सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 221, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 221

एलोदकं धूमगदेषु शस्तं
धात्रीफलं चातिविरेचनार्ते ॥
श्रवणपूरणजे तिलतैलजं
श्रवणपूरणमेव सुखं विदुः ।
कवलजेषु गदेष्वथ कारयेत् •
केवलमार्द्रयुतं द्रवणं पुनः ॥
मदयति न हि मद्यं जातु चेत् पीतमथ
पिबति घृतसमेतां शर्करामेव सद्यः ।
अथ घनमधुकेलाकुष्ठदार्बीलवालु-
प्रकटितकबलास्ये मद्यगन्धोऽपि न स्यात् ॥
माषामृताम्भोधरकट्फलानां
चूर्णं यथापूर्वविवर्धितानाम् ।
विमर्द्य वक्त्रे धृतमाशु हन्ति
सुरारसोनादिजमुग्रगन्धम् ॥
कूष्माण्डकस्य स्वरसो गुडेन
पीतो मदं कोद्रवजं निहन्ति ।
यद्वा निपीतः सितया समेत
उन्मत्तमत्तत्वमपाकरोति ॥
घ्रात्वा सकृत्थं विपिनोपलं वा
सम्प्राश्य किञ्चिल्लवणं नरो वा ।
शीताम्बु पीत्वा बकुलेन वापि
प्रसह्य पूगीमदमुज्जिहाति ॥
सैन्धवत्रिकटुधान्यजीरकै-
र्दाडिमीरजनिरामठान्वितैः ।
पावनोऽथ जठराग्निदीपनो
बेसवार उदितो मनीषिभिः ।
J1; T1' कवलमार्द्रकजम् ।