भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
प्रथमपरिच्छेदः । २०४
तैलानि सर्वाणि तिलादिजानि
प्रयान्ति पाकं किल काञ्जिकेन ॥
शृङ्गवेररस एव केवलः
क्षारतोयमथवा पलाशजम् ।
ऐक्षवं रसमुदस्यति क्षणा-
दग्निवेशमुनिनेरितम् ॥
माहिषे पयसि सिन्धुजं यथा
सैन्धवं कुसरपक्तये तथा ।
काञ्जिकं च विदलान्नपक्तये
शीलयन्ति जठराग्निपक्तये ॥
किमत्र चित्रं च समांसमत्स्य-
भोजी सुखी स्यात् परिपीय शुक्तम् ।
इत्यद्भुतं केवलवह्निपक्व-
मांसेन मत्स्यः परिपाकमेति ॥
कपोतपारावतनीलकण्ठ-
कपिञ्जलानां पिशितानि जग्ध्वा ।
कांतस्य मूलं परिपीय पिष्टं
जनः सुखी स्याद् बहुशो हि दृष्टम् ॥
कोष्णेन मण्डेन गवां पयस्तु
व्योषै रसाला परिपाकमेति ।
शङ्खस्य चूर्णेन हयारिनारी-
पयोदधिक्षीरमुपैति पाकम् ॥
शुण्ठी सतीनस्य च नागरङ्ग-
जम्बीरयोः कोद्रवको निहन्ति ।
१. J₁. Revisor adds in the margin:—
आम्रमातुलुङ्गं मीने तद्वीजं पिशिते हितम् ।
कूष्माण्डं यवक्षाराज्जीर्णं पाकमुपैति हि ॥ before करोति a.c.
२०८ भोजनकुतूहले
जीरां(जरा)मिरां शृङ्गनगौरिकाभ्यां
नंश्यन्ति तज्जा अपि ये विकाराः ॥
वटा बेसवारैर्लवङ्गेन फेनी
शमं पर्पटः शिग्रुबीजेन याति ।
कणामूलतो लड्डुकानां प्रवृद्धा
विपाको भवेच्छष्कुलीमण्डयोध
श्वाविद्गोधागण्डकाभिश्चतैला-
द्यावक्षारात् कोलकूर्मादयोऽपि ।
मौद्गाघूषात् पायसो याति पाकं
सामुद्रादप्यारनालं सुखाय ॥
तप्तं तप्तं हेम वा तारमग्रौ
वारं वारं क्षितमम्भस्यथैतत् ।
पीत्वा तोयं दीर्घकालोपपन्न-
मम्भोऽजीर्णं शीघ्रमेवं जहाति ॥
कूष्माण्डकं च त्रपुसीफलं च
कर्कारुचीनातकयोः फलं च ।
निहन्ति सद्यो हि करञ्जबीज-
रसैर्यथैवा(रिण?)मूलमेकम् ॥
स्त्रीकेशाम्बु निपीतमाशु हन्यात्
प्राचीनामलकरसं सपाणिमर्दम् ।
शुण्ठीधान्याकवारि हन्ति सद्य-
स्तांस्तानामविलासजान् विकारान् ॥
- J1. Revisor gives a variant reading also in the
margin :
तोयं क्षितं सप्रहृत्वस्तदम्भः ।
पीत्वाजीर्णं तोयजातं निहन्यात्
तत्र क्षौद्रं मद्ययुक्तं विशेषतः ॥
तत्र तोयाजीर्णे ।
प्रथमपरिच्छेदः । २०९
मृगस्य मांसं श्रमजेऽनुकूलं
व्यावायवान्ते शयनं प्रवाते ।
क्षीरोषणैः सैन्धवसाधितं तु
• कागाण्डयुक्तं तदिहैव युक्तम् ॥
• स्नेहाजीर्णे रोगिणां मुद्गचूर्णं
हन्यान्मुस्तो हन्ति वैरेचकानाम् ।
माषाण्डयोर्निम्बमृलेन पाक- •
भित्त्वा मुञ्चत्यम्लतां चूर्णयोगात् ॥
कोष्णाम्बु पिष्टान्नभवे हि देयं •
प्रियालमजास्विदमेव पेयम् ।
मात्स्यं तु माकन्दफलं निहन्ति
गोधूमकं कर्कटिका निहन्ति ॥
सद्यः प्रियालं विनिहन्ति पथ्या
मध्वम्बुजीर्णं विनिहन्ति पथ्या ।
पिण्डालुकः कोद्रवपाककारी
खण्डस्तु पाषाणविकारहारी ॥
मुखं दह्यते चूर्णकेन प्रमादा-
द्यदा नागवल्ली
एलोदकं धूमगदेषु शस्तं
धात्रीफलं चातिविरेचनार्ते ॥
श्रवणपूरणजे तिलतैलजं
श्रवणपूरणमेव सुखं विदुः ।
कवलजेषु गदेष्वथ कारयेत् •
केवलमार्द्रयुतं द्रवणं पुनः ॥
मदयति न हि मद्यं जातु चेत् पीतमथ
पिबति घृतसमेतां शर्करामेव सद्यः ।
अथ घनमधुकेलाकुष्ठदार्बीलवालु-
प्रकटितकबलास्ये मद्यगन्धोऽपि न स्यात् ॥
माषामृताम्भोधरकट्फलानां
चूर्णं यथापूर्वविवर्धितानाम् ।
विमर्द्य वक्त्रे धृतमाशु हन्ति
सुरारसोनादिजमुग्रगन्धम् ॥
कूष्माण्डकस्य स्वरसो गुडेन
पीतो मदं कोद्रवजं निहन्ति ।
यद्वा निपीतः सितया समेत
उन्मत्तमत्तत्वमपाकरोति ॥
घ्रात्वा सकृत्थं विपिनोपलं वा
सम्प्राश्य किञ्चिल्लवणं नरो वा ।
शीताम्बु पीत्वा बकुलेन वापि
प्रसह्य पूगीमदमुज्जिहाति ॥
सैन्धवत्रिकटुधान्यजीरकै-
र्दाडिमीरजनिरामठान्वितैः ।
पावनोऽथ जठराग्निदीपनो
बेसवार उदितो मनीषिभिः ।
J1; T1' कवलमार्द्रकजम् ।
प्रथमपरिच्छेदः । २१९
सूक्तद्युक्तमपि त्वेवंबहुभेदं .
हन्ति सर्वमिदमामजखेदम् ।
यन्मया समुदितं मधुसूक्तं
तद्भिषग्भिरपि पाचनमुक्तम् ॥'
