धनुत् ।
चोरनिम्बू ।
कपित्थो मधुराम्लश्च कषायस्तिक्तशीतलः ।
वृष्यः पित्तानिलं हन्ति संग्राहि व्रणनाशनः ॥
१. P1, P2. वातलं गुरु । T2. ग्राहि वातकम्