भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 219, कुल 358 में से
संदर्भ में पढ़ें२०८ भोजनकुतूहले
जीरां(जरा)मिरां शृङ्गनगौरिकाभ्यां
नंश्यन्ति तज्जा अपि ये विकाराः ॥
वटा बेसवारैर्लवङ्गेन फेनी
शमं पर्पटः शिग्रुबीजेन याति ।
कणामूलतो लड्डुकानां प्रवृद्धा
विपाको भवेच्छष्कुलीमण्डयोध
श्वाविद्गोधागण्डकाभिश्चतैला-
द्यावक्षारात् कोलकूर्मादयोऽपि ।
मौद्गाघूषात् पायसो याति पाकं
सामुद्रादप्यारनालं सुखाय ॥
तप्तं तप्तं हेम वा तारमग्रौ
वारं वारं क्षितमम्भस्यथैतत् ।
पीत्वा तोयं दीर्घकालोपपन्न-
मम्भोऽजीर्णं शीघ्रमेवं जहाति ॥
कूष्माण्डकं च त्रपुसीफलं च
कर्कारुचीनातकयोः फलं च ।
निहन्ति सद्यो हि करञ्जबीज-
रसैर्यथैवा(रिण?)मूलमेकम् ॥
स्त्रीकेशाम्बु निपीतमाशु हन्यात्
प्राचीनामलकरसं सपाणिमर्दम् ।
शुण्ठीधान्याकवारि हन्ति सद्य-
स्तांस्तानामविलासजान् विकारान् ॥
- J1. Revisor gives a variant reading also in the
margin :
तोयं क्षितं सप्रहृत्वस्तदम्भः ।
पीत्वाजीर्णं तोयजातं निहन्यात्
तत्र क्षौद्रं मद्ययुक्तं विशेषतः ॥
तत्र तोयाजीर्णे ।