इत्यजीर्णशमनम् ।
अथ स्वभावतो हितानि ।
शालीनां लोहितः शालिः षष्टिकेपु तु षष्टिका ।
शूकधान्येष्वपि यवो गोधूमः प्रवरो मतः ॥
शिम्बीधान्ये वरो मुद्गो मसूरश्चाढकी तथा ।
रसेषु मधुरः श्रेष्ठो लवणेपु च सैन्धवम् ॥
दाडिमामलकं द्राक्षा खर्जूरं च परूपकम् ।
राजादनं मातुलुङ्गं फलवर्गे प्रशस्यते ॥
पत्रशाके तु वास्तूकं जीवन्ती पोतिका वरा ।
पटोलं फलशाकेषु कन्दशाकेषु सूरणम् ॥
एणः कुरङ्गो हरिणो जङ्घालेषु प्रशस्यते ।
पक्षिणां तित्तिरिलावो वरो मत्स्येषु रोहितः ॥
जलेषु दिव्यं दुग्धेपु गव्यमाज्येषु गोभवम् ।
तैलेषु तिलजं तैलमैक्षवेषु सिता हिता ॥
इति स्वभावहितानि ।
अथ स्वभावादहितानि ।
शिम्बीषु माषान् ग्रीष्मर्तौ लवणेष्वाखरं_त्यजेत् ।
फलेषु लकुचं शाके सार्षपं न हितं मतम् ॥
५१२ भोजनकुतूहल
गोमांसं ग्राम्यमांसेषु न हिता महिषीवसा ।
मेषीपयः कुसुम्भस्य तैलं चोज्यं च फाणितम् ॥
इति स्वभावादहितानि ।
अथ संयोगविरुद्वानि ।
मत्स्यमानूपमांसं च दुग्धयुक्तं विवर्जयेत् ।
कपोतं सार्षपस्नेहभर्जितं परिवर्जयेत् ॥
मत्स्यानेक्षोर्विकारेण तथा क्षौद्रेण वर्जयेत् ।
सक्तून्मांसपयोयुक्तानूष्णोर्दधि विवर्जयेत् ॥
उष्णेनभोम्बुना क्षौद्रं पायसं कृसरान्वितम् ।
रम्भाफलं त्यजेत्तक्रदधिबिल्वफलान्वितम् ॥
दशाहमुषितं सर्पिः कांस्ये मधुघृते समे ।
कुतान्नं च कषायं च पुनरुष्णीकृतं त्यजेत् ॥
एकत्र बहुमांसानि विरुध्यन्ते परस्परम् ।
एवं द्रव्यगुणान् ज्ञात्वा काले कुर्यात्सु भोजनम् ॥
जन्मनक्षत्रवृक्षाश्चाभक्ष्याः ते च —
अथ वक्ष्यामि नक्षत्रवृक्षानागमचोदितान् ।
पूजनात् पुण्यदांश्चैव वर्धनात् पालनादपि ॥
विषद्रुधात्रीतरुहेमदुग्धा-
जम्बूस्तथा खादिरकृष्णवंशाः ।
अश्वत्थनागौ च वटः पलाशः
प्लक्षस्तथाम्बष्ठतरुः क्रमेण ॥
१. $J_1$. $T_1$. त्याज्यं च ।
२. $J^1$. omits जन्मनक्षत्र............. छेदनभक्षणादिसंग्रहार्थः ।
प्रथमपरिच्छेदः । २१३
बिल्वार्जुनौ चैव विकङ्कतोऽथ
सकेसराः शम्बरमर्जवञ्जुलाः ।
सपामसार्काश्च शमीकदम्बाः
तथाग्निनिम्बौ मधुकद्रुमश्च ॥*
अमी नक्षत्रदैवत्या वृक्षाः स्युः सप्तविंशतिः ।
अश्विन्यादिक्रमादेषामेषा नक्षत्रपद्धतिः ॥
यस्त्वेतेषामात्मजन्मर्क्षभाजां
मर्त्यः कुर्याद् भेषजादीन् मदान्धः ।
तस्यायुष्यं श्रीः कलत्रं च पुत्रा
नश्यन्त्येषां वर्धते वर्धनाद्यैः ॥
इत्युक्ताः । आदिशब्दः छेदनभक्षणादिसङ्ग्रहार्थः ।
भोजनकालश्च --
उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः ।
लघुता क्षुत्पिपासा च यदा कालः स भोजने ॥
तच्चैकान्ते कर्तव्यम् ।
आहारं तु रहः कुर्यान् नीहारमपि सर्वदा ।
द्वाभ्यां लक्ष्म्युपेतः स्यात् प्रकाशे ह्रियते श्रिया ॥
