भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 232, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः । १२१
'भुक्त्वोपविशतस्तुन्दं शयानस्य तु पुष्टता ।
आयुश्चङ्क्रममाणस्य मृत्युर्धावति धावतः ॥
श्वासानष्टौ समुत्तानस्तान् द्विः पार्श्वे तु दक्षिणे ।
ततस्तद्विगुणान् वामे पश्चात् स्वप्याद्यथासुखम् ॥
वामदिशायामनलो नाभेरुद्ध्वेऽस्ति जन्तूनाम् ।
तस्मात्तु वामपार्श्वे शयीत भुक्तस्य पाकार्थम् ॥
सद्योमांसं नवं चान्नं बाला स्त्री क्षीरभोजनम् ।
घृतमुष्णोदकस्नानं सद्यः प्राणकराणि षट् ॥
पूतिमांसं स्त्रियो वृद्धाः बालार्कस्तरुणं दधि ।
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥
बालार्कः कन्यास्थार्कः । प्राणो बलम् ।
स्नानं सशर्करं क्षीरं भक्ष्यमैक्षवसंस्कृतम् ।
वाता मांसरसाः स्वप्नो व्यवायान्ते हिता अमी ॥
अथ मर्दनप्रतीकारः ।
यो लेढि शयनसमये मधुमिश्रबीजपूरवल्कलचूर्णम् ।
स क्रीडाकरवातप्रसरनिरोधात् सुखं स्वपिति ॥
विशेषं अवसरे प्रदर्शयिष्यामः । = Raja
सुषेणोक्तः कथ्यतेऽथ भूपानां भोजने विधिः ।
यथासम्भवमन्येषामप्ययं सम्भविष्यति ॥
१. J₁. omits अथ मर्दनप्रकारः ।
२. J₁. reads the colophon इत्थं विमृध्य ... ... द्रव्यगुणा-
नुक्तकथनम् ।