सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 235, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 235

२१४ भोजनकुतूहले
विरज्येते चकोरस्य लोचने विषदर्शनात् ।
गतो स्खलति हंसश्च लीयन्तेऽत्र न मक्षिकाः ॥
यथा लवणसम्पर्कात् सद्यः स्पन्दति पावकः ।
विषदृष्ट्यान्नसम्पर्कात् तथा वसुमती पदा ॥ इति ।
_तरुष्णीकृतं सर्वं संवृतं धान्यं विरूढकम् ।
दशरात्रोषितं नाद्यात् कांस्येऽत्र निहितं घृतम् ॥
दधितक्राभ्यां कदलं क्षीरं लवणेन शष्कुली कठिमा ।
गुडपिप्पलिमधुमरिचैः सार्धं सेव्या न काचमाची च ॥
भुञ्जीत माषसूपं मूलकसहितं न जातु हितकामः ।
दध्ना पर्युषितं नाद्यात् विशुष्कं पयसा न च ।
केशकीटसंवृष्टं पुनरार्द्रं च वर्जयेत् ॥
भोजनादौ सदा वायुः प्रकुप्यत्यनिलो महान् ।
घृतप्लुतेन चान्नेन तस्मात्तैस्तर्पयेद् घृतम् ॥
घृतादिपक्वं मधुरं च सर्वं
द्रवप्रधानं प्रथमं विदध्यात् ।
ततः परं भोजनमोमनन्ति
कट्वम्लयुक्तं मधुरं च पथ्यम् ॥
तिक्तं कषायं कटुकं तथान्ते
भुञ्जीत सर्वं सुबहु द्रवं च ।
एवं हि कुर्वन् नृपतिः सदैव
दीर्घायुरारोग्यतनुश्च भूयात् ॥
१. Bh. विषदृष्टान्न ।
२. J1, T1, Bh. वसुमतीपते । and Bh. omits पुनरुष्णं
... विशेषतोपि on l. 2. p. 226.
३. J1, T1. तर्पयेद् द्वयम् ।
४. J1. चादिशन्ति ।