नीहारो मलमूत्रोत्सर्गः ।
१. Bh. omits this line and insted of this reads टीका—
- वका १ । आंवली २ । उंबर ३ । बांबूल ४ । पांढराखैर ५ । काळा खैर ६ ।
बेडू ७ । अश्वत्थ ८ । पुन्नाग ९ । वट १० । पळस ११ । नांदकरुख १२ ।
अगस्ता १३ । बेल १४ । अर्जुनवृक्ष १५ । बेकंकत १६ । अथवा कविठ १७ ।
बकुल १८ । कोसंडी १९ । राळ २० । बेतस २१ । फणस २२ । रुई २३ ।
शमी २४ । कदम्ब २५ । आंबा २५ । निम्ब २७ । मोहा ।
२. P2. नीहारमपि ।
॥ ११० ॥ भोजनकुतूहलं
ग्रंथा
आहारनिर्हारविहारयोगाः
सदैव सद्भिर्विजने विधेयाः ।
अथ भोजनभाजनानि ।
दोषहृद् दृष्टिकृत् पथ्यं हेमं भोजनभाजनम् ।
रौप्यं भवति चक्षुष्यं पित्तहृत् कफवातहृत् ॥
कांस्यं बुद्धिप्रदं रुच्यं रक्तपित्तप्रसादनम् ।
पैत्तलं वातकृद्रूक्षमुष्णं कृमिकफप्रणुत् ॥
आयसे काचपात्रे च भोजनं सिद्धिकारकम् ।
शोथपाण्डुहरं बल्यं कामलापहमुत्तमम् ॥
शैलजे मृन्मये पात्रे भोजनं श्रीनिवारणम् ।
दारूद्भवे विशेषेण रुचिदं श्लेष्मकारि च ॥
पात्रं पत्रमयं रुच्यं दीपनं विषपापनुत् ।
जलपात्रं तु ताम्रस्य तदभावे मृदो हितम् ॥
पवित्रं शीतलं पात्र घटितं स्फटिकेन यत् ।
काचेन रचितं तद्वत् तथा वैडूर्यसम्भवम् ॥
अथ पत्राणि ।
रम्भापत्रेऽशनं हृद्यं रुच्यं वृष्यं बलाग्निदम् ।
विषममानिलाग्नेषु हितं पाण्डौ न शस्यते ॥
पालाशपत्रे च मरुच्छ्लेष्मगुल्मोदरप्रणुत् ।
कफवातं पीनसमं रुच्यं श्रेष्ठं च बृंहणम् ॥
. १, J1. दृष्टिदं पथ्यं
प्रथमपरिच्छेदः । १५
क्षारोष्णकटुकं जन्तुकफघ्नं ज्वरशातनम् ।
शीतिकाज्वरहृत् पथ्यं हस्तिकर्ण्यां तु भोजनम् ॥
अर्कपत्रे भृशं रूक्षं कमिघ्नं पित्तकृत्परम् ।
गुल्मशूलविषश्वासपाण्डुकुष्ठकफानिलान् ॥
हन्यात् परमचक्षुष्यं लघु दीपनपाचनम् ।
एरण्डपत्रं वातघ्नं क्रिमिघ्नं पित्तकृत् परम् ॥
पत्रेषु क्षीरवृक्षाणां तृष्णादाहास्रपित्तनुत् ।
वोष्ठुशोथश्वाससोमरोगघ्नं पाटलाशनम् ॥
सर्वग्रन्थिविनाशाय केतकीपत्रभोजनम् ।
मनोहरं रुचिकरं चक्षुष्यं भोजनं लघु ॥
यात्रार्थिनामभिहितं वृष्यं क्लमहरं परम् ।
नलिने कुमुदे रक्तोत्पले वाथोत्पले दले ॥
भोजनं निन्दितं शीतं रूक्षं दौर्भाग्यमग्निनुत् ।
इति पत्राणि ।
भोजनादौ ब्रह्मादीन् स्मरेत् ।
तदुक्तं —
अन्नं ब्रह्मा रसो विष्णुर्भोक्ता देवो महेश्वरः ।
इति सञ्चिन्त्य भुञ्जानं दृष्टिदोषो न विद्यते ॥
अञ्जनागर्भसम्भूतं कुमारं ब्रह्मचारिणम् ।
दृष्टिदोषविनाशाय हनुमन्तं स्मराम्यहम् ॥
इति हनुमत्स्मरणमपि कुर्यात् ।
१ J1. पाण्डुशोफ ।
३१६ भोजनकुतूहले
अथ भोजनविधिः ।
भोजनाग्रे सदा पथ्यं लवणार्द्रकभोजनम् ।
अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम् ॥
लवणं सैन्धवम् ।
