भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 100, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः
सुगन्धा कृष्णरम्भा च शैलरम्भा यथोत्तरम् ।
निन्दिताः फलमासं तु कषायं मधुरं गुरु ॥.
रम्भाफलत्वक्कटुका तिक्ता पित्तहरा लघुः ।
इति कदलीगुणाः ।
करमर्दस्सस्तिक्ताम्लो बालो दीपनदाहकः ।
पक्वस्त्रिदोषशमनो रुचिरो विषनाशनः ॥
करवंदें ।
कषायमधुरो रूक्षस्तिन्दुकश्श्लेष्मकारकः ।
संग्राही दुर्जरो जिह्वाजाड्यकारी जडो गुरुः ॥
टेंभरूं ।
अश्वत्थवृक्षस्य फलानि पथ्या-
न्यतीव हृद्यानि सुशीतलानि ।
निहन्ति पित्तं सह शोणितेन
दाहं तृषां छर्दिररोचकं च ॥
पिंपरे ।
औदुम्बरं फलमतीव सुशीतलं च
सद्यो निवारयति शोणितपित्तमुग्रम् ।
पथ्यं विषे विषमपित्तशिरोविकारे
नासाप्रवृत्तरुधिरे च विशेषतस्तु ॥
तथा —
औदुम्बरं कषायं स्यात् पक्वं तु मधुरं हिमम् ।
क्रिमिहृत् पित्तरक्तघ्नं मूर्च्छादाहतृषापहम् ॥
उंबरें ।
१. Bh. adds after this;
रम्भासारश्शीतलो नातितिक्तो
तृड्दाहघ्नो मूत्रकृच्छ्रातिसारम् ।
मेहान् हन्ति स्फोटकं वातपित्तं
रक्तस्रावं सोमरोगं निहन्ति ॥ इति कदलीसारगुणाः
1081