घृतपूर्वं समश्नीयात् कठिनं प्राक् ततो मृदु ।
अन्ते पुनर्द्रवांशी च बलारोग्ये न मुञ्चति ॥
तथा —
अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम् ।
मध्येऽम्ललवणौ पश्चात् कटुतिक्तकषायकान् ॥
फलान्यादौ समश्नीयाद् दाडिमादीनि बुद्धिमान् ।
विना मोचाफलं तद्वद् वर्जनीया च कर्कटी ॥
मृणालबिसशालूककन्देक्षुप्रभृतीन्यपि ।
पूर्वमेव हि भोज्यानि न तु भुक्त्वा कदाचन ॥
अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत् ।
आश्रयं पवनादीनां चतुर्थमवशेषयेत् ॥
सौमनसं बलं पुष्टिमुत्साहं रसनासुखम् ।
स्वादु सञ्जनयत्यन्नमस्वादु च विपर्ययम् ॥
अत्युष्णान्नं बलं हन्ति शीतं शुष्कं च दुर्जरम् ।
अतिस्निग्धं ग्लानिकरं युक्तिमुक्तं हि भोजनम् ॥
अतिद्रुताशिताहारो गुणान् दोषान् विन्दति ।
भोज्यं शीतमहृद्यं च स्याद्विलम्बितमश्नतः ॥
नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृत्तौ ।
मन्दानलो नरो द्रव्यं मात्रागुरु विवर्जयेत् ॥
१. J₁. T₁. Bh. शुष्कं च ।
२. P₂. अतिमुक्तम् ।
प्रथमपरिच्छेदः । ११७
स्वभावतश्च गुरु यत् तथा संस्कारतो गुरु ।
मात्रागुरुंस्तु मुद्गादिर्माषादिः पच्यते गुरुः ॥
संस्कारगुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम् ।
आहारं षड्विधं चोष्यं पेयं लेह्यं तथैव च ॥
भोज्यं भक्ष्यं तथा चर्व्यं गुरु विद्याद् यथोत्तरम् ।
चोष्यं इक्षुदाडिमादि, पेयं क्षीरादि, लेह्यं रसालादि, भोज्यं पोलि-
कादि, भक्ष्यं लड्डुकादि, चर्व्यं चिपिटादि ।
गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते ।
माषपिष्टान्नादिभिरर्धसौहित्यं कर्तव्यम् । मुद्गादिभिः स्वाभाविक्या
मात्रया तृप्तिः कर्तव्येत्यर्थः ।
द्रवो द्रवोत्तरश्चापि न मात्रागुरुरिष्यते ।
द्रवः पेयादिः, द्रवोत्तरस्तक्राद्यधिकौदनादिः, मात्रातोऽधिकोऽपि
चेन्न मात्रागुरुर्मन्तव्य इत्यर्थः ।
द्रवाढ्यमपि शुष्कं तु सम्यगेवोपपद्यते ।
विशुष्कमन्नमभ्यस्यं न पाकं साधु गच्छति ।
पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति ॥
शुष्कं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत् ।
पुनर्दानं पृथक् पानं सामिषं पयसा निशि ॥
दन्तच्छेदनमुष्णं च सप्त सक्तुषु वर्जयेत् ।
सक्तूनामाशु जीर्येत मृदुत्वादेव लेहिका ॥
आलस्यगौरवाटोपशब्दांश्च कुरुतेऽधिकम् ।
हीनमात्रं तनोः कार्श्यं करोति च बलक्षयम् ॥
अप्राप्तकाले भुञ्जानो ह्यसमर्थतनुर्नरः ।
तांस्तान् व्याधीनवाप्नोति मरणं चाधिगच्छति ॥
१. Bh. omits चोष्यं ... ... पिबेद्भूरि on l. 6 p. 218.
1081
कालेऽतीतेऽश्नतो जन्तोर्वायुनोपहतेऽनले ।
कृच्छ्राद्विपच्यते भुक्तं न स्याद्भोक्तुं पुनः स्पृहा ॥
रसेनान्नस्य रसना प्रथमेनोपतर्पिता ।
न तथास्वादमाप्नोति ततः शुद्धांबुमन्तरा ॥
अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच्च स एव दोषः ।
तस्मान्नरो वह्निविवर्धनान्नं पुनः पुनर्वारि पिबेद्भूरि ॥
भुक्तस्यादौ जलं पीतं कार्श्यमन्दाग्निदोषकृत् ।
मध्येऽग्निदीपनं भुक्तमन्ते स्थौल्यकफप्रदम् ॥
तृषितस्तु न चाश्नीयात् क्षुधितो न पिबेज्जलम् ।
तृषितस्तु भवेद् गुल्मी क्षुधितस्तु जलोदरी ॥
कुर्यात् क्षीरान्तमाहारं न दध्यन्तं कदाचन ।
इति भोजनविधिः ।
एवं भुक्त्वा समाचामेद् गण्डूषग्रहंपूर्वकम् ।
भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत् ॥
दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः ।
कुर्यादानिर्हृतं तद्धि मुखस्यानिटगन्धताम् ॥
दन्तलग्नमनिर्हार्यं लेपं मन्येत दन्तवत् ।
न तत्र बहुशः कुर्याद्यत्नन्निर्हरणं प्रति ॥
आचम्य जलयुक्ताभ्यां पाणिभ्यां चक्षुषी स्पृशेत् ।
भुक्त्वाचम्य स्मरेन्नित्यमगस्त्यादीन् सुखावहान् ॥
विष्णुरत्ता यथैवान्नं परिणामश्च वै यथा ।
सत्येन तेन यद्भुक्तं जीर्यत्वन्नमिदं तथा ॥
अगस्तिरग्निर्वडवानलश्च भुक्तं ममान्नं जरयन्त्वशेषम् ।
सुखं च मे तत्परिणामसम्भवं यच्छन्त्वरोगं मम चापि देहम् ॥
१. T₂ omits रसेना ... ... न्तरा ।
२. Bh. omits एवं ... ... ... अन्ननिर्हरणं प्रति ।
३. J₁. T₁. कुर्याद्यत्नं निर्हरणं प्रति ।
४. Bh. omits this verse.
प्रथमपरिच्छेदः । २१९
अङ्गारकमगस्तिं च पावकं सूर्यमश्विनौ ।
यश्चैतान् संस्मरेन्नित्यं भुक्तं तस्याशुं जीर्यते ॥
इत्युच्चार्य स्वहस्तेन परिमार्ज्य तथोदरम् ।
अनायासप्रदायीनि कुर्यात् कर्माण्यतन्द्रितः ॥
जाग्रदित्यर्थः । यतः —
- भुक्तमात्रस्य तु स्वमार्तं हन्त्यग्निं कुपितः कफः ।
धूमेनापोद्य हृद्यैर्वाक् कषायकटुतिक्तकैः ॥
पूगकर्पूरकस्तूरीलवङ्गसुमनःफलैः ।
फलैः कटुकषायैर्वा मुखवैशद्यकारिभिः ॥
ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः ।
भुक्त्वा शतं पदां गच्छेच्छनैः स्वस्थोऽभिजायते ॥
भुक्त्वा शतपदीं गच्छेच्छनैस्तेन तु जायते ।
अङ्गसङ्घातशैथिल्यग्रीवाजानुकटीसुखम् ॥
रंते सुप्तोत्थिते स्नाते भुक्ते वान्ते च सङ्गरे ।
सभायां विदुषां राज्ञां कुर्यात्ताम्बूलचर्वणम् ॥
अथ ताम्बूलविधिः ।
तद्गुणाश्च —
ताम्बूलं कटुतिक्तमूष्णमधुरं क्षारं कषायान्वितं
वातघ्नं क्रिमिनाशनं कफहरं कामाग्निसन्दीपनम् ।
स्त्रीणां माषणभूषणं रतिकरं शोकस्य विच्छेदनं
ताम्बूले विदितास्त्रयोदश गुणाः स्वप्नेऽपि ते दुर्लभाः ॥
अन्यत्रेति शेषः ।
आयुरग्रे यशो मूले लक्ष्मीर्मध्ये व्यवस्थिता ।
तस्मादग्रं तथा मूलं मध्यं पर्णस्य वर्जयेत् ॥ - १. Bh omitss फलैः ... ... कटीसुखम् ।
२. Bh. reads this verse after भूपानां भोजनविधिः and
omits ताम्बूलं ... ... अन्यत्रेति शेषः ।
२५० भोजनकुतूहल
पर्णमूले भवेद् व्याधिः पर्णाग्रे पापसम्भवः ।
चूर्णपर्णे हरेदायुः शिरा बुद्धिविनाशिनी ॥
आद्यं विक्षेपनं पीतं द्वितीयं भेदि दुर्जरम् ।
तृतीयादि तु. पातव्यं सुधातुल्यं रसायनम् ॥
विद्याकामोऽनिशं रात्रौ ताम्बूलं नैव भक्षयेत् ।
तथा —
• . ताम्बूलं नातिसेवेत न विरक्तो बुभुक्षितः ॥
क्षतासृक्पित्ती क्षीराशी क्षीणो रुक्पविरोग्यपि ।
विषमूर्च्छोपवासातों मेही पाण्ड्वामयी धयी ॥
भूतापस्मारकुष्ठातिसारी कुच्छी च हृद्रवी ।
विना चूर्णं विना पर्णं पूगं खादति यो नरः ॥
दशजन्मदरिद्रस्तु मरणे न हरिं स्मरेत् ।
क्रमुकं पञ्चनिष्पं स्यात् ताम्बूलस्याश्च पलद्वयम् ॥
गुञ्जाह्वयं चूर्णमानं ताम्बूलक्रम उत्तमः ।
तथा—
फलपत्रे समे रागो विरागस्तु फलाधिके ॥
चूर्णाधिक्ये तु दौर्गन्ध्यं पत्राधिक्ये सुगन्धिता ।
रात्रौ च पर्णबहुलं ताम्बूलं भक्षयेन्नरः ॥
जातीलवङ्गकर्पूरतककोलकटुकैस्सह ।
रुचिवैद्यद्यसौगन्ध्यमिच्छन् वक्त्रेण धारयेत् ॥
ताम्बूलमिति शेषः । ताम्बूलातियोगे —
/// पाण्डुत्वं तनुदौर्बल्यमक्षिरोगं बलक्षयम् ।
करोति चोष्णरोगांश्च ताम्बूलमतिसेवनात् ॥
इति ताम्बूलविधिः ।
१. J_1. हरिस्मृतिः ।
२. J_1. omits पत्राधिक्ये ... ... रुचिवैद्यद्यसौगन्ध्यं ।
३. J^1. omits ताम्बूलमिति शेषः ।
प्रथमपरिच्छेदः । १२१
'भुक्त्वोपविशतस्तुन्दं शयानस्य तु पुष्टता ।
आयुश्चङ्क्रममाणस्य मृत्युर्धावति धावतः ॥
श्वासानष्टौ समुत्तानस्तान् द्विः पार्श्वे तु दक्षिणे ।
ततस्तद्विगुणान् वामे पश्चात् स्वप्याद्यथासुखम् ॥
वामदिशायामनलो नाभेरुद्ध्वेऽस्ति जन्तूनाम् ।
तस्मात्तु वामपार्श्वे शयीत भुक्तस्य पाकार्थम् ॥
सद्योमांसं नवं चान्नं बाला स्त्री क्षीरभोजनम् ।
घृतमुष्णोदकस्नानं सद्यः प्राणकराणि षट् ॥
पूतिमांसं स्त्रियो वृद्धाः बालार्कस्तरुणं दधि ।
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥
बालार्कः कन्यास्थार्कः । प्राणो बलम् ।
स्नानं सशर्करं क्षीरं भक्ष्यमैक्षवसंस्कृतम् ।
वाता मांसरसाः स्वप्नो व्यवायान्ते हिता अमी ॥
अथ मर्दनप्रतीकारः ।
यो लेढि शयनसमये मधुमिश्रबीजपूरवल्कलचूर्णम् ।
स क्रीडाकरवातप्रसरनिरोधात् सुखं स्वपिति ॥
विशेषं अवसरे प्रदर्शयिष्यामः । = Raja
सुषेणोक्तः कथ्यतेऽथ भूपानां भोजने विधिः ।
यथासम्भवमन्येषामप्ययं सम्भविष्यति ॥
१. J₁. omits अथ मर्दनप्रकारः ।
२. J₁. reads the colophon इत्थं विमृध्य ... ... द्रव्यगुणा-
नुक्तकथनम् ।
स्नानं विधाय विधिवत् कृतदेवकार्यः
सन्तर्पितातिथिजनः सुजनैः सुकार्यैः ।
रहसि भोजनकृतश्च स्यात्
सायं यथा भवति भुक्तिकरोऽभिलाषः ॥
नित्याचारपवित्रनिर्मलतनुर्धौतप्रसन्नाम्बरो
हृद्यो भोजनवेश्मनि स्थिरतरे मृद्वासने संविशन् ।
पुत्रैस्सखिभिस्ततः परिजनैराप्तैर्वृतः सद्गृह्यैः
सङ्ख्यैश्च नियोगिभिः सुचरितैस्तन्त्रोपयुक्तैर्नृपः ॥
आजातु स्थापनीयं कनकभयमथो रौप्यमग्रे सुपात्रं
स्फारं तस्योपरिष्टात् कनकविरचिताः पत्रिका मण्डलिन्यः ।
भक्तं सोष्णं सबाष्पं शशिकरधवलं कुन्दिकाकुद्मकाभं
मध्ये स्थाप्यं ससूप्यं सुरसुरभि घृतं दक्षिणे स्वर्णपात्रे ॥
भृष्टं तैलादिपक्वं बहुविधरचनाकल्पितं तत्प्रकारै-
रन्योन्यं साभिमानैस्तदपि च सहितं जाङ्गळानूपमांसैः ।
दद्यात् तत्रैव पार्श्वे सुरभि रुचिकरं दक्षिणे वामभागे
लेह्यं चोष्यं च पेयं भवति सुविहितो भक्ष्यवर्गः पुरस्तात् ॥
तथा घृतं च सूप्यं चाप्येकीकुर्याद् यथा पिबेत् ।
घृतेन संप्लुतं ह्यन्नं पाचनं सुखकारि च ॥
वीरायणो निशि निमिः पुनरस्तकाले
मध्यन्दिने च धिषणश्चरकः प्रभाते ।
भुक्तिं जगाद नृपतेर्मम चैष सर्ग-
स्तस्याः स एव समयः क्षुधितो यदैव ॥
यः क्षुधालौल्यभावेन कुर्यादाकण्ठभोजनम् ।
सुप्तव्यालानिव व्याधीन् सोऽनर्थाय प्रबोधयेत् ॥
यः काकवद् दिवाकामः स नक्तं भोक्तुमर्हति ।
स भोक्ता वासरे यः स्यात् रात्रौरेताश्चकोरवत् ॥
प्रथमपरिच्छेदः । २२१
देवार्चां भोजनं निद्रां प्रकाशे न प्रकल्पयेत् ।
नान्धकारें न सन्ध्यायां नाविताने निकेतने ॥
भुक्ते स्वापे मलोत्सर्गे यत्सम्बाधामपाकुलः ।
निश्शङ्कत्वात्त्वरात्यागात् तस्य के के न स्युर्महामयाः ॥
विवर्णास्विन्नविक्लिन्नविगन्धविगतं स्थितम् ।
अतिजीर्णमसात्म्यं च नाद्यादन्नं न चाविलम् ॥
कामकोपातपायासयानवाहनवह्नयः ।
सद्योभुक्तवता सेव्या न जातु हितमिच्छता ॥
हितं परिमितं पक्वं नेत्रनासारसाप्रियम् ।
रसा रसना ।
परीक्षितं च भुञ्जीत न द्रुतं न विलम्बितम् ॥
अत्यशनं चाप्यशनं ह्यनशनमहिताशनं च सन्त्याज्यम् ।
कुर्याद्यथोक्तमशनं वज्रजीवितपेशलं क्रमशः ॥
आदौ स्वादु स्निग्धं तन्मध्ये लवणमम्लमुपयोज्यम् ।
रूक्षं द्वेव्यं पश्चाच्च भुक्त्वा भक्षयेत् किञ्चित् ॥
मन्दस्तीक्ष्णो विषमः समश्च वह्निश्चतुर्विधः पुंसाम् ।
लघुमन्दे गुरुतीक्ष्णे स्निग्धं विषमे समं समे च स्यात् ॥
ध्वाङ्क्षः स्वरान्विकुरुतेऽत्र पिकात्मजश्च
बभ्रुश्चिक्ष्वेडितनयश्च भवेत्प्रहृष्टः ।
क्रौञ्चः प्रमोदेति विरौति च ताम्रचूडः
छर्दिं शुकः प्रतनुते निहते कपिश्च ॥
१ T1. Bh. भुक्तौ स्वापे ।
२. Bh. omits विवर्णा .................. न विलम्बितम् ।
• ३. J1, T1, Bh अत्यशनमप्यशनमनशनमशनं च तन्न संत्याज्यम् ।
४. भोज्यं पश्चात् ।
५. Bh. omits this verse.
२१४ भोजनकुतूहले
विरज्येते चकोरस्य लोचने विषदर्शनात् ।
गतो स्खलति हंसश्च लीयन्तेऽत्र न मक्षिकाः ॥
यथा लवणसम्पर्कात् सद्यः स्पन्दति पावकः ।
विषदृष्ट्यान्नसम्पर्कात् तथा वसुमती पदा ॥ इति ।
_तरुष्णीकृतं सर्वं संवृतं धान्यं विरूढकम् ।
दशरात्रोषितं नाद्यात् कांस्येऽत्र निहितं घृतम् ॥
दधितक्राभ्यां कदलं क्षीरं लवणेन शष्कुली कठिमा ।
गुडपिप्पलिमधुमरिचैः सार्धं सेव्या न काचमाची च ॥
भुञ्जीत माषसूपं मूलकसहितं न जातु हितकामः ।
दध्ना पर्युषितं नाद्यात् विशुष्कं पयसा न च ।
केशकीटसंवृष्टं पुनरार्द्रं च वर्जयेत् ॥
भोजनादौ सदा वायुः प्रकुप्यत्यनिलो महान् ।
घृतप्लुतेन चान्नेन तस्मात्तैस्तर्पयेद् घृतम् ॥
घृतादिपक्वं मधुरं च सर्वं
द्रवप्रधानं प्रथमं विदध्यात् ।
ततः परं भोजनमोमनन्ति
कट्वम्लयुक्तं मधुरं च पथ्यम् ॥
तिक्तं कषायं कटुकं तथान्ते
भुञ्जीत सर्वं सुबहु द्रवं च ।
एवं हि कुर्वन् नृपतिः सदैव
दीर्घायुरारोग्यतनुश्च भूयात् ॥
१. Bh. विषदृष्टान्न ।
२. J1, T1, Bh. वसुमतीपते । and Bh. omits पुनरुष्णं
... विशेषतोपि on l. 2. p. 226.
३. J1, T1. तर्पयेद् द्वयम् ।
४. J1. चादिशन्ति ।
प्रथमपरिच्छेदः २२५
कश्चिद्वायुं शमयति रसः कोऽपि पित्तं करोति
कश्चिच्छ्लेष्मं(!) शमयितितरां कोपि पित्तमकोपी ।
कश्चित्पित्तप्रचयशमनः कोपि तत्कोपकारी
नित्यं तस्मात्सकलरसभुग् भूपतिः स्याच्चिरायुः॥
यस्मिन्नृतौ ये च रसा बलिष्ठाः
सेव्यास्तु ते तत्र विशेषतोऽपि ।
अन्नं विशेषान्न च सर्वदेव
भोज्यं नृपेणैकरसं बुधेन ॥
पिबेज्जलं शीततरं हि हृद्यं
हृत्कण्ठशुद्धिर्भवति स्वराणाम् ।
... ... ... ...
... ... .... ॥ १
एकं व्यञ्जनमासाद्य ततः प्रक्षालयेत् भृशम् ।
करं च पुनरन्यच्च भुञ्जीत नृपतिः सुखम् ॥
एवमन्नं हि भुञ्जानः स्वादुत्वं जनयेद् भृशम् ।
पुष्टिं च महतीं कुर्याद् विचित्रविधिना कृतम् ॥
पानीयपात्राणि सुशीतलानि
सुवर्णरूप्यादिविनिर्मितानि ।
सुधूतवस्त्रैरपि वेष्टितानि
वामे निधेयान्यपि दक्षिणे च ॥
एतद् गृहद्वयं कार्यं वामदक्षिणपार्श्वयोः ।
चकोरशिखिहंसादीन् पक्षिणो विनिवेशयेत् ॥
शृङ्गारवीरसम्बद्धाः शृणुयाद् यः कथाः शुभाः ।
तेन हर्षो भवेत्तस्य भुञ्जानस्य महीपतेः ॥
भुञ्जानो न बहु ब्रूयादेतच्चान्यच्च किञ्चन ।
जुगुप्सितां कथां चैव न ब्रूयाच्छृणुयाच्च ताम् ॥
२२६ भोजनकुतूहले
'लेह्यभक्ष्यादिकं सर्वं भुक्तवान्नं तु यथासुखम् ।
शेषं मांसरसं पीत्वा क्षीरं वा तक्रमेव वा ॥
ततो रूक्षकवोष्णेन जलेन क्षालनं तथा ।
गण्डूषान् शीतलान् कुर्याच्चन्दनागुरुकाल्पितान् ।
गण्डूषैर्बहुभिः सुक्षोभितमुखं श्रीचन्दनेनोन्मिते-
र्धूपेनाथ सुगन्धिना च वदनं घ्राणं करौ धूपयेत् ।
मृद्नीयात्तदनु प्रसक्तसुरभिः श्रीचन्दनेनैव तौ
पाणी वक्त्रमपि प्रसक्तविलसत्कर्पूरगर्भं मुदा ॥
ततः प्रसन्नेन्द्रियचित्तवृत्तिरुत्क्रामयित्वा च शतं पदानि ।
सुकोमले कल्पितचारुतल्पे सुखं विशेद् वामकटिर्नरेन्द्रः ॥
विदग्धाभिस्सह स्त्रीभिस्तिष्ठेद् गोष्ठीः समाचरन् ।
निद्रासात्म्योऽथवा निद्रां नृपः कुर्याद्यथाविधि